०६४ रामेण सीतान्वेषणश्लाघनम्

Hanuman and Angada along with others approach Sugriva – Hanuman tells Rama about the discovery of Sita.

श्लोकः

मूलम्

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्॥5.64.1॥

शब्दार्थः

सुग्रीवेण by Sugriva, एवम् in that way, उक्तः spoken, कपिः monkey, दधिमुखः Dadhimukha, हृष्टः pleased, राघवम् Rama, लक्ष्मणं चैव and also Lakshmana, सुग्रीवं च and Sugriva, अभ्यवादयत् offered salutations.

आङ्ग्लानुवादः

Pleased with Sugriva’s command (to send forth Angada and Hanuman) Dadhimukha offered salutations to Sugriva, Rama and Lakshmana.

श्लोकः

मूलम्

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।
वानरैः सहितः शूरैर्दिवमेवोत्पपात ह॥5.64.2॥

शब्दार्थः

सः he, Dadhimukha, सुग्रीवम् to Sugriva, महाबलौ mighty strong, राघवौ च Rama, प्रणम्य offering obeisance, शूरैः heroes, वानरैः vanaras, सहितः followed by, दिवमेव to the sky, उत्पपात rose up.

आङ्ग्लानुवादः

Dadhimukha offered his obeisance to Sugriva and the mighty Rama and Lakshmana and rose up to the sky followed by the vanaras.

श्लोकः

मूलम्

स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः।
निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह॥5.64.3॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान्।
विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम्॥5.64.4॥

शब्दार्थः

मधुवनम् Madhuvanam, प्रविष्टः entered, सः he, विमदान् intoxication, मदूदकम् honey and water, मेहमानान् voiding urine, सर्वान् all, हरियूथपान् troops of vanaras, ददर्श saw.

आङ्ग्लानुवादः

Descending into Madhuvanam, Dadhimukha saw all the monkey troops free from intoxication (of honeywine).

श्लोकः

मूलम्

स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्॥5.64.5॥

शब्दार्थः

वीरः hero, सः he, करपुटाञ्जलिम् cupping his palms reverentially, बद्ध्वा holding, तान् him, उपागमत् returned, हृष्टवत् with joy, अङ्गदम् Angada, श्लक्ष्णम् conciliatory, इदं वचनम् these words, उवाच spoken.

आङ्ग्लानुवादः

Heroic Dadhimukha went to Angada, holding his cupped palms reverentially and spoke these conciliatory words with joyः

श्लोकः

मूलम्

सौम्य रोषो न कर्तव्यो यदेतत्परिवारितम्।
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः॥5.64.6॥

शब्दार्थः

सौम्य prince of mild disposition, एतत् all this, यत् परिवारितम् that your companions, रोषः harsh, न कर्तव्यः not react, भवन्तः you, रक्षिभिः even the guards, अज्ञानात् out of ignorance, क्रोधात् fury, प्रतिषेधिताः have obstructed you.

आङ्ग्लानुवादः

“O handsome one, do not react harshly at these guards who have obstructed your companions out of ignorance and fury.

श्लोकः

मूलम्

युवराजस्त्वमीशश्च वनस्यास्य महाबल।
मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति॥5.64.7॥

शब्दार्थः

महाबल mighty, त्वम् you, युवराजः heir apparent, अस्य वनस्य at this garden, ईशश्च king also, पूर्वम् earlier, मौर्ख्यात् out of foolishness, दोषः mistake, कृतः did, तम् to you, भवान्
you, क्षन्तुम् be at peace, अर्हति is proper.

आङ्ग्लानुवादः

“O mighty Angada you are heir apparent and also king. Out of foolishness I obstructed you. You ought to pardon me this mistake.

श्लोकः

मूलम्

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ।
इहोपयातं सर्वेषामेतेषां वनचारिणाम्॥5.64.8॥

शब्दार्थः

अनघ blameless, मया I, गत्वा gone, तव your, पितृव्यस्य elder brother of your father, सर्वेषाम् all, एतेषाम् your people, वनचारिणाम् forestdwellers, इह here, उपयातम् your arrival, आख्यातं हि indeed told.

आङ्ग्लानुवादः

“O blameless prince I have already told your father’s elder brother and all the forestdwellers about your arrival here.

श्लोकः

मूलम्

स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः।
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्॥5.64.9॥

शब्दार्थः

सः he, एभिः these, सह with, त्वदागमनम् your arrival, श्रुत्वा hearing, प्रहृष्टः very glad, तु you, वनम् garden, प्रधर्षितम् destroying, श्रुत्वा having heard, असौ he was, न रुष्टः not angry.

आङ्ग्लानुवादः

“He was not angry at your destruction of the garden. On the other hand, he was very glad to hear about your arrival.

श्लोकः

मूलम्

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः॥5.64.10॥

शब्दार्थः

ते पितृव्यः your father’s brother, वानरेश्वरः lord of vanaras, पार्थिवः king, सुग्रीवः Sugriva, प्रहृष्टः happily, तान् सर्वान् all of them, शीघ्रम् quickly, प्रेषय send, इति this, माम् to me, उवाच ह said indeed.

आङ्ग्लानुवादः

“Your father’s brother, Sugriva, the lord of vanaras felt very glad and indeed asked me
to send you quickly.”

श्लोकः

मूलम्

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः॥5.64.11॥

शब्दार्थः

दधिमुखस्य to Dadhumukha, इदम् this, श्लक्ष्णम् very good, वचनम् these words, श्रुत्वा having heard, हरिश्रेष्ठः monkey leader, वाक्यविशारदः eloquent in speech, अङ्गदः Angada, तान् to them, वाक्यम् these words, अब्रवीत् said.

आङ्ग्लानुवादः

At these good words from Dadhimukha, Angada, the monkey leader, an eloquent speaker said thisः.

श्लोकः

मूलम्

शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः।
तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः॥5.64.12॥

शब्दार्थः

परन्तपाः scorcher of enemies, हरियूथपाः leader of monkeys, अयं वृत्तान्तः about this here, रामेण by Rama, श्रुतः having heard, शङ्के I presume, तत् that, कार्ये task, कृते having done, इह here, स्थातुम् to be here, नः for us, न क्षमम् not proper.

आङ्ग्लानुवादः

“O scorcher of enemies I presume Rama has already heard the news of our arrival on accomplishment of the task. Hence it is not proper for us to tarry here.

श्लोकः

मूलम्

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः॥5.64.13॥

शब्दार्थः

वनचारिणः forestrangers, vanaras, यथाकामम् as they desire, मधु honey, पीत्वा having drunk, विश्रान्ताः rested, किम् what, शेषम् is left, मे my, गुरुः king, सुग्रीवः Sugriva, यत्र where, तत्र there, गमनम् have to go.

आङ्ग्लानुवादः

“The vanaras of the forest have taken rest after drinking as much honey as they desired. What is left here to do? We have to go wherever Sugriva is.”

श्लोकः

मूलम्

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः।
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥5.64.14॥

शब्दार्थः

सर्वे all, हरियूथपाः monkey troops, समेत्य assembled together, माम् me, यथा like that, वक्ष्यन्ति would tell, यथा in that way, कर्ता we are to do, अस्मि we, कर्तव्ये in our duty, अहम् I am, भवद्भिः as you say, परवान् have to do.

आङ्ग्लानुवादः

Angada said to the vanara troops assembled, “Tell me what we have to do. I shall act as you wish.

श्लोकः

मूलम्

नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया॥5.64.15॥

शब्दार्थः

अहम् I am, युवराजः heir apparent, अस्मि यद्यपि even though I am, आज्ञापयितुम् to order you, न ईशः not lord, कृतकर्माणः accomplished dones, यूयम् troops, मया by me, धर्षयितुम् ordering, अयुक्तम् not proper.

आङ्ग्लानुवादः

“Even though I am heir apparent, it is not proper for me to order you.You have accomplished the purpose and to command you is not befitting on my part.”

श्लोकः

मूलम्

ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम्।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः॥5.64.16॥

शब्दार्थः

एवम् in that way, ब्रुवतः when said, अङ्गदस्य by Angada, अव्ययम् priceless, वचनम् words, श्रुत्वा having heard, वनौकसः forest dwellers, प्रहृष्टमनः glad at heart, इदम् these, ऊचुः said.

आङ्ग्लानुवादः

On hearing Angada’s valuable words said in that way, the vanaras repledः

श्लोकः

मूलम्

एवं वक्ष्यति को राजन् प्रभुस्सन्वानरर्षभ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते॥5.64.17॥

शब्दार्थः

वानरर्षभ bull among vanaras, राजन् O king, प्रभुः सन् who is lord, कः who, एवम् in that way, वक्ष्यति said so, सर्वः all others, ऐश्वर्यमदमत्तः arrogant on account of prosperity, अहम् I, इति thus, मन्यते हि think .

आङ्ग्लानुवादः

“O king O bull among monkeys we think you are an exception to those to whom prosperity brings arrogance.

श्लोकः

मूलम्

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्॥5.64.18॥

शब्दार्थः

इदं वाक्यम् these words, तव च you alone would have said, सुसदृशम् your humility, अन्यस्य in others, कस्यचित् you only, न not, तव your, सन्नतिः humble, भविष्यच्छुभयोग्यताम् fit for a bright future, आख्याति speaks of.

आङ्ग्लानुवादः

“You alone could speak such words. Your humility speaks of your fitness for a bright future.

श्लोकः

मूलम्

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥5.64.19॥

शब्दार्थः

प्राप्ताः come here, वयम् us, सर्वेऽपि all of us, हरिवीराणाम् vanara heroes, पतिः lord, अव्ययः one who is immortal, सः सुग्रीवः that Sugriva, यत्र to him, तत्र there, गन्तुम् to go, कृतक्षणाः ready at any moment.

आङ्ग्लानुवादः

श्लोकः

मूलम्

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्।
क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥5.64.20॥

शब्दार्थः

हरिश्रेष्ठ best of the vanaras, Angada, त्वया your, अनुक्तैः order, हरिभिः vanaras, पदात् on
foot, पदम् one step, क्वचित् not even, गन्तुम् to go, न शक्यम् not possible, सत्यम् it is true, इदम् this, ते to you, ब्रूमः appealed.

आङ्ग्लानुवादः

“O Angada the best of vanaras without your command none will find it possible to put forward even a single step.”

श्लोकः

मूलम्

एवं तु वदतां तेषामङ्गदः प्रत्युवाच ह।
बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः॥5.64.21॥

शब्दार्थः

तेषाम् those vanaras, एवम् that way, वदताम् spoken, अङ्गदः Angada, बाढम् very good, गच्छाम let us go, प्रत्युवाच ह replied, इति thus, उक्त्वा having spoken, महाबलाः powerful vanaras, खम् to the sky, उत्पेतुः rose up.

आङ्ग्लानुवादः

Thus addressed by all the vanaras, Angada said ‘Well, let us go’. Then the powerful vanaras rose up the sky.

श्लोकः

मूलम्

उत्पतन्तमनूत्पेतुस् सर्वे ते हरियूथपाः।
कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः॥5.64.22॥

शब्दार्थः

सर्वे all, ते हरियूथपाः vanara troops, यन्त्रोत्क्षिप्ताः stones shattered by machines, अचलाः mountain, इव like, आकाशम् sky, निराकाशम् as if there is no sky, कृत्वा did, उत्पतन्तम् rising up, अनूत्पेतुः sprang up.

आङ्ग्लानुवादः

All the vanara troops sprang up into the air as though there was no sky, like stones shattered by machines from the mountains rise up.

श्लोकः

मूलम्

तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः।
विनदन्तो महानादं घना वातेरिता यथा॥5.64.23॥

शब्दार्थः

वेगवन्तः swift, ते प्लवङ्गमाः those monkeys, महानादम् roared aloud, विनदन्तः noise, वातेरिताः driven by the Wind, घनाः यथा like heavy clouds, सहसा at once, अम्बरम् to the sky, उत्पत्य went up.

आङ्ग्लानुवादः

The swift monkeys roared aloud as though they went up the sky like thundering clouds driven by the wind.

श्लोकः

मूलम्

अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः।
उवाच शोकोपहतं रामं कमललोचनम्॥5.64.24॥

शब्दार्थः

अङ्गदे Angada, अननुप्राप्ते before he came, वानराधिपः lord of the vanaras, सुग्रीवः Sugriva, शोकोपहतम् stricken with grief, कमललोचनम् lotus eyed, रामम् Rama, उवाच said.

आङ्ग्लानुवादः

Seeing the griefstricken, lotuseyed Rama, the lord of the vanaras Sugriva said this before the arrival of Angadaः

श्लोकः

मूलम्

समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः।
नागन्तुमिह शक्यं तैरतीते समये हि नः॥5.64.25॥

शब्दार्थः

समाश्वसिहि trust me, ते to you, भद्रम् auspicious, देवी queen, दृष्टा have seen, संशयः doubt, न not, नः us, समये time, अतीते exceeded, तैः they, इह here, आगन्तुम् to come, न शक्यम् not possible.

आङ्ग्लानुवादः

“Trust me, Rama. Be blessed. The vanaras have seen the divine lady. There is no doubt. It is not possible for them to come here after exceeding the time limit (in their search for Sita).

श्लोकः

मूलम्

न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते।
युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः॥5.64.26॥

शब्दार्थः

युवराजः heir apparent, महाबाहुः strongarmed one, प्लवताम् leaping, प्रवरः endowed with good virtues, अङ्गदः Angada, कृत्ये mission, विनिपातिते has failed, मत्सकाशम् near me, नागच्छेत् will not come.

आङ्ग्लानुवादः

“My heir apparent, the strongarmed Angada, and the best of the monkeys is endowed
with virtues. He would not come near me if his mission had failed.

श्लोकः

मूलम्

यद्यप्यकृतकृत्यानामीदृशस् स्यादुपक्रमः।
भवेत्स दीनवदनो भ्रान्तविप्लुतमानसः॥5.64.27॥

शब्दार्थः

अकृतकृत्यानाम् in case they have not accomplished, उपक्रमः return, ईदृशः this way, यद्यपि स्यात् acted that way, सः he, दीनवदनः pathetic face, भ्रान्त विप्लुतमानसः perplexed and unsteady in mind, भवेत् would be.

आङ्ग्लानुवादः

“In case the vanaras have returned without accomplishing the task, Angada would have assumed a pathetic face, perplexed and unsteady in mind.

श्लोकः

मूलम्

पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम्।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥5.64.28॥
कौसल्यासुप्रजा राम समाश्वसिहि सुव्रत।

शब्दार्थः

प्लवगेश्वरः lord of monkeys, अहृष्टः not been happy, पितृपैतामहम् father and grandfather’s time, पूर्वकैः ancestors, अभिरक्षितम् protected, मे मधुवनम् my Madhuvanam, न हन्यात् not destroy, कौसल्यासुप्रजाः Kausalya’s son, सुव्रत one who pracitces good traditions, राम Rama, समाश्वसिहि trust me.

आङ्ग्लानुवादः

“If Angada, lord of the vanaras had not been happy, he would not have destroyed the Madhuvanam of my father’s and my grandfather’s time. O Rama, follower of righteous practices, Kausalya has an excellent son in you. Trust me.

श्लोकः

मूलम्

दृष्टा देवी न सन्देहो न चान्येन हनूमता॥5.64.29॥
न ह्यन्यः कर्मणो हेतुस्साधनेऽस्य हनूमतः।

शब्दार्थः

कर्मणो this task, हेतुस्साधनेऽस्य the reason for accomplishing, देवी Sita, दृष्टा saw, सन्देहः doubt, न not, अन्येन not others, न not, हनुमता Hanuman.

आङ्ग्लानुवादः

“Hanuman is the one who has accomplished this task. Who else can? No doubt, he has seen Sita.

श्लोकः

मूलम्

हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमः॥5.64.30॥
व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्।

शब्दार्थः

मतिसत्तम best one among the wise, हनूमति Hanuman, सूर्ये Sun, तेजः इव like the luminosity, सिद्धिश्च capacity to succeed, मतिश्च intelligence, व्यवसायश्च effort, वीर्यं च and even courage, ध्रुवम् steadfast.

आङ्ग्लानुवादः

“O Rama, the best among the wise just like the luminosity that abides in the Sun, capacity to succeed, energy, intelligence, even courage and steadfastness reside in Hanuman.

श्लोकः

मूलम्

जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः।
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा॥5.64.31॥

शब्दार्थः

यत्र there, जाम्बवान् Jambavan, नेता leader, स्यात् remains, महाबलः commander of army अङ्गदश्च and Angada, हनुमांश्च and Hanuman, अधिष्ठाता the guiding force, तस्य that, गतिः end result, अन्यथा otherwise, न not be.

आङ्ग्लानुवादः

“Where Jambavan is the leader, Angada the commander of the army and Hanuman the guiding force, the end result will not be otherwise.

श्लोकः

मूलम्

मा भूश्चिन्तासमायुक्तस्सम्प्रत्यमितविक्रमः॥5.64.32॥
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे।
हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम्॥5.64.33॥
किष्किन्धामुपयातानां सिद्धिं कथयतामिव।

शब्दार्थः

अमितविक्रमः extremely valiant, सम्प्रति at this time, चिन्तासमायुक्तः anxious, मा भूः do not, ततः
at that time, हनुमत्कर्मदृप्तानाम् in the pride of Hanuman’s success, नार्धताम् roaring, सिद्धिम् successfully completed the work, कथयतामिव talking, किष्किन्धाम् in Kishkinda, उपयातानाम् have reached, काननौकसाम् forestdwellers, vanaras, अम्बरे in the sky, आसन्नम् have arrived, किलकिलाशब्दम् chatterings, शुश्राव was heard.

आङ्ग्लानुवादः

“You are extremely valiant and it is unbecoming of you to be anxious at this time Rama. Just then chatterings of the monkeys were heard from the sky as they roared in pride talking of Hanuman’s achievement. Having successfully completed the errand, they have arrived at Kishkinda.

श्लोकः

मूलम्

ततश्श्रुत्वा निनादं तं कपीनां कपिसत्तमः॥5.64.34॥
आयताञ्चितलाङ्गूलस्सोऽभवद्धृष्टमानसः।

शब्दार्थः

ततः then, सः कपिसत्तमः that great monkey, Sugriva, कपीनाम् of the monkeys, तं निनादम् that roar, श्रुत्वा having heard, आयताञ्चितलाङ्गूलः lifting and shaking the long tail, हृष्टमानसः extremely happy, अभवत् remained.

आङ्ग्लानुवादः

The great Sugriva heard the roar of the monkeys and was extremely happy. He kept raising and shaking his long tail in joy.

श्लोकः

मूलम्

आजग्मुस्तेऽपि हरयो रामदर्शनकांक्षिणः॥5.64.35॥
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्।

शब्दार्थः

ते हरयः those joyful monkeys, कपिः monkeys, अङ्गदम् Angada, वानरम् vanaras, हनूमन्तम् Hanuman, पुरतः in front, कृत्वा having, रामदर्शनकांक्षिणः eager to have a look at Rama, आजग्मुः reached.

आङ्ग्लानुवादः

The joyful monkeys with Angada and Hanuman leading them descended with eagerness to have a close look at Rama.

श्लोकः

मूलम्

तेऽङ्गदप्रमुखा वीराः प्रहृष्ठाश्च मुदान्विताः॥5.64.36॥
निपेतुर्हरिराजस्य समीपे राघवस्य च।

शब्दार्थः

अङ्गदप्रमुखाः Angada, the chief of the army of monkeys, ते वीराः the heroes, प्रहृष्टाश्च very joyfully, मुदा exuberant, अन्विताः descended, हरिराजस्य to the king of monkeys, राघवस्य च and Rama, समीपे near, निपेतुः landed.

आङ्ग्लानुवादः

Angada the chief along with the heroic monkeys very joyfully and exuberantly descended close to Sugriva, the king of monkeys and Rama.

श्लोकः

मूलम्

हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः॥5.64.37॥
नियतामक्षतां देवीं राघवाय न्यवेदयत्।

शब्दार्थः

ततः then, महाबाहुः strongarmed, हनुमान् Hanuman, शिरसा with head bowed down, प्रणम्य offered salutations, देवीम् divine lady, नियताम् with her constant devotion, अक्षताम् sound in body, राघवाय to Rama, न्यवेदयत् reported.

आङ्ग्लानुवादः

Then the strongarmed Hanuman with his head bowed down offered salutations and reported, ‘Divine lady Sita with her constant devotion to Sri Rama is sound in body’.

श्लोकः

मूलम्

दृष्टा देवीति हनुमद्वदनादमृतोपमम्॥5.64.38॥
आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः।

शब्दार्थः

सलक्ष्मणः Lakshmana, रामः Rama, हनुमद्वदनात् only Hanuman, अमृतोपमम् sweet at nectar, देवी दृष्टा इति Sita was seen, these, वचनम् words, आकर्ण्य hearing, हर्षम् delighted, आप remained.

आङ्ग्लानुवादः

On hearing the nectarlike words from Hanuman that Sita was found, Rama and Lakshmana were delighted.

श्लोकः

मूलम्

निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे॥5.64.39॥
लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत।

शब्दार्थः

ततः then, लक्ष्मणः Lakshmana, तस्मिन् पवनात्मजे that son of the Windgod, निश्चितार्थम्
surely, प्रीतम् very affectionately, सुग्रीवम् and Sugriva, बहुमानात् respectfully, अवैक्षत glanced.

आङ्ग्लानुवादः

Sugriva and Lakshmana glanced at Hanuman respectfully with affection thinking surely Hanuman alone has succeeded.

श्लोकः

मूलम्

प्रीत्या च रममाणोऽथ राघवः परवीरहा॥5.64.40॥
बहुमानेन महता हनुमन्तमवैक्षत।

शब्दार्थः

परवीरहा slayer of heroic enemies, राघवः Rama, रममाणः extremely delighted, उपेतः became, महता great, बहुमानेन with unbounded affection, हनुमन्तम् at Hanuman, अवैक्षत glanced.

आङ्ग्लानुवादः

Rama, the slayer of heroic enemies was extremely delighted and glanced at Hanuman with unbounded affection.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकावे सुन्दरकाण्डे चतुःषष्टितमस्सर्गः॥
Thus ends the sixtyfourth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.