००२ ब्रह्मागमनम्

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।

पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ १।२।१ ॥

श्रीमच्छठारिगुरुणा गुरुणोपदिष्टं रामायणस्य हृदयं सरसं गृहीत्वा । श्रीकौशिकान्वयकुलेन्दुरशेषबन्धुर्गोविन्दराजविबुधो विशदीकरोति ॥ १ ॥

अथ परमकारुणिको वाल्मीकिः “इष्टं हि विदुषां लोके समासव्यासधारणम्” इत्युक्तरीत्या सङ्क्षेपेणोक्तं रामचरित्रं पुनर्विस्तरेण प्रतिपिपादयिषुस्तत्र प्रेक्षावत्प्रवृत्त्यर्थं वक्तृवैलक्षण्यं प्रबन्धवैलक्षण्यं प्रतिपाद्यवैलक्षण्यं चेति वैलक्षण्यत्रयं निदिदर्शयिषुर्वक्तृवैलक्षण्यं तावदादौ दर्शयति नारदस्येत्यादिना

द्वितीयसर्गेण । वक्तृवैलक्षण्यं तु परमाप्तत्वम् । आप्तत्वं च यथार्थदर्शित्वे सति यथार्थवादित्वम्, तस्य परमत्वं तु पितामहवरप्रसादलब्धत्वम्, तदेतदुपदर्शयितुमुपोद्घातत्वेनाह नारदस्येत्यादि । तुशब्दो वैलक्षण्यपरः । “तु स्याद्भेदे ऽवधारणे” इत्यमरः । स च काकाक्षिन्यायेनोभयत्रान्वेति । त्रिलोकज्ञतया इतरविलक्षणस्य नारदस्य शब्दतो ऽर्थतश्चेतरवाक्यविलक्षणोत्कर्षम्, तत् पूर्वं सङ्क्षेपरूपेणोक्तम् । वाक्यं सम्पूर्णार्थप्रतिपादकपदसमूहं प्रश्नानुरूपोत्तरं श्रुत्वा निशम्य, वाक्ये विशारदो विद्वान् “विद्वत्सुप्रगल्भौ विशारदौ” इत्यमरः । वाक्यविशेषज्ञ इत्यर्थः । धर्मे आत्मा बुद्धिर्यस्यासौ धर्मात्मा धर्मस्वभावो वा । अत्र प्रकरणात् गुर्वनुवर्तनधर्मज्ञ इत्यर्थः । महामुनिः वेदान्तार्थनिर्णयसम्पत्त्या सर्वोत्कृष्टमुनिर्वाल्मीकिः सहशिष्यः शिष्यसहितः सन् । “वोपसर्जनस्य” इति पक्षे सहशब्दस्य सभावाभावः । पूजयामास अहो वाक्यवैखरीति तद्वाक्यं श्लाघयामासेति वाक्यविशारदत्वोक्तिभङ्ग्यावगम्यते । महामुनिमिति पाठे वाल्मीकिपदाध्याहारः । तमिति प्रयोक्तव्ये अन्यत्वप्रतीतिकरमहामुनिपदप्रयोगास्वारस्यम् ॥ १।२।१ ॥

यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।

आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ १।२।२ ॥

यथावदिति । देवश्चासौ ऋषिश्चदेवर्षिर्नारदः । “नारदाद्याः सुरर्षयः” इत्युक्तेः । तेन वाल्मीकिना यथावत् यथार्हम् पूजितः प्रदक्षिणनमस्कारादिभिरर्चितः सन् । तदा पूजावसाने आपृष्ट्वा आपृच्छ्य । “क्त्वापि छन्दसि” इति ल्यबभावः । अभ्यनुज्ञातः गच्छ त्वमिति वाल्मीकिना कृताभ्यनुज्ञानः विहायसमाकाशं जगाम ॥ १।२।२ ॥

स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।

जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ १।२।३ ॥

स इति । तस्मिन्नारदे मुहूर्तम् अल्पकालम् “मुहूर्तमल्पकाले स्यात्” इति निघण्टुः । अत्यन्तसंयोगे द्वितीया । देवलोकं ब्रह्मलोकं गते वाल्मीके रामभक्तिं ब्रह्मणे कथयितुं प्राप्ते सति, स मुनिर्वाल्मीकिः, तदा नारदगमनोत्तरकाले जाह्नव्या गङ्गाया अविदूरतः समीपे । सप्तम्यर्थे तसिः । स्थितमिति शेषः । तु गङ्गातो ऽपि विलक्षणं तमसातीरम्, जगाम माध्याह्निकाभिषेकाय प्राप्तः ॥ १।२।३ ॥

स तु तीरं समासाद्य तमसाया मुनिस्तदा ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ १।२।४ ॥

स त्विति । स मुनिस्तमसाया विलक्षणं तीरमासाद्य, तदा आसादनकाले । अकर्दममपङ्कम् । तीर्थं जलावतरणम् । “तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्बुनि पावने । पात्रोपायावतारेषु” इति वैजयन्ती । दृष्ट्वा पार्श्वे स्थितं शिष्यमाह ॥ १।२।४ ॥

अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ १।२।५ ॥

अकर्दममिति । भरद्वाज इति वाल्मीकेः प्रधानशिष्यस्य नाम । हे भरद्वाज अकर्दममपङ्कम्, अधः प्रदेशे पङ्करहितमित्यर्थः । अन्यत्र पापरहितम् । प्रसन्नाम्बु प्रसन्नसलिलं लोके किञ्चिदधः पङ्करहितत्वे ऽपि जलं कलुषमेव भवति किञ्चिन्निर्मलोदकत्वे ऽप्यधः सपङ्कमेव दृश्यते, न तथेदमिति

भावः । अन्यत्राम्बुवत्प्रसन्नम् । अत एव रमणीयम्, सन्मनुष्यमनो यथा सत्पुरुषहृदयसदृशमिदं तीर्थं निशामय पश्य । “शमो दर्शने” इति मित्वाभावाद्दर्शनार्थो ऽयं शब्दः । सन्मनुष्यमनोवत्प्रसन्नाम्ब्िवति वा योजना ॥ १।२।५ ॥

न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ १।२।६ ॥

न्यस्यतामिति । हे तात वत्स कलशः उदपात्रं न्यस्यतां भूमौ स्थाप्यताम्, मम वल्कलं स्नानशाट्यर्था वृक्षत्वक् दीयताम् । किमर्थमित्यत्राह इदमेवेति । उत्तमम् अकर्दमत्वादिगुणयोगेन जाह्नवीतीर्थात् श्रेष्ठमिदमेव तमसातीर्थमवगाहिष्ये अत्रैव स्नास्यामि, माध्याह्निककालातिक्रमादगत्वा, जाह्नवीमिति शेषः । त्वमप्यत्रैव स्नाहीत्यर्थः ॥ १।२।६ ॥

एवमुक्ते भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ १।२।७ ॥

एवमिति । महात्मना महामनसा वाल्मीकेन वाल्मीकिना । “तस्येदम्” इति सम्बन्धमात्रे ऽण् । सम्बन्धश्चात्र पुत्रत्वम् । एवं पूर्वोक्तरीत्या उक्तः गुरोर्नियतः परतन्त्रः भरद्वाजः मुनेस्तस्य वाल्मीकेः वल्कलं प्रायच्छत प्रादात् । दाणः यच्छादेशः । छन्दसि बहुलग्रहणादात्मनेपदम् । सम्बन्धसामान्ये षष्ठी । तस्मा इत्यर्थः ॥ १।२।७ ॥

स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।

विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ १।२।८ ॥

स इति । नियतेन्द्रियः निगृहीतेन्द्रियो ऽपि स वाल्मीकिः शिष्यहस्ताद्वल्कलमादाय । विपुलं विशालम् । वनं सर्वतः पश्यन् सन् विचचार । हेति विस्मये, निगृहीतेन्द्रियस्य विपुल वनावलोकनं दैवकृतत्वाद्विस्मयनीयमित्यर्थः ॥ १।२।८ ॥

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ १।२।९ ॥

तस्येति । भगवान् माहात्म्यवान् “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । शापानुग्रहसमर्थ इत्यर्थः । वाल्मीकिः तत्र वने, तस्य तीर्थस्याभ्याशे समीपे, चरन्तं वर्तमानम् अनपायिनम् अविनाभूतम् । क्षणविरहासहिष्णुक्रौञ्चमिथुनमिति प्रसिद्धम् । चारुनिःस्वनमिति रतिकालिकस्वरोक्त्या रतिर्द्योत्यते । क्रौञ्चयोर्मिथुनं द्वन्द्वम् । पुँल्लिङ्गत्वमार्षम् । ददर्श ॥ १।२।९ ॥

तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।

जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १।२।१० ॥

तस्मात्त्विति । पापनिश्चयः रतिसमये ऽपि हननकरणात् क्रूरनिश्चयः । वैरनिलयः सर्वजन्तुविषयसहजशात्रवयुक्तः निषादः तस्मान्मिथुनात्तन्मिथुनमासाद्य । ल्यब्लोपे पञ्चमी । पुमांसमेकमवयवं तस्य पश्यतः तं पश्यन्तं मुनिमनादृत्य । “षष्ठी चानादरे” इत्यनादरे षष्ठी । जघान हतवान् ॥ १।२।१० ॥

तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ १।२।११ ॥

तमिति । भार्या क्रौञ्ची निहतं व्याधहतम् अत एव महीतले भूतले वेष्टमानं घूर्णमानम् । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं तं क्रौञ्चं दृष्ट्वा करुणां श्रोतुः कारुण्यावहां गिरं रुराव करुणशब्दमकरोत् । ऽओदनपाकं पचतिऽ इतिवत् । अरोदीत् ॥ १।२।११ ॥

वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ॥ १।२।१२ ॥

वियुक्तेति । पतिना पत्या । नाभाव आर्षः । सहचारिणा सहचारशीलेन । ताच्छील्ये णिनिः । सहितेनेत्यनेन मनस्सङ्गतिरुच्यत इति न तेन पुनरुक्तिः । ताम्रशीर्षेण रक्तशिरसा । “उत्तमाङ्गं शिरः शीर्षम्” इत्यमरः । मत्तेन, रतिपरवशेनेत्यर्थः । पत्रिणा प्रशस्तपक्षेण तेन द्विजेन पक्षिणा । “दन्तविप्राण्डजा द्विजाः” इत्यमरः । भार्या वियुक्ता विरहिता सती करुणां गिरं रुरावेति पूर्वेणान्वयः । वै इति पादपूरणे । “तु हि च स्म ह वै पादपूरणे” इत्यमरः । अत्र विशेषणानि भार्यायाः शोकातिरेकहेतुत्वेन निर्दिष्टानि ॥ १।२।१२ ॥

तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १।२।१३ ॥

तथेति । तथा शोणितपरीताङ्गमित्याद्युक्तरीत्या निषादेन निपातितम्, हिंसितमित्यर्थः । तं द्विजं दृष्ट्वा स्थितस्य धर्मात्मनः धर्मस्वभावस्य ऋषेर्वाल्मीकेः । करुणैव कारुण्यम् । स्वार्थे ष्यञ् । दया समपद्यत आसीत् ॥ १।२।१३ ॥

ततः करुणवेदित्वादधर्मो ऽयमिति द्विजः ।

निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १।२।१४ ॥

तत इति । ततः क्रौञ्चीविषयकारुण्यसम्पत्त्यनन्तरं द्विजः सहजकारुण्यस्वभावो मुनिः । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । करुणवेदित्वात् कारुण्यभाक्त्वात् । “विद्लृ लाभे” इत्यस्मात् णिनिः । अयं रति काले हिंसनमधर्म इति मत्वा इदं वक्ष्यमाणं वचनमब्रवीत् ॥ १।२।१४ ॥

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १।२।१५ ॥

तदेव वचनमाह मा निषादेति । हे निषाद त्वं शश्वदेव शाश्वत्यः । स्वार्थे अण्, ततो ङीप् । ताः अनारता इत्यर्थः । समाः संवत्सरान् । “संवत्सरो वत्सरो ऽब्दो हायनो ऽस्त्री शरत्समाः” इत्यमरः । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठां क्वचित्स्थानं “प्रतिष्ठा स्थितिमाहात्म्य " इति वैजयन्ती । मा गमः मा प्राप्नुहि । “आशंसायां भूतवच्च” इति लुङतिदेशात् लुङ्, लृदित्वादङ् । नायं माङ्, अपि तु माशब्द इति काशिकाकारः, तेनाडागमे ऽपि न विरोधः । दुर्घटवृत्तिकारस्तु अमेति पदच्छेदः । हे अम हे अलक्ष्मीक इति निषादविशेषणम् । ततो “न माङ्योगे” इत्यडभाव इत्याह । एवं पूर्वार्द्धेन शाप उक्तः, तत्र हेतुरुत्तरार्द्धेनोच्यते यद्यस्मात्कारणात् क्रौञ्चमिथुनात् क्रौञ्चमिथुनमासाद्य । ल्यब्लोपे पञ्चमी ।

एकं काममोहितं कामेन मोहं प्रापितम्, रतिक्रीडाविवशमित्यर्थः । एकमवयवमवधीः हिंसितवानसि तस्मात्तद्वदेव प्रतिष्ठां मा गम इति योजना । चतुर्मुख प्रसादेन वाल्मीकिमुखात् प्रथमोदितो ऽयं श्लोकः केवलं शापपरो न भवितुमर्हतीति भगवन्मङ्गलाशासनपरतया मङ्गलाचरणपरो ऽयं प्राथमिकश्लोक इति पूर्वाचार्या वर्णयन्ति । तथाहि निषीदन्त्यस्मिन्निति निषादो निवासः । अधिकरणे घञ् । मा लक्ष्मीः, तस्या निषादो मानिषादः श्रीनिवासः, तत्र सम्बुद्धिः हे श्रीनिवास त्वं शाश्वतीः समाः सर्वकालं प्रतिष्ठां माहात्म्यमगमः गच्छ । लकारव्यत्ययः । यद्यस्मात् क्रौञ्चमिथुनात् राक्षसमिथुनाद्रावणमन्दोन्दरीरूपात् कामेन मन्मथेन मोहितं सीतापहर्तारमेकं रावणमवधीः, रावणं हत्वा कृतत्रैलोक्यत्राणस्त्वं यावत्कालं विजयीभवेत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । एवमनेन श्लोकेनेष्टदेवतास्मरणरूपं मङ्गलमाचरितम् । “काव्यार्थसूचनं कैश्चिन्नान्द्यामेव निरूप्यते” इति वचनादस्मिन्नेव श्लोके वक्ष्यमाणकाव्यार्थः सङ्क्षेपेण दर्शितः । तथाहि “मानिषाद” इत्यनेन सीतापरिणयपर्यवसायिनी बालकाण्डकथोद्बोधिता । “प्रतिष्ठां त्वमगमः” इत्यनेन पितृवचनपरिपालनप्रतिष्ठाभिधायिन्ययोध्याकाण्डकथावेदिता । “शाश्वतीः समाः” इत्यनेन ऋषिगणविषयप्रतिज्ञानिर्वहणेन रामस्य प्रतिष्ठानुवृत्तिमभिदधत्यारण्यकाण्डकथा सूचिता । “क्रुञ्च गतिकौटिल्याल्पीभावयोः” इत्यस्माद्धातोः “ऋत्विक् " इत्यादिना क्विन्निपातनात् नलोपः संयोगान्तलोपश्च न भवति । क्रुञ्चेव क्रौञ्चः । स्वार्थे अण् । तथा च क्रौञ्चयोः कुटिलयोस्तिरश्चोस्तारावालिनोर्मिथुनादेकं काममोहितं सुग्रीवभार्यापहर्तारं वालिनमवधीरिति किष्किन्धाकाण्डकथाभिहिता । क्रौञ्चौ अल्पीभूतौ, कृशाविति यावत् । तयोरन्योन्यविरहक्लेशक्रशीयसोः सीतारामयोरेकमवयवं सीतारूपमवधीः भृशं पीडितवानसीति सीताविरहदुःखातिशयवर्णनपरा सुन्दरकाण्डकथा बोधिता । क्रौञ्चौ कुटिलौ राक्षसौ, तन्मिथुनादेकं काममोहितं रावणमवधीरिति युद्धकाण्डकथा सूचिता । दण्डकारण्यवासिऋषिपत्नीदर्शनाभिलाषमोहितसीतापीडाभिधानेनोत्तरकाण्डार्थो ऽपि सङ्क्षिप्तः । ननु मृगपक्ष्यादि वधस्य व्याधकुलधर्मत्वात् कथमनपराधिनमेनं मुनिः शप्तुमर्हति ? वक्ष्यति राम एव वालिवधप्रस्तावे “प्रमत्तानप्रमत्तान् वा नरा मांसार्थिनो भृशम् । वध्यन्ति विमुखांश्चापि न च दोषो ऽत्र विद्यते ॥ " इति। सत्यम् तथापि रतिपरवशतादशायां तद्वधो दोष एवेति मुनेराशयः। सूचयति हि रतिपरवशतां काममोहितमिति पदेन। अत एव भारते पाण्डुं प्रति मुनिः “अस्वर्ग्यमयशस्यं त्वमनुतिष्ठसि भारत। को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ " इति । नन्विदं मलयं गच्छतो मन्दरपथोपवर्णनम्, यदयमात्मनो वैलक्षण्यं परमाप्तत्वं वक्तुमारभ्य स्वचरित्रवर्णनं करोति, ब्रह्मागमनवरप्रदानादेरेव तदर्थं वक्तव्यत्वात् । उच्यते श्रूयतामवधानेन । “अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्” इति दर्शितरीत्या काव्यार्थसूचनमियता ग्रन्थसन्दर्भेण क्रियते । तथाहि “अकर्दमम्” इत्यादिना पावनं समुद्रसेतुस्थलमुच्यते । “तस्याभ्याशे” इत्यादिना तत्तीरे मन्दोदर्या सह चरन्तं भोगान् भुञ्जानम् अनपायिनं चतुर्मुखवरप्रदानेन लब्धचिरायुष्कं चारुनिस्वनं रम्यवीणादिविनोदं क्रौञ्चयो राक्षसयोर्मिथुनं ददर्श धर्मबलेनालोकितवान् । “तस्मात्” इत्यादिना पापनिश्चयो निश्चितरावणपापः, वैरनिलयः हिरण्यकशिपुरावणशिशुपालरूपजन्मत्रयानुसारित्वात्सहजशात्रवः निषीदन्त्यत्र सर्वाणि जगन्तीति निषादो विष्णुः । पुमांसं रावणं जघानेत्युच्यते । “भार्या तु” इत्यादिना मन्दोदरीप्रलापः । द्विजेन पुलस्त्यवंशत्वात् ब्राह्मणेन, ताम्रशीर्षेण रत्नमुकुटधारित्वात्, पत्रिणा वाहनपरिच्छदादिमता, सहितेन कुम्भकर्णेन्द्रजिदादिसहायसम्पन्नेन । कारुण्यं जुगुप्सा । “जुगुप्सा करुणा घृणा” इत्यमरः । अधर्मो ऽयमिति रावणकृतो ऽयमधर्म इति एतत्सर्वं रावणवधवृत्तान्तमवलोक्य

पौलस्त्यवधाभिधानं तद्विषयप्रबन्धं निरमिमीतेति मानिषादेत्यस्य रामायणार्थसङ्ग्रहपरत्वं चोक्तम् । अथवा अकर्दममित्यादिना गोदावरीतीर्थमुच्यते । तत्तीरे पञ्चवट्यां रामस्य सीतया सह वर्तनं तयोरेकस्याः सीताया रावणेन दुरात्मना हिंसनं पीडनमित्येतत्सर्वं साक्षात्कृत्य विधिचोदितो मुनिः सीतायाश्चरितमिति तद्विषयं प्रबन्धमकरोदित्यर्थः । तस्मिन् पक्षे अनपायिनमाद्यन्तशून्यम् । चारुनिःस्वनं सर्ववेदान्तप्रवर्तकम् । क्रौञ्चयोः कृशयोः तपस्विनोः सीतारामयोः । पापनिश्चयो वैरनिलयो निषादो लोकहिंसको रावणः सीतामपजहार सा च रुरोद । द्विजने क्षत्रियेण ताम्रशीर्षेण रत्नमुकुटारुणेन पत्रिणा शरेणोपलक्षितेन सहितेन लोकहितपरेण । अन्यत्सर्वं समानम् । मानिषादेत्याद्यर्थः शापार्थेन दर्शितः ॥ १।२।१५ ॥

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १।२।१६ ॥

तस्येति । वीक्षतः तन्मिथुनं वीक्षमाणस्य । “सञ्ज्ञापूर्वको विधिरनित्यः” इति वा चक्षिङो ऽनुदात्तस्य ङित्करणज्ञापितानित्यत्वेन वा परस्मैपदम् । एवं मानिषादेत्येवं ब्रुवतः, क्रौञ्चीं दृष्ट्वा मानिषादेत्येवं वदत इत्यर्थः । तस्य वाल्मीकेर्हृदि अस्य शकुनेरेतत्पक्षिनिमित्तं शोकार्तेन मया व्याहृतमिदं वाक्यं किं किंरूपमिति चिन्ता बभूव ॥ १।२।१६ ॥

चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।

शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ १।२।१७ ॥

चिन्तयन्निति । प्रकर्षेण जानातीति प्रज्ञः ऊहापोहसमर्थः । प्रज्ञ एव प्राज्ञः । “प्रज्ञादिभ्यश्च” इति स्वार्थे ऽण् । यद्वा प्रज्ञा धीः । “धीः प्रज्ञा शेमुषी मतिः” इत्यमरः । सास्यास्तीति प्राज्ञः । “प्रज्ञाश्रद्धार्चाभ्यो णः” इति मत्वर्थीयो णः । महांश्चासौ प्राज्ञश्चेति महाप्राज्ञः । मतिमान् शास्त्रज्ञानवान् । स वाल्मीकिः मतिमुत्तरश्लोके वक्ष्यमाणं निश्चयं चकार । स मुनिपुङ्गवः शिष्यमिदं वाक्यमब्रवीच्च । “ब्रूशासु” इत्यादिना द्विकर्मकत्वम् । अयोगव्यवच्छेदक एवकारः ॥ १।२।१७ ॥

पादबद्धो ऽक्षरसमस्तन्त्रीलयसमन्वितः ।

शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १।२।१८ ॥

पादेति । शोकार्तस्य क्रौञ्चीशोकेनार्तस्य मे प्रवृत्तो मत्तः प्रवृत्तो ऽयं सन्दर्भ इत्यर्थः । पादबद्धश्चतुर्भिः पादैर्युक्तः । अक्षरसमः प्रतिपादं समाक्षरः । तन्त्री वीणागुणः, लयः तौर्यत्रिकस्यैककालविरामः । “नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः” इति रत्नमाला । ताभ्यां समन्वितः, तन्त्र्यामारोप्य वाद्यैः सह गातुं शक्य इत्यर्थः । श्लोको भवतु श्लोकलक्षणलक्षितत्वात् श्लोकशब्दवाच्यो भवतु । नान्यथा श्लोकादन्यः केवलपदसन्दर्भो न भवति इति मतिं चकारेति पूर्वेणान्वयः ॥ १।२।१८ ॥

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह संहृष्टस्तस्य तुष्टो ऽभवद्गुरुः ॥ १।२।१९ ॥

शिष्यस्त्विति । शिष्यः भरद्वाजः तस्य मुनेर्ब्रुवतः तस्मिन्मुनौ ब्रुवति सति । “यस्य च भावेन भावलक्षणम्” इत्यस्मिन्नर्थे षष्ठी । अनुत्तमं सर्वरामायणार्थसङ्ग्रहरूपत्वेन स्वापेक्षयोत्तमान्तररहितम् ।

वाक्यं मानिषादेत्यादिकं संहृष्टः सन् प्रतिजग्राह, वाग्विधेयं चकारेत्यर्थः । गुरुर्वाल्मीकिस्तस्य तुष्टो ऽभवत्, स्वश्लोकधारणात्तस्मिन् प्रीतो ऽभवदित्यर्थः ॥ १।२।१९ ॥

सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ १।२।२० ॥

स इति । ततः शिष्यविषयसन्तोषानन्तरम् । स मुनिः तस्मिन् तीर्थे “अकर्दममिदं तीर्थम्” इत्यादिना वर्णिते तीर्थे । यथाविधि विधिमनतिक्रम्याभिषेकं माध्याह्निकस्नानं कृत्वा तमेवार्थमवशात् श्लोकोत्पत्तिरूपमेवार्थं चिन्तयन्सन्नुपावर्तत आश्रममागच्छत् । अभिषेकविधिस्तु व्यासस्मृतौ विशेषतो दर्शितः “ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं गन्धमेव च । नदीषु देवखातेषु तटाकेषु सरस्सु च । स्नानं समाचरेन्नित्यं नदी प्रस्रवणेषु च । मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि । अधश्चतसृभिः क्षाल्यं पादौ षड्भिस्तथैव च । मृत्तिका च समादिष्टा त्वार्द्रामलकमात्रतः । गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत्ततः । लेपयेदथ तीरस्थस्तल्लिङ्गेनैव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः । अभिमन्त्र्य जलं मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः । आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः । प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये । अथोपतिष्ठेदादित्यमूर्ध्वं पुष्पं जलान्वितम् । प्रक्षिप्यालोकयेद्देवमृग्यजुःसामरूपिणम् ॥ " इत्यादि ॥ १।२।२० ॥

भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् मुनेः ।

कलशं पूर्णमादाय पृष्ठतो ऽनुजगाम ह ॥ १।२।२१ ॥

भरद्वाज इति । ततः मुनेः उपावर्तनानन्तरं विनीतः विनयसम्पन्नः श्रुतवान् शास्त्रवान् अवधृतवान् वा । “श्रुतं शास्त्रावधृतयोः” इत्यमरः । धृतगुरुश्लोक इत्यर्थः । मुनिर्मननवान् भरद्वाजः भरद्वाजाख्यः शिष्यः पूर्णं जलपूर्णं कलशमादाय पृष्ठतः पश्चादनुजगाम, अनुगमनोक्तौ पृष्ठत इत्युक्तिरव्यवधानसूचनार्था ॥ १।२।२१ ॥

स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ १।२।२२ ॥

स इति । स वाल्मीकिः शिष्येण सहाश्रमपदमाश्रमस्थानं प्रविश्य धर्मवित् कृतदेवपूजादिधर्मः उपविष्टः कृतसुखासनः सन्, ध्यानम् अवशोत्पन्नश्लोकविषयचिन्तामास्थितः प्राप्त एव सन् अन्याः कथाः पुराणपारायणानि चकार ॥ १।२।२२ ॥

आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ १।२।२३ ॥

आजगामेति । लोककर्ता लोकस्रष्टा प्रभुः स्वामी चतुर्मुखः वेदचतुष्टयोच्चारणोपयोगिमुखचतुष्कः महातेजाः महाप्रभावो ब्रह्मा, मुनिपुङ्गवं नारदोक्तवैभवं वाल्मीकिं द्रष्टुं कुतूहलात्स्वयमाजगाम । स्वस्थानस्थित एव रामायणप्रवर्तनसमर्थो ऽप्यादरातिशयेन स्वयमेवाजगामेत्यर्थः ॥ १।२।२३ ॥

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।

प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ १।२।२४ ॥

वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरं तं ब्रह्माणं दृष्ट्वा सहसा उत्थाय “ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ " इति वचनात् स्वप्राणा उत्क्रामेयुरिति सहसोत्थायेत्यर्थः। परमविस्मितः सन्। वाग्यतः यतवाक्। आहिताग्न्यादित्वात् परनिपातः। प्रयतः नियतमनस्कः। प्रकृष्टः अञ्जलिर्यस्यासौ प्राञ्जलिः स च भूत्वा तस्थौ स्थितवान् ॥ १।२।२४ ॥

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।

प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥ १।२।२५ ॥

पूजयामासेति । मुनिः तं देवं ब्रह्माणं, पाद्यार्घ्यासनवन्दनैः पाद्यं पादोदकप्रदानम्, अर्घ्यं अर्घजलसमर्पणम्, वन्दनं स्तुतिः एतैरुपचारैः पूजयामास । एनं ब्रह्माणम् । अन्वादेशे इदम एनादेशः । विधिवत् शास्त्रोक्तरीत्या प्रणम्य अव्ययम् अविच्छिन्नम्, अनामयं कुशलं पृष्ट्वा च पूजयामासेति योजना । प्रणामशास्त्रं तु “मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् । प्रदक्षिणसमेतेन ह्येवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः ॥ " इति। यद्वा तमेनं देवं विधिवत्प्रणम्यानामयं पृष्ट्वा च पाद्यार्घ्यासनवन्दनैः पूजयामास। “वदि अभिवादनस्तुत्योः” इति धातुः ॥ १।२।२५ ॥

अथोपविश्य भगवानासने परमार्चिते ।

वाल्मीकये महर्षये सन्दिदेशासनं ततः ।

ब्रह्मणा समनुज्ञातः सो ऽप्युपाविशदासने ॥ १।२।२६ ॥

अथेति सार्धश्लोक एकः । अथ पूजानन्तरम् । भगवान् ब्रह्मा परमार्चिते परमं यथा भवति तथा वाल्मीकिनार्चिते ब्रह्मोपवेशार्थं पूजिते, आसने विष्टरे उपविश्य स्थित्वा । महर्षये वाल्मीकये । आसनम् उपवेशनं सन्दिदेश आज्ञापयामास । सो ऽपि ब्रह्मणा समनुज्ञातः सन्, आसने उचितनीचासने उपाविशत् । आसनानुज्ञानं लोकहितार्थमनेन काव्यं कारयितुम् । “वाल्मीकये महर्षये” इत्यत्रायुजि पादे पथ्यावक्त्रस्य गणनियमाभावात्तथोक्तम् । नन्वर्धत्रयकरणम् “ईदृशैः करवाण्यहम्” इत्यनेन विरुध्यते । मैवम् लेखकदोषेणार्धान्तरपतनसम्भवात् ॥ १।२।२६ ॥

उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ॥ १।२।२७ ॥

उपविष्ट इति । लोकपितामहे तस्मिन् साक्षात्प्रत्यक्षतया उपविष्टे ऽपि तदा तद्गतेन क्रौञ्चहननगतेन मनसा ध्यानमास्थितः तद्विषयचिन्तामकरोत् ॥ १।२।२७ ॥

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥ १।२।२८ ॥

पापात्मनेति । वैरग्रहणबुद्धिना वैरेण क्रौञ्चग्रहणबुद्धिना पापात्मना पापस्वरूपेण व्याधेन कष्टं कुत्सितं कर्म कृतम् । कथमित्यत्राह य इति । यो व्याधः तादृशं रतिलालसमित्यग्राह्यत्वोक्तिः ।

चारुरवं रम्यरतिकूजितं क्रौञ्चम् अकारणात् निष्कारणम् “निमित्तकारणहेतूनां प्रयोगे सर्वासां प्रायदर्शनम्” इत्युक्तेः पञ्चमी । हन्यात् हन्तुं शक्नुयात् । शकि लिङ् ॥ १।२।२८ ॥

शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ।

जगावन्तर्गतमना भूत्वा शोकपरायणः ॥ १।२।२९ ॥

शोचन्निति । शोकपरायणः क्रौञ्चवधदर्शनेन दुःखपरवशः पुनः क्रौञ्चीं गतमना भूत्वा, क्रौञ्चीं विचिन्त्येत्यर्थः । मुहुः शोचन्नेव वाल्मीकिः इमं मानिषादेत्यादिश्लोकम् अन्तः मनसि उपजगावित्यन्वयः । “व्यवहिताश्च” इत्युपसर्गस्य व्यवहितप्रयोगः ॥ १।२।२९ ॥

तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ।

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ १।२।३० ॥

तमिति । ततः मनसि श्लोकपाठश्रवणानन्तरम्, मुनिपुङ्गवं प्रहसन् मन्नियोगेन स्वजिह्वाग्रे ऽवतीर्णं सरस्वतीमयं न जानातीति प्रहसन्नुवाच । मानिषादेत्यस्य श्लोकत्वनिश्चयं द्रढयति श्लोक इति । त्वया बद्धो मानिषादेत्यादिः श्लोक एव । अत्र श्लोकविषये विचारणा चिन्ता न कार्या ॥ १।२।३० ॥

मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ १।२।३१ ॥

अकारणकार्योत्पत्तिकृतविस्मयं वारयति मदिति । हे ब्रह्मन् ते इयं सरस्वती मानिषादेत्यादिरूपा मच्छन्दादेव मदभिप्रायादेव, न तु कारणान्तरात् प्रवृत्ता । प्रवर्तनप्रयोजनमाह रामस्येति । हे ऋषिसत्तम “नानृषिः कुरुते काव्यम्” इत्युक्तरीत्या प्रतिलब्धकाव्यनिर्माणशक्तिक सर्वं रामस्य चरितं रामचरितविषयप्रबन्धं कुरु । ईदृशैः श्लोकैरिति शेषः । ईदृशैः करवाण्यहमित्यनुवादात् ॥ १।२।३१ ॥

धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ १।२।३२ ॥

एवं सामान्येन रामचरितविषयप्रबन्धनिर्माणमनुज्ञाय सङ्क्षेपकरणमादिशति धर्मात्मन इति । अत्र विशेषणैः प्रबन्धनायकस्य रामस्य नायकगुणाः दर्शिताः । नायकगुणवर्णनेन हि काव्यं प्रथते । उक्तं हि भोजेन “कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ॥ " इति। नायकगुणास्तु “महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता। तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ॥ " इत्युक्ताः । तत्र धर्मात्मन इत्यनेन धार्मिकत्वमुक्तम् । लोके लोकमध्ये गुणवतः बहुगुणकस्य, अनेन उदारतोक्ता । रामस्येत्यनेन तेजस्वित्वमौज्ज्वल्यं च । धीमत इत्यनेन पण्डितत्वम्, धीरस्येत्यनेन वसुन्धराधुरन्धरत्वरूपं महाभाग्यम् । अन्यद्गुणशब्देन ज्ञेयम् । एवम्भूतस्य रामस्य वृत्तं चरित्रं “वृत्तं पद्ये चरित्रे च” इत्यमरः । यथा येन प्रकारेण नारदात्ते त्वया श्रुतं तेन प्रकारेण कथय, सङ्क्षेपेण कथयेत्यर्थः ॥ १।२।३२ ॥

रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥ १।२।३३ ॥

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ १।२।३४ ॥

पुनर्विस्तरेण रामचरित्रवर्णनं नियोक्ष्यमाणस्तद्विषयज्ञानलाभमनुगृह्णाति रहस्यमित्यादिना, श्लोकद्वयमेकवाक्यम् । धीमत इति रहस्यवृत्तसम्भवहेतुतयोक्तम् । सुमित्राया अपत्यं पुमान्सौमित्रिः । बाह्वादित्वादिञ् । सहसौमित्रेः सौमित्रिसहितस्य धीमतस्तस्य रामस्य रहस्यमनितरविदितं च, प्रकाशं सर्वविदितं च, यद्वृत्तं राक्षसानां रावणादीनां च, सर्वशः सर्वप्रकारं रहस्यप्रकाशरूपं यद्वृत्तं तत् वैदेह्याः सीतायाश्च । अपिशब्दाद्भरतादीनां च, प्रकाशं यदि वा रहो रहस्यं वा यद्वृत्तं तच्च सर्वमविदितमपि नारदमुखेनाज्ञातमपि ते विदितं भविष्यतीति योजना ॥ १।२।३३,३४ ॥

न ते वागनृता काव्ये काचिदत्र भविष्यति ।

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ १।२।३५ ॥

एवं यथार्थदर्शित्वमनुगृह्य यथार्थवादित्वमनुगृह्णाति न त इति । अत्र करिष्यमाणे काव्ये ते वाक्काचिदपि, किञ्चिदपि वाक्यमित्यर्थः । अनृता बाधितार्था न भविष्यति । यद्वा वाक् पदम्, कदाचिदपि अनृता दुष्टा न भविष्यति । तेन काव्यदोषत्वेनोक्तपदवाक्यतदर्थदोषशून्यत्वमुक्तम् । अतः रामकथां रामविषयप्रबन्धकल्पनां कुरु । काव्यनिर्माणप्रयोजनमाह पुण्यां पापहराम् । प्रयोजनान्तरमाह मनोरमां शब्दश्रवणसमनन्तरमेव विगलितवेद्यान्तरमानन्दं जनयन्तीमित्यर्थः । श्लोकबद्धामित्यनेन गद्यप्रबन्धेभ्यो हर्षचरितजातीयेभ्यो मिश्रप्रबन्धेभ्यो नाटकादिभ्यश्च व्यावृत्तिरुक्ता ॥ १।२।३५ ॥

यावत्स्थास्यन्ति गिरयः सरितश्च महीतले ।

तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ १।२।३६ ॥

यशो ऽपि काव्यनिर्माणप्रयोजनमित्याह यावदिति । गिरयः सरितश्च महीतले भूतले यावत् स्थास्यन्ति तावत् रामायणकथा रामायणरूपा कथा लोकेषु सप्तसु प्रचरिष्यति । यावत्त्वत्प्रबन्धप्रचारस्तावत्तव यशो भविष्यतीति हृदयम् ॥ १।२।३६ ॥

यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ।

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ १।२।३७ ॥

यशसः स्वतः पुरुषार्थत्वात्तत्फलमाह यावद्रामेति । किं च त्वत्कृता रामस्य कथा यावत्प्रचरिष्यति तावन्मल्लोकेषु मध्ये यावच्छरीरपातम् अधः भूमौ तदुपरि ऊर्ध्वं च निवत्स्यसि ॥ १।२।३७ ॥

इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ॥ १।२।३८ ॥

इत्युक्त्वेति । तत्रैव आसन एव ॥ १।२।३८ ॥

तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।

मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ १।२।३९ ॥

तस्येति । ततः मुनिविस्मयानन्तरम् । सर्वे तस्य वाल्मीकेः शिष्याः मुहुर्मुहुः प्रीयमाणाः सन्तः, इमं मानिषादेति श्लोकं पुनर्जगुः । भृशं विस्मिताः अत्यन्तं विस्मिताः सन्तः । ऽअव्ययमात्रस्य समासे तु लोपःऽ इति मलोपः । प्राहुश्च, अन्योन्यमिदमद्भुतमिति प्राहुश्चेत्यर्थः । आश्रम एव स्थिताभ्यां कुशलवाभ्यां भरद्वाजेन चात्र बहुवचनम् ॥ १।२।३९ ॥

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।

सो ऽनुव्याहरणाद्भूयः श्लोकः श्लोकत्वमागतः ॥ १।२।४० ॥

समेति । यः समाक्षरैरिति विषमवृत्तव्यावृत्तिः । चतुर्भिरित्यर्धसमवृत्तव्यावृत्तिः । पादैश्चतुर्थांशैः महर्षिणा, गीतः उक्तः स श्लोकः अनुव्याहरणात् शिष्यैः पुनः पुनर्व्यवह्रियमाणत्वात् भूयः श्लोकत्वमागतः इति । पूर्वं श्लोकलक्षणलक्षितत्वात् श्लोकत्वं गतः, सम्प्रति श्लोक्यमानत्वात्, पुनः श्लोकत्वं गत इत्यर्थः । शोकः श्लोकत्वमागतः इति पाठे शोककृतश्लोक एव शोक इत्युच्यत इति ज्ञेयम् । यः श्लोकः महर्षिणा समाक्षरैश्चतुर्भिः पादैर्बद्धः श्लोकः क्रौञ्चीविषयः तादृशश्लोकत्वमागतः, स शोक वेगादुत्पन्न इत्यर्थः । कथमवगम्यते ? अनुव्याहरणात् । अनु पश्चात् शोकानन्तरम् उच्चारणात्, शोके सति जातत्वादित्यर्थः ॥ १।२।४० ॥

तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ १।२।४१ ॥

अथ मुनेः कृतिप्रणयनविषयसङ्कल्पमाह तस्येति । भावितात्मनश्चिन्तितपरमात्मनः, अनेनारम्भकर्तव्यं विघ्नविघातकं मङ्गलं मुनिना आचरितमित्युक्तम् । तस्य वाल्मीकेः इयं बुद्धिर्जाता । इदंशब्दार्थमाह कृत्स्नमित्यादिना । सर्वं रामायणाख्यं काव्यमीदृशैर्मानिषादेतिश्लोकप्रकारैः श्लोकैः । करवाणि इति इयं बुद्धिरित्यन्वयः । ईदृशैरिति प्रायिकाभिप्रायमेतत्, वृत्तान्तराणामपि तत्र तत्र प्रयोगात् ॥ १।२।४१ ॥

उदारवृत्तार्थपदैर्मनोरमैस्ततः स रामस्य चकार कीर्तिमान् ।

समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ १।२।४२ ॥

अथ यथासङ्कल्पं काव्यरचनामाह उदारेति । कीर्तिरस्यास्तीति कीर्तिमान् । अनेन “काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ " इत्यालङ्कारिकोक्तकाव्यप्रयोजनेष्वस्य यश एव प्रधानं प्रयोजनमिति दर्शितम्। काव्यनिर्माणानन्तरं भाविनो यशसः पूर्वभावोक्त्यातिशयोक्तिरुक्ता। उदारा महती धीर्यस्यासौ उदारधीः। “उदारो दातृमहतोः” इत्यमरः। तेन कवित्वबीजभूता निपुणतोक्ता। तदुक्तं काव्यप्रकाशे “शक्तिर्निपुणता लोककाव्यशास्त्राद्यवेक्षणात्। काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ " इति । मुनिः मननशीलः, अनेन विविक्तसेवित्वमरोचकित्वं चोक्तम् । तदुक्तं वामनेन “द्वये हि कवयः अरोचकिनः सतृणा ऽभ्यवहारिणश्च” इत्यादि । तदा ब्रह्मवरप्रदानानन्तरकाले । अनेन कवित्वहेतुभूता शक्तिरुक्ता । यशस्विनो ऽपि रामस्य यशस्करम् । तदुक्तं दण्डिना “आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसन्निधाने ऽपि न स्वयं पश्य नश्यति ॥ " इति। इतरकीर्त्यपेक्षया काव्यनायकत्वकृता कीर्त्तिरनुपमेत्यर्थः। काव्यं कविर्लोकोत्तरवर्णननिपुणः, कवेः कर्म काव्यं, शब्दार्थयुगलम्। तथोक्तम्

“सगुणौ सालङ्कारौ शब्दार्थौ दोषवर्जितौ काव्यम् ।” इति अत्र काव्यशब्दने काव्यसन्दर्भरूपं महाकाव्यमुच्यते । तल्लक्षणमुक्तं काव्यादर्शे “सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापितन्मुखम् । इतिहासकथोद्भूतमितरद्वारसंश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् । नगरार्णवशैलर्त्तुचन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः । विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलङ्कृतमसङ्क्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ॥ " इति एवम्भूतं काव्यं श्लोकशतैरवयवैश्चकारश्लोकशब्देन गद्यपद्यमिश्रप्रबन्धेषु स्वग्रन्थस्य पद्यरूपता दर्शिता। शतैरित्यनेन शतकादिक्षुद्रप्रबन्धव्यावृत्तिरुक्ता। बहुवचनार्थं च स्वयमेव विवरिष्यति चतुर्विंशतिसहस्राणीति। कीदृशैः श्लोकशतैः ? उदारवृत्तार्थपदैः उदाराणि महान्ति वृत्तार्थपदानि येषां तैः। वृत्तानि पथ्यावक्त्रोपजातिवंशस्थवसन्ततिलकादीनि, तेषामुदारत्वं नाम तत्तद्रसाभिव्यञ्जकत्वम्। अर्थाः वाच्यलक्ष्यव्यङ्ग्याः, तेषामुदारत्वम् द्राक्षापाकनारिकेलपाकरसालपाकेषु द्राक्षापाकवत्त्वम्। एतल्लक्षणमुक्तं रुद्रटेन “द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः” इति। पदानि वाचकलक्षकव्यञ्जकानि, तेषामुदारत्वम् “या पदानां पराऽन्योन्यं मैत्री शय्येति कथ्यते” इत्युक्तलक्षणशय्यावत्त्वम्। पुनः कीदृशैः ? मनोरमै रमणीयैः, अनेन वैदर्भीगौडीपाञ्चाली चेत्युक्तासु रीतिषु वैदर्भीरितिमत्त्वमुक्तम्। तल्लक्षणं चोक्तम् “बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता। नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ " इति समाक्षरैः प्रतिपादं समानाक्षरैः, अनेन विषमवृत्तादिरूपता व्यावृत्ता ॥ १।२।४२ ॥

तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ १।२।४३ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥ २ ॥

एवं प्रबन्धनिर्माणमभिधाय कुशलवादिभ्यस्तत्प्रतिपादनं सङ्ग्रहेण दर्शयति तदिति ।

स्वग्रन्थस्योत्तमकाव्यत्वप्रदर्शनाय निर्दोषत्वमाह उपगतसमाससन्धियोगमिति । समासास्तत्पुरुषादयः, सन्धयः संहिताः, योगः पदव्युत्पत्तिः, उपगताः शास्त्रानुरूपेण प्राप्ताः समाससन्धियोगा यस्मिन् तत्तथोक्तम्, अनेन समासदोषसन्धिदोषपददोषशून्यत्वमुक्तम् । प्रधानमल्लनिबर्हणन्यायेनैतत्सर्वदोषराहित्यस्योपलक्षणम् । अथ काव्यगुणान् प्राधान्येन दर्शयति समेति । समैर्मधुरैरुपनतार्थैर्वाक्यैर्बद्धं रचितम् । तत्र समतालक्षणमुक्तं दण्डिना “समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः” इति । माधुर्यलक्षणं च तेनैवौक्तम् “मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ " इति उपनतार्थत्वमर्थव्यक्तिः। तत्स्वरूपं च तेनैवोक्तम् “अर्थव्यक्तिरमेयत्वमर्थस्य” इति। रघुवंश्या रघवस्तेषुवरो रामस्तच्चरितं तच्चरितविषयकं मुनिना वाल्मीकिना मया प्रणीतं, मुनिना नारदेन वा प्रणीतम्। दशशिरसो रावणस्य वधमधिकृत्य कृतं ग्रन्थम् “अधिकृत्य कृते ग्रन्थे " इति विहितस्याणो लुप्। निशामयध्वम् निशामयध्वं निशामयध्वमिति न्यशामयतेत्यर्थः। “क्रियासमभिहारे लोट्लोटो हिस्वौ वा च तध्वमोः” इति तध्वमोर्हिस्वादेशस्य वैकल्पिकत्वात्तध्वमः पाक्षिकः स्वादेशाभावः। “मितां ह्रस्वः” इति विहितस्य ह्रस्वस्य “घटादयोमितः” इति सञ्ज्ञापूर्वकत्वात् “सञ्ज्ञापूर्वको विधिरनित्यः” इति अनित्यत्वात् ह्रस्वाभावः, किन्तु णिचि दीर्घ एव, अश्रावयदित्यर्थः। शिष्यानिति शेषः। “णिचश्च” इत्यात्मनेपदम्। यद्वा मुनिः रघुवरचरितं चकार

तन्निशामयध्वमिति शिष्यान्प्रति परोक्षतयोच्यते । श्रवणे ऽपि चरितस्य दर्शन समतया भानान्निशामयध्वमित्युच्यते । “चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्” इति हि वक्ष्यते । पूर्वश्लोके वंशस्थवृत्तम् “जतौ तु वंशस्थमुदीरितं जरौ” इति लक्षणात् । अत्र पुष्पिताग्रावृत्तम् “अयुजिनयुगरेफतो यकारो युजिचनजौ जरगाश्च पुष्पिताग्रा” इति लक्षणात् ॥ १।२।४३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥