श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १।३।१ ॥
पूर्वस्मिन्सर्गे स्वग्रन्थस्यात्यन्तादरणीयत्वद्योतनाय परमात्मतत्त्वरूपं वक्तृवैलक्षण्यं प्राधान्येनोक्तम् । सम्प्रति तदर्थमेव विषयवैलक्षण्यं दर्शयति । विषयस्य वैलक्षण्यं नाम सम्यग्ज्ञानावधृतत्वं लोकोत्तरनायकगुणपरिष्कृतत्वं च । तत्र प्रथमं सम्यग्ज्ञानावधृतत्वं विवक्षंस्तद्वस्त्वन्वेषणमाह श्रुत्वेति । धर्मे आत्मा स्वभावो यस्यासौ धर्मात्मा, इत्यन्वेषणहेतूक्तिः । धर्मसंहितं धर्मसहितम् । “समोवाहितततयोः” इति विकल्पितत्वान्मकारलोपाभावः । समग्रं कृत्स्रम् । तत् नारदोक्तं वस्तु कथाशरीरं श्रुत्वा भूयस्ततो ऽधिकं धीमतो रामस्य यद्वृत्तं चरित्रमस्ति तद्व्यक्तं यथा भवति तथा अन्वेषते पर्यालोचयति स्म । “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ॥ १।३।१ ॥
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ॥ १।३।२ ॥
धर्मात्मेत्यनेन सूचितमन्वेषणप्रकारमाह उपस्पृश्येति । मुनिः सम्यग्यथाशास्त्रमुदकमुपस्पृश्य, आचम्येत्यर्थः । “उपस्पर्शस्त्वाचमनम्” इत्यमरः । प्राचीनाग्रेषु दर्भेषु स्थित्वा निजगुरुमुद्दिश्य कृताञ्जलिः सन् । धर्मेण ब्रह्मप्रसादरूपश्रेयःसाधनेन । गतिं रामादिवृत्तम् अन्वेषते ॥ १।३।२ ॥
रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥ १।३।३ ॥
गतिशब्दार्थं विवृण्वन्धर्मेण अन्वेषणफलमाह रामेति । रामादिभिर्यत्प्राप्तं तत्र विषये तत्त्वतः तत्त्वेन, सम्प्रपश्यति समन्तात्प्रकर्षेण पश्यति, तत्सर्वं विशदतरं पश्यतीत्यनुषज्यते ॥ १।३।३ ॥
हसितं भाषितं चैवं गतिर्या यच्च चेष्टितम् ।
तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति ॥ १।३।४ ॥
किं प्राप्तम् ? तत्राह हसितमिति । पूर्वोक्तरामादीनां यद्धसितं हासः यच्च भाषितं भाषणम् । भावे क्तः । या च गतिर्गमनं यच्च चेष्टितं चेष्टा, युद्धादिकमिति यावत् । तत्सर्वं धर्मवीर्येण ब्रह्मवरप्रसादशक्त्या यथावृत्तं तत्त्वेन सम्प्रपश्यति । अत्र योगजधर्मस्थानीयत्वात् ब्रह्मप्रसादो धर्मशब्देनोच्यते । स च साक्षात्कारहेतुश्चक्षुरादिवदिति प्रमाणतो ऽध्यवसीयते ॥ १।३।४ ॥
स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ॥ १।३।५ ॥
नगरनिवासकालिकचरितावलोकनमभिधाय वनवासकालीनवृत्तान्तनिरीक्षणमाचष्टे स्त्रीति । स्त्री तृतीया यस्य तेन, सीतालक्ष्मणसहितेनेत्यर्थः । वने दण्डकारण्ये चरता सत्यसन्धेन सत्यप्रतिज्ञेन रामेण यत्प्राप्तं तत्सर्वं चान्ववेक्षितं साक्षात्कृतम्, वाल्मीकिनेति शेषः । धर्मवीर्येणेति सिद्धम् ॥ १।३।५ ॥
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ १।३।६ ॥
एवं रामादिवृत्तान्तदर्शनस्य विशदतमत्वमाह तत इति । ततः अवेक्षणानन्तरम्, धर्मात्मा वाल्मीकिः योगं ब्रह्मप्रसादरूपोपायमास्थितः सन् । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः । तत्र रामादौ पुरा यन्निर्वृत्तं निष्पन्नं तत्सर्वं वृत्तं पाणौ आमलकमिव पश्यति स्म ॥ १।३।६ ॥
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः ।
अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः ॥ १।३।७ ॥
अथ दर्शनफलग्रन्थनिर्माणोद्योगमाह तदित्यादि, श्लोकद्वयमेकान्वयम् । महाद्युतिः रामगुणानुभवजनितहर्षप्रकर्षकृतद्युतियुक्तः स वाल्मीकिः । तत्सर्वं रामवृत्तान्तम्, तत्त्वतो धर्मेण पूर्वोक्तेन दृष्ट्वा । अभिरामस्य निरवधिकभोग्यस्य, चरितं चरितविषयप्रबन्धं कर्त्तुमुद्यतः उद्युक्तो ऽभूत् ॥ १।३।७ ॥
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ १।३।८ ॥
कीदृशं चरित्रमित्यत्राह कामार्थेति । कामश्चार्थश्च कामार्थौ, गुणशब्देनाप्राधान्यमुच्यते । अप्रधानाभ्यामर्थकामाभ्यां संयुक्तम्, त्याज्यताप्रदर्शनार्थं तत्र तत्रार्थकामप्रतिपादकमित्यर्थः । धर्मार्थयोर्धर्ममोक्षयोर्गुणो ऽतिशयस्तं विस्तृणातीति धर्मार्थगुणविस्तरम् । पचाद्यच् । प्राधान्येन धर्मापवर्गप्रतिपादकमित्यर्थः । “अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने” इति वैजयन्ती । अत एव रत्नाढ्यं समुद्रमिव स्थितम्, समुद्रो यथा शङ्खशुक्त्यादियुक्तो ऽपि प्राधान्येन रत्नानि वहति तथा स्थितमित्यर्थः । सर्वेषां जनानां श्रुतिमनसी श्रोत्रहृदये हरतीति सर्वश्रुतिमनोहरम्, शब्दमाधुर्याच्छ्रोत्राकर्षकम् अर्थसौष्ठवाच्चित्ताकर्षकमित्यर्थः ॥ १।३।८ ॥
स यथा कथितं पूर्वं नारदेन महर्षिणा ।
रघुवंशस्य चरितं चकार भगवानृषिः ॥ १।३।९ ॥
यथोद्योगं प्रबन्धनिर्माणमाह स इति । भगवान् स ऋषिः रघुवंशस्य रघुवंशोद्भवस्य रामस्य । चरितं पूर्वं नारदेन महर्षिणा यथा कथितं येन प्रकारेणोक्तं तथा चकार ॥ १।३।९ ॥
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १।३।१० ॥
अथ विस्तरेण ब्रह्मोपदिष्टरीत्या रामचरितनिर्माणं दर्शयति जन्मेत्यादिना सर्गशेषेण । द्वितीयान्तानां तत्प्रतिपादकपरत्वं बोध्यम् । वाल्मीकिर्भगवान् ऋषिश्चकारेति वक्ष्यमाणे कर्तृक्रिये अनुषञ्जनीये । जन्मेति । जन्मनः सुमहत्त्वं दशरथमहातपोबललभ्यत्वं विष्णोरवतारत्वं च । वीर्यं ताटकाताटकेयादिहननक्षमं बलम् । सर्वानुकूलतां सर्वानुवर्तित्वम्, आर्जवमिति यावत् । लोकस्य प्रियतां प्रेमास्पदत्वम् । क्षान्तिं अपराधसहिष्णुताम् । सौम्यतां रम्यतामनुग्रतां वा । “सौम्यः पुमान् बुधे विप्रे त्रिषु स्यात्सोमदैवते । रम्ये ऽनुग्रे च” इति रत्नमाला । सत्यशीलतां सत्यस्वभावताम् । “शीलं स्वभावे सद्वृत्ते” इत्यमरः ॥ १।३।१० ॥
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ १।३।११ ॥
नानेति । विश्वामित्रसमागमे विश्वामित्रेण रामलक्ष्मणयोः संयोगे सति, अन्या रामचरितादन्याः । नाना नानाप्रकाराः चित्रकथाः आश्चर्यावहकथाश्च । जानक्याश्चेति चकारेणोर्मिलादयः समुच्चीयन्ते । धनुषो हरचापस्य विभेदनं भङ्गं च ॥ १।३।११ ॥
रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १।३।१२ ॥
रामेति । रामेण परशुरामेण । रामस्य राघवस्य विवादम् । रामेण रामविवादमित्यत्र तृतीयेति योगविभागात्समासः । अतो नैकशेषप्रसक्तिः । दाशरथेर्गुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् । तथेति समुच्चयार्थः सर्वत्र द्रष्टव्यः । रामस्याभिषेकम् अभिषेकोद्योगम्, कैकेय्या दुष्टभावतां दुष्टहृदयत्वं च ॥ १।३।१२ ॥
विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥ १।३।१३ ॥
विघातमिति । अभिषेकस्य रामाभिषेकस्य । विघातं कैकेयीदुष्टहृदयत्वकृतं विघ्नं च रामस्य विवासनं च राज्ञो दशरथस्य शोकेन विलापं प्रलापं च राज्ञः परलोकस्य स्वर्गस्याश्रयमाश्रयणं च ॥ १।३।१३ ॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ १।३।१४ ॥
प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं दुःखम् । प्रकृतीनां विसर्जनं वञ्चनेन निर्यापणं च । निषादाधिपसंवादं गुहेन सह सम्भाषणम् । सूतस्योपावर्तनं पुनरागमनं च ॥ १।३।१४ ॥
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १।३।१५ ॥
गङ्गायाश्चेति स्पष्टम् ॥ १।३।१५ ॥
वास्तुकर्म विवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १।३।१६ ॥
वास्त्विति । वास्तुकर्म शास्त्रोक्तप्रकारेण यथोचितमन्दिरनिर्माणम् । विवेशं शास्त्रोक्तवास्तुपूजादिपूर्वकं गृहे प्रविश्यावस्थानम् । रामस्य प्रसादनम्, भरतेनेति शेषः । सलिलक्रियां सलिलदानम् ॥ १।३।१६ ॥
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १।३।१७ ॥
पादुकेति । पादुकाग्र्ययोः पादुकाश्रेष्ठयोः । श्रैष्ठ्यं धृतत्वात् । अभिषेकं राज्यनियन्तृतया स्थापनम् । नन्दिग्रामे निवासनं निवसनम् । स्वार्थे ऽण् । पादुकयोः स्थापनं वा ॥ १।३।१७ ॥
दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् ।
अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ॥ १।३।१८ ॥
दर्शनमिति । अनसूयया अत्रिपत्न्या सहास्यां सहासनम्, सीताया इति शेषः । “आस्या त्वासनमासीनम् " इत्यमरः । यद्यप्येतद्विराधवधात्पूर्वमेव, तथापि अत्र सर्वत्र क्रमो न विवक्षितः, रामायणप्रतिपाद्यसङ्क्षेपमात्रे तात्पर्यात् । अङ्गरागस्य चन्दनस्य ॥ १।३।१८ ॥
अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १।३।१९ ॥
अगस्त्येति । शूर्पणख्या इति ङीबत्रार्षः ॥ १।३।१९ ॥
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥ १।३।२० ॥
खरत्रिशिरसोरिति दूषणादीनामुपलक्षणम् । उत्थानं निर्गमनम् ॥ १।३।२० ॥
मारीचस्य वधं चैव वैदेह्या हरणं तथा ।
राघवस्य विलापं च गृध्रराजनिबर्हणम् ॥ १।३।२१ ॥
मारीचस्येति । एवकारः पादपूरणार्थः । एवमुत्तरत्र सर्वत्र द्रष्टव्यम् ॥ १।३।२१ ॥
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् ।
शबर्या दर्शनं चैव हनूमद्दर्शनं तथा ।
विलापं चैव पम्पायां राघवस्य महात्मनः ॥ १।३।२२ ॥
कबन्धेति । चापीत्येकनिपातः समुच्चयार्थः ॥ १।३।२२ ॥
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ १।३।२३ ॥
ऋश्येति । ऋश्यमूकस्येति कर्मणि षष्ठी । प्रत्ययोत्पादनं सालभेदनादिभिः सुग्रीवस्य विश्वासजननम् । वालिसुग्रीवविग्रहं वालिसुग्रीवयुद्धं वालिसुग्रीवयोर्वैरानुकथनं वा ॥ १।३।२३ ॥
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
ताराविलापं समयं वर्षरात्रनिवासनम् ॥ १।३।२४ ॥
वालीति । वालिप्रमथनं वालिवधम् । सुग्रीवप्रतिपादनं सुग्रीवाय राज्यप्रदानमित्यर्थः । ताराविलापं ताराप्रलापम् । समयं शरदि सीतान्वेष्टव्येति रामसुग्रीवयोः सङ्केतम् । “समयः कालसिद्धान्तप्रतिज्ञाशपथेषु च । सङ्केताचारयोश्च” इति रत्नमाला । ताराविलापसमयमिति पाठे “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । वर्षरात्रनिवासनं वर्षं वृष्टिस्तद्युक्ता रात्रयो वर्षरात्राः । “रात्राह्नाहाः पुंसि” इति पुँल्लिङ्गत्वम्, तेषु निवासनं निवसनम् । स्वार्थे ऽण् । वर्षदिनेष्वित्यर्थः । रात्रिशब्दस्य दिवसपरत्वं त्रिरात्रादौ दृष्टम् ॥ १।३।२४ ॥
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् ।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ १।३।२५ ॥
कोपमिति । राघवसिंहस्य राघवाणां श्रेष्ठस्य । कोपं सुग्रीवविषयक्रोधम्, बलानां सेनानामुपसङ्ग्रहं सम्मेलनम् । दिशः प्रति वानराणां प्रस्थापनम् । पृथिव्याश्च निवेदनम् पृथिव्याः द्वीपसमुद्रादिसन्निवेशकथनम् ॥ १।३।२५ ॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।
प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम् ॥ १।३।२६ ॥
अङ्गुलीयकेति । अङ्गुलीयकदानम्, हनुमत इति शेषः । ऋक्षस्य बिलं स्वयम्प्रभाबिलम्, तस्य तथा सञ्ज्ञा । प्रायोपवेशनं प्रायाय मरणाय उपवेशनं शयनम् । सम्पातेर्जटाय्वग्रजस्य ॥ १।३।२६ ॥
पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ १।३।२७ ॥
पर्वतेति । पर्वतारोहणं समुद्रलङ्घनाय महेन्द्रपर्वतारोहणम् । समुद्रवचनाच्चेति चकारेण देवानुज्ञा समुच्चीयते । मैनाकस्य हिमवत्पुत्रस्य गिरेः ॥ १।३।२७ ॥
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ।
रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ॥ १।३।२८ ॥
सिंहिकाया इति । सिंहिकाया असुरस्त्रियः । लङ्कामलयस्य लङ्काधारपर्वतैकदेशस्य । “मलयः पर्वतान्तरे । पर्वतांशे प्रियोद्याने” इति रत्नमाला । एकस्य हनुमतः ॥ १।३।२८ ॥
आपानभूमिगमनमवरोधस्य दर्शनम् ।
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ॥ १।३।२९ ॥
आपानेति । आपानभूमिः मद्यपानभूमिः । अवरोधस्यान्तःपुरस्य ॥ १।३।२९ ॥
अशोकवनिकायानं सीतायाश्चैव दर्शनम् ।
अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ॥ १।३।३० ॥
अशोकेति । अशोकवनिकायानं हनुमतो अशोकवनिकागमनम् । अभिज्ञानप्रदानं सीतायै अङ्गुलीयकदानम् ॥ १।३।३० ॥
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ॥ १।३।३१ ॥
राक्षसीति । राक्षसीनां तर्जनम् । सीतां प्रतीति शेषः । त्रिजटा विभीषणपुत्री, तस्याः स्वप्नदर्शनं रामश्रेयोविषयस्वप्नदर्शनम् । मणिप्रदानं हनुमते चूडामणिप्रदानम् । वृक्षभङ्गम् अशोकवनिकावृक्षभङ्गम् ॥ १।३।३१ ॥
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ॥ १।३।३२ ॥
राक्षसीविद्रवम् एकाक्ष्येककर्णीप्रभृतिराक्षसीनां पलायनम्, हनुमद्भयादिति शेषः । किङ्कराणां रावणभटानाम् । वायुसूनोर्हनुमतः । ग्रहणम्, इन्द्रजितेति शेषः । लङ्कादाहेनाभिगर्जनम्, राक्षसानामित्यर्थः ॥ १।३।३२ ॥
प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।
राघवाश्वासनं चैव मणिनिर्यातनं तथा ॥ १।३।३३ ॥
प्रतिप्लवनं पुनः समुद्रलङ्घनम् । मधूनां मधुवनस्थमधूनां ग्रहणम्, वानरैरिति शेषः । मणिनिर्यातनं रामाय चूडामणिप्रदानम् ॥ १।३।३३ ॥
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ॥ १।३।३४ ॥
सङ्गमं चेति । नलसेतोः नलेन बन्धनीयसेतोः प्रतारं प्रतरणम् ॥ १।३।३४ ॥
विभीषणेन संसर्गं वधोपायनिवेदनम् ।
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ॥ १।३।३५ ॥
विभीषणेनेति । वधोपायनिवेदनम् इन्द्रजिदादिवधोपायदर्शनम् ॥ १।३।३५ ॥
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ॥ १।३।३६ ॥
अरेः पुर इति शौर्यातिशयोक्तिः, उत्तरत्र चान्वयः ॥ १।३।३६ ॥
अयोध्यायाश्च गमनं भरतेन समागमम् ।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ १।३।३७ ॥
अयोध्यायाश्चेति । रामाभिषेकाभ्युदयं रामाभिषेकमहोत्सवम् । स्वराष्ट्रेत्यर्द्धमधिकम् । वैदेह्याश्च विसर्जनमित्यन्तं चकार भगवान् ऋषिः इति पूर्वेण सम्बन्धनीयम् ॥ १।३।३७ ॥
अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ १।३।३८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥ ३ ॥
सीताभूप्रवेशप्रभृत्युत्तरकाण्डकथामाह अनागतं चेति । वाल्मीकिनामा भगवान् ऋषिः रामस्य वसुधातले अनागतं भावि यत्किञ्चिच्चरितमस्ति ब्राह्मणपुत्रजीवनाश्वमेधादिकं तदुत्तरे काव्ये उत्तरकाण्डे चकार प्रतिपादितवान् । यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालस्य भूयस्त्वमनन्तरकालस्याल्पत्वं च द्योत्यत इत्याहुः । एतदुत्तरकाण्डे विचारयिष्यते ॥ १।३।३८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥