००८ अश्वमेधसन्नाहः

तस्य त्वेवम्प्रभावस्य धर्मज्ञस्य महात्मनः ।

सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥ १।८।१ ॥

एवं धार्मिकत्वेन दशरथस्य भगवदवतारयोग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञो विशेषणानि । तप्यमानस्य तपश्चरतः । यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वे ऽपि पुत्राभावात् परितप्यमानस्य ॥ १।८।१ ॥

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।

सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ १।८।२ ॥

चिन्तयानस्येति । चिन्तयानस्य पुत्रोत्पत्त्युपायं मार्गमाणस्य । मुगभाव आर्षः । एवं वक्ष्यमाणरीत्या न यजामि नायाक्षिषम् ॥ १।८।२ ॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।

मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ १।८।३ ॥

स इत्यादि श्लोकद्वयमेकान्वयम् । कृतात्मभिः पर्याप्तबुद्धिभिः । “क्लीबे कृतं युगे ऽपि स्यात् फलपर्याप्तयोरपि ।” इति भास्करः ॥ १।८।३ ॥

ततो ऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।

शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ १।८।४ ॥

तान् प्रसिद्धान् ॥ १।८।४ ॥

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ १।८।५ ॥

तत इति । त्वरितं तत्क्षण एव । त्वरितविक्रमः त्वरितगमनः समस्तान् सम्मिलितान् समानयत्, राजगृहमिति शेषः ॥ १।८।५ ॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ १।८।६ ॥

गुरूनेवाह सुयज्ञमिति । समानयदिति पूर्वेणान्वयः । सुयज्ञादीनां गुरुत्वमार्त्विज्यकरणात् ॥ १।८।६ ॥

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।

इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ १।८।७ ॥

तानिति । अथ गुर्वागमनानन्तरम् । श्लक्ष्णं मधुरम् ॥ १।८।७ ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ १।८।८ ॥

ममेति । लालप्यमानस्य भृशं विलपतः । लापेर्यङन्ताच्छानच् ॥ १।८।८ ॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।

कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ १।८।९ ॥

तदिति । तत् पुत्रेच्छुत्वात् यष्टुं दीक्षितुम्, शास्त्रदृष्टेन कर्मणा विधिना, प्रकारेणेति यावत् । कर्मणा क्रियाकलापेनेति वा । कामं काम्यमानं यज्ञम् । कथं प्राप्स्यामि, विघ्नभूयस्त्वादिति भावः । अत्र

निर्विघ्नयागकरणे । बुद्धिः उपायः, विचार्यताम् ॥ १।८।९ ॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ॥ १।८।१० ॥

तत इति । प्रत्यपूजयन् तुष्टुवुः । पार्थिवस्य मुखाच्च्युतम्, साक्षाद्राज्ञोक्तमित्यर्थः । ऊचुरित्यर्द्धमेकम् । दशरथं वच ऊचुः । “ब्रूञ्शासु " इत्यादिना द्विकर्मकत्वम् ॥ १।८।१० ॥

सम्भाराः सम्भ्रियन्तां ते तुरङ्गश्च विमुच्यताम् ॥ १।८।११ ॥

सम्भारा इति । ते प्रसिद्धाः सम्भाराः यज्ञोपकरणानि यूपपात्रादीनि । सम्भ्रियन्तां सम्पाद्यन्ताम् । तुरङ्गः अश्वमेधीयो ऽश्वः ॥ १।८।११ ॥

सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १।८।१२ ॥

सर्वथेति । एकपुत्रस्यापुत्रप्रायत्वात् “एष्टव्या बहवः पुत्राः” इति वचनाच्च पुत्रानिति बहुवचनम् । प्राप्स्यस इति कर्मकर्त्तर्यात्मनेपदम् । धार्मिकी “धर्मं चरति” इति ठक् । धर्माचरणविषयिणीत्यर्थः ॥ १।८।१२ ॥

ततः प्रीतो ऽभवद्राजा श्रुत्वैतद्द्विजभाषितम् ।

अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १।८।१३ ॥

तत इति । हर्षेण हर्षाश्रुणा पर्याकुले व्याप्ते ईक्षणे यस्य सः, हर्षेण व्याकुलदृष्टिमान् । क्रियाभेदाद्राजपदद्वयमिति न विरोधः ॥ १।८।१३ ॥

सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ।

समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १।८।१४ ॥

सम्भारा इति । मे गुरूणामित्यन्वयः । इह इदानीं समर्थैः “चतुःशता रक्षन्ति यज्ञस्याघाताय” इत्युक्तरीत्या रक्षणसमर्थैः । अधिष्ठितः रक्षितः सोपाध्यायः अध्वर्युप्रभृतिऋतिक्सहितः ॥ १।८।१४ ॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १।८।१५ ॥

सरय्वा इति । अनेन सरयूदक्षिणतीरे अयोध्येति गम्यते । शान्तयः विघ्ननिवारकाणि कर्माणि, अभिवर्द्धन्ताम् अभिवर्द्धयन्ताम् । अन्तर्भावितण्यन्तो ऽयं शब्दः । यथाकल्पं यथाक्रमम् “क्रमस्तु कथ्यते

कल्पे” इति भागुरिः । यथाविधि यथाशास्त्रम् ॥ १।८।१५ ॥

शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ।

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १।८।१६ ॥

शक्य इति । अयं यज्ञः अश्वमेधः । सर्वेणापि राजमात्रेणापि । महीं क्षयतीति महीक्षित् । “क्षि निवासगत्योः” इत्यस्मात् क्विप् । तेन प्राप्तुं शक्यः कष्टः क्लेशकरः अनर्थकरो वा । अपराधः अपचारः यदि न भवेत्, प्रमादे सत्यनर्थः सिद्ध एवेति भीत्या क्षुद्रा राजानो न कुर्वन्तीत्यर्थः ॥ १।८।१६ ॥

छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः ।

निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १।८।१७ ॥

छिद्रमिति । विद्वांसः अश्वमेधस्वरूपाभिज्ञाः । ब्रह्मराक्षसाः अकृतप्रायश्चित्ताप्रतिग्राह्यप्रतिग्रहायाज्ययाजनादिपापैः राक्षसत्वं प्राप्ताः ब्राह्मणाः । यज्ञस्वरूपतदपराधज्ञत्वादत्राश्वमेधे छिद्रमपराधम्, मृगयन्ते अन्वेषयन्ते । “मृग अन्वेषणे” इति धातुः । ऽछिद्रं रन्ध्रापराधयोःऽ इति वैजयन्ती । अपराधदर्शने यज्ञमात्मसात्कृत्य नाशयन्तीति भावः । किं तत इत्यत आह निहतस्य चेति ॥ १।८।१७ ॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।

तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १।८।१८ ॥

फलितमाह तदिति । विधिपूर्वम् अनपराधं यथा भवति तथा, यथा समाप्यते तथा विधानं यत्नः क्रियताम् । इह करणेषु यज्ञानुष्ठानेषु समर्थाः, यूयमिति शेषः । यूयं समर्थाः खल्विति स्तुतिः ॥ १।८।१८ ॥

तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन् ।

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते ॥ १।८।१९ ॥

तथेति । ते सर्वे मन्त्रिणः पार्थिवेन्द्रस्य तद्वाक्यं निशम्य यथा आज्ञप्तम् आज्ञापितम् । “वा दान्त " इत्यादिना वैकल्पिक इडभावोनिपातितः । तथा कुर्म इत्यब्रुवन्, समीचीनो महाराजस्याध्यवसाय इति प्रत्यपूजयंश्च ॥ १।८।१९ ॥

तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम् ।

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ १।८।२० ॥

तथेति । वर्द्धयन्तः, आशीर्भिरिति शेषः । द्विजाः ऋत्विजः । भाविन्यां चैत्रपौर्णमास्यां, तथैव करिष्याम इत्युक्त्वा जग्मुरित्यर्थः ॥ १।८।२० ॥

विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ।

ऋत्विग्भिरुपदिष्टो ऽयं यथावत् क्रतुराप्यताम् ॥ १।८।२१ ॥

विसर्जयित्वेति । क्रतुः क्रतुसम्भारः । आप्यतां सम्पाद्यताम् ॥ १।८।२१ ॥

इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ।

विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ १।८।२२ ॥

इतीति । महाद्युतिरिति प्रीत्यतिशयद्योतनम् ॥ १।८।२२ ॥

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः ।

उवाच दीक्षां विशत यक्ष्ये ऽहं सुतकारणात् ॥ १।८।२३ ॥

तत इति । ताः प्रसिद्धाः कौसल्याद्याः पत्नीः यज्ञार्हाः “पत्युर्नो यज्ञसंयोगे” इति पतिशब्दस्य यज्ञफलभोक्तृत्वरूपयज्ञसंयोगे नकारादेशविधानात् । दीक्षां दीक्षाध्यवसायम्, विशत गच्छतेत्यर्थः । सुतकारणात् सुतार्थम् । “निमित्तकारणहेतूनां प्रयोगे सर्वासामिष्टिः” इति पञ्चमी ॥ १।८।२३ ॥

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।

मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ १।८।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥ ८ ॥

तासामिति । अतिकान्तेन अत्यन्तमिष्टेन । मुखपद्मानि सुन्दराणि मुखानीत्यर्थः ॥ १।८।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥