तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १।७।१ ॥
अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मानुष्ठानसहायसाधिष्ठसचिवसम्पत्तिं दर्शयति सप्तमे तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाकोः, दशरथस्य तद्वंशजत्वात्तच्छब्दः । मन्त्रज्ञाः कार्यविचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिर्जानन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सह भवन्तीत्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ॥ १।७।१ ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ १।७।२ ॥
“मन्त्रिणः सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान्” इति मनुनोक्तरीत्याह अष्टाविति । शुचयः सर्वात्मना स्वामिद्रोहचिन्तारहिताः, नित्यशः राजकृत्येषु तदनुष्ठानेषु अनुरक्ताः तत्पराः, अष्टावमात्या बभूवुः ॥ १।७।२ ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थोह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमो ऽभवत् ॥ १।७।३ ॥
तेषां नामानि दर्शयति धृष्टिरिति । धृष्टिः प्रथमो ऽभवत् जयन्तो द्वितीयो ऽभूत् इति क्रमेण योजयित्वा सुमन्त्रो ऽष्टमो ऽभवदिति योज्यम् ॥ १।७।३ ॥
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथा ऽपरे ॥ १।७।४ ॥
ऋत्विजाविति । वसिष्ठः वामदेवश्च द्वौ ऋषिसत्तमौ ऋत्विजौ पुरोहितौ अभिमतौ प्रधानौ आस्ताम्, तथा अभिमताः अपरे मन्त्रिणः ऋत्विजः जाबालिप्रभृतयश्चासन् ॥ १।७।४ ॥
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ॥ १।७।५ ॥
अथ मन्त्रिगुणान् प्रपञ्चयति सर्गशेषेण विद्येति । विद्यासु आन्वीक्षिकीप्रभृतिषु विनीताः शिक्षिताः, ह्रीमन्तः अकृत्यकरणेषु लज्जावन्तः, कुशलाः नीतौ समर्थाः, नियतेन्द्रियाः अविहितविषयेभ्यो निवृत्ताः, श्रीमन्तः लक्ष्मीसमृद्धाः, महात्मानः महाबुद्धयः, शास्त्रज्ञाः नीतिशास्त्रज्ञाः, दृढविक्रमाः अप्रतिहतपराक्रमाः ॥ १।७।५ ॥
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ।
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ १।७।६ ॥
कीर्तिमन्त इति । प्रणिहिताः राजकृत्येष्वप्रमत्ताः, यथावचनकारिणः यथोक्तवन्तस्तथैव कुर्वन्ति, न तु “मनस्यन्यद्वचस्यन्यत् कर्मण्यन्यत्” इति न्यायत इति भावः । तेजःक्षमायशांसि प्राप्ताः । “द्वितीया श्रित " इत्यादिना समासः । अत्र यशः प्रतापक्षमाजन्या प्रथा । कीर्तिमन्त इत्यत्र कीर्तिस्तु मन्त्रज्ञताकृता प्रथा । स्मितपूर्वाभिभाषिण इत्यनेन निर्मत्सरत्वमुच्यते । आसन्, मन्त्रिण इति श्लोकद्वयशेषः । क्रोधादिति अर्द्धमेकान्वयम् । क्रोधाद्वा कामहेतोरर्थहेतोर्वा अनृतमसत्यं वचो न ब्रूयुः ॥ १।७।६ ॥
तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ १।७।७ ॥
तेषामिति । तेषां मन्त्रिणां स्वेषु स्वराष्ट्रीयवृत्तान्तेषु परेषु परराष्ट्रीयवृत्तान्तेषु च, कृतं क्रियमाणम्, चिकीर्षितं कर्त्तुमिष्टम्, करिष्यमाणमिति यावत् । यत्किञ्चिदपि वा वृत्तं चारेण चारमुखेन अविदितं नास्ति, सर्वो ऽपि स्वराष्ट्रपरराष्ट्रवृत्तान्तभेदस्तैर्ज्ञात इत्यर्थः ॥ १।७।७ ॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ॥ १।७।८ ॥
कुशला इति । व्यवहारेषु निश्चितार्थप्रतिपादनेषु कुशलाः समर्थाः । सौहृदेषु विषयेषु परीक्षिताः राज्ञा बहुधा परीक्षितास्ते मन्त्रिणः सुतेष्वपि प्राप्तकालं प्राप्तसापराधत्वलक्षणकालम्, दण्डं धारयेयुः प्रवर्त्तयेयुः ॥ १।७।८ ॥
कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं वापि पुरुषं न विहिंस्युरदूषकम् ॥ १।७।९ ॥
कोशेति । कोशस्य अर्थनिचयस्य, सङ्ग्रहणे सम्पादने । बलस्य चतुर्विधसैन्यस्य । परिग्रहे अर्थप्रदानेन संरक्षणे च युक्ता अवहितास्सन्तः अहितं शत्रुमपि, अदूषकम् अनपराधिनं न विहिंस्युः न पीडयेयुः । शकि लङ् ॥ १।७।९ ॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ १।७।१० ॥
वीराश्चेति । वीराः शत्रुनिवारणक्षमाः । नियतोत्साहाः शत्रुजये नित्योत्साहाः । राजशास्त्रं नीतिशास्त्रम् अनुष्ठिताः अनुष्ठितवन्तः, अत एव विषयवासिनां स्वराज्यवासिनाम्, शुचीनां साधूनां नित्यं रक्षितारः, अशुचीनां तु निहन्तार इति च सिद्धम् । ते आसन्नित्यनुषज्यते ॥ १।७।१० ॥
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ १।७।११ ॥
ब्रह्मेति । ब्रह्म ब्राह्मणान् क्षत्रं क्षत्रियांश्च अहिंसन्तः विनापराधं तत्स्वमनपहरन्तः । सत्यप्यपराधे पुरुषस्य अपराधिनः, बलाबलम् अपराधतारतम्यं शक्तितारतम्यं वा सम्प्रेक्ष्य अपराधगुरुत्वे सुतीक्ष्णदण्डाः, अपराधाल्पत्वे मृदु दण्डाश्च । शक्तत्वे सुतीक्ष्णदण्डाः अशक्तत्वे मृदुदण्डाश्च कोशं समपूरयन् ॥ १।७।११ ॥
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १।७।१२ ॥
अथ मन्त्रिगुणसम्पत्तिफलं दर्शयति शुचीनामित्यादिश्लोकद्वयेन् । शुचीनाम् एकरूपकरणत्रयवताम् । एकबुद्धीनाम् एककण्ठानां सर्वेषां मन्त्रिणां सम्प्रजानतां राज्यतन्त्रं विचारयताम् । भावलक्षणसप्तम्यर्थे षष्ठी । “षष्ठीचानादरे” इत्यत्र योगविभागेन । सर्वेषु मन्त्रिषु राज्यतन्त्रं विचारयत्स्वित्यर्थः । पुरे वा राष्ट्रे वा क्वचित्कोणे ऽपि मृषावादी असत्यवादी नरो नासीत् ॥ १।७।१२ ॥
कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ १।७।१३ ॥
कश्चिदिति । किञ्च तत्र पुरराष्ट्रेषु कश्चिन्नरः दुष्टः कुटिलः परदाररतश्च नासीत्, प्रत्युत यद्राष्ट्रं पुरवरं च तत् सर्वं प्रशान्तमेव आसीत् । नगरजनपदवासिनः सर्वे ऽप्यन्यायाधर्मरहिता एवासन् इत्यर्थः ॥ १।७।१३ ॥
सुवाससः सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १।७।१४ ॥
पुनस्तान्विशेषयति सुवासस इत्यादिना सार्द्धश्लोकत्रयेण । सुवाससः शुभ्रवाससः, सुवेषाः शोभनालङ्काराः, सुशीलिनः सुसद्वृत्ताः, नरेन्द्रस्य स्वामिनः हितार्थं नयचक्षुषा जाग्रतः जागरूकाः, सर्वदा नीतिषु दत्तावधाना इत्यर्थः ॥ १।७।१४ ॥
गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ १।७।१५ ॥
गुराविति । गुरौ गुरुषु । जात्येकवचनम् । गुणगृहीताः गृहीतगुणाः, गुणमात्रग्राहिणो दोषमपश्यन्त इत्यर्थः । पराक्रमे विषये प्रख्याताः, विदेशेषु देशान्तरेष्वपि सर्वतः सर्वत्रातीतानागतविषयेषु, बुद्धिनिश्चयात् निश्चयरूपबुद्धेर्हेतोः विज्ञाताः विख्याताः ॥ १।७।१५ ॥
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ।
मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ॥ १।७।१६ ॥
सन्धीति । सन्धिः सामन्तैः समाधानम्, विग्रहः तैः कलहः, तयोस्तत्त्वं देशकालाद्युचितत्वम्, तज्जानन्तीति तथा । उक्तं च मनुना “यदा त्वेवाल्पिका पीडा तदा सन्धिं समाश्रयेत् । अभ्युच्छ्रयो यदात्मानं तथा मन्येत विग्रहम् ॥ " इति। प्रकृत्या स्वभावेन, सम्पदा ऐश्वर्येण अन्विताः, सम्पदभावे तच्चापलेनान्यथा कुर्युरिति भावः। मन्त्रो राष्ट्रकार्यचिन्ता, तस्य संवरणे बहिरप्रकटने शक्ताः, सम्पत्कार्यमिदम्। सूक्ष्मासु बुद्धिषु सूक्ष्मार्थविशेषविचारेषु श्लक्ष्णाः अपरुषाः, सद्यःप्रतिभावन्त इत्यर्थः ॥ १।७।१६ ॥
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १।७।१७ ॥
नीतिशास्त्रेति । नीतिशास्त्रविशेषज्ञाः नीत्या शासनविशेषज्ञाः “ग्रन्थशासनयोः शास्त्रम्” इति भास्करः । सततं राज्ञः प्रियवादिनः, हितवचनस्यैव राज्ञः प्रियत्वात् । आसन्निति पूरणीयम् ॥ १।७।१७ ॥
ईदृशैस्तैरमात्यैश्च राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ॥ १।७।१८ ॥
ईदृशैरिति । ईदृशैः उक्तगुणविशिष्टैः गुणोपेतैः उक्तगुणातिरिक्तगुणोपेतैः तैः अमात्यैः उपपन्नः । अनघः व्यसनरहितः । उक्तं मनुना “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ " इति। व्यसनस्वरूपं चोक्तम् “मृगयाक्षो दिवास्वापः परिवादः स्त्रियो मदः।
तौर्यत्रिकं वृथाट्यं च कामजो दशको गुणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणे । वाग्दण्डनं च पारुष्यं क्रोधजो ऽपि गुणो ऽष्टकः ॥ " इति। दशरथो राजा वसुन्धरा भूमिम्। अन्वशासदिति लुङ्। “सर्तिशास्त्यर्तिभ्यश्च” इत्यङ् ॥ १।७।१८ ॥
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ १।७।१९ ॥
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ १।७।२० ॥
अवेक्षमाण इति श्लोकद्वयमेकान्वयम् । चारेण चक्षुःस्थानीयेन अवेक्षमाणः स्वपरराष्ट्रवृत्तान्तान् पश्यन् । जात्येकवचनमिदम्, अनेकचारैर्ज्ञेयत्ववचनात् । यथाह मनुः “वने वनचराः कार्याः श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थं शीघ्राश्चारपरम्पराः ॥ “इति। धर्मेण दण्ड्यदण्डनादिना प्रजा रञ्जयन् आह्लादयन्, पालनमनिष्टनिवृत्तिपूर्वकेष्टप्रापणम्। अधर्मम् अदण्ड्यदण्डनादि, विश्रुतः दानविक्रमादिभिः प्रसिद्धः। वदान्यः दानशीलः। सत्यसङ्गरः सत्यप्रतिज्ञः। “सङ्गरो ना क्रियाकाले प्रतिज्ञाविपदोर्युधि।” इति यादवः। सः पुरुषव्याघ्रः पुरुषश्रेष्ठः। तत्र अयोध्यायाम्, वसन्निति शेषः ॥ १।७।१९,२० ॥
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद्राजा दिवं देवपतिर्यथा ॥ १।७।२१ ॥
नाध्यगच्छदिति । विशिष्टमधिकं तुल्यं वा आत्मनः शत्रुं नाध्यगच्छत् न ज्ञातवान् । तत्र हेतुमाह मित्रवान् नतसामन्तः पादानतसमानसीमाधिपतिकः । प्रतापेन हताः कण्टकाः शत्रवो यस्य स तथा । “वेणौ द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ।” इति यादवः । स इति शेषः । उक्तमर्थं सदृष्टान्तमाह स इति अर्द्धमेकम् ॥ १।७।२१ ॥
तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतो ऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितो ऽर्कः ॥ १।७।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥ ७ ॥
सर्गार्थं सङ्ग्रहेण दर्शयति तैरिति । मन्त्रहिते मन्त्रे हिते च नियुक्तैः, कुशलैः बुद्धिकुशलैः, समर्थैः कार्यकरणसमर्थैः मन्त्रिभिर्वृतः नृपः । तेजोमयैः, स्वार्थे मयट् । गोभिः किरणैर्युक्तः उदितो ऽर्कः बालसूर्य इव दीप्तिमवाप । त्रिष्टुबुपजातिवृत्तम् ॥ १।७।२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥