Hanuman destroys the Ashoka garden – sets fire to Lanka – kills demons
श्लोकः
मूलम्
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः॥5.54.1॥
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्।
शब्दार्थः
ततः then, कृतमनोरथः objectives achieved, कपिः monkey, लङ्काम् Lanka, वीक्षमाणः gazing, वर्धमानसमुत्साहः growing zeal, कार्यशेषम् remaining work, अचिन्तयत् pondered over.
आङ्ग्लानुवादः
With his objectives achieved, the monkey gazed at Lanka with growing zeal and pondered over the remaining work.
श्लोकः
मूलम्
किन्नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्॥5.54.2॥
यदेषां रक्षसां भूयः सन्तापजननं भवेत्।
शब्दार्थः
यत् that which, एषाम् to them, रक्षसाम् for the demons, भूयः again, सन्तापजननम् which can torment, भवेत् will he, किं नु what is, कर्तव्यम् the duty, मे to me, इह here, साम्प्रतम् presently, अवशिष्टम् left over.
आङ्ग्लानुवादः
‘Is there anything still left which can further torment the demons here?
श्लोकः
मूलम्
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः॥5.54.3।
बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम्।
शब्दार्थः
वनम् garden, प्रमथितं तावत् broken everywhere, प्रकृष्टाः powerful, राक्षसाः demons, हताः are killed, बलैकदेशः a part of the army, क्षपितः is destroyed, दुर्गविनाशनम् destruction of the citadel, शेषम् left over.
आङ्ग्लानुवादः
‘All the trees of the garden are broken, powerful demons have been killed, and a contingent of the army is destroyed. Only the destruction of the citadel is left.
श्लोकः
मूलम्
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः॥5.54.4॥
शब्दार्थः
दुर्गे the citadel, विनाशिते if destroyed, कर्म labour, सुखपरिश्रमम् happy conclusion, भवेत् will be, अस्मिन् in this, कार्ये in the task, अल्पयत्नेन with some effort, श्रमः labour, सफलः successful, स्यात् will be.
आङ्ग्लानुवादः
‘If the citadel is destroyed it would be a happy conclusion with a little effort. I can successfully complete my task.
श्लोकः
मूलम्
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः।
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः॥5.54.5॥
शब्दार्थः
मम my, लाङ्गूले on the tail, यः he who, अयम् हव्यवाहनः this fire, दीप्यते is burning, अस्य to him, एभिः with these, गृहोत्तमैः best mansions, सन्तर्पणम् offering, कर्तुम् to do, न्यायम् is proper.
आङ्ग्लानुवादः
‘It would be proper to satiate this fire at the end of my tail by offering it to these excellent mansions (I shall set fire to these houses).
श्लोकः
मूलम्
ततः प्रदीप्तलाङ्गूलस्सविद्युदिव तोयदः।
भवनाग्रेषु लङ्काया विचचार महाकपिः॥5.54.6॥
शब्दार्थः
ततः then, प्रदीप्तलाङ्गूलः with his burning tail, महाकपिः great monkey, सविद्युत् along with lightning, तोयदः इव rain cloudslike, लङ्कायाः of Lanka, भवनाग्रेषु on tops of the mansions, विचचार wandered.
आङ्ग्लानुवादः
The great Hanuman, with his burning tail wandered on tops of the mansions of Lanka, which looked like clouds with lightning.
श्लोकः
मूलम्
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः॥5.54.7॥
शब्दार्थः
सः वानरः that vanara, उद्यानानि च and even gardens, प्रासादांश्च buildings, वीक्षमाणः while observing, असन्त्रस्तः without fear, राक्षसानाम् demons, गृहात् from one house, गृहम् to the other house, चचार wandered.
आङ्ग्लानुवादः
The vanara moved from one house to the other, looking at the gardens and houses of the demons without fear.
श्लोकः
मूलम्
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली॥5.54.8॥
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।
मुमोच हनुमानग्निं कालानलशिखोपमम्॥5.54.9॥
शब्दार्थः
महावेगः of greatspeed, श्वसनेन with the Windgod, समः equal, बली powerful, वीर्यवान् brave,सः he, प्रहस्तस्य Prahasta’s, निवेशनम् house, अवप्लुत्य jumped down, तत्र there, अग्निम् fire, निक्षिप्य setting, ततः then, अन्यत् another, महापार्श्वस्य Mahaparsva’s, वेश्म house, पुप्लुवे jumped, हनुमान् Hanuman, कालानलशिखोपमम् like the flame of fire at the hour of dissolution, अग्निम् fire, मुमोच set.
आङ्ग्लानुवादः
Powerful and brave Hanuman who was equal to the Windgod in speed jumped down on the house of Prahasta and set fire to it. From there he jumped on to Mahaparsva’s house and set it ablaze. Hanuman appeared like the fireflame at the time of dissolution.
श्लोकः
मूलम्
वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः।
शुकस्य च महातेजास्सारणस्य च धीमतः॥5.54.10॥
शब्दार्थः
महातेजाः very brilliant one, सः महाकपिः that great vanara, तदा then, वज्रदंष्ट्रस्य Vajradamshtra’s, शुकस्य Suka’s, धीमतः of the wise, सारणस्य च Sarana’s, पुप्लुवे bounded
on.
आङ्ग्लानुवादः
The great, brilliant vanara bounded on to Vajradamstra’s, of Suka’s and wise Sarana’s.
श्लोकः
मूलम्
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः।
जम्बुमालेस् सुमालेश्च ददाह भवनं ततः॥5.54.11॥
शब्दार्थः
हरियूथपः chief of vanara troops, तथा in that way, इन्द्रजितः Indrajit’s, वेश्म residence, ददाह set fire, ततः then, जम्बुमालेः Jambumali’s, सुमालेश्च Sumali’s, भवनम् building, ददाह burnt.
आङ्ग्लानुवादः
Thus Hanuman, the chief of the vanaras set fire to Indrajit’s residence and then to Jambumali’s and Sumali’s building.
श्लोकः
मूलम्
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥5.54.12॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥5.54.13॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि॥5.54.14॥
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च।
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः॥5.54.15॥
वर्जयित्वा महातेजा विभीषणगृहं प्रति।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः॥5.54.16॥
शब्दार्थः
महातेजाः brilliant, हरिपुङ्गवः monkey leader, क्रमेणैव gradually, क्रममाणः passing over,
विभीषणगृहं प्रति towards Vibhishana’s house, वर्जयित्वा sparing, रश्मिकेतोः च of Rasmiketu and, भवनम् mansion, तथैव च in the same way, सूर्यशत्रोः Suryasatru’s, ह्रस्वकर्णस्य Hasvakarna’s, दंष्ट्रस्य Damshtra’s, रक्षसः demon, रोमशस्य Romasa’s, युद्धोन्मत्तस्य Yudhonmatta’s, मत्तस्य Matta’s, रक्षसः of ogre, ध्वजग्रीवस्य Dhwajagriva’s, घोरस्य of the fearsome, विद्युज्जिह्वस्य Vidyujjihva’s, तथा so also, हस्तिमुखस्य च and Hastimukha’s, करालस्य Karala’s, पिशाचस्य Pisacha’s, शोणिताक्षस्य च इव हि Sonitaksha’s, कुम्भकर्णस्य Kumbhakarna’s, भवनम् mansion, मकराक्षस्य चैव हि Makaraksha’s, यज्ञशत्रोश्च भवनम् Yagnasatru’s building, तथैव च in the same way, ब्रह्मशत्रोः Brahmasatru’s, नरान्तकस्य Narantaka’s, कुम्भस्य Kumbha’s, दुरात्मनः of the wicked minded, निकुम्भस्य Vikumbha’s.
आङ्ग्लानुवादः
The brilliant monkey leader bypassed Vibhishanas’s house and avoiding it that way set fire to the mansions of other ogres, Rasmiketu, Suryasatru, Hrasvakarna, Vajradamshtra, Romasa, Yuddhonmatta, Matta, Dhwajagriva, Vidyujjihva, Hastimukha, Karala, Pisacha, Sonitaksha, Kumbhakarna, Makaraksha, Yagnasatru, Brahmasatru, Naranthaka, Kumbha, and wicked Nikumbha.
श्लोकः
मूलम्
तेषु तेषु महार्हेषु भवनेषु महायशाः।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः॥5.54.17॥
शब्दार्थः
महायशाः glorious, सः महाकपिः that great vanara, ऋद्धिमताम् of wealthy persons, महार्हेषु among valuable and precious one, तेषु तेषु among all those, गृहेषु in mansions, ऋद्धिम् wealth, ददाह burnt.
आङ्ग्लानुवादः
Moving among those highly luxurious mansions the glorious Vanara burnt away the wealth of all the rich demons.
श्लोकः
मूलम्
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्॥5.54.18॥
शब्दार्थः
वीर्यवान् heroic one, लक्ष्मीवान् illustrious, सर्वेषाम् of all, समतिक्रम्य after crossing, अथ then, राक्षसेन्द्रस्य of the king of rakshasa’s, रावणस्य निवेशनम् Ravana’s palace, आससाद reached.
आङ्ग्लानुवादः
Heroic and illustrious Hanuman, having crossed all the residences of the ogres finally reached the palace of Ravana, the king.
श्लोकः
मूलम्
ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते।
मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते॥5.54.19॥
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्।
ननाद हनुमान्वीरो युगान्तजलदो यथा॥5.54.20॥
शब्दार्थः
ततः then, वीरः hero, हनुमान् Hanuman, नानारत्नविभूषिते decorated with different kinds of gems, मेरुमन्दरसङ्काशे resembling mountains Meru and Mandara, सर्वमङ्गलशोभिते exquisite with auspicious articles, तस्मिन् that, मुख्ये chief, गृहे in a palace, लाङ्गूलाग्रे at the tip of his burning tail, प्रतिष्ठितम् set, प्रदीप्तम् burning, अग्निम् fire, उत्सृज्य by spreading out, युगान्तजलदो यथा like the thundering cloud at the time of dissolution, ननाद thundered.
आङ्ग्लानुवादः
Then Hanuman, the hero with the burning tail set fire to the chief palace of Ravana that resembled mountains Meru and Mandara, decorated with different kinds of gems and exquisite with several auspicious articles. While the flames were rising up, he roared like the thundering cloud at the time of dissolution.
श्लोकः
मूलम्
श्वसनेन च संयोगादतिवेगो महाबलः।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः॥5.54.21॥
शब्दार्थः
हुताशनः consumer of oblations, Firegod, श्वसनेन by the wind, संयोगात् by association, अतिवेगः at great speed, महाबलः mighty, प्रावर्धत grew, कालाग्निरिव like the fire at the time of dissolution, जज्वाल burnt.
आङ्ग्लानुवादः
The windgod’s association made the fire spread at great speed. It appeared like fire at the time of dissolution.
श्लोकः
मूलम्
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत्।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः॥5.54.22॥
शब्दार्थः
पवनः wind, प्रदीप्तम् burning, अग्निम् fire, तेषु in those, वेश्मसु in houses, आचारयत् spread, श्वसनसंयोगात् combining with wind, हुताशनः fire, अतिवेगः at high speed, अभूत् spread.
आङ्ग्लानुवादः
Combined with the wind the fire began to spread, burning the houses with great speed.
श्लोकः
मूलम्
तानि काञ्चनजालानि मुक्तामणिमयानि च।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च॥5.54.23॥
शब्दार्थः
काञ्चनजालानि golden meshwork, मुक्तामणिमयानि च with pearls and gems embedded, रत्नवन्ति filled with precious gems, महान्ति च big ones, तानि भवनानि those buildings, अवशीर्यन्त were demolished.
आङ्ग्लानुवादः
The palatial structures with windows of golden meshwork, embedded with pearls and gems and other precious stones tumbled.
श्लोकः
मूलम्
संजज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम्।
स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम्॥5.54.24॥
नूनमेषोऽग्निरायातः कपिरूपेण हा इति।
शब्दार्थः
स्वगृहस्य of ones own house, परित्राणे in order to save (from burning), प्रधावताम् of the running ones, भग्नोत्साहोर्जितश्रियाम् disappointed thoroughly about their multiplying riches, राक्षसानाम् of demons, नूनम् surely, एषः अग्निः this fire is, कपिरूपेण in the form of a monkey, आयातः इति thus come तुमुलः tumultuous, शब्दः noise, संजज्ञे arose
आङ्ग्लानुवादः
Unable to protect their rich houses, and thoroughly disappointed the demons said, ‘Alas, the Firegod came in the form of a vanara’ A tumultuous sound arose.
श्लोकः
मूलम्
क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः॥5.54.25॥
काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः।
पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात्॥5.54.26॥
शब्दार्थः
काश्चित् a few, स्त्रियः women, स्तनन्धयधराः breastfeeding their young ones, मुक्तमूर्धजाः with their hair let loose, क्रन्दन्त्यः shouting, अग्निपरीतेभ्यः from the burning ones, हर्म्येभ्यः from mansions, सहसा at once, पेतुः jumped out, अम्बरात् from the sky, अभ्रेभ्यः from the clouds, पतन्त्यः alighting, सौदामिन्यः इव like the lightenings, रेजिरे glowed.
आङ्ग्लानुवादः
A few shedemons at once jumped out of their burning mansions surrounded by fire. They held their breastfeeding babies in their arms, their hair let loose shouting as they jumped. As they were alighting, they glowed like lightnings dropping from the clouds.
श्लोकः
मूलम्
वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्।
विचित्रान्भवनाद्धातून् स्यन्दमानान्ददर्श सः॥5.54.27॥
शब्दार्थः
सः he, वज्रविद्रुमवैढूर्यमुक्तारजतसंहितान् mixed with diamonds, corals, Vaiduryas, pearls and silver, विचित्रान् colourful ones, भवनात् from the mansion, स्यन्दमानान् molten, धातून् minerals, ददर्श he saw.
आङ्ग्लानुवादः
Hanuman saw many colourful molten minerals mixed with diamonds, corals vaiduryas, pearls and silver flowing (dropping) from every mansion.
श्लोकः
मूलम्
नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा।
हनूमान् राक्षसेन्दाणां विशस्तानां न तृप्यति॥5.54.28॥
शब्दार्थः
अग्निः fire, काष्ठानाम् with dry logs, तृणानाम् blades of grass, न तृप्यति is not satisfied, राक्षसेन्द्राणाम् of demon kings, विशस्तानाम् dead ones, न तृप्यति is not satisfied.
आङ्ग्लानुवादः
Just as fire is not satisfied with dry sticks and grass Hanuman was not satisfied with the dead demons.
श्लोकः
मूलम्
क्वचित्किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः॥5.54.29॥
क्वचित्कुङ्कुमसङ्काशाश्शिखा वह्नेश्चकाशिरे।
शब्दार्थः
वह्नेः of the fire, शिखाः flames, वह्नेः fire’s, क्वचित् at some place, किंशुकसङ्काशाः appearing like kimsuka flowers, क्वचित् at some other place, शाल्मलिसन्निभाः appearing like Salmali, क्वचित् still in some other places, कुङ्कुमसङ्काशाः saffron like, चकाशिरे shone
आङ्ग्लानुवादः
The flames of fire were shining like kimsuka flowers here, like salmali wood there, and like saffron flowers elsewhere.
श्लोकः
मूलम्
हनूमता वेगवता वानरेण महात्मना।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा॥5.54.30॥
शब्दार्थः
वेगवता वानरेण by the vanara of great spped, महात्मना by the great self, हनूमता by Hanuman, तत् that, लङ्कापुरम् Lanka city, रुद्रेण by Rudra, त्रिपुरं यथा like Tripura, प्रदग्धम् was burnt.
आङ्ग्लानुवादः
Hanuman, endowed with great speed, burnt Lanka just as Tripurari, or Rudra burnt theTripuras (three cities of gold, silver and iron).
श्लोकः
मूलम्
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः।
प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः॥5.54.31॥
शब्दार्थः
ततः then, वेगवता by the hero of great speed, हनूमता by Hanuman, विसृष्टः lit, भीमपराक्रमः of fierce valour, अग्निः fire, चूडावलयम् creating a circle, प्रसार्य having spread, प्रदीप्तः burning, लङ्कापुरपर्वताग्रे on the mountain top of Lanka, समुत्थितः rose.
आङ्ग्लानुवादः
The fierce fire lit by Hanuman, the hero endowed with great speed, spread around in circles and shot up flying high to the top of the Trikuta mountain on which Lanka was located.
श्लोकः
मूलम्
युगान्तकालानलतुल्यवेगस् समारुतोऽग्निर्ववृधे दिविस्पृक्।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः॥5.54.32॥
शब्दार्थः
विधूमरश्मिः shining without smoke, भवनेषु in the mansions, सक्तः attached with रक्षःशरीराज्यसमर्पितार्चिः fat of the demons body adding, अग्निः fire, समारुतः fanned by the wind, दिविस्पृक् shot up into the sky, युगान्तकालानलतुल्यवेगः spreading fast just as the fire with the end of the universe, ववृधे increased.
आङ्ग्लानुवादः
Fanned by the wind, inflamed by the fat from the corpses of the demons, the fire spread in the mansions burning without smoke. It spread with great speed like the fire at the end of the universe.
श्लोकः
मूलम्
आदित्यकोटीसदृशस्सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः॥5.54.33॥
शब्दार्थः
आदित्यकोटीसदृशः appeared like crores of Suns, सुतेजाः radiant, समस्ताम् entire, लङ्काम् Lanka, परिवार्य having surrounded, तिष्ठन् while getting settled, महाग्निः great fire, अनेकैः by many, अशनिप्ररूढैः produced like Indra’s thunderbolt, शब्दैः with sounds, अण्डम् whole universe, भिन्दन्निव as if breaking, प्रबभौ was glowing.
आङ्ग्लानुवादः
The highly radiant fire stood like a crore of Suns surrounding the entire Lanka. It was glowing, cracking like Indra’s thunderbolt as though the whole universe was collapsing.
श्लोकः
मूलम्
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः॥5.54.34॥
शब्दार्थः
तत्र there, रूक्षप्रभः spreading intense brightness, किंशुकपुष्पचूडः appearing like kimsuka flowers, अग्निः fire, अंबरात् from the sky, अतिप्रवृद्धः increasing violently, अभ्राः the clouds, निर्वाणधूमाकुलराजयः engulfed by the smoke rising out of fire that had been put off, नीलोत्पलाभाः like blue lotuses, प्रचकाशिरे shone.
आङ्ग्लानुवादः
The dazzling flames of fire red like kimsuka flowers shot up violently into the sky. The clouds engulfed by the smoke rising from the subsiding fire was shining like the lustre of blue lotuses .
श्लोकः
मूलम्
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा।
रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥5.54.35॥
शब्दार्थः
अयम् this, वानरः vanara, न not, वज्री Indra, the wielder of the thunderbolt, त्रिदशेश्वरः the lord of gods, महेन्द्रः वा or Indra, साक्षात् personally, यमः वा Yama, वरुणः Varuna, अनिलो वा or the Wind god, रुद्रः Rudra, अग्निः the Firegod, अर्कः Sun, धनदश्च Or Kubera, सोमः Moon, स्वयम् himself, कालः एव वा or the god of death?
आङ्ग्लानुवादः
‘Is this the wielder of thunderbolt Indra, who is the king of gods? Is it Yama himself? Is It the Windgod, or Firegod, or Varuna or Rudra? Is it Kubera or Sun or Moon or is it the god of death himself? He cannot be a mere monkey, indeed.
श्लोकः
मूलम्
किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य।
इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः॥5.54.36॥
शब्दार्थः
सर्वपितामहस्य the grandfather of all, सर्वस्य of all worlds, धातुः of the creator, चतुराननस्य of the fourfaced, ब्रह्मणः of Brahma?, रक्षोपसंहारकरः to kill the clan of demons, प्रकोपः anger, वानररूपधारी in the form of vanara, इह here, उपयातः किम् has he come here?
आङ्ग्लानुवादः
‘Or is it Grandfather Brahma, the supreme fourfaced god enraged and arrived in the form of vanara to kill the clan of demons?
श्लोकः
मूलम्
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः।
अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा॥5.54.37॥
शब्दार्थः
अनन्तम् boundless, अव्यक्तम् indescribable, अचिन्त्यम् unthinkable, एकम् peerless, वैष्णवम् Visnu, परम् supreme, सुतेजः great glory, साम्प्रतम् presently, रक्षोविनाशाय for the destruction of demons, स्वमायया by his own maya, कपिरूपम् in the form of monkey, एत्य having come, आगतं किं वा or has he fallen?
आङ्ग्लानुवादः
‘Can he be the vast boundless energy, the unthinkable and infinite lord Visnu assuming the monkeyform? Is he the peerless, unmanifest form beyond all imagination who has arrived here by virtue of his Maya (illusory power) in order to
destroy the demons’?
श्लोकः
मूलम्
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य॥5.54.38॥
शब्दार्थः
सप्राणिसङ्घाम् including all the creatures, सगृहाम् and homes, सवृक्षाम् with trees, तां पुरीम् that city, सहसा quickly, दग्धाम् burnt,समीक्ष्य observed, बहवः many, विशिष्टाः eminent men, सर्वे all, रक्षोगणाः demons troops, तत्र there, समेत्य having collected together, इति एवम् in this manner, ऊचुः spoke each other.
आङ्ग्लानुवादः
All eminent demons having collected together, quickly surveyed the situation.Seeing the burnt city, with all its living creatures, houses and trees consigned to the flames, they spoke to one another.
श्लोकः
मूलम्
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥5.54.39॥
शब्दार्थः
ततः then, सराक्षसा including those demons, साश्वरथा with chariots and horses, सनागा with elephants, सपक्षिसङ्घा with flocks of birds, समृगाः with animals, सवृक्षाः the trees, लङ्का Lanka, सहसा all of a sudden, प्रदग्धा burnt, दीना piteous, तुमुलम् tumultuous, सशब्दम् loudly, रुरोद cried.
आङ्ग्लानुवादः
Lanka with its chariots horses, elephants, flocks of birds, animals and trees burnt all of a sudden, the ogres cried loudly and piteously.
श्लोकः
मूलम्
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम्।
रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः॥5.54.40॥
शब्दार्थः
हा तात o father dear, हा पुत्रक O son, कान्त O my dear, मित्र O friend, भोगयुतम् that which is enjoyable, सुपुण्यम् very pious, हा जीवितम् alas such life, एवम् this way, बहुधा in many ways, ब्रुवद्भिःः by those speaking out, रक्षोभिः by demons, घोरतरः in a terrific way, सुभीषः dreadful, शब्दः noise, कृतः was made.
आङ्ग्लानुवादः
“O father dear O son O my dear O friend alas, the life which is enjoyable, sacred and prosperous is destroyed in this way”. Saying this, the demons cried out dreadfully and loudly.
श्लोकः
मूलम्
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का॥5.54.41॥
शब्दार्थः
हुताशनज्वालसमावृता engulfed in the flames spread by the Firegod, हतप्रवीराः with its heroes dead, परिवृत्तयोधा with the retreating troops, हनूमतः Hanuman’s, क्रोधबलाभिभूता by Hanuman’s power of anger, सा लङ्का that Lanka, शापोपहतेव as if cursed, बभूव became.
आङ्ग्लानुवादः
With the Fire god spreading flames all over, heroes dead, retreating troops shattered by Hanuman’s anger, Lanka appeared as though it was cursed.
श्लोकः
मूलम्
स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम्।
ददर्श लङ्कां हनुमान्महामनाः स्वयम्भूकोपोपहतामिवावनिम्॥5.54.42॥
शब्दार्थः
महामनाः a highly sensitive person, हनुमान् Hanuman, ससम्भ्रमत्रस्तविषण्णराक्षसाम् with demons perplexed, scared and sorrowful, समुज्वलज्ज्वालहुताशनाङ्किताम् succumbed to the flames of the burning firegod, लङ्काम् Lanka, स्वयम्भूकोपोपहताम् hit by the anger of Brahma (at the time of dissolution of the universe), अवनिम् इव like the earth, लङ्काम् Lanka, ददर्श saw.
आङ्ग्लानुवादः
Highly sensitive Hanuman saw the city of Lanka filled with perplexed, scared and sorrowful demons, Lanka succumbed to the flames of firegod and looked as if it was hit by the anger of Brahma, the selfborn god.
श्लोकः
मूलम्
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः॥5.54.43॥
शब्दार्थः
पवनात्मजः son of the Windgod, हनूमान् Hanuman, पादपरत्नसङ्कुलम् that which was full of
excellent trees, वनम् garden, भङ्क्त्वा after breaking, संयुगे in war, महान्ति great, रक्षांसि demons, हत्वा after killing, गृहरत्नमालिनीम् with rows of beautiful houses, तां पुरीम् that city, दग्ध्वा after burning, तस्थौ stood.
आङ्ग्लानुवादः
Hanuman, son of the Windgod stood at ease having shattered the garden that was full of excellent trees, and killed the demons and burnt down rows of beautiful houses in the city.
श्लोकः
मूलम्
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली॥5.54.44॥
शब्दार्थः
विचित्रे on a wonderful, त्रिकूटशृङ्गाग्रतले on the peak of Trikuta mountain, प्रतिष्ठितः stationed, प्रदीप्तलाङ्गूलकृतार्चिमाली enriched by the flames emerging from his burning tail, वानरराजसिंहः a lion among vanara chiefs, अंशुमाली surrounded by rays of light, आदित्यः इव like the Sun, व्यराजत was resplendent.
आङ्ग्लानुवादः
Standing on the peak of Trikuta mountain with his tail burning like the aura of the Sun, the lion among vanaras looked resplendent like the Sun surrounded by his rays.
श्लोकः
मूलम्
स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा॥5.54.45॥
शब्दार्थः
महात्मा a great self, सः he, सुबहून् many of them, तान् राक्षसान् the demons, हत्वा having killed, बहुपादपम् having many trees, तत् वनं च that garden also, भङ्क्त्वा after breaking, रक्षोभवनेषु in the mansions of demons, अग्निम् fire, विसृज्य after setting, मनसा in his mind, रामम् Rama, जगाम reached.
आङ्ग्लानुवादः
Great Hanuman, sought Rama’s presence in his mind after killing many demons, breaking down many trees of the garden, and setting fire to the mansions of demons.
श्लोकः
मूलम्
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे॥5.54.46॥
शब्दार्थः
ततः then, वानरवीरमुख्यम् chief of heroic vanaras, महाबलम् of great strength, मारुततुल्यवेगम् who had the speed of wind, महामतिम् very wise, वरिष्ठम् efficient, तं वायुसुतम् son of the Windgod, सर्वे all, देवगणाः gods, प्रतुष्टुवुः praised.
आङ्ग्लानुवादः
All the gods praised the vanara chief, son of the Windgod, who was powerful, wise and efficient and had the speed of the Wind.
श्लोकः
मूलम्
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।
दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः॥5.54.47॥
शब्दार्थः
महातेजाः splendid, महाकपिः great monkey, वनम् garden, भङ्क्त्वा having destroyed, संयुगे in the war, रक्षांसि demons, हत्वा having killed, रम्याम् delightful, लङ्कापुरीम् Lanka city, दग्ध्वा having burnt, रराज shone.
आङ्ग्लानुवादः
Hanuman destroyed the garden, killed the demons, burnt the city of Lanka and was shining with delight
श्लोकः
मूलम्
तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः।
दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः॥5.54.48॥
शब्दार्थः
तत्र there, सगन्धर्वाः including the gandharvas, देवाः gods, सिद्धाश्च siddhas, परमर्षयः great sages, दग्धाम् burnt, तां लङ्काम् पुरीम् that Lanka city, दृष्ट्वा after seeing, परमम् supreme, विस्मयम् wonder, गताः experienced.
आङ्ग्लानुवादः
The gandharvas, gods, siddhas and great sages were amazed at seeing the burning city of Lanka৷৷
श्लोकः
मूलम्
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्।
कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः॥5.54.49॥
शब्दार्थः
वानरश्रेष्ठम् best of vanaras, महाकपिम् great monkey, तं हनुमन्तम् that Hanuman, दृष्ट्वा after
seeing, कालाग्निरिति that it is the fire of dissolution, सञ्चिन्त्य thinking, सर्वभूतानि all beings, तत्रसुः feared.
आङ्ग्लानुवादः
All beings were afraid of Hanuman thinking that he was the fatal fire, consuming worlds at the hour of dissolution .
श्लोकः
मूलम्
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥5.54.50॥
शब्दार्थः
तत्र there,सर्वे all,देवाश्च gods, मुनिपुङ्गवाश्च great sages,गन्धर्वविद्याधरनागयक्षाः gandharvas, vidyadharas, nagas and yakshas, महान्ति great, सर्वाणि all, भूतानि beings, अतुल्यरूपाम् of a matchless form, पराम् supreme, प्रीतिम् pleasure, जग्मुः felt.
आङ्ग्लानुवादः
All gods, great sages, gandharvas, vidyadharas, nagas and yakshas and all great beings experienced supreme joy.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशस्सर्गः॥
Thus ends the fiftyfourth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.