००६ राजानुशासनम्

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।

दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १।६।१ ॥

एवं भगवदवतारयोग्यदेशो दर्शितः, अथ तद्योग्यं पुरुषं दर्शयति सर्गे षष्ठे तस्यामित्यादि श्लोकचतुष्टयमेकान्वयम् । दशरथः तस्यां वसन् सन् जगत् अपालयत् । स कीदृशः ? वेदं वेदार्थं वेत्तीति वेदवित्, सङ्गृह्णाति धनप्रदानादिना स्वीकरोतीति सङ्ग्रहः । पचाद्यच् । सर्वेषां शूराणां विदुषां च सङ्ग्रहः सर्वसङ्ग्रहः । दीर्घदर्शी दीर्घं चिरकालभाविपदार्थं द्रष्टुं शीलमस्यास्तीति तथा । ताच्छील्ये णिनिः । महातेजाः महाप्रतापः “तेजः पराक्रमे प्राणे वर्चस्यर्चिषि रेतसि” इति रत्नमाला । पुरे भवा जनाः पौराः, जनपदे भवा जानपदाः, ते प्रिया यस्य स तथा ॥ १।६।१ ॥

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।

महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ १।६।२ ॥

इक्ष्वाकूणामिति । इक्ष्वाकूणां मध्ये अतिरथः बहुभिर्महारथैरेको योद्धा रथी । यज्वा

विधिनेष्टवान् । धर्मेषु तटाकखननारामप्रवर्तनादिषु रतः । वशी स्वाधीनसर्वजनः । “त्रिष्वधीने वशो वाञ्छाप्रभुत्वाधीनतासु ना” इति भास्करः । महर्षिकल्पः महर्षितुल्यः । राजर्षिः राजरूपऋषिः । त्रिषु लोकेषु भूर्भुवः स्वर्लोकेषु विश्रुतः प्रसिद्धः ॥ १।६।२ ॥

बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः ।

धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः ॥ १।६।३ ॥

बलवान् चतुरङ्गसेनायुक्तः, अत एव निहतामित्रः निहतशात्रवः । मित्रवान् प्रशस्तमित्रयुक्तः । विजितेन्द्रियः निषिद्धेषु शब्दादिष्वप्रवर्तितेन्द्रियः । धनैर्हिरण्यरत्नदिव्याम्बराभरणादिभिः अन्यैः तदपेक्षयान्यैः । सङ्ग्रहैः सञ्चयैः निधिभिरितियावत् । शक्रवैश्रवणोपमः यथाक्रमम् इन्द्रकुबेरोपमः ॥ १।६।३ ॥

यथा मनुर्महातेजा लोकस्य परिरक्षिता ।

तथा दशरथो राजा वसन् जगदपालयत् ॥ १।६।४ ॥

यथा मनुः वैवस्वतमनुः लोकस्य परिरक्षिता तथा दशरथो राजा तस्यां वसन् जगद्भूलोकम् अपालयत् ॥ १।६।४ ॥

तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।

पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ १।६।५ ॥

एवं राजगुणाः उक्ताः लोकपालनं चोक्तम् । सम्प्रति पुरपरिपालनमाह तेनेति । सत्ये अभिसन्धा अभिप्रायो यस्य तेन त्रिवर्गं धर्मार्थकामान् अनुतिष्ठता अनुसरता पालिता सत्यादिपुरस्सरं त्रिवर्गार्थं पालितेत्यर्थः ॥ १।६।५ ॥

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।

नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ १।६।६ ॥

पालनफलं दर्शयति तस्मिन्नित्यादिना मानवेन्द्रेण धीमतेत्यन्तेन । हृष्टाः वाससौख्येन प्रीताः,

धर्मात्मानः बहुश्रुतं शास्त्रश्रवणं येषां ते बहुश्रुताः । स्वैः स्वैः धनैस्तुष्टाः, परधनानभिलाषिण इत्यर्थः । वीप्सया स्ववर्णस्वाश्रमोचितधनमात्रपरिग्रहः सूच्यते । अलुब्धाः दाने प्राप्ते लोभरहिताः । सत्यवादिनः सत्यवचनशीलाः, आसन्निति शेषः ॥ १।६।६ ॥

नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।

कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ॥ १।६।७ ॥

नेति । तस्मिन्पुरोत्तमे पुरश्रेष्ठे अल्पसन्निचयः अल्पकोशवान्, अगवाश्वधनधान्यवान् असिद्धार्थः धनादिभिरप्राप्तधर्मार्थकामरूपपुरुषार्थः यः कुटुम्बी स कश्चिन्नासीत् । “माता पिता स्नुषे पुत्रौ पुत्री पत्न्यतिथिः स्वयम् । दशसङ्ख्यः कुटुम्बीति विष्णुनोक्तं द्विजोत्तम ॥ " ॥ १।६।७ ॥

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।

द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ १।६।८ ॥

कामीति । कामी कामैकपरः पुरुषः अयोध्यायां क्वचित् कोणे ऽपि द्रष्टुं न शक्यम् । शक्यमिति निपातः । “शक्यमरविन्दसुरभिः” इति कालिदासेनापि प्रयुक्तः । कदर्यो वा द्रष्टुं न शक्यम् । “आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भ्रातृ़न् स कदर्य इति स्मृतः ॥ " नृशंसः क्रूरोऽपि न द्रष्टुं शक्यम्। “नृशंसो घातुकः क्रूरः” इत्यमरः। अविद्वान् विद्यारहितः। परलोको नास्तीति यो मन्यते स नास्तिकः। “अस्ति नास्ति दिष्टं मतिः” इति ठक् ॥ १।६।८ ॥

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।

उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ १।६।९ ॥

सर्व इति । अयोध्यायां सर्वे नराः सर्वा नार्यश्च धर्मशीलत्वादिविशिष्टा भवन्ति । सुसंयताः सुष्ठु नियतेन्द्रियाः शीलवृत्ताभ्याम् उदिताः उत्पन्नाः, सहजशीलवृत्ता इत्यर्थः । शीलं सत्स्वभावः, वृत्तमाचारः । “शीलं स्वभावे सद्वृत्ते । वृत्तं पद्ये चरित्रे च” इत्युभयत्राप्यमरः । अमलाः निर्मलमनस्काः ॥ १।६।९ ॥

नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।

नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १।६।१० ॥

नाकुण्डली । अयोध्यायां न विद्यते एवमुत्तरत्राप्यन्वयः । अल्पभोगवान् अल्पसुखवान् । “भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः” इत्यमरः । नामृष्टः अनभ्यङ्गस्नानशुद्धः नानुलिप्ताङ्ग इत्यत्र सुप्सुपेति समासः । चन्दनाद्यननुलिप्ताङ्ग इत्यर्थः । अत्रापि नञनुषज्यते । सुगन्धशब्देन कुङ्कुमकस्तूर्यादिकमुच्यते ॥ १।६।१० ॥

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।

नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ १।६।११ ॥

नामृष्टेति । मृष्टं पूर्णम्, अन्नाभावप्रयुक्ताल्पभोजनवानयोध्यायां न दृश्यते । एवमुत्तरत्रापि

योज्यम् । दाता प्रकरणादन्नदाता । अङ्गदं बाहुभूषणम्, निष्कमुरोभूषणम् । “साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारे ऽपि च निष्को ऽस्त्री” इत्यमरः । ते धरतीति अङ्गदनिष्कधृक् । धृगित्येव

पाठः । हस्ताभरणं कटकाङ्गुलीयकादि । अनात्मवान् अजितान्तःकरणः ॥ १।६।११ ॥

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।

कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ॥ १।६।१२ ॥

नेति । आहिताग्निः अजस्राग्निहोत्री । यज्वापि हि कश्चिद्विच्छिन्नाग्निर्भवति । अयज्वा सोमयागरहितः । क्षुद्रः अल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निर्वृत्तः अनुष्ठितः सङ्करः परक्षेत्रे बीजावापादिर्येन सः ॥ १।६।१२ ॥

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।

दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १।६।१३ ॥

स्वकर्मेति । अध्ययनं जपरूपाध्ययनम् । संयताः सङ्कुचिताः ॥ १।६।१३ ॥

न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।

नासूयको न वाशक्तो नाविद्वान् विद्यते तदा ॥ १।६।१४ ॥

नेति । अनृतम् असत्यं कायति वक्तीत्यनृतकः । “कै शब्दे” इत्यस्मादात्वे “आतो ऽनुपसर्गे कः” इति कप्रत्ययः । श्रुतं श्रवणम् । भावे निष्ठा । बहुप्रकारशास्त्रश्रवणरहित इत्यर्थः । असूयतीत्यसूयकः । “कण्ड्वादिभ्यो यक्” इति यकि धातुसञ्ज्ञायां वुञ् । अशक्तः ऐहिकामुष्मिकार्थसाधनाशक्तः । तदा दशरथराज्यपालनकाले । अनेनायं श्लोको जानपदविषय इति गम्यते, तेनात्र न पौनरुक्त्याशङ्का ॥ १।६।१४ ॥

नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।

न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ १।६।१५ ॥

नेति । षडङ्गानि शिक्षा कल्पो व्याकरणं निरुक्तिश्छन्दोविचितिर्ज्योतिषामयनं च । अव्रतः चान्द्रायणादिव्रतरहितः । असहस्रदः अबहुप्रदः । दानाध्ययनेत्यत्र विद्यादानमुक्तम्, अत्र हिरण्यादिदानम् । क्षिप्तचित्तः व्याकुलमनस्कः व्यथितः । व्याध्यादिना पीडितः ॥ १।६।१५ ॥

कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।

द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १।६।१६ ॥

कश्चिदिति । अश्रीमान् कान्तिरहितः । अरूपवान् सौन्दर्यरहितः । नारीपक्षे अश्रीमती अरूपवती अभक्तिमती चेत्यूह्यम् । राजनि दशरथे अभक्तिमान् भक्तिरहितः, भक्तिरधिकमान्यविषयस्स्नेहः ॥ १।६।१६ ॥

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।

कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ १।६।१७ ॥

वर्णेष्विति । अग्रे भवो ऽग्र्यः । “अग्राद्यत्” । ब्राह्मणः स चतुर्थो येषां तेषु वर्णेषु वर्तमानाः नराः । देवतातिथिपूजकाः शूद्राणां देवतापूजा तान्त्रिकमन्त्रेण, अतिथिपूजनं हिरण्यादिदानेन । कृतज्ञाः उपकारज्ञाः । वदान्याः दानशौण्डाः । “वदान्यो दानशौण्डः स्यात्” इति विश्वः । शूराः ब्राह्मणेष्वध्ययनशूरत्वम् । विक्रमसंयुताः पराक्रमसंयुताः, ब्राह्मणानां पराक्रमो वादकथासु । आसन्निति शेषः ॥ १।६।१७ ॥

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।

सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १।६।१८ ॥

दीर्घेति । तस्मिन् पुरोत्तमे सर्वे नराः धर्मं सत्यं च संश्रिताः, अत एव हेतोः दीर्घायुषः स्त्रीभिः पुत्रपौत्रैश्च संयुताः आसन् ॥ १।६।१८ ॥

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।

शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १।६।१९ ॥

क्षत्रमिति । क्षत्रं क्षत्रियजातिः । ब्रह्ममुखं ब्राह्मणप्रधानमासीत्, तदाज्ञानुवर्तीति यावत् । “मुखं निःसरणे वक्त्रे द्वार्युपायप्रधानयोः” इति यादवः । वैश्याः क्षत्रमनुव्रताः क्षत्रस्यानुवर्तिनः । शूद्रास्त्रीन् वर्णानुपचारिणः त्रयाणां वर्णानामुपचारशीलाः सन्तः स्वधर्मनिरता आसन् ॥ १।६।१९ ॥

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।

यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ १।६।२० ॥

एतत्सर्वं दशरथपालनकृतमित्याह सेति ॥ १।६।२० ॥

योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।

सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ १।६।२१ ॥

योधानामिति । अग्निकल्पानां शौर्यातिशयादग्नितुल्यानाम्, पेशलानामकुटिलानाम् । अमर्षिणां पराभिभवासहिष्णूनाम् । कृतविद्यानां शिक्षितशस्त्रास्त्रादिविद्यानाम् । योधानां भटानाम् । “पूरणगुण " इत्यादिना षष्ठी । सा पुरी योधैः सम्पूर्णा, गुहा केसरिभिः सिंहैरिव, तथा दुर्द्धर्षाभूदित्यर्थः ॥ १।६।२१ ॥

काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।

वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ १।६।२२ ॥

एवं चतुरङ्गसम्पत्तिषु पदातिसम्पत्तिमुक्त्वा तुरङ्गसम्पत्तिमाह काम्भोजेति । काम्भोजविषये काम्भोजाख्यदेशे जातैः, बाह्लीकैः बाह्लीकदेशभवैः । “तत्र भवः” इत्यण् । वनायुजैः वनायुदेशजातैः, नदीजैः सिन्धुदेशोद्भवैः, हरेरिन्द्रस्य हयो हरिहयः उच्चैःश्रवास्तद्वदुत्तमैः हरिहयोत्तमैरश्वश्रेश्ठैः सा पूर्णाभवत् ॥ १।६।२२ ॥

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।

मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ १।६।२३ ॥

गजसम्पत्तिमाह विन्ध्येत्यादिना, श्लोकद्वयमेकान्वयम् । मत्तैर्विन्ध्यपर्वतजैर्मातङ्गैः हैमवतैः हिमवति जातैः । “तत्र जातः” इति शैषिको ऽण् । मदान्वितैः अतिबलैः मातङ्गैर्गजैरपि पर्वतोपमैः ॥ १।६।२३ ॥

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।

अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ॥ १।६।२४ ॥

ऐरावतकुलीनैः ऐरावतकुलोद्भवैः । “कुलात् खः” । द्विपैश्च महापद्मः पुण्डरीकाख्यो दिग्गजः तस्य कुलं येषां तैः । द्विपैश्च अञ्जनात् वरुणदिग्गजात् निष्पन्नैर्द्विपैरपि, वामनात् यमदिग्गजान्निष्पन्नैः द्विपैरपि सा पूर्णासीत् ॥ १।६।२४ ॥

भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।

भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ।

नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ॥ १।६।२५ ॥

भद्रैरित्यादिसार्द्धश्लोक एकान्वयः । भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । “भद्रो मन्द्रो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।” इति हलायुधः । भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्विप्रकृतिका सङ्कीर्णजातयस्तिस्रः, भद्रमन्द्रमृगास्त्रिप्रकृतिकाः सङ्कीर्णगजाः । तल्लक्षणमुक्तं वैजयन्त्याम्

“अङ्गप्रत्यङ्गभद्रत्वं सङ्क्षिप्तं भद्रलक्षणम् । पृथुत्वं श्लथया स्थौल्यं सङ्क्षिप्तं मन्द्रलक्षणम् ॥ तनुप्रत्यङ्गदीर्घश्च प्रायो मृगगुणो मतः । भद्रमन्द्रो भद्रमृगो भद्रमन्द्रमृगोपि च । मृगमन्द्रादयोप्येवमिति सङ्करजातयः ॥ " इति। एवम्भूतैर्नित्यमत्तैरचलसन्निभैः नागैः सा सदा पूर्णाभवत् ॥ १।६।२५ ॥

सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।

यस्यां दशरथो राजा वसन् जगदपालयत् ॥ १।६।२६ ॥

अतिरथमहारथादिशब्दैः रथसम्पत्तिरपि सूचिता । एवं चतुरङ्गबलसम्पत्त्या न नगरमात्रमप्रधृष्यम्, किन्त्वभितो द्वे योजने दुर्गमे इत्याह सेति । सा नगरी भूयः नगरात् बहिरपि द्वे योजने द्वयोर्योजनयोः । अत्यन्तसंयोगे द्वितीया । सत्यनामा यथार्थनामा अयोध्यानामा । “डाबुभाभ्यामन्यतरस्याम्” इति डाप् । अत्र हेतुमाह यस्यामिति । योजनत्रयविस्तारवत्यां तस्यां मध्ये योजनद्वयमत्यन्तं योद्धुमशक्येत्यर्थ इत्यप्याहुः ॥ १।६।२६ ॥

तां पुरीं स महातेजा राजा दशरथो महान् ।

शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ १।६।२७ ॥

पालनं चाह्लादनपूर्वकमित्याशयेनाह तामिति ॥ १।६।२७ ॥

तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् ।

पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपतिः ॥ १।६।२८ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥ ६ ॥

सर्गोक्तमर्थं सङ्क्षेपेण सर्गान्ते पुनर्दर्शयति तामिति । अर्गलं नाम कवाटनिश्चलत्वाय तिर्यङ्निबद्धो दारुविशेषः । “तद्विष्कम्भो ऽर्गलं न ना” इत्यमरः । शिवां मङ्गलवतीम् । वंशस्थोपजातिवृत्तम् ॥ १।६।२८ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥