तत्र प्रथमसर्गेण विषयप्रयोजने दर्शयति। तत्र च “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया” इति वेदान्तरहस्यस्य प्रश्नपूर्वकं ज्ञेयत्वविधानात् “नापृष्टः कस्यचिद्ब्रूयात्” इत्यपृष्टोत्तरस्य प्रत्यादिष्टत्वाच्च प्रश्नमाविष्करोत्यादितः पञ्चश्लोक्या ॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १।१।१ ॥
अथ प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च गुरुनमस्कारं देवतानमस्कारं च विदधाति तपस्स्वाध्यायेति । तत्र “आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापत्” “आचार्यवान् पुरुषो वेद” इत्यादिश्रुत्या सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्षणपूर्तिं दर्शयति द्वितीयान्तपदैः । तत्र वेदसम्पन्नत्वमाह तपःस्वाध्यायनिरतमिति । तपश्च स्वाध्यायश्च तपःस्वाध्यायौ “अल्पाच्तरम्” इति तपःशब्दस्य पूर्वनिपातः । तपः चान्द्रायणादि, स्वाध्यायो वेदः । “स्वाध्यायो वेदतपसोः” इति वैजयन्ती । तयोर्निरतं निरन्तरासक्तम् । आवश्यकत्वादेतदुभयमुक्तम् । तदाह मनुः “तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्यया ज्ञानमश्नुते” इति । यद्वा तपो ज्ञानम् । “तप आलोचने” इत्यस्माद्धातोरसुन्प्रत्ययः । श्रुतिश्चात्र भवति “यस्य ज्ञानमयं तपः” इति । योग इति यावत् । स्वाध्यायो वेदः तयोर्निरतम् । “स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या गमिष्यति परां गतिम् ॥ " इत्युक्तप्रकारेण सक्तमित्यर्थः। यद्वा तपो वेदः, “तपो हि स्वाध्यायः” इति श्रुतेः। स्वाध्यायो जपः। “स्वाध्यायो वेदजपयोः” इत्युक्तेः। तत्र निरतम्। “स्वाध्यायान्मा प्रमदः। वेदमेव जपेन्नित्यम्” इत्युक्तरीत्या सक्तमित्यर्थः। यद्वा तपो ब्रह्म “ब्रह्मैतदुपास्वैतत्तपः” इति श्रुतेः। तपःप्रधानः स्वाध्यायस्तपःस्वाध्यायः। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। वेदान्त इति यावत्, तत्र निरतम्। “स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्” इत्युक्तरीत्याध्ययनादिपरमित्यर्थः। यद्वा तपो व्याकरणम्। तथोक्तं वाक्यपदीये “आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ " इति, तदितरेषामङ्गानामुपलक्षणम् । तत्सहितः स्वाध्यायः तपःस्वाध्यायः तत्र निरतम्, साङ्गवेदाध्यायिनमित्यर्थः । यद्वा तपः स्वं यस्यासौ तपःस्वः, अध्यायो वेदः “इङ् अध्ययने” इत्यस्माद्धातोः “अध्यायन्याय " इत्यादिना निपातनात् । अत एव “स्वाध्यायो ऽध्येतव्यः” इत्यत्र स्वस्य
अध्यायः स्वाध्यायः, स्वशाखेत्याचार्यैर्व्याख्यातम् । तत्र निरतो ऽध्यायनिरतः । तपःस्वश्चासावध्यायनिरतश्च तपःस्वाध्यायनिरतः इति कर्मधारयः, तम् । यद्वा तपो ब्रह्म, तद्रूपः
स्वाध्यायः तपःस्वाध्यायः तस्मिन् निरतम्, सामगानलोलमित्यर्थः । “वेदानां सामवेदो ऽस्मि” इति भगवता गीतत्वात् । एवं वेदाध्ययनमुक्तम् ॥
अथ “यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥ " इति केवलाध्ययनस्य निन्दितत्वात्तदर्थज्ञत्वमाह वाग्विदां वरमिति। वाग् वेदः। “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा” इति वाक्शब्दस्य वेदे प्रयोगात्। तां विदन्ति जानन्तीति वाग्विदः वेदार्थज्ञाः तेषां मध्ये परं श्रेष्ठम्। निर्द्धारणे षष्ठी। यद्वा वाक् व्याकरणम्। “यश्च व्याकुरुते वाचम्। वाग्योगविद्दुष्यति चापशब्दैः” इत्यादौ व्याकरणपर्यायत्वेन शिष्टैर्व्यवहृतत्वात्। एतदङ्गान्तराणामुपलक्षणम्, षडङ्गविदामग्रेसरमित्यर्थः। एतेन वेदार्थाभिज्ञत्वमर्थसिद्धम्। यद्वा वाग्विदः यावद्विवक्षितार्थप्रतिपादनक्षमशब्दप्रयोगविदः, तेषां वरम्। पूर्वं वेदाध्ययनमुक्तम्, अत्र तदध्यापनम्। यद्वा गोबलीवर्दन्यायेन वाचः वेदव्यतिरिक्तानि शास्त्राणि, तद्विदां वरम्। अनेन चतुर्दशविद्यास्थानवेदित्वमुक्तम्। यद्वा भूमविद्योपक्रमे नारदेनात्मनः सर्वविद्याभिज्ञत्वमुक्तम्। “ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिः वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि” इति। तदिदमुच्यते वाग्विदां वरमिति। यद्वा वाक् सरस्वती “गीर्वाग्वाणी सरस्वती” इति वचनात्। तया विद्यन्ते लभ्यन्त इति वाग्विदः सरस्वतीपुत्रा मरीच्यादयः। “विद्लृ लाभे” इत्यस्माद्धातोः कर्मणि क्विप्। भगवद्भक्ततया तेषां वरम्। अनेनाभिजात्यमुक्तम्। तपःस्वाध्यायनिरतमित्यनेन विद्योक्ता। समाहितत्वमाह मुनिपुङ्गवमिति। तेन “अभिजनविद्यासमुदेतं समाहितं संस्कर्त्तारमीप्सेत्” इत्यापस्तम्बोक्तमाचार्यलक्षणं ज्ञापितम्। मुनयो मननशीलाः। “मनेरुच्च” इति इन् प्रत्ययः। पुमांश्चासौ गौश्चेति पुंगवः “गोरतद्धितलुकि” इति समासान्तष्टच् प्रत्ययः। श्रेष्ठ
इत्यर्थः । “बुधे च पुङ्गवः श्रेष्ठे वृषभे भिषजां वरे ।” इति विश्वः । मुनिषु पुङ्गवो मुनिपुङ्गवः । “सप्तमी” इति योगविभागात् नागोत्तमादिवत्समासः, तम् । तपःस्वाध्यायनिरतमित्यनेन वेदार्थस्य श्रवणमुक्तम् । वाग्विदां वरमित्यनेन मननम् । मुनिपुङ्गवमित्यनेन निदिध्यासनम् । यद्वा “तस्माद्ब्राह्मणः पाण्डित्यन्निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” इत्युक्तक्रमेण त्रिभिरेतैः पदैः पाण्डित्यबाल्यमौनान्युक्तानि । नरस्य सम्बन्धि नारम् “नराच्चेति वक्तव्यम्” इत्यण्, अज्ञानमित्यर्थः । तत् द्यति खण्डयतीति नारदः । “दो अवखण्डने” इत्यस्माद्धातोः “आदेच उपदेशे ऽशिति” इत्यात्वे सति “आतो ऽनुपसर्गे कः” इति कप्रत्ययः । अज्ञाननिवर्त्तक इत्यर्थः । उक्तं च नारदीये “गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ॥ " इति। यद्वा नारं ज्ञानं तद्ददातीति नारदः। यद्वा नरति सद्गतिं प्रापयतीति नरः परमात्मा। “नृ़ नये” इत्यस्माद्धातोः पचाद्यच्। तदुक्तं भारते “नरतीति नरः प्रोक्तः प्ररमात्मा सनातनः” इति। स एव नारः। तं ददात्युपदिशतीति नारदः, तम्। एवमाचार्यलक्षणपूर्तिमुक्त्वा अधिकारित्वसम्पूर्तिप्रदर्शनाय शिष्यलक्षणमाह तपस्वीत्यादिना। तपोऽस्यास्तीति तपस्वी। “तपःसहस्राभ्यां विनीनी” इति मत्वर्थीयो विनिप्रत्ययः। भूमादयो मत्वर्थाः। तदुक्तम् “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ " इति । प्रशस्ततपस्क इत्यर्थः । तेन “तपसा ब्रह्म विजिज्ञासस्व स तपो ऽतप्यत स तपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात्” इति श्रुतं ब्रह्मज्ञानसाधनं तप उक्तम् । यद्वा तपो वेदो व्याकरणं ज्ञानं च, तद्वान् । तपःशब्दानां तन्त्रावृत्त्येकशेषाद्यन्यतमेन अर्थस्मरणे
सति एकपदोपात्तकृतिकालादीनामिव अन्वयबोधः सुलभः । तथा च अधीतसाङ्गसशिरस्कवेदो ऽधिगताल्पास्थिरफलकेवलकर्मज्ञान इत्युक्तम् । निर्वेदश्च तपः । “तपस्वी
तापसे शोच्ये” इति वैजयन्ती । तेन सञ्जातमोक्षाभिलाष इत्युक्तम्, तादृश एव हि ब्रह्मज्ञानाधिकारी । तपस्वीत्यनेन शमदमादिसम्पत्तिरपि सिद्धा । यद्वा तपो न्यासः । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः । न्यासः शरणागतिः प्रणिपातरूपा, एवं ऽतद्विद्धि प्रणिपातेन परिप्रश्नेन सेवयाऽ इत्याद्युक्तानि प्रणिपातपुरःसराणि दर्शितानि । वल्मीकस्यापत्यं वाल्मीकिः । “अत इञ्” इतीञ्प्रत्ययः । नन्वसौ कथं वल्मीकापत्यम्, यतो ऽयं भृगुपुत्र एव प्रतीयते । तथा च श्रीविष्णुपुराणे “ऋक्षो ऽभूद्भार्गवस्तस्माद्वाल्मीकिर्यो ऽभिधीयते” इति । अत्रापि उत्तरकाण्डे वक्ष्यति “भार्गवेणेति संस्कृतौ । भार्गवेण तपस्विना” इति च । अन्यत्र च प्रचेतो ऽपत्यत्वमभिधीयते “चक्रे प्रचेतसः पुत्रस्तं ब्रह्माप्यन्वमन्यत” इति । “वेदः प्राचेतसादासीत्” इति च प्रसिद्धम् । अतः कथमस्य वल्मीकापत्यत्वम् ? उच्यते निश्चलतरतपोविशेषेणास्य वल्मीकावृतौ जातायां प्रचेतसा वरुणेन कृतनिरन्तरवर्षेण प्रादुर्भावो ऽभूदिति भृगुपुत्रस्यैवास्य प्रचेतसो ऽपत्यत्वं वल्मीकापत्यत्वं च सङ्गच्छते । ननु कथं तत्प्रभवत्वमात्रेण तदपत्यत्वम् ? मैवम्, ऽगोणीपुत्रः कलशीसुतःऽ इत्यादिव्यवहारस्य तत्प्रभवे ऽपि बहुलमुपलब्धेः । उक्तं च ब्रह्मवैवर्त्ते “अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ ॥ " इति। मास्त्वपत्यार्थत्वम्, तथापि वाल्मीकिशब्दस्साधुरेव, गर्हादिषु पठितत्वात्। यद्वा भृगुवंश्यः कश्चित् प्रचेता नाम तस्यायं पुत्रः ऋक्षो नाम। ऽचक्रे प्रचेतसः पुत्रःऽ इति पुत्रत्वाभिधानात्। भार्गवभृगुनन्दनशब्दौ रामे राघवरघुनन्दनशब्दवदुन्नेयौ। वाल्मीकिशब्दः पुत्रत्वोपचारात्। अत एव क्वचित् ऽवाल्मीकेन महर्षिणऽ इति सम्बन्धमात्रेऽण् प्रयुज्यते। सत्स्वपि नामान्तरेषु वाल्मीकिशब्देनाभिधानं ज्ञानाङ्गशमदमाद्युपेतत्वस्फोरणाय। परिपप्रच्छ परि विशेषेण पृष्टवान्। को न्वस्मिन्नित्यादिवक्ष्यमाणमिति शेषः। तप इति भिन्नं पदं वा ब्रह्मवाचि। नारदं ब्रह्म परिपप्रच्छेत्यर्थः। अतो न द्विकर्मकत्वहानिः। उक्तं हि वृत्तिकृता “दुह्याच्पच्दण्ड्रुधिप्रच्छिचिञ्ब्रूशासुजिमथ्मुषाम्।” इत्यादिना प्रच्छेर्द्विकर्मकत्वम्। परिपप्रच्छेति परोक्षे लिट्। प्रश्नस्य परोक्षत्वं विवक्षितभगवद्गुणानुसन्धानकृतवैचित्यात्, ऽसुप्तोऽहं किल विललापऽ इतिवत्। विभक्तिप्रतिरूपकमव्ययं वा। स्वविनयव्यञ्जनाय प्रथमपुरुषनिर्देशो वा। “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” इतिवत्। स्वस्मिन्नन्यत्वमारोप्य परोक्षनिर्देशो वा। अनेन “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्। तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्” इत्याथर्वणिकी श्रुतिर्गुरूपसदनविषयोपबृंह्यते। तथाहि तपस्वीत्यनेन “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्” इत्यस्यार्थोऽदर्शि। अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषो हि तपस्विशब्दार्थो वर्णितः। वाल्मीकिरित्यनेन “सम्यक् प्रशान्तचित्ताय शमान्विताय” इत्यस्यार्थो दर्शितः। स्वाध्यायनिरतमित्यनेन श्रीत्रियपदार्थ उक्तः। “श्रोत्रियँश्छन्दोऽधीते” इति श्रोत्रियशब्दार्थप्रकाशनात्। वाग्विदां वरमित्यनेन विद्वच्छब्दार्थः। मुनिपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः। नारदशब्दने गुरुशब्दार्थः। “गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते” इति तन्निरुक्तिः। परिपप्रच्छेत्यनेन “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्येतदुपपादितम्। “विधिवदुपसन्नः पप्रच्छ” इति श्रुतेः। अत्र ब्रह्मवाचितपःशब्दप्रयोगेण देवतानमस्काररूपं मङ्गलमाचरितम्। तथोक्तम् “अ इति भगवतो नारायणस्य प्रथमाभिधानमभिदधता किन्नाम मङ्गलं न कृतम्” इति। “देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे मङ्गलार्थाः स्युर्लिपितो गणतो ऽपि च ॥ " इति। निरन्तरनिरतिशयानन्दरूपं तपो ज्ञानरूपं ब्रह्म स्वाध्यायं सुष्ठु ध्यात्वेति वा देवतानमस्कारः।
गुरुनमस्कारश्च कृतो भवति । कथम् ? तपःसु निरतं नारदमाध्याय परिपप्रच्छेति । यद्वा परि पूजयित्वेत्यर्थः । “परिः समन्ततोभाव व्याप्तिदोषकथासु च । भाषाश्लेषे पूजने च वर्जने वचने शुभे ॥ " इति वचनात्। नारदं सम्पूज्य पप्रच्छेत्यर्थः। “पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम्। मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ " इतिवत् ॥ अस्य श्रीरामायणस्य गायत्र्यक्षरसङ्ख्यानुसारेण चतुर्विंशतिसहस्रग्रन्थसङ्ख्यया प्रवृत्तत्वात् प्रथम सहस्रोपक्रमे तकारः प्रयोक्तव्य इति सत्स्वपि ब्रह्मवाचकेषु शब्दान्तरेषु तपःशब्दस्यैव प्रयोगः । प्रबन्धादौ तकारप्रयोगश्चावश्यकः । तस्य वक्तुर्वाचकस्य च सौख्यकरत्वात् । तथोक्तम् “वस्तुलाभकरो णस्तु तकारः सौख्यदायकः” इति । साहित्यचूडामणौ तु “तकारो विघ्ननाशकः” इत्युक्तम् । किञ्च तकारस्य जलं भूतं बृहस्पतिर्देवता । अतः शुभावहो ऽनेन प्रबन्धारम्भः । अत एवोक्तं चमत्कारचन्द्रिकायाम् “वर्णानामुद्भवः पश्चाद्व्यक्तिः सङ्ख्या ततः परम् । भूतबीजविचारश्च ततो वर्णग्रहा अपि ॥ " इत्यारभ्य “एतत्सर्वमविज्ञाय यदि पद्यं वदेत्कविः। केतकारूढकपिवत् भवेत्कण्टकपीडितः ॥ " इति । “कारणात्पञ्चभूतानामुद्भूता मातृका यतः । अतो भूतात्मका वर्णाः पञ्चपञ्च विभागतः । वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धयस्तथा । तत्र स्वरेशः सूर्यो ऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः । तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः । यवर्गजो ऽयं शीतांशुरिति सप्तग्रहाः क्रमात् ॥ " इति। अत्र तपःस्वा इति यगणः, आदिलघुत्वात्। तदुक्तम् “आदिमध्यावसानेषु यरता यान्ति लाघवम्। भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ॥ " इति । यगणप्रयोगश्चार्थकर इत्युक्तं चमत्कारचन्द्रिकायाम् “करोत्यर्थानादिलघुर्यगणो वायुदैवतः” इति । ननु तपस्तापः सुतरामाधिः स्वाधिस्तयोराये निरतमिति ग्रन्थारम्भे अश्लीलवचनमनुचितम् । तदुक्तम् “अश्लीलं यदमाङ्गल्यं जुगुप्साव्रीडभीकरम्” इति । मैवम्, प्रसिद्धिविशेषेण तपोवेदयोरेव प्रथमतरं बुद्ध्यारोहेणाश्लीलत्वप्रसङ्गाभावात् । यथा भगिनीलिङ्गादिप्रयोगेषु । अत्र सर्वत्र प्रायेण पथ्यावक्त्रं वृत्तम् । तदुक्तं वृत्तरत्नाकरे “युजोर्जेन सरिद्भर्त्तुः पथ्यावक्त्रं प्रकीर्त्तितम्” इति । वृत्तविशेषास्तु तत्र तत्र वक्ष्यन्ते । अत्र वृत्त्यनुप्रासः शब्दालङ्कारः, तकारादीनामावृत्तेः । तदुक्तं काव्यप्रकाशे “वर्णसाम्यमनुप्रासः” इति । विशेषणानां साभिप्रायत्वात् परिकरोनामार्थालङ्कारः । उक्तमलङ्कारसर्वस्वे “विशेषणानां साभिप्रायत्वे परिकरः” इति । तपःस्वाध्यायनिरतत्वादीनां गुरूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः” इति लक्षणात् । अत्र वाल्मीकिनारदयोः स्वरूपकथनेन शिष्याचार्य्याभ्यामेवं भवितव्यमिति द्योतनात् वाक्यगतवस्तुना वस्तुध्वनिः ॥ १।१।१ ॥
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ १।१।२ ॥
कथं परिपप्रच्छेत्याकाङ्क्षायां प्रश्नप्रकारं दर्शयति को न्वित्यादिश्लोकत्रयेण । “नुः पृच्छायां विकल्पे च” इत्युमरः । अस्मिन् लोके भूलोके साम्प्रतमस्मिन् काले “अस्मिन्काले ऽधुनेदानीं सम्प्रत्येतर्हि साम्प्रतम्” इति बाणः । लोकान्तरे विष्णोर्विदितत्वात् । अत्रैव कालान्तरे नृसिंहादेः प्रसिद्धत्वाच्च तद्व्यावृत्त्यर्थमेवमुक्तम् । गुणा अस्य सन्तीति गुणवान् । भूमादयो मत्वर्थाः । अस्मिन् लोके अस्मिन् काले को वा सकलकल्याणगुणसम्पन्न इत्यर्थः । एवं सामान्येन गुणसमुदायं पृष्ट्वा विशिष्य
तत्तद्गुणाश्रयं पृच्छति कश्च वीर्यवान् इत्यादिना । यद्वा गुण्यते आवर्त्यते पुनःपुनराश्रितैरनुसन्धीयत इति गुणः सौशील्यम् । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु” इति विश्वः । सुशीलं हि नाम महतो मन्दैः सहनीरन्ध्रेण संश्लेषः । तस्याधिक्यं सौशील्यम्, तद्वान् । सौशील्ये गुणशब्दो ऽभियुक्तैः प्रयुक्तः । “वशी वदान्यो गुणवानृजुः शुचिः” इति । को वा सौशील्यवानित्यर्थः । सर्वत्र प्रश्ने तु नु इति किंशब्दो ऽपि यत्र न प्रयुक्तस्तत्रानुषञ्जनीयः । एकेनैव किंशब्देनोपपत्तावप्यादरातिशयात् पुनःपुनस्तत्प्रयोगः । “प्रदानवदेव तदुक्तम्” इति न्यायेन प्रतिगुणं गुण्यावृत्त्यभिप्रायेण वा लोके गुणसम्बन्धाद्गुण्यतिशयः । इह तु गुणिसम्बन्धाद्गुणातिशय इति द्योतनाय गुणिनः प्रथमं निर्देशः “गुणास्सत्यज्ञान " इत्युक्तेः । कश्च वीर्य्यवान् । चकार उक्तसमुच्चये । सत्स्वपि विकारहेतुष्वविकृतत्वं वीर्यम् ऽऔषधं वीर्यवत्ऽ इत्यादौ तथा दर्शनात्, तद्वान् । धर्मः अलौकिकश्रेयःसाधनम्, तं सामान्यरूपं विशेषरूपं च जानातीति धर्मज्ञः । चकारो ऽनुक्तसमुच्चयार्थः । परिहार्याधर्मज्ञश्चेत्यर्थः । कृतमुपकारं स्वल्पं प्रासङ्गिकमपि बहुतया जानातीति कृतज्ञः । अपकारास्मरणं चशब्दार्थः । वक्ष्यति “न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ॥ " इति। सत्यं कृच्छ्रेष्वप्यनृतशून्यं वाक्यं वचनं यस्य सः सत्यवाक्यः। तथा वक्ष्यति “अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन” इति। दृढव्रतः निश्चलसङ्कल्पः। “अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। न हि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ " इति ॥ १।१।२ ॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ १।१।३ ॥
चरित्रमाचारः तदेव चारित्रम् । वायसराक्षसादिवत्स्वार्थे ऽण्प्रत्ययः । तेन युक्तः, सर्वदाप्यनुल्लङ्घितकुलाचार इत्यर्थः । सर्वभूतेषु सर्वप्राणिषु विषये । “भूतं क्ष्मादौ च जन्तौ च न स्त्रियां गुणसत्त्वयोः” इति बाणः । हितः हितकरः । हितशब्दात् “तत्करोति” इति णिच्, पचाद्यच्, णिलोपे पूर्वरूपे च रूपम् । भूतशब्देन स्वपरतारतम्याभाव उक्तः । सर्वशब्देन सापराधेष्वपि हितकरत्वमुक्तम् । वेत्तीति विद्वान् सर्वशास्त्रज्ञः । “विदेः शतुर्वसुः” । समर्थः सर्वकार्यधुरन्धरः । प्रियं दर्शनं यस्यासौ प्रियदर्शनः, एकश्चासौ प्रियदर्शनश्च एकप्रियदर्शनः । अयमिव नान्यो लोके प्रियदर्शनो ऽस्तीत्यर्थः । यद्वा एकप्रियदर्शनः एकरूपप्रियदर्शनः । लोके हि कस्यचिद्दर्शनं कदाचित्प्रियं भवति कदाचिदप्रियं च भवति । “तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्” इति वचनात् । अयं तु न तथा, किन्तु “क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः” इत्युक्तरीत्या सदानुभवे ऽप्यपूर्ववद्विस्मयमादधान इत्यर्थः । तथैवोत्तरयिष्यति सदैकप्रियदर्शन इति । “एके मुख्यान्यकेवलाः” इत्युभयत्राप्यमरः ॥ १।१।३ ॥
आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ १।१।४ ॥
आत्मवानिति । आत्मवान् धैर्यवान् । “आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि” इत्यमरः । अप्रकम्प्यधैर्य इत्यर्थः । जितक्रोधः विधेयकोपः दण्डार्हेष्वेवाहितकोप इत्यर्थः । “क्रोधमाहारयत्तीव्रम्” इति हि वक्ष्यति । द्युतिमान् कान्तिमान् “रूपसंहननं लक्ष्मीं सौकुमार्य्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥ " इति हि वक्ष्यति।
गुणेषु दोषाविष्करणमसूया । “असूया तु दोषारोपो गुणेष्वपि” इत्यमरः । अविद्यमानासूया
यस्यासावनसूयकः । “शेषाद्विभाषा” इति कपि “आपो ऽन्यतरस्याम्” इति ह्रस्वः । यद्वा असूयकः असूङ्कण्ड्वादौ पठितः । तस्मात् “कण्ड्वादिभ्यो यक्” इति यक्प्रत्ययः । “अकृत्सार्वधातुकयोः” इति दीर्घः । ततो “निन्दहिंस " इत्यादिना वुञ् । स न भवतीत्यनसूयकः । कस्येति । देवाश्चेति चकारेणासुरादयः समुच्चीयन्ते । जातरोषस्य कस्य संयुगे देवादयः सर्वे बिभ्यतीत्यन्वयः । अतो न “भीत्रार्थानां " इति किंशब्दात्पञ्चमी । शत्रुविषयः कोपो मित्राणामपि भयमावहतीत्यर्थः । यद्वा चकारो ऽप्यर्थः । अनुकूला अपि बिभ्यति, किं पुनः प्रतिकूला इत्यर्थः । यद्वा संयुगे जातरोषस्य कस्य बिभ्यतीत्येवान्वयः । शेषे षष्ठी । “सञ्ज्ञापूर्वको विधिरनित्यः” इत्यपादानसञ्ज्ञापूर्वकपञ्चम्यभावः । अत्र श्लोकत्रये समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारः ॥ १।१।४ ॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ॥ १।१।५ ॥
अथायं प्रश्नो विजिगीषामूलमिति नारदो मन्येतापीति मन्वानः स्वप्रश्नो जिज्ञासाहेतुक इति दर्शयन् प्रश्नमुपसंहरति एतदिति । एतत्पूर्वोक्तगुणाश्रयभूतं वस्तु अहं जिज्ञासुः न विजिगीषुः, श्रोतुं न तु क्षेप्तुमिच्छामि, न तु ब्रूहि इति निर्बध्नामि । अहं तावदिच्छामि मयि भवतः प्रसादो ऽस्ति चेद्वक्तुमर्हसीति भावः । तत्र हेतुमाह परमिति । हिर्हेतौ । “हिर्हेताववधारणे” इति बाणः । यस्मात्कारणान्मे परमुत्कृष्टं कौतूहलं विस्मयो ऽस्ति तस्मादिच्छामि । यद्वा हिः प्रसिद्धौ । मुखविकासाद्यनुभावैर्मम हर्षस्तव स्पष्ट इत्यर्थः । स्वप्रश्नोत्तरदाने देशिकालाभान्निर्विण्णः । सम्प्रति भवद्दर्शनेन सञ्जाताभिलाषो ऽस्मि, ब्रूहि मत्पृष्टमिति भावः । “आचार्यस्य ज्ञानवत्तामनुमाय शिष्येणोप(स)पत्तिः क्रियते” इति न्यायेन नारदस्य प्रष्टव्यविषयज्ञानसम्भावनामाह महर्ष इति । ऋषिः ज्ञानस्य पारं गन्ता । “ऋषी गतौ” इत्यस्माद्धातोः “इगुपधात्कित्” इतीन् । गत्यर्थो ज्ञानार्थः । महांश्चासौ ऋषिश्च महर्षिः । “आन्महतः समानाधिकरणजातीययोः” इत्यात्वम् । हेतुगर्भविशेषणम् । महर्षित्वात्त्वमेवंविधं नरं पुरुषं ज्ञातुमर्हसि । ब्रह्मणः सकाशाद्विदितसकलविशेषस्त्वं कथं मे जिज्ञासोर्न वदेरिति भावः । अत्र पूर्वार्धे काव्यलिङ्गमलङ्कारः, उत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वात् । “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः ।” इति लक्षणात् । उत्तरार्द्धे परिकर इति अनयोः संसृष्टिः । अन्ते चास्येति करणं बोध्यम् । इति परिपप्रच्छेति सम्बन्धः । नन्वयं प्रश्नो वाल्मीकेर्न सङ्गच्छते, तस्य विदितसकलरामवृत्तान्तत्वेन निश्चये संशयायोगात् । वक्ष्यति ह्ययोध्याकाण्डे “इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ " इति। कथं रामविषयमध्यवर्त्ती वाल्मीकिस्तद्गुणान्न विजानीयात्? वक्ष्यति हि “विषये ते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ॥ " इति । कथं वा “रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ " इति पृथग्जनैरपि विदितं रामवैभवं मुनिरेष न जानीयात्, कथं चैतावन्मात्रं सत्यलोकादागतो नारदः प्रष्टुमर्हति, य एवमुत्तरयति ऽरामो नाम जनैः श्रुतःऽ इति। तत्रोच्यते नायमापाततो भासमानः प्रश्नार्थः नाप्युत्तरार्थः। अत्र करतलामलकवद्विदितरामवृत्तान्तस्य वाल्मीकेः कुतूहलासम्भवात् “बुद्ध्वा वक्ष्यामि” इत्युत्तरवाक्यानुपपत्तेश्च। किन्तु वक्तृबोद्ध्रानुगुण्यात् वेदान्तेषु नानाविद्यासु तत्तद्गुणविशिष्टतयावगम्यमानं परं तत्त्वं किं विष्णुः, उत रुद्रादिष्वन्यतम इति प्रश्नार्थः। तदिदं वाल्मीकेर्हृदयमाकलयन् भगवान्नारदोऽपि रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यः पुरुषः, ब्रह्मादयः सर्वे तद्भृकुटीभटास्तत्परतन्त्राः। सद्ब्रह्मात्मादिशब्दाश्च पर्यवसानवृत्त्यावयववृत्त्या च विष्णुपरा इत्येवमाशयेन सकलवेदान्तोदितगुणजातं रामे योजयन्नुत्तरयतीति सर्वमनवद्यम् ॥ १।१।५ ॥
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ १।१।६ ॥
एवं “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्युक्तं गुरूपसदनविधिमुपबृंहय “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् “इत्युक्तं प्रवचनविधिमुपबृंहयति श्रुत्वेत्यादिना । तत्र “नासंवत्सरवासिने प्रब्रूयात्” इति नियमस्य ज्येष्ठपुत्रव्यतिरिक्तविषयत्वात् वाल्मीकेश्च भृगुपुत्रतया भ्रातृपुत्रत्वात् शुश्रूषानिरपेक्षं प्रीत्योपदिदेशेत्याह श्रुत्वा चेति । त्रयाणां लोकानां समाहारस्त्रिलोकम् ।
पात्रादित्वान्न ङीप् । यद्वा त्रित्वविशिष्टो लोकस्त्रिलोकः । “नवरसरुचिराम्” इत्यत्र काव्यप्रकाशे तथैव व्याख्यानात् । यद्वा त्रयो लोका यस्मिन् तत्त्रिलोकमिति ब्रह्माण्डमुच्यते, तज्जानातीति त्रिलोकज्ञः । भूर्भुवःस्वरिति त्रैलोक्यम् । यद्वा विष्णुपुराणोक्तरीत्या कृतकमकृतकं कृतकाकृतकमिति त्रयो लोकाः । महर्लोकपर्यन्ताः कृतकाः जनोलोकः कृतकाकृतकः । सत्यलोको ऽकृतक इति । यद्वा लोका जनाः “लोकस्तु भुवने जने” इत्यमरः । बद्धनित्यमुक्तास्त्रयो लोकाः । नारदः ब्रह्मपुत्रतया तज्ज्ञानार्हः । एतत्पूर्वोक्तरीत्या व्यङ्ग्यार्थगर्भं वाल्मीकेः स्वाभिमतस्य पुत्रस्य वचः परिपूर्णार्थं वाक्यं श्रुत्वा निशम्य । चकारेण तदूहित्वा चेत्यर्थः । प्रहृष्टः स्वेनोपदिदिक्षितस्यैव पृष्टत्वेन सन्तुष्टः शतकोटिप्रविस्तररामायणे स्वावगतस्यैवानेन पृष्टत्वात् रामगुणस्मरणामृतपानलाभादपूर्वशिष्यलाभाद्वा “सोहं मन्त्रविदेवास्मि नात्मवित्” इत्युक्तरीत्या सनत्कुमारं प्रति स्वस्योपसर्पणस्मारकत्वाद्वाप्रहृष्टः सन् । कर्त्तरि क्तः । रामगुणानुसन्धानजनितं निजवैचित्र्यं व्याजेन परिहर्तुं श्रूयतामित्यामन्त्र्याभिमुखीकृत्य वाक्यमुत्तररूपमब्रवीत् व्यक्तमुक्तवान् ॥ १।१।६ ॥
बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ १।१।७ ॥
वक्ष्यमाणस्यासदुत्तरत्वपरिहारायात्मनो वाल्मीकेराशयाभिज्ञत्वमाह बहव इति । बहवो विपुलाः, अनेकगुणविततिमूलभूता इत्यर्थः । अनेनापृष्टानामपि वक्ष्यमाणानां गुणानां निदानमुपदर्शितम् यद्वा बहवः अपरिच्छिन्ना इत्यर्थः । श्रूयते हि अपरिच्छिन्नत्वं गुणानाम् “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन” इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वोक्तिरितरेषामप्यपरिच्छिन्नत्व प्रदर्शनार्था । उक्तं हि यामुनाचार्यैः “उपर्युपर्यब्जभुवो ऽपि पूरुषान्” इत्यादिना । दुर्लभाः परमपुरुषादन्यत्रासम्भाविताः, अन्येषां “न ब्रह्मा नेशानः” इत्यादिना असम्भाव्यत्वादिवचनादिति भावः । अनेन प्रश्नस्य देवताविशेषनिर्द्धारणपरत्वमात्मनावगतमिति व्यञ्जितम् । चकार उक्तसमुच्चयार्थः अनुक्तसमुच्चयार्थो वा । तेन स्वाभाविकानवधिकातिशयासङ्ख्येयकल्याणरूपा इत्युक्तम् । एवकार इतरत्र सर्वात्मना असम्भावितत्वमभिव्यनक्ति । य इति वेदान्तप्रसिद्धिरुच्यते । गुणाः वीर्यादयः कीर्तिता इत्यनेन गुणानां प्रश्नकाले ऽपि भोग्यतातिशयः सूच्यते । तैर्युक्तः, न तु कल्पित इति निर्गुणवादनिरासः । नरः पुरुषः । “पुरुषाः पूरुषा नराः” इति निघण्टुः । “य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” “पुरुषः पुण्डरीकाक्षः” इति श्रुतिस्मृत्यनुगतः पुरुषशब्दो ऽनेन प्रत्यभिज्ञाप्यते । श्रूयतां न तु यथाकथञ्चित्परिकल्प्यताम् । शृण्वित्यनभिधानात् विनयोक्तिरियम् । तात्कालिकं किञ्चित्प्रकल्प्यत इति भ्रमं वारयति अहं बुद्ध्वा वक्ष्यामीति । मत्पितुर्ब्रह्मणः सकाशात् शतकोटिप्रविस्तररामायणमुखेन
विदित्वा वक्ष्यामि । अनेन सम्प्रदायाभिज्ञत्वमात्मनो दर्शितम् । यद्वा, रामगुणानुसन्धानवैचित्र्येन न मे किञ्चित्प्रतिभाति, क्षणात् बुद्ध्वा वक्ष्यामीत्यर्थः । अतो मध्ये वाक्यान्तरमलङ्काराय । अन्यथा वाक्यगर्भितमिति काव्यदोषः स्यात् । अहं वक्ष्यामि अहम्भूत्वा वक्ष्यामि, नेदानीं नारदो ऽस्मि, रामगुणश्रवणशिथिलत्वात् । रामगुणमग्नो ऽयं नदीप्रवाहमग्न इव अवलम्बनयष्टिमपेक्षते हे मुन इति । यद्वा, प्रश्नकाले समवधानविशेषमालक्ष्य श्लाघते मुन इति । अथ क्षणात्सन्धुक्षितो नारदो वाक्यशेषं पूरयति तैरिति । नर इत्यनेन परतत्त्वनिर्द्धारणं प्रश्नफलितार्थं द्योतयति । बुद्ध्वा इत्यनेन श्रुतिस्थतत्तच्छब्दार्थो विवृतः ॥ १।१।७ ॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ १।१।८ ॥
अथ वेदान्तोदितगुणानां रामे प्रदर्शनमुखेन रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यं परं तत्त्वमिति दर्शयति इक्ष्वाकुवंशप्रभव इत्यादिना सर्गशेषेण । तत्र वेदान्तोदितगुणगणानां निधी रामत्वेनावतीर्णो विष्णुरेवेति महावाक्यार्थः । इक्ष्वाकुवंशेत्यारभ्य सत्ये धर्म इवापर इत्यन्ता सार्धैकादशश्लोक्येकान्वया । इक्ष्वाकुर्नाम वैवस्वतमनोर्ज्येष्ठः पुत्रः, तस्य वंशः पुत्रपौत्रादिपरम्परा । प्रभवत्यस्मादिति प्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः इक्ष्वाकुवंशप्रभवः । जनकादिमहाकुलेषु विद्यमानेषु कुतो ऽत्रैव भगवानवतीर्ण इत्यपेक्षायामिक्ष्वाकुपदं प्रयुक्तम् । इक्ष्वाकुर्हि चिरं हरिमाराध्य तन्मूर्त्तिविशेषं श्रीरङ्गनाथमलभतेति पौराणिकी गाथा । अतस्तत्पक्षपातेन तद्वंशे ऽवतीर्ण इति सूचयितुमिक्ष्वाकुपदम् । वंशेत्यनेन गुणवान् क इति पृष्टं सौशील्यमुक्तम् । रमयति सर्वान् गुणैरिति रामः । “रामो रमयतां वरः” इत्यार्षनिर्वचनबलात् कर्तर्य्यपि कारके घञ् वर्ण्यते । यद्वा रमन्ते ऽस्मिन् सर्वे जना गुणैरिति रामः । “अकर्त्तरि च कारके सञ्ज्ञायाम्” इति घञ् । तथा चागस्त्यसंहितायामुक्तम् “रमन्ते योगिनो ऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ " इति नामेति प्रसिद्धौ। चित्रकूटवासिना त्वया विदितो हीत्यर्थः। न केवलं भवता, पामरैरपि विदित इत्याह जनैः श्रुत इति। श्रुतः अवधृतः। “श्रुतं शास्त्रावधृतयोः” इत्यमरः। ताटकाताटकेयवधविश्वामित्राध्वरत्राणाहल्याशापविमोक्षहरधनुर्भङ्गपरशुरामनिग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबलनिबर्हणादिभिरवधारितनारायणभाव इत्यर्थः। य एवम्भूतः स एव नियतात्मा स एव महावीर्य्य इत्येवं प्रतिपदं वक्ष्यमाणं तत्पदमनुषज्यते। रामरूपेणावतीर्णो विष्णुरेव वेदान्तोदिततत्तद्गुणक इति सर्वत्र तात्पर्यार्थः। आदौ स्वरूपनिरूपकधर्म्मानाह नियतात्मेत्यादिना। नियतात्मा नियतस्वभावः, निर्विकार इति यावत्। “नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते अपहतपाप्मा विजरो विमृत्युर्विशोको विजियत्सोऽपिपासः” इत्यादिश्रुतेः। महावीर्यः अचिन्त्यविविधविचित्रशक्तिकः। “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति श्रुतेः। द्युतिमान् स्वाभाविकप्रकाशवान्। स्वयम्प्रकाशः ज्ञानस्वरूप इति यावत्। “विज्ञानघन एव प्रज्ञानघनः” इति श्रुतेः। धृतिमान् निरतिशयानन्दः। “धृतिस्तु तुष्टिः सन्तोषः” इति वैजयन्ती। “आनन्दो ब्रह्म” इति श्रुतेः। सर्वं जगद्वशेऽस्यास्तीति वशी, सर्वस्वामीत्यर्थः। “सर्वस्य वशी सर्वस्येशानः” इति श्रुतेः ॥ १।१।८ ॥
बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ १।१।९ ॥
अथ सृष्ट्युपयोगिगुणानाह बुद्धिमानित्यादिना । बुद्धिमान् सर्वज्ञः । “यः सर्वज्ञः सर्ववित्” इति श्रुतेः । नीतिमान् मर्यादावान् । श्रुतिरत्र “धाता यथापूर्वमकल्पयत् । एष सेतुर्विधरण एषां लोकानामसम्भेदाय” इति । शोभना वागस्यास्तीति वाग्ग्मी । “वाचो ग्मिनिः” इति ग्मिनिप्रत्ययः । कुत्वे जश्त्वे च कृते गकारलाभात् पुनर्गकार उक्तिशोभनत्वज्ञापनायेति न्यासकारः । सर्ववेदप्रवर्त्तक इत्यर्थः । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्यः । “श्रीः कान्तिसम्पदोर्लक्ष्म्याम्” इति बाणः । “सर्वमिदमभ्यात्तः” इति श्रुतिः । शत्रून् तद्विरोधिनो निबर्हयति नाशयतीति शत्रुनिबर्हणः । “बर्ह हिंसायाम्” इत्यस्माद्धातोः कर्त्तरि ल्युट् । “एष भूतपतिरेष भूतपालः” इति श्रुतेः । अथ “य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद " इत्यन्तरादित्यविद्योदितं सर्वाङ्गसुन्दरविग्रहं दर्शयति विपुलांस इत्यादिना सार्द्धश्लोकद्वयेन । विपुलांसः उन्नतस्कन्धः । उन्नतस्कन्धत्वं च महापुरुषलक्षणमिति सामुद्रिकोक्तम् “कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका । सर्वभूतेषु निर्द्दिष्टा उन्नतास्तु सुखप्रदाः ॥ " इति। महाबाहुः वृत्तपीवरबाहुः। आयतत्वं तु वक्ष्यति आजानुबाहुरिति। “आजानुलम्बिनौ बाहू वृत्तपीनौ महीश्वरः” इति सामुद्रिकलक्षणम्। कम्बुग्रीवः शङ्खतुल्यकण्ठः। इन्दुमुखीतिवत् शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। “कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभूषणः” इति लक्षणम्। “रेखात्रयान्विता ग्रीवा कम्बुग्रीवेति कथ्यते” इति हलायुधः। महत्यौ हनू यस्यासौ महाहनुः। “स्त्रियाः पुंवत्” इत्यादिना पुंवद्भावः। हनुः कपोलोपरिभागः। “अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परो हनुः” इत्यमरः। “मांसलौ तु हनू यस्य भवतस्त्वीषदुन्नतौ। स नरो मृष्टमश्नाति यावदायुः सुखान्वितः ॥ " इति लक्षणम् ॥ १।१।९ ॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १।१।१० ॥
महोरस्क इति । महद्विशालमुरो यस्यासौ महोरस्कः । “उरःप्रभतिभ्यः कप्” इति कप् । लक्षणं तु “स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । वक्षोयस्य महीपालस्तत्समो वा भवेन्नरः ॥ " इति। मांसलत्वं तु वक्ष्यति पीनवक्षा इति। महान् इष्वासो धनुर्यस्यासौ महेष्वासः। अनेन तदुचितसंहननविशेषो लक्ष्यते, अतो न प्रक्रमविरोधः। गूढे मांसलत्वेनाप्रकाशे जत्रुणी असंद्वयसन्धिगतास्थिनी यस्यासौ गूढजत्रुः। “स्कन्धो भुजशिरोऽसोऽस्त्री सन्धी तस्यैव जत्रुणी” इत्यमरः। “विषमैर्जत्रुभिर्निःस्वा अतिसूक्ष्मैश्च मानवाः। उन्नतैर्भोगिनो निम्नैर्निःस्वाः पीनैर्नराधिपाः ॥ " इति लक्षणम् । अरीन् दमयति निवर्त्तयतीत्यरिन्दमः । “सञ्ज्ञायां भृतृ़वृजिधारिसहितपिदमः” इति खच् । असञ्ज्ञायामप्यार्षः । अरिशब्देन पाप्मा विवक्षितः, अपहतपाप्मेत्यर्थः । अनेनायं विग्रहपरिग्रहो न कर्ममूलः, किन्त्वनुग्रहमूलः, “इच्छागृहीताभिमतोरुदेहः” इति स्मृतेः । अतः न प्रक्रमभङ्गः । जानु ऊरुपर्व, तत्पर्यन्तं विलम्बिबाहुराजानुबाहुः । सुष्ठु समं वृत्तं छत्राकारं शिरो यस्यासौ सुशिराः । “समवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च जीवति ॥ " इति लक्षणम्। सुललाटः। ललाटसौष्ठवं प्रोक्तम् “अर्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभुः” इति। शोभनः विक्रमः पदविक्षेपो यस्यासौ सुविक्रमः, शोभनत्वं च गजादितुल्यत्वम्। तथोक्तं जगद्वल्लभायाम् “सिंहर्षभगजव्याघ्रगतयो मनुजा मुने। सर्वत्र सुखमेधन्ते सर्वत्र जयिनः सदा ॥ " इति ॥ १।१।१० ॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ १।१।११ ॥
समः नातिदीर्घो नातिह्रस्वः । तथात्वं च तत्रैवोक्तम् “षण्णवत्यङ्गुलोच्छ्रायः सार्वभौमो भवेन्नृपः” इति । समानि अन्यूनाधिकपरिमाणानि विभक्तानि अश्लिष्टानि अङ्गानि करचरणाद्यवयवा यस्य स समविभक्ताङ्गः । तानि चोक्तानि सामुद्रिकैः “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी । करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः ॥ " इति। स्निग्धः स्नेहयुक्तो वर्णो यस्य सः स्निग्धवर्णः। तत्रोक्तं वररुचिना “नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। त्वचः स्नेहेन शय्या च पादस्नेहेन वाहनम्” इति। प्रतापवान् तेजस्वी, समुदायशोभासम्पन्न इत्यर्थः। पीनवक्षा मांसलवक्षाः। विशाले पद्मपत्रायते अक्षिणी यस्य सः विशालाक्षः। “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्” इति षच्। अत्र सामुद्रिकम् “रक्तान्तैः पद्मपत्राभैर्लोचनैः सुखभोगिनः” इति। लक्ष्मीवान् अवयवशोभायुक्तः। शुभलक्षणः अनुक्तसकललक्षणसम्पन्नः ॥ १।१।११ ॥
धर्म्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ॥ १।१।१२ ॥
एवमाश्रितानुभाव्यदिव्यमङ्गलविग्रहशालित्वमुक्त्वा आश्रितरक्षणोपयोगिगुणानाह धर्मज्ञ इत्यादिना स्वजनस्य च रक्षितेत्यन्तेन । धर्मं शरणागतरक्षणरूपं जानातीति धर्म्मज्ञः । वक्ष्यति “मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥ " इति। सत्या सन्धा प्रतिज्ञा यस्य स सत्यसन्धः। “प्रतिज्ञाने वधौ सन्धा” इति वैजयन्ती। “अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ " इति । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः । यशस्वी आश्रितरक्षणैककीर्त्तिः । “तस्य नाम महद्यशः” इति श्रुतेः । ज्ञानसम्पन्नः “यः सर्वज्ञः सर्ववित्” इत्युक्तरीत्या स्वरूपतः स्वभावतश्च सर्वविषयज्ञानशीलः । शुचिः पावनः परिशुद्धो वा, ऋजुरिति यावत् । वश्यः वशङ्गतः । “वशं गतः” इति निपातनाद्यत् । आश्रितपरतन्त्र इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता, तद्वान् । प्रजापतिसमः “मध्ये विरिञ्चिगिरिशं प्रथमावतारः” इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्यतयावतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अविनाभूतः । धाता पोषकः । “डुधाञ् धारणपोषणयोः” इति धातोस्तृच् । रिपून् शत्रून् निषूदयति निरस्यतीति रिपुनिषूदनः । “सूददीपदीक्षश्च” इति प्रतिषेधस्यानित्यत्वात् “अनुदात्तेतश्च हलादेः” इति युच्, नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात् षत्वम् । आश्रितविरोधिनिरसनशील इत्यर्थः ॥ १।१।१२ ॥
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ॥ १।१।१३ ॥
अथावतारैकान्तान् गुणानाह रक्षितेति । लोके सार्वभौमः स्वकीयजनरक्षण एव यतते, अयं तु न तथा, किन्तु सर्वस्य प्राणिजातस्य रक्षिता । ताच्छील्ये तृच् । शेषे षष्ठी । ननु यदि सर्वेषां रक्षिता तर्हि दुष्कृतिनमपि सुखिनमापादयेदित्यत्राह धर्मस्य परिरक्षितेति । आचरणप्रचारणाभ्यां सर्वधर्मस्य व्यवस्थापयिता । उच्छास्त्रप्रवर्त्तिनो ऽपि चिकित्सकन्यायेन अनघ(अलङ्घ)यितेत्यर्थः । स्वस्य स्वकीयस्य शरणागतरक्षणरूपस्य धर्मस्य विशेषधर्मस्य विशिष्यरक्षिता । यद्वा, धर्मस्य तत्तद्वर्णाश्रमधर्मस्य नित्यं समन्ततो रक्षिता । लोके सर्वधर्मप्रवर्त्तको ऽपि “धर्मोपदेशसमये जनाः सर्वे ऽपि पण्डिताः ।
तदनुष्ठानसमये मुनयो ऽपि न पण्डिताः ॥ " इति न्यायेन स्वधर्मानुष्ठाने स्खलति, न तथायमित्याह स्वस्य धर्मस्य रक्षिता, स्वासाधारणस्य क्षत्रियधर्मस्य रक्षितेत्यर्थः। लोके सर्वरक्षकोऽपि कश्चित्स्वजनरक्षणं कर्त्तुं न प्रगल्भते। “दास्यमैश्वर्य्यभावेन ज्ञातीनां च करोम्यहम्। अर्धभोक्ता च भोगानां वाग्दुरुक्तानि च क्षमे ॥ " इति भगवताप्युक्तेः । तदपि कर्तुमीहत इत्याह स्वजनस्य च रक्षितेति । स्वजनस्य च, स्वजनस्यापीत्यर्थः । अनेन स्वजनरक्षणस्य दुर्घटत्वं सूचितम् । यद्वा, चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेण रक्षिता । विशेषस्तु तदपराधसहिष्णुत्वम् । वक्ष्यति “मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥ " इति। यद्वा, लोके कश्चित्सर्वान् रक्षन् स्वजनं पीडयति, असौ तु स्वजनस्यापि रक्षितेत्यर्थः। अथवा स्वावतारप्रयोजनमाह रक्षितेति। गीतं हि “परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ " इति । स्वजनस्य स्वशेषभूतस्येति सर्वलोकविशेषणं रक्षणहेतुसम्बन्धद्योतनार्थम् । रक्षिता इष्टप्रापकः, अनेन साधुपरित्राणमुक्तम् । चशब्दो ऽन्वाचये । रक्षिता च अनिष्टनिवर्त्तकः । अनेनानुषङ्गिकदुष्कृद्विनाश उक्तः । धर्मस्य सामान्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन । रक्षिता स्वस्य धर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्माणामनुष्ठाता । यद्वा, स्वस्य धर्मः परत्वम्, तस्य रक्षिता । हरधनुर्भङ्गपरशुरामजयादिना हि परत्वं स्थापितम् । यद्वा, धर्मो धनुः “स्वाम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ।” इति बाणः । सदा धनुर्द्धरः । स्वजनस्य च रक्षिता स्वभूतो जनः स्वजनः ज्ञानी “ज्ञानी त्वात्मैव मे मतम्ऽ इति गीतत्वात्, तस्य रक्षिता आत्मन इव सर्वयोगक्षेमावह इत्यर्थः ॥ १।१।१३ ॥
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ १।१।१४ ॥
अथास्याष्टादशविद्यास्थानाभिज्ञत्वमाह वेदेति । विदन्त्यनेन धर्मादिकमिति वेदः । करणे घञ् । स चतुर्विधः । ऋग्यजुःसामाथर्वणभेदात् । वेदस्य किञ्चित्कराणि वेदाङ्गानि तानि च षट् । तथोक्तम् “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दसां विचितिश्चेति षडङ्गानि प्रचक्षते ॥ " इति। तत्र शिक्षानाम अकारादीनां वेदवर्णानां स्थानकरणप्रयत्नस्वरादिबोधिका, यागक्रियाक्रमोपदेशः कल्पः, साधुशब्दव्याख्यानं व्याकरणम् “वर्णागमो वर्णलोपो वर्णविपर्ययः” इत्यादिना निश्चयेनोक्तं निरुक्तम्, कर्मानुष्ठानकालादिप्रतिपादकं शास्त्रं ज्यौतिषम्, छन्दसां पद्यानां शास्त्रं छन्दोविचितिः। वेदाश्च वेदाङ्गानि च वेदवेदाङ्गानि तेषां तत्त्वं तत्त्वार्थः तं जानातीति तथोक्तः। “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः। धनुर्वेदो नाम धनुर्हस्तमुष्टिस्थितिविशेषाकर्षणविमोक्षणदिव्यास्त्रादिप्रयोगप्रतिपादको ग्रन्थः। चकार इतरोपवेदसमुच्चयार्थः। क्षत्रियो धनुर्वेदप्रधान इति तस्य निर्द्देशः। ते चोपवेदाश्चत्वारः। तथाहि “आयुर्वेदो धनुर्वेदो वेदो गान्धर्व एव च। अर्थशास्त्रमिति प्रोक्तमुपवेदचतुष्टयम् ॥ " इति । आयुर्वेदो बाहटं वैदिकधर्मानुष्ठानविरोधिरोगनिवर्त्तकौषधादिप्रतिपादकम् । गान्धर्ववेदो भरतशास्त्रं सामगानोपयोगि । अर्थशास्त्रं चाणक्यादिप्रणीतं नीतिशास्त्रं कर्मानुष्ठानेषूपयोग्यर्थसाधनम्, तेषु निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञ इति । सर्वशास्त्राणि उपात्तव्यतिरिक्तानि उपाङ्गानि गोबलीवर्दन्यायात् । “धर्मशास्त्रं पुराणं च मीमांसान्वीक्षिकी तथा । चत्वार्येतान्युपाङ्गनि शास्त्रज्ञाः सम्प्रचक्षते ॥ " इति। तत्र धर्मशास्त्रं पूर्वकाण्डोपबृंहणम्, पुराणं वेदान्तोपबृंहणम्, न्यायमीमांसे सर्ववेदसाधारण्यौ तेषामर्थतत्त्वम् अर्थयाथात्म्यम्, निगूढाशयमित्यर्थः। तत् जानातीति तथा। अष्टादशविद्यास्थानतत्त्वज्ञ
इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणलेशरहितः । प्रतिभानवान् व्यवहारकाले श्रुतस्याश्रुतस्य वा झटिति स्फुरणं प्रतिभानम्, तद्वान् ॥ १।१।१४ ॥
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ॥ १।१।१५ ॥
अथ सर्वदा सदुपास्यत्वमाह सर्वेति । सर्वे लोकाः प्रिया यस्य सः सर्वलोकप्रियः, सर्वेषां लोकानां प्रियः सर्वलोकप्रियः । सर्वलोकप्रियत्वात् सद्भिरभिगन्तव्य इत्यर्थः । साधुः तत्कार्यसाधकः । उण् प्रत्ययः । यद्वा साधुः उचितः, सदभिगमनोचित इत्यर्थः । “साधुस्त्रिषूचिते सौम्ये सज्जने वार्धुषावपि” इति वैजयन्ती । अदीनात्मा अकार्प्पण्यात्मा । अतिगम्भीरप्रकृतिरिति यावत् । विचष्ट इति विचक्षणः । नन्द्यादित्वात् ल्युः “अस्युस्यनेचक्षिडः ख्याञ् नेति वाच्यम्” इति व्ख्याञादेशाभावः । विविधं वक्तीत्यर्थः । अत एव सर्वदा सदुपास्यमानत्वमाह सर्वदेति । सर्वदा अस्त्राभ्यासकालेष्वपि सद्भिः सत्पुरुषैः अभिगतः परिगतः, परिवारित इत्यर्थः । कथमिव ? समुद्रः सिन्धुभिरिव नदीभिरिव । “स्त्री नद्यां ना नदे सिन्धुर्देशभेदे ऽम्बुधौ गजे ।” इति वैजयन्ती । सर्वदाभिगतः सद्भिः खुरलीकेलिश्रमविश्रान्त एकान्ते छायामवगाहमाने रामे सन्तः सर्वे तत्तदर्थविशेषश्रवणाय परिवृत्त्य स्थिता इत्यर्थः । तथा च वक्ष्यति “ज्ञानवृद्धैर्वयोवृद्धैः शीलवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ " इति। अस्त्रयोग्योऽस्त्राभ्यासः। समुद्र इव सिन्धुभिः। एवं सदभिगमनं न रामस्याज्ञातज्ञापनाय, तस्य स्वत एव पूर्णत्वात्। किन्तु स्वेषामेवापूर्वार्थविशेषलाभाय, गत्यन्तराभावादिति भावः। सिन्धवो हि स्वसत्तालाभायैव समुद्रमभियान्ति, न तु तस्यातिशयापादनाय ॥ १।१।१५ ॥
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ।
स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ॥ १।१।१६ ॥
एवमभिगमनहेतुभूतं सौलभ्यादिकं विशदयति आर्य इति । आङ्पूर्वात् ऽऋ गतौऽ इत्यस्माद्धातोः कर्मणि ण्यत्प्रत्ययः । अभिगन्तुमर्ह इत्यर्थः । किं सतामेव ? नेत्याह सर्वसमः, जातिगुणवृत्त्यादितारतम्यं विना सर्वेषामाश्रयणीयत्वे तुल्यः । अस्य कादाचित्कत्वं वारयत्येवकारः । चकार उक्तसमुच्चयार्थः । किञ्चिदुपदेशाभावे ऽपि सौन्दर्यादभिगन्तव्यत्वमाह सदैकप्रियदर्शन इति । सदानुभवे ऽपि नवनवतया भासमान इत्यर्थः । अथ “इषुक्षयान्निवर्त्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥ " इति भगवद्गुणानां वर्षायुतेनापि वर्णयितुमशक्यत्वेन सङ्ग्रहेण वदन्नुत्तरमुपसंहरति स चेति। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। “वृद्धेत्कोसलाजादाञ्ञ्यङ्” इति ञ्यङ्प्रत्ययः। “यङश्चाप्” इतिचाप्। तस्या आनन्दं वर्द्धयतीति कौसल्यानन्दवर्द्धनः। चशब्द एवकारार्थः। कौसल्यासुतत्वेनावतीर्णो विष्णुरेव वेदान्तोदितसकलगुणसम्पन्नः परमात्मा, न तु ब्रह्मादिष्वन्यतम इत्यर्थः। दशरथनन्दन इत्यनुक्तिः पुत्रलाभफलस्य कौसल्ययैव लाभात्। अत एव वक्ष्यति “कौसल्या लोकभर्त्तारं सुषुवे यं मनस्विनी” इति ॥ १।१।१६ ॥
समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव ।
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ १।१।१७ ॥
अथास्य निस्समाभ्यधिकत्वं वक्तुं लोके प्रकृष्टवस्तूनां तदेकैकगुणसाम्यमाह समुद्र
इवेत्यादिश्लोकद्वयेन । गाम्भीर्यं नाम स्वान्तर्गतपदार्थाप्रकाशकत्वम् । यथा समुद्रः स्वान्तर्गतं रत्नादिकमप्रकाशयन्नेव वर्त्तते तथायमपि स्वीयं परत्वमप्रकटयन्नेवास्त इत्यर्थः । वक्ष्यति “आत्मानं मानुषं मन्ये” इति । धैर्यं नाम शोकहेतुसद्भावे ऽपि निःशोकत्वम् । तेन हिमवानिव हिमवत्सदृशः । “गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः ॥ " इति ह्युक्तम्। अत्र वस्तुतः समुद्रादेरुपमानत्वाभावेऽपि प्रतिपत्तृ़णामुपमानत्वं सम्भवतीत्येवमुक्तम्। यथा “इषुवद्गच्छति सविता” इत्यत्र। विष्णुनेति। वीर्ये विषये विष्णुना सदृशः। विष्णोरर्धत्वेन रामस्य विष्णुसादृश्यं सुवचमेव। “स उ श्रेयान् भवति जायमानः” इत्युक्तत्वेन तदंशस्यापि तत्सदृशत्वं युक्तमेव। सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमाह्लादकरः ॥ १।१।१७ ॥
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।
धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ १।१।१८ ॥
क्रोधे कालाग्निसदृशः, कालाग्निक्रोधसमक्रोध इत्यर्थः । स्वविषयापराधमेव स्वयं सहते । स्वाश्रितविषयापराधकरणे तु ज्वलज्ज्वलन इव शीतलतरे ऽपि हृदये कोपमावहतीत्यर्थः । जले हि कालाग्निर्ज्वलति । क्षमया क्षमारूपसदृशधर्मेण पृथिवीसमः पृथिवीतुल्यक्षमः, स्वस्मिन्नपकारकरणे अचेतनवद्वर्त्तत इत्यर्थः । “न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।” इति वक्ष्यति । त्यागे त्यागविषये धनदेन कुबेरेण समः, तद्वद्दातेत्यर्थः । कुबेरस्य त्यागित्वं " त्यागे च धनदो यथा” इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चित्सिद्धम् । “त्यागे सत्यपि धनदवदाढ्यः” इति व्याख्यानं तु प्रक्रमविरुद्धम्, न ह्याढ्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमेवास्य सिद्धं स्यात् । सत्ये सत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः धर्मः धर्मदेवतेव स्थितः, धर्मदेवतेव निरपायसत्यवचन
इत्यर्थः । सत्ये अपरो धर्म इव स्थित इति व्याख्याने प्रकृतौपम्ये विरोधः, तस्योत्प्रेक्षारूपत्वात् । क्वचिदुपमा क्वचिदुल्लेखः क्वचिदुत्प्रेक्षेति विजातीयसङ्कर इत्यप्याहुः ॥ १।१।१८ ॥
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ॥ १।१।१९ ॥
एंव वेदान्तोदितजगत्कारणत्वसर्वज्ञत्वसर्वशक्तित्वसर्वान्तर्यामित्वप्रमुखसमस्तकल्याणगुणाकरं ब्रह्म किं रामत्वेनावतीर्णो विष्णुः, उत ब्रह्मरुद्रादिष्वन्यतम इति वाल्मीकिना वेदोपबृंहणाय पृष्टे वेदान्तोदितगुणानां तदन्येष्वसम्भवात्तस्यैव सम्भवाच्च स एव वेदान्तोदितं परं तत्त्वमित्युपदिष्टम् । तत्र तत्र जगत्कारणप्रकरणेषु प्रयुक्ताः स्वयम्भूशिवादिशब्दाः सद्ब्रह्मादिसामान्यशब्दवदपर्यवसानवृत्त्या ऽवयववृत्त्या वा परमात्मपरा इत्यप्यर्थसिद्धम् । एवं वेदान्तसारार्थः सन्दर्शितः । ननु ब्रह्मस्वरूपमिव फलस्वरूपं तदुपायस्वरूपमपि वेदार्थत्वादुपबृंहणीयम्, तदुभयं किमिति न पृष्टं नोपदिष्टं च । मैवम् परिपप्रच्छेत्यत्र परिणा तदुभयस्वरूपमपि पृष्टमेव । उत्तरे च “प्रजानां च हिते रतः” इत्यादिनोपायत्वं “सदैकप्रियदर्शनः” इत्यादिनोपेयत्वं च तस्यैवेत्युक्तम् । ननु सिद्धस्यैव तस्योपायत्वे सर्वमुक्तिप्रसङ्ग इति चेन्न य उपायोपेयाधिकारी तस्यैव फलं दिशति नानधिकारिण इति व्यवस्थापनात् । अधिकारश्च तत्प्राप्त्यपेक्षासाधनान्तरपरित्यागश्चेत्युत्तरग्रन्थे सुव्यक्तम् । ननु वेदोपबृंहणमिदं रामायणमित्युक्तम् । धर्मो ऽपि वेदार्थः । स कथं नोपबृंहितः, किञ्च इयता ग्रन्थेन वेदान्तार्थ उपबृंहितः, किमतः परेण ग्रन्थेन ? उच्यते उक्ताननुक्तांश्च कल्याणगुणांस्तच्चरित्रनिदर्शनमुखेन प्रतिपादयितुमुत्तरग्रन्थः
पूर्वभागोपबृंहणं च रामायणपुरुषाचारमुखेन हि सामान्यधर्मो विशेषधर्मश्चोपबृंहितः । ननु तथापि कथं बालकाण्डकथा नोपदर्शिता ? मैवम् तत्र प्रदर्शनीयगुणविशेषाभावात्, न च साप्यत्यन्तमप्रदर्शिता । “इक्ष्वाकुवंशप्रभवः” इत्यवतरणम्, “महावीर्यः” इति ताटकाताटकेयादिवधः, “धनुर्वेदे च निष्ठितः” इति कौशिकाधिगतनिखिलदिव्यास्त्रवत्त्वम्, “श्रीमान्” इति वैदेहीलाभश्चेति बालकाण्डकथासूचनात् । अथायोध्याकाण्डकथां प्रस्तौति तमेवमित्यादिना । आदौ श्लोकद्वयमेकान्वयम् । दशसु दिक्षु रथो यस्य स दशरथः । अप्रतिहतरथत्वेन रामाय राज्यं दत्तम्, भीतिदत्तत्वाभावेन पुनरनादातव्यत्वमुक्तम् । महीपतिः अस्वामिदत्तत्वाभाव उच्यते । एवं दात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा सम्प्रदानगुणेनाप्याह तमित्यादिना । तं प्रसिद्धम् । एवं गुणसम्पन्नं पूर्वोक्तसर्वगुणसमृद्धम्, सर्वस्य स्वामिभूतमिति यावत् । सत्यपराक्रमममोघपराक्रमम्, सर्वरक्षणशक्तमिति यावत् । ज्येष्ठं जन्मक्रमेणापि राज्यार्हम् । श्रेष्ठगुणैर्युक्तम् नीतिशास्त्रोक्तषाड्गुण्ययुक्तम्, सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दकोक्ताः । प्रियं प्रीतिविषयम् । अनेन तात्कालिकप्रीतिदानव्यावृत्तिः । सुतं जन्मनैव राज्यार्हम् ॥ १।१।१९ ॥
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ १।१।२० ॥
प्रकृतीनां प्रजानां हितैः हितकरणैर्युक्तम्, अनेन सर्वानुकूल्यमुक्तम् । एवम्भूतं रामं प्रकृतिप्रियकाम्यया अमात्यादीनां प्रीतिकरणेच्छया । इच्छायां काम्यच्प्रत्ययः । “अप्रत्ययात्” इत्यप्रत्ययः । “अजाद्यतष्टाप्” । प्रीत्या स्वप्रीत्या च । चकारो ऽर्थसिद्धः । “गामश्वं पुरुषं जगत्” इतिवत् । मन्त्रिवृद्धैरालोचनपूर्वकं कृतत्वादप्रत्याख्येयत्वमुच्यते । “प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्मामात्यादिमातृषु” इत्युभयत्र वैजयन्ती । युवा चासौ राजा च युवराजः तस्य भावः कर्म वा यौवराज्यम् । ब्राह्मणादित्वात् ष्यञ् । तेन पितरि राज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावेनेत्यर्थः । संयोक्तुं घटयितुमैच्छत्, तत्सम्भारान् समभरदित्यर्थः ॥ १।१।२० ॥
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ॥
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ १।१।२१ ॥
एवं पुनरादानायोग्यं रामाय राज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि कैकेय्या याचनमाह तस्येति सार्द्धश्लोक एकान्वयः । अथ रामाय राज्यप्रदानेच्छानन्तरं तस्य रामस्याभिषेकः कर्मविशेषः, तस्य सम्भारानुपकरणानि । “औदुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः” इत्यादीनि “दधिमधुसर्पिरातपवर्ष्या आपः” इत्यन्तानि ब्राह्मणोक्तानि दृष्ट्वा मन्थरामुखेन दर्शन इव ज्ञात्वा । भार्या भर्तुं योग्या, न तु स्वातन्त्र्यार्हा । पूर्वं पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । तेन दशरथेन दत्तवरा शम्बरासुरविजयकाले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहेतुत्वेनेदमुक्तम् । (तच्छब्दस्य दशरथपरामर्शितया शम्बरासुरसमरं सूचितम् । दशसु दिक्षु अप्रतिरुद्धरथो हि सः ।) दीव्यतीति देवी । पचाद्यच् । देवडिति टित्त्वेन पाठात् ङीप् । भोगोपकरणभूतेति व्यामोहमूलोक्तिः । कैकयी केकयानां राजा केकयः । “क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्” इत्यञ् । “जनपदे लुप्” । केकयस्यापत्यं स्त्री कैकयी । “जनपदशब्दात्क्षत्रियादञ्” इत्यपत्यार्थे ऽञ् । “टिड्ढाणञ् " इत्यादिना
ङीप् । नन्वञ्प्रत्यये “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशः किं न स्यात् ? उच्यते “जरायां जरसन्यतरस्याम्” इत्यतो ऽन्यतरस्यामित्यनुवृत्तेस्तस्य वैकल्पिकत्वात् । न चेयादेशाभाव आर्ष इति वाच्यम् । कैकेयीकैकयीति शब्दभेदप्रकाशिकायामुक्तेः । “प्राक् कैकयीतो भरतस्ततो ऽभूत्” इति भट्टिप्रयोगात् । केकयीति पाठे तु केकयान् जन्मभूमित्वेनाचष्ट इति केकयी । “तदाचष्टे” इति णिजन्तादौणादिके स्त्रियामिकारप्रत्यये टिलोपे णिलोपे च कृते “कृदिकारादक्तिनः” इति ङीषित्याहुः । “पुंयोगादाख्यायाम्” इति वा ङीष् । तत्र योगशब्देनाविशेषाज्जन्यजनकभावो ऽपि गृह्यते । केकयशब्दो मूलप्रकृतिरेवोपचारात् स्त्र्यपत्ये वर्त्तते । शार्ङ्गरवादिपाठात् ङीनिति न्यासकारः । कैकयी । एनं दशरथम् । “द्वितीयाटौस्स्वेनः” इत्यन्वादेशे एनादेशः । रामस्य विवासनं भरतस्याभिषेचनं च वरमयाचत अर्थितवती । याचिर्द्विकर्मकः ॥ १।१।२१ ॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ १।१।२२ ॥
स इति ॥ राजा सर्वरञ्जकः, “राजा प्रकृतिरञ्जनात्” इति प्रयोगात् । औणादिकः कनिन्प्रत्ययः । यद्यपि “रजकरजनरजस्सूपसङ्ख्यानम्” इति वचनादत्र नलोपप्रसक्तिर्नास्ति तथापि रजस्साहचर्यादौणादिकस्य तत्र ग्रहणम् । स पूर्वं रामाय दत्तराज्यः, मन्त्रिप्रमुखैरालोचनपूर्वकं प्रतिज्ञातरामाभिषेक इत्यर्थः । दशरथः । धर्मः पाश इव धर्मपाशः । “उपमितं व्याघ्रादिभिः” इति समासः । व्याघ्रादेराकृतिगणत्वात् । तेन संयतो बद्धः सन् सत्यवचनात् स्त्रीविषयवचनसिद्धिहेतोः प्रियं सुतं विवासयामास, “रामो विग्रहवान् धर्मः” इत्युक्तरीत्या प्रथममङ्गीकृतं परमधर्मं परित्यज्यानन्तरं प्रवृत्तं स्त्रीविषयं क्षुद्रधर्ममवलम्बितवानित्यर्थः । एतेन “साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघविनाशनम् ॥ " “आक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम्” “कामाद्गोप्यो भयात्कंसः” इत्येवं यथाकथञ्चित् भगवन्नामवतां मुक्तिसिद्धौ सर्वदा रामपरायणस्य दशरथस्य कथं न मुक्तिरिति शङ्का दूरोत्सारिता। सिद्धसाधनत्यागात् काशकुशावलम्बनात् धर्मपाशप्रतिबन्धाच्च मुक्तिप्रसङ्गाभावात् तथा च मुमुक्षुणा दशरथवन्न वर्तितव्यमित्युक्तं भवति ॥ १।१।२२ ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ १।१।२३ ॥
पितृवचनपरिपालनमवश्यं कर्त्तव्यम्, एतद्रामाचारमुखेन दर्शयति स जगामेति । स रामः वीरो ऽपि राज्यपरिपालनसमर्थो ऽपि कैकेय्याः प्रियकारणात् प्रीतिहेतुभूतात् स्त्रीपारवश्येनोक्तादपीत्यर्थः । पितुर्वचननिर्देशात्, वचनमेव निर्द्देशः आज्ञा । “आज्ञायामपि निर्देशः” इति बाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षं कृतां प्रतिज्ञामनुपालयंश्च । “लक्षणहेत्वोः क्रियायाः” इति हेत्वर्थे शतृप्रत्ययः । वक्ष्यति “तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते” इति स्वप्रतिज्ञापालनार्थं पितृवचनपालनार्थं चेत्यर्थः । वनं दण्डकावनमुद्दिश्य जगाम ॥ १।१।२३ ॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः ॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ॥ १।१।२४ ॥
इक्ष्वाकुवंशेत्यादिना समस्तकल्याणगुणपरिपूर्णत्वोक्त्या परत्वमुक्तम् । तमेवमित्यादिना अभिषेकप्रवृत्तिनिवृत्तिकथनात् सौलभ्यमुक्तम् । अथ परत्वसौलभ्यानुगुणं समाश्रयणमाह तं व्रजन्तमिति । यद्वा अथ सिद्धसाधननिष्ठैः लक्ष्मणवत् कैङ्कर्यपरैर्भवितव्यमिति व्यञ्जयन्नाह तं व्रजन्तमिति, सार्द्धश्लोक एकान्वयः । प्रीणातीति प्रियः । रामे प्रीतिमान् । “इगुपधज्ञाप्रीकिरः कः” इति कः । अनेनानुगतिहेतुर्भक्तिरुक्ता । भ्राता “भ्राता स्वा मूर्तिरात्मनः” इति मूर्तिभूतः । विनयसम्पन्नः कैङ्कर्यहेतुविनययुक्तः । विनयः शेषत्वज्ञानं रामकैङ्कर्य्यरूपाचारो वा । “विनयो धर्मविद्यादिशिक्षाचारप्रशान्तिषु” इति वैजयन्ती । सुमित्रायाः आनन्दं वर्द्धयतीति सुमित्रानन्दवर्द्धनः, “सृष्टस्त्वं वनवासाय” “रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ " इति सुमित्रयैवोक्तत्वात्। दयितः रामस्येष्टतमः। “यमेवैष वृणुते तेन लभ्यः” इत्युक्तरीत्या प्रियतमत्वेन वरणीय इत्यर्थः। लक्ष्मणः कैङ्कर्यलक्ष्मीसम्पन्नो भविष्यतीति ज्ञात्वा लक्ष्मण इति वसिष्ठेन कृतनामधेयः, “स तु नागवरः श्रीमान्” “अन्तरिक्षगतः श्रीमान्” इत्युक्तेः। कैङ्कर्यलक्ष्मीवत्त्वं “लक्ष्मणो लक्ष्मीसम्पन्नः” इति वक्ष्यति। “लक्ष्म्या अच्च” इति पामादिगणसूत्रान्मत्वर्थीयो नप्रत्ययः, अकारश्चान्तादेशः। “लक्ष्मीवान् लक्ष्मणः श्रीमान्” इति पर्यायपाठश्च। सुभ्रातुर्भावः सौभ्रात्रम्। भावे अण्, अनुशतिकादित्वात् उभयपदवृद्धिः। रामं विना क्षणमपि जीवनाक्षमत्वं सुभ्रातृत्वम्। वक्ष्यति “न च सीता त्वया हीना न चाहमपि राघव। मुहूर्त्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ " इति । रामस्य लक्ष्मणविरहासहत्वं सुभ्रातृत्वम् । तच्च वक्ष्यति “न च तेन विना निद्रां लभते पुरुषोत्तमः । मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥ " इति। तदनुदर्शयन् सन्। यद्वा एवं सुभ्रातृभिर्वर्त्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा। व्रजन्तम् एकान्ते स्वाभिमतसकलकैङ्कर्यप्रधानप्रवृत्तं भ्रातरम्। उपलक्षणमिदम्, “माता पिता च भ्राता च निवासः शरणं सुहृत्। गतिर्नारायणः” इत्युक्तसकलविधबन्धुः। वक्ष्यति “अहं तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्त्ता च बन्धुश्च पिता च मम राघवः ॥ " इति । स्नेहात् “बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः” इत्युक्तरामभक्तेरेव हेतोरनुजगाम । “येन येन धाता गच्छति तेन तेन सह गच्छति” इतिवदपूर्वो ऽयं कश्चिद्वृत्तिविशेष इति ऋषिर्विस्मयते हेति । “ह विस्मये विषादे च” इति बाणः । आशालेशमात्रेण स्वस्मिन्नेवाधिकप्रेमाणं भगवन्तं कुत्रचित् एकान्तस्थले स्वमनोरथानुरूपविशिष्टविषयसकलकैङ्कर्यलाभायानुसरन्नधिकार्यत्र विनिर्दिश्यते ॥ १।१।२४ ॥
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।
जनकस्य कुले जाता देवमायेव निर्मिता ॥ १।१।२५ ॥
अथ सीतायाः साधनदशायां पुरुषकारतया फलदशायां प्राप्यतया चान्वयात्तया नित्ययोगं दर्शयति रामस्येत्यादिश्लोकद्वयेन । रामस्याभिरामस्यापि दयिता अभिरामा नित्यं भार्या हृदि सन्ततं धार्या । बिभर्त्तेः “ऋहलोर्ण्यत्” इति ण्यत् । प्राणसमा उक्तार्थद्वये हेतुरयम् । हिता चेतनहितपरा । “मित्रमौपयिकं कर्तुम्” इत्यादि वक्ष्यति । रामहितपरा वा । वक्ष्यति “स्मारये त्वां न शिक्षये” इति । जनकस्य कुले जाता, आचारप्रधानेत्यर्थः । देवमायेव निर्मिता । अमृतमथनानन्तरमसुरमोहनार्थं निर्मिता विष्णुमायेव स्थिता । “मायया मोहयित्वा तान् विष्णुः स्त्रीरूपमास्थितः” इत्युक्तेः । यद्वा निर्मिता कृतमूर्तिः देवमाया विष्णोराश्चर्यशक्तिरिव स्थिता, अनेन सौन्दर्यस्य पराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा । देवमाया देवस्य विष्णोर्लक्ष्मीः । वक्ष्यति उत्तरकाण्डे “ऋते मायां विशालाक्षीं तव
पूर्वपरिग्रहाम्” इति । इवशब्दो वाक्यालङ्कारे एवकारार्थे वा ॥ १।१।२५ ॥
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ १।१।२६ ॥
सर्वलक्षणसम्पन्ना सामुद्रिकोक्तैः सर्वैरुत्तमस्त्रीलक्षणैः सम्पन्ना । नारीणामुत्तमा पूर्वोक्तसर्वप्रकारेण सर्वस्त्रीश्रेष्ठा । पुरुषोत्तमरामानुरूपनार्युत्तमेत्यर्थः । वधूर्दशरथस्नुषा अचिरोढा वा । “अचिरोढा वधूः” इति वैजयन्ती । सीता “सीता लाङ्गलपद्धतिः” तज्जन्यत्वात्तद्व्यपदेशः । अनेनायोनिजत्वोक्तेर्दिव्यलोकवासकालिकसौन्दर्यान्यूनतोक्ता । अपिशब्दने लक्ष्मणानुगतिः समुच्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदयतयानुगतवती, रोहिणी यथा । यथाशब्द इवार्थः । “यथा तथेवैवं साम्ये” इत्यमरः । रोहिणीनाम चन्द्रस्यासाधारणपत्नी । “वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ " इति। न केवलं रामसौन्दर्याकृष्टानुगता, किन्तु कलङ्किनं रोहिणीव पातिव्रत्यस्वरूपप्रयुक्ता गतेत्यर्थः। अयमर्थोऽनसूयासमक्षं व्यक्तीभविष्यति ॥ १।१।२६ ॥
पौरैरनुगतो दूरं पित्रा दशरथेन च ।
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत् ॥
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ १।१।२७ ॥
रामभक्त्यविशेषाल्लक्ष्मणसीतावत् पौराणामप्यनुवृत्तिं दर्शयति पौरैरिति । पूरे भवाः पौराः । अनेन स्त्रीबालवृद्धाविशेष उक्तः । दूरमनुगतः इत्यनेन विरहासहिष्णुत्वोक्त्या पौराणां परमा भक्तिरुक्ता । “पुनर्विश्लेषभीरुत्वं परमा भक्तिरुच्यते” इति वचनात् । पौरैरित्यनेन तद्देशवास एव रामभक्तिहेतुरित्युक्तम् । पित्रा दशरथेन च । चशब्दो ऽन्वाचये । अल्पमनुगत इत्यर्थः । आद्वारं हि तेनानुगतम् । पित्रेत्यनेन पुत्रकृतवात्सल्यादनुगत इत्युक्तम् । एवं परत्वसौलभ्ये दर्शिते । अथ वात्सल्यसौशील्ये दर्शयति शृङ्गिबेरपुर इति । धर्मौ आश्रितवात्सल्यसौशील्ये आत्मा स्वभावो यस्य सः तथा । आश्रितवात्सल्यसौशील्यस्वभावो रामः शृङ्गिबेरपुरे शृङ्गिणः कृष्णसारादयः तेषां बेराणि कृत्रिमशरीराणि । “प्रतिच्छन्दः प्रतिनिधिर्बेरं च प्रतिरूपकम्” इति वैजयन्ती । वञ्चनेन सजातीयमृगग्रहणार्थानि यस्मिन् तत् शृङ्गिबेरम् । तथात्वात् तदाख्ये पुरे गङ्गाकूले, शृङ्गिबेरपुरसन्निहितगङ्गातीर इत्यर्थः । एतेन गङ्गातीरत्वमात्रेण नोद्देश्यत्वम्, किन्तु भक्तसेवितत्वेनेत्युक्तम् । “सा काशीति न चाकशीति " इत्याद्यभियुक्तोक्तेः । निषादाः प्रतिलोमजातिविशेषाः । “निषादो मृगघाती स्यात्” इति वैजयन्ती । तेषामधिपतिरिति जात्यपकर्ष उक्तः । प्रीणातीति प्रियः तम्, स्वस्मिन् प्रीतिमन्तमित्यर्थः । गूहति गोपयति वञ्चयति परस्वमिति गुहः । इगुपधलक्षणः कप्रत्ययः । तम्, जातितो वृत्तितो गुणतः कुलतश्च हीनमपि स्वस्मिन्नानुकूल्यमात्रेणादरणीयत्वमुक्तम् । निषादाधिपतिमासाद्येत्यनेन सौशील्यमुक्तम् । महतो मन्दैस्सह नीरन्ध्रेण संश्लेषो हि सौशील्यम् । धर्मात्मेत्यनेन महत्त्वमुक्तम् । आसाद्येत्यत्राभिविधिवाचिना आङा अर्थान्नैरन्ध्र्यमुक्तम् । शृङ्गिबेरपुरे गुहमासाद्येत्यनेन दोषे ऽपि भोग्यत्वरूपं वात्सल्यमुक्तम् । सूतं सुमन्त्रम्, पारम्पर्येणानुवर्त्तमानमपि व्यसर्ज्जयत् व्यसृजत् । स्वार्थे णिच् । सद्यः प्रसूतवत्सवात्सल्यात् पूर्ववत्सं परिहरन्त्या धेनोरिव वात्सल्यातिशय उक्तः ॥ १।१।२७ ॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ॥ १।१।२८ ॥
स्वस्मिन्नाशालेशमात्रेण जनितं गुहविषयप्रेमातिशयं दर्शयति गुहेनेति । रामः गुहेन सहितः सन् लक्ष्मणेन सीतया च सहितः । गुहसन्धानानन्तरमेव लक्ष्मणसीताभ्यां नित्यानपायिभ्यां साहित्यमासीत् । ततः पूर्वं सिद्धमपि सदसत्प्रायमासीदित्यर्थः । यद्वा दृष्टान्तार्थं लक्ष्मणसीतासाहित्यकथनम्, तादृशसौहार्दं (स्नेहो ) गुहे ऽप्यासीदिति भावः । सहितः संहितः । “समोवाहितततयोः” इति मलोपः । सः रामः लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः गङ्गां तारित इत्यप्याहुः ॥ १।१।२८ ॥
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ १।१।२९ ॥
ते वनेन इति श्लोकद्वयमेकान्वयम् । ते रामादयस्त्रय इत्यनेन गुहनिवर्त्तनं द्योतितम् । वनेन वनं गत्वा वनाद्वनं गत्वा । पञ्चम्यर्थे तृतीया, हेतौ तृतीया वा । अनेन नूतनवनावलोकनकुतूहलित्वं नगरप्रवेशस्य स्वाधिकारविरुद्धत्वं च द्योत्यते । यद्वा अवनेन वनं गत्वा अन्योन्यरक्षणेन वनं गत्वेत्यर्थः । वक्ष्यति “अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु । पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ॥ " इति। यद्वा अवनेन पितृवचनपरिपालनेन हेतुना वनं गत्वा, अवनेन लोकरक्षणेन हेतुना वा। रावणादिदुष्टनिबर्हणमुखेन लोकरक्षणार्थं हि तेषां वनगमनम्। यद्वा “तेवृ देवने” इति धातोर्भावे ल्युट्। तेवनेन देवनेन लीलया अनायासेनेत्यर्थः। मृगयाक्रीडनेन वा। अनयैव व्युत्पत्त्या तेवनं पादसञ्चार इति लभ्यते, सूतविसर्जनानन्तरं रथादवरुह्य पादसञ्चारेण वनं गत्वेत्यर्थः। यद्वा अवनेन सह वनं गत्वा मध्ये मध्ये स्थलप्रदेशं वनं च गत्वेत्यर्थः। वनेन जलेन सहितं वनम्, न तु मरुकान्तारमिति वार्थः। “पयः कीलालममृतं जीवनं भुवनं वनम्” इत्यमरः। बहूदकाः विपुलोदकाः अधिकोदका वा। “विपुलानेकयोर्बहुः” इति वैजयन्ती। नौतार्या इत्यर्थः। नदीः गङ्गाम् तीर्त्वा उत्तीर्य। “गङ्गा नदीनाम्” इति नदीमुख्यत्वात् निरुपपदनदीशब्देन गङ्गोच्यते। “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्” इति बहुवचनम्, पूजायां बहुवचनं वा। “अदितिः पाशान्” इतिवदवयवबहुत्वाभिप्रायेण वा बहुवचनम्। अत्र ऽअग्निहोत्रं जुहोति, यवागूं पचतिऽ इतिवदर्थक्रमेण नदीस्तीर्त्वा वनं गत्वेति योजनीयम्। यद्वा अपूर्वकालेऽपि क्त्वाप्रत्ययः ऽआस्यं व्यादाय स्वपितिऽ इतिवत्। यद्यपि “आस्यं व्यादाय स्वपिति संमील्य हसति इत्युपसङ्ख्यानम्” इति वार्त्तिके स्थलद्वयमेवोपात्तम् तथापि न्यासकृता “परावरयोगे च” इति पूर्वसूत्रे चकारात् सर्वत्रायं प्रयोगः सम्भवतीत्युक्तम्। यद्वा ते वनेनेत्यनेन गङ्गातरणमर्थसिद्धम्। नदीशब्दो यमुनापरः। यद्वा नदीः गङ्गायमुनामन्दाकिनीः। मन्दाकिनीनाम चित्रकूटपरिसरे परिसरन्ती स्रवन्ती। सौकर्याय युगपदुक्तम्। यद्वा पूर्वार्द्धे स रामो लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः, सीतालक्ष्मणरामाः गुहेन गङ्गां तारिता इत्यर्थः। अतः पादसञ्चारेण वनगमनमत्रोक्तम्। भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य। प्रजाभरणशीलो भरद्वाजः। इत्थं निरुक्तमृगारण्यके “एष एव बिभ्रद्वाजः प्रजा वै वाजः ता एष बिभर्त्ति यद्बिभर्त्ति तस्मात् भरद्वाज इत्याचक्षते” इति। यद्वा वाजं रेतः, वाजकरणमित्यादौ तथा प्रयोगात्। बिभ्रद्वाजं भरद्वाजः। नित्यब्रह्मचारीत्यर्थः। “भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवा(पा)स” इति श्रुतेः। तस्य शासनान्नियमनात् चित्रकूटे भवद्भिः स्थातव्यम्, तस्यायमेव मार्ग इत्येवंरूपात्। अनु सदृशम् “पश्चात्सादृश्ययोरनु” इत्यमरः। राजकुमाराणां स्वेषामुचितमित्यर्थः। “सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः। यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ " इति वक्ष्यति । पश्चाद्भागे वा चित्राणि आश्चर्यावहानि कूटानि शिखराणि यस्यासौ चित्रकूटः तम् । “आश्चर्यालेख्ययोश्चित्रम्”
इत्यमरः । प्राप्य गत्वा ॥ १।१।२९ ॥
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ॥ १।१।३० ॥
रम्यं रमणीयं जलरामणीयकस्थलरामणीयकादियुक्तम् आवसथं पर्णशालारूपं गृहम् । “धिष्ण्यमोको निवसनं स्थानावसथवास्तु च” इत्यमरः । कृत्वा निर्माय । अत्र पर्णशालानिर्माणे लक्ष्मणस्य साक्षात्कर्तृत्वम् । इतरयोस्तु उचितदेशप्रदर्शनादिना प्रयोजककर्तृत्वम् । “समानकर्तृकयोः पूर्वकाले” इत्यत्र सूत्रे ऽगृहैकत्ववदुद्देश्यगतत्वेन द्वित्वस्याविवक्षितत्वादनेकक्रियास्वपि क्त्वाप्रत्ययस्सम्भवतिऽ इति न्यासकारोक्तेः क्त्वाप्रत्ययबाहुल्यम् । तत्र वने चित्रकूटोपान्तवने रममाणाः लीलारसमनुभवन्तः सन्तः सीतारामयोः पुष्पापचयसलिलक्रीडादिकं रतिः । “वैदेहि रभसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयुतान् ।” इति हि वक्ष्यति । लक्ष्मणस्य तु विशिष्टविषयकैङ्कर्यलाभजा प्रीतिः । वक्ष्यति “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ " इति। त्रयो रममाणाः इत्यनेनान्दहेतुभेदेऽप्यानन्दांशे तौल्यमुच्यते “परमं साम्यमुपैति” “भोगमात्रसाम्यलिङ्गाच्च” इतिवत्। रममाणा इति वर्त्तमाननिर्द्देशेन नैरन्तर्य्यमुक्तम्। वर्त्तमानार्थकस्याप्यस्य न्यवसन्निति भूतप्रत्ययान्तविशेषणत्वम्। “धातुसम्बन्धे प्रत्ययाः” इत्यनुशासनात् अग्निष्टोमयाजी पुत्रस्ते भविताऽ इतिवत् सम्भवति। अत एव देवगन्धर्वसङ्काशाः सन्तः, देवगन्धर्वा मनुष्यगन्धर्वेभ्योऽधिकानन्दाः। यद्वा देवी च देवश्च देवौ लक्ष्मीनारायणौ। “पुमान्स्त्रिया” इत्येकशेषः। गानं धारयतीति गन्धर्वः। “एतत्साम गायन्नास्ते” इत्युक्तः सर्वदा सामगानपरो मुक्तः। देवौ च गन्धर्वश्च देवगन्धर्वाः तत्सदृशाः देवगन्धर्वसङ्काशाः। निभादित्वादुत्तरपदभूता एव सन्तः सदृशवचनाः। तथाहामरः “स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः” इति। ते त एव सन्तः साकेतवासिनः एव सन्तः सुखं न्यवसन्। वक्ष्यति “सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्। ननन्द रामो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ " इति । यद्वा त एव सन्तः वनवासिन एव सन्तः, नागरिका अपि चिरं वनचरा इवावसन्नित्यर्थः । मुखग्लान्यादिभिस्तेषां वैदेशिकत्वगन्धो ऽपि नाज्ञायतेति भावः । सुखं यथा भवति तथा न्यवसन् । कदाचिदपि दुःखलेशो ऽपि नान्वभावीत्यर्थः । अत्र क्रियाभेदात् तच्छब्दद्वयप्रयोग इत्यप्याहुः । ते तीर्त्वा जग्मुरिति क्रियापदमध्याहृत्य केचिद्योजयन्ति । अत्र देवगन्धर्वसङ्काशा इति पदगतेनोपमालङ्कारेण किञ्चिद्वस्तु ध्वन्यते यस्तावत्स्वरूपज्ञानपूर्वकं भगवत्यनुरक्तो भवति तं भगवान् देव्या समागत्य दिव्यं विमानमारोप्यातिवाहिकगणैः सत्कार्य विरजां तीर्त्वा तिल्यकान्तारमासाद्यामानवेनानुज्ञाप्य दिव्यलोके महामणिमण्डपमुपेत्य दिव्यसिंहासनारूढः श्रिया सह मोदमानस्तद्रचितसर्वदेशसर्वकालसर्वावस्थोचितसकलविधकैङ्कर्यो ऽस्मै स्वानन्दसममानन्दं दत्त्वा तेन सह यावत्कालमास्त इति ॥ १।१।३० ॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥ १।१।३१ ॥
एवं लक्ष्मणस्य भगवच्छेषत्ववृत्तिं प्रतिपाद्य भरतस्य पारतन्त्र्यवृत्तिं दर्शयति मृते तु तस्मिन्नित्यादिना । तदुपोद्घातत्वेनाह चित्रेति । रामे चित्रकूटं तथा उक्तप्रकारेण गते सति दशरथो राजा पुत्रशोकेन पुत्रादर्शनजदुःखेनातुरः पीडितः सन् सुतमुद्दिश्य हा सुतेत्येवं विलपन् प्रलापं कुर्वन्
स्वर्गं जगाम ॥ १।१।३१ ॥
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥ १।१।३२ ॥
मृते त्विति । तस्मिन् दशरथे मृते सति । स्वर्गप्राप्तिरपि नश्वरत्वेनानुपादेयेति मृते इत्युक्तम् । महाबलः राज्यभरणसमर्थः अत एव भरतः । भरत इति राज्यस्य भरणादित्युक्तरीत्या भावज्ञेन वसिष्ठेन भरत इति कृतनामा वसिष्ठप्रमुखैर्द्विजैः वसिष्ठादिभिर्ब्राह्मणैः । राज्याय राज्यं कर्तुं नियुज्यमानः । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः “इति चतुर्थी । राज्यं राजत्वम् । “ये चाभावकर्मणोः” इति प्रतिषेधादनो न प्रकृतिभावः । नैच्छत् नाभ्यलषत् । महाबल इत्यनेन सत्यामेव शक्तौ स्वरूपविरुद्धत्वाद्राज्यं नाङ्गीचकारेत्यवगम्यते । अत एव वक्ष्यति “राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि । विललाप सभामध्ये जगर्हे च पुरोहितम् । कथं दशरथाज्जातो भवेद्राज्यापहारकः ॥ " इति ॥ १।१।३२ ॥
स जगाम वनं वीरो रामपादप्रसादकः ॥ १।१।३३ ॥
स जगामेत्यर्द्धमेकं वाक्यम् । वीर्येण युक्तो वीरः । वीर्यमत्र शत्रुभूतरागादिजेतृत्वम् । विषयानाकृष्टचित्त इत्यर्थः । यद्वा “एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ " इत्युक्तरीत्या चतुरङ्गबलसहितः स भरतः रामपादप्रसादकः। पादशब्दः पूज्यवाची। “पूज्ये तु पादनामाङ्कः” इत्यमरशेषः। प्रसादकः। “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल्। पूज्यं रामं प्रसादयितुमित्यर्थः। यद्वा रामचरणयोः प्रसादकः, रामस्यैव प्रसाद्यत्वेऽपि पादयोः प्रसाद्यत्वोक्तिः शेषभूतव्यवहारानुसारेण। राजानं द्रष्टुमिति वक्तव्ये राजपादौ द्रष्टुमिति हि भृत्यजनो व्यवहरति। वनं जगाम प्राप, वस्तुतो रामस्य कोपाभावेऽपि भरताय राज्यं दत्तमिति बुद्धिं निवर्तयितुमित्यर्थः। “पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ " इत्युत्तरत्रापि वक्ष्यति ॥ १।१।३३ ॥
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ॥ १।१।३४ ॥
गत्वा त्विति । अत्र स इत्यनुषज्यते । स आर्यभावपुरस्कृतः पुरस्कृतः आर्यभावः येन सः । आहिताग्न्यादित्वात् परनिपातः । यद्वा आर्यभावेन स्वस्यार्यभावेन पुरस्कृतः पूजितः । उचितमनेन क्रियत इति श्लाघित इत्यर्थः । “पूजितः स्यात्पुरस्कृतः” इति बाणः । तथाविधः सन् सुमहान् आत्मा अन्तःकरणं यस्य तम्, सुमहात्मानं स्वतः प्रसन्नहृदयमित्यर्थः । सत्यपराक्रमं सत्ये पराक्रमो ऽप्रच्युतत्वं यस्य तं रामम्, गत्वा तु प्राप्य, तु विशेषोस्ति । तस्याग्रे स्थितिरेवालम्, याचनमतिरिच्यत इति भावः । भ्रातरं राममयाचत् प्रार्थयामास, स्वाभीष्टमिति शेषः । याचेर्द्विकर्मकत्वात् स्वरितेत्त्वादुभयपदी । क्रिया भेदाद्रामशब्दस्य न पुनरुक्तता ॥ १।१।३४ ॥
त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।
रामो ऽपि परमोदारः सुमुखः सुमहायशाः ।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ॥ १।१।३५ ॥
स्वाभीष्टमेवाह त्वमेवेति । धर्मज्ञः ज्येष्ठे विद्यमाने न कनिष्ठो राज्यमर्हतीति धर्मं जानन् त्वमेव राजा नान्यः इति रामं वचो ऽब्रवीत् । “अकथितं च” इति द्विकर्मकत्वम् । ननु भरतकृता प्रपत्तिः कुतो नाफलत्, अधिकारिवैगुण्याद्वा शरण्यवैगुण्याद्वा ? नाद्यः अपेक्षातिरिक्तस्याभावात् । नान्त्यः, तस्य सर्वगुणपरिपूर्णत्वात् इत्याशङ्क्य प्रबलप्रतिबन्धकस्य प्रारब्धस्य सद्भावात् न सा फलितेत्याह रामो ऽपीति । अपिशब्दः प्रतिविशेषणमन्वेति । रामो ऽपि रमयतीति व्युत्पत्त्या स्वरूपरूपगुणैराश्रितचित्तरञ्जनस्वभावो ऽपि परमोदारो ऽपि स्वपर्यन्तापेक्षितार्थप्रदो ऽपि “य आत्मदा बलदा” इति श्रुतेः । सुमुखो ऽपि अर्थिजनलाभेन प्रसन्नमुखो ऽपि सुमहायशाः अपि “न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति” इति श्रीविष्णुपुराणोक्तरीत्या महाकीर्तिरपि महाबलो ऽपि आश्रितमनोरथपूरणे निपुणो ऽपि रामः पितुरादेशात् बलवत्प्रतिबन्धकान्नैच्छत् । चकारात्तदवसाने त्वैच्छदित्यर्थः । आदेशो नियोगः ॥ १।१।३५ ॥
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्त्तयामास ततो भरतं भरताग्रजः ॥ १।१।३६ ॥
सर्वथा प्रपत्तेर्वैफल्यमनुचितमिति यावत्प्रतिबन्धकानिवृत्तिफलप्रतिनिधिं दिशति स्मेत्याह पादुके चेति । चस्त्वर्थः । किन्तु भरताग्रजः फलप्रदानोचितसम्बन्धशीलः राज्याय राज्यं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी । अस्य भरतस्य पादुके न्यासं स्वप्रतिनिधिं दत्त्वा, रामपादुके राज्यं कुरुतः अहं तयोः परिचारक इति भावयेति दत्त्वेत्यर्थः । पुनः पुनर्भरतं तस्माद्देशान्निवर्त्तयामास । पुनःपुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते । स्वार्थत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वाभावात् न चतुर्थी, किन्तु सम्बन्धसामान्ये षष्ठी ॥ १।१।३६ ॥
स काममनवाप्यैव रामपादावुपस्पृशन् ।
नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ १।१।३७ ॥
अथ प्रपन्नस्य यावत्प्रारब्धनिवृत्तिशेषिणिवृत्तिं दर्शयन्नाह स काममिति । स भरतः कामं रामकैङ्कर्यमनोरथमप्राप्यैव । रामपादौ रामस्य पादुके । पादशब्दः पादुकोपलक्षकः । उपस्पृशन् प्रत्यहं सेवमानः सन् रामागमनकाङ्क्षया कदा राम आगमिष्यतीति प्रत्याशया चतुर्दशवर्षरूपप्रतिबन्धकमुत्तीर्य्य कदा रामकैङ्कर्यं लप्स्य इति मनोरथमभिवर्धयन्नित्यर्थः । रामरहिततन्निवासस्यातिदुःखावहतयायोध्यां विहाय नन्दिग्रामे नन्दिग्रामाख्ये अयोध्यासन्निहिते कुत्रचित् ग्रामे राज्यमकरोत् । त