Sita further appeals to Hanuman
श्लोकः
मूलम्
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः॥5.39.1॥
शब्दार्थः
सीता Sita, मणिं Jewel, दत्त्वा having given, ततः that way, हनूमन्तम् to Hanuman, अब्रवीत् said, एतत् this, रामस्य to Rama, अभिज्ञात known, तत्त्वतः truly, अभिज्ञानम् signet.
आङ्ग्लानुवादः
Sita gave the jewel to Hanuman and said, “This signet ornament is known to Rama very well”.
श्लोकः
मूलम्
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति।
वीरो जनन्या मम च राज्ञो दशरथस्य च॥5.39.2॥
शब्दार्थः
मणिम् jewel, दृष्ट्वा after seeing, रामः Rama, त्रयाणाम् of three of us, जनन्याः of the mother, मम च me and, राज्ञः king, दशरथस्य च Dasaratha and, संस्मरिष्यति will recall.
आङ्ग्लानुवादः
“Seeing this jewel,Rama will recall three of us, my mother, myself and the king Dasaratha” (as this was given by her mother at her marriage.)
श्लोकः
मूलम्
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम।
अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्॥5.39.3॥
शब्दार्थः
हरिसत्तम great Hanuman, सः such Rama, त्वम् you, भूयः again, समुत्साहचोदितः prompted by enthusiasm, अस्मिन् in this, कार्यसमारम्भे in this effort, यत् that, उत्तरम् now, प्रचिन्तय think over.
आङ्ग्लानुवादः
“Great Hanuman you are enthused now. You may think over the future course of action.
श्लोकः
मूलम्
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम।
हनुमन्यत्नमास्थाय दुःखक्षयकरो भव॥5.39.4॥
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत्।
शब्दार्थः
हरिसत्तम O best of monkeys, अस्मिन् in this, कार्यनिर्योगे in carrying out this task, त्वम् you, प्रमाणम् are responsible, हनुमान् Hanuman, यत्नम् initiative, आस्थाय after making, दुःखक्षयकरः reducer of suffering, भव you are, तस्य for him, चिन्तयतः thinking, यत्नः effort, दुःखक्षयकरः reducer of grief, भवेत् become.
आङ्ग्लानुवादः
“O best of monkeys it is your responsibility to carry out this task. O Hanuman think carefully of that. Take the initiative to reduce my suffering. I am confident that you can do it.”
श्लोकः
मूलम्
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥5.39.5॥
शिरसा वन्ध्य वैदेहीं गमनायोपचक्रमे।
शब्दार्थः
भीमविक्रमः possessed with fierceful valour, सः मारुतिः that Maruti, तथेति so be it, प्रतिज्ञाय promised, वैदेहीम् to Vaidehi, शिरसा with his head, वन्ध्य having offered salutation, गमनाय to depart, उपचक्रमे started.
आङ्ग्लानुवादः
Hanuman possessed with fierce valour said to Vaidehi, ‘so be it’ and bowed his head, and offered salutations before he departed.
श्लोकः
मूलम्
ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम्॥5.39.6॥
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्।
शब्दार्थः
देवी noble lady, मैथिली Mythili, मारुतात्मजम् Maruti’s son, वानरम् vanara, सम्प्रस्थितम् who had started, ज्ञात्वा having realised, बाष्पगद्गदया with voice choked with tears, वाचा with speech, वाक्यम् these words, अब्रवीत् said.
आङ्ग्लानुवादः
The noble lady, Sita, having been fully convinced about Hanuman and realising that he is about to start, her voice was choked with tears. She said these wordsः
श्लोकः
मूलम्
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ॥5.39.7॥
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥5.39.8॥
शब्दार्थः
वानरश्रेष्ठः O great vanara, हनुमन् O Hanuman, सहितौ both, रामलक्ष्मणौ Rama and Lakshmana, कुशलम् welfare, ब्रूयाः you may communicate, सहामात्यम् along with his ministers, सुग्रीवं च and Sugriva, वृद्धान् elders, सर्वान् all, वानरान् vanaras, त्वम् you, धर्मसंहितम् righteous manner, कुशलम् welfare, ब्रूयाः you may communicate
आङ्ग्लानुवादः
“O Hanuman the great communicate my welfare to both Rama and Lakshmana, to Sugriva, his ministers, elderly vanaras in righteous order.
श्लोकः
मूलम्
यथा स च महाबाहुर्मां तारयति राघवः।
अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि॥5.39.9॥
शब्दार्थः
महाबाहुः strongarmed, सः राघवः that Rama, अस्मात् from this, दुःखाम्बुसंरोधात् relieve me from this ocean of grief, यथा that way, तारयति he helps me to cross, त्वम् you, समाधातुम् to pacify, अर्हसि you may.
आङ्ग्लानुवादः
“You must pacify the strongarmed Rama in a manner by which he will help me to cross the ocean of grief and rlieve me.
श्लोकः
मूलम्
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्।
तत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि॥5.39.10॥
शब्दार्थः
हनुमान् Hanuman, कीर्तिमान् illustrious one, रामः Rama, माम् me, जीवन्तीम् while I am alove, यथा in such way, सम्भावयति will take me, तत् that, तथा that way, वाच्यम् words, वाचा tell, धर्मम् righteous, अवाप्नुहि you will acquire.
आङ्ग्लानुवादः
“Let the illustrious Rama take me alive. Help me with your (persuasive) words and you will acquire merit.
श्लोकः
मूलम्
नित्यमुत्साहयुक्ताश्च वाचश्रुत्वा त्वयेरिताः।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥5.39.11॥
शब्दार्थः
त्वया you, ईरिताः spoken, उत्साहयुक्ताः full of determination for action, वाचः words, नित्यम् ever, श्रुत्वा after hearing, मदवाप्तये for acquiring me, दाशरथेः son of Dasaratha, पौरुषम् manliness, वर्धिष्यते will increase.
आङ्ग्लानुवादः
“On hearing your ever spirited words his manliness to get me back will be charged.
श्लोकः
मूलम्
मत्सन्देशयुता वाचस्त्वत्तश्श्रुत्वा च राघवः।
पराक्रमविधिं वीरो विधिवत्संविधास्यति॥5.39.12॥
शब्दार्थः
वीरः hero, राघवः Rama, त्वत्तः from you, मत्सन्देशयुताः with repetition of my message, वाचः words, श्रुत्वा after hearing, विधिवत् arrange duly, पराक्रमविधम् following his valour, संविधास्यति will make efforts.
आङ्ग्लानुवादः
श्लोकः
मूलम्
सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥5.39.13॥
शब्दार्थः
मारुतात्मजः son of Maruta, हनुमान् Hanuman, सीतायाः Sita’s, वचनम् words, श्रुत्वा after listening, शिरसि on his head, अञ्जलिम् folded palms, आधाय placed, उत्तरम् replied, वाक्यम् these words, अब्रवीत् said.
आङ्ग्लानुवादः
“Having heard Sita’s words, Hanuman, son of Maruta, placed his folded palms over his head in reverence and repliedः
श्लोकः
मूलम्
क्षिप्रमेष्यति काकुत्स्थो हार्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति॥5.39.14॥
शब्दार्थः
काकुत्स्थः Kakutstha, हर्यृक्षप्रवरैः with vanaras and bears, क्षिप्रम् at once, एष्यति he will hasten, यः he, युधि in war, अरीन् enemies, विजित्य winning over, ते your, शोकम् grief, व्यपनयिष्यति will relieve.
आङ्ग्लानुवादः
“Kakutstha Rama, accompanied by vanaras and bears will reach here soon and conquer the enemies in war and relieve your grief.
श्लोकः
मूलम्
न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा।
यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः॥5.39.15॥
शब्दार्थः
यः when he, बाणान् arrows, क्षिपतः while he releases, तस्य his, अग्रतः in front, स्थातुम् to stand, उत्सहते will have, मर्त्येषु among humans, नासुरेषु or among demons, सुरेषु वा or among gods, न हि पश्यामि I do not see.
आङ्ग्लानुवादः
“I do not see any one among humans or demons or even among gods who can face his arrows when released.
श्लोकः
मूलम्
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥5.39.16॥
शब्दार्थः
सः he, रणे in war, अर्कमपि even the Sun, पर्जन्यमपि or the raingod, वैवस्वतम् son of the Sun, यमम् Yama the lord of death, सोढुम् to hear, शक्तः capable, तव हेतोः for you, विशेषतः specially.
आङ्ग्लानुवादः
“Indeed, Rama is capable of conquering even the Sungod, or the raingod or Yama (the son of the Sun) specially for your sake.
श्लोकः
मूलम्
स हि सागरपर्यन्तां महीं शासितुमीहति।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि॥5.39.17॥
शब्दार्थः
सः he, सागरपर्यन्ताम् surrounded by the entire ocean, महीम् earth, शासितुम् to rule, अर्हति हि is fit, जनकनन्दिनि O Janaka’s delight, रामस्य Rama’s, जयः victory, त्वन्निमित्तो हि for your sake only.
आङ्ग्लानुवादः
“Rama is fit to rule the entire earth surrounded by the ocean. O delight of Janaka he will succeed in serving your cause.”
श्लोकः
मूलम्
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्।
जानकी बहुमेनेऽथ वचनं चेदमब्रवीत्॥5.39.18॥
शब्दार्थः
जानकी Janaki, तस्य his, सत्यम् truth, सम्यक् proper, सुभाषितम् good words, तत् that, वचनम् words, श्रुत्वा on hearing, बहुमेने held in great esteem, अथ then, इदम् thus, वचनं च and the word, अब्रवीत् said.
आङ्ग्लानुवादः
On hearing the truthful, proper, pleasing words by Hanuman whom she held in great esteem, Sita said thisः
श्लोकः
मूलम्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्॥5.39.19॥
शब्दार्थः
ततः then, सीता Sita, प्रस्थितम् ready to start, तम् him, पुनः पुनः again and again, वीक्षमाणा looking at, भर्तृस्नेहान्वितम् conveying her love to Rama, वाक्यम् word, सौहार्दात् goodhearted, अनुमानयत् she made him understand.
आङ्ग्लानुवादः
Sita again and again looked at Hanuman who was about to start. She made him understand her words conveying her love for Rama.
श्लोकः
मूलम्
यदि वा मन्यसे वीर वसैकाहमरिन्दम।
कस्मिंश्चित्संवृते देशे विश्रान्तःश्वो गमिष्यसि॥5.39.20॥
शब्दार्थः
अरिन्दम O destroyer of enemies, वीर hero, मन्यसे यदि if you think so, कस्मिंश्चित् some where, संवृते in a closed space, देशे in location, एकाहम् for one day, वस you may stay, विश्रान्तः rest, श्वः tomorrow, गमिष्यसि you may go.
आङ्ग्लानुवादः
“O destroyer of enemies if you think of halting for a day you may do so in a solitary location and leave tomorrow.
श्लोकः
मूलम्
मम चेदल्पभाग्याया सान्निध्यात्तव वानर।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥5.39.21॥
शब्दार्थः
वानर vanara, तव your, सान्निध्यात् by the presence, अल्पभाग्यायाः of an unfortunate woman, मम to me, महतः great, अस्य शोकस्य from the suffering, मुहूर्तम् for a short while, मोक्षणम् relief, भवेत् चेत् will be.
आङ्ग्लानुवादः
“Your presence will relieve me of my suffering, if you stay here for a while.
श्लोकः
मूलम्
गते हि हरिशार्दूल पुनरागमनाय तु।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः॥5.39.22॥
शब्दार्थः
हरिशार्दूल O tiger among vanaras, पुनरागमनाय for your visit once again, गते when you go, मम for me, प्राणानामपि and for my life, सन्देहः doubt, स्यात् will be, अत्र here, सन्देहः doubt, न no.
आङ्ग्लानुवादः
“O tiger among vanaras if you leave this place to come again, my life will be uncertain, (if your coming is uncertain). There is no doubt about it.
श्लोकः
मूलम्
तवादर्शनजः शोको भूयो मां परितापयेत्।
दुःखाद्धुःखपरामृष्टां दीपयन्निव वानर॥5.39.23॥
शब्दार्थः
वानर vanara, दुःखात् agonised, दुःखपरामृष्टाम् agony increased further, माम् me, तव your,
अदर्शनजः not seeing you, शोकः sorrow, दीपयन्निव as if inflamming my agony, भूयः again, परितापयेत् it will trouble me.
आङ्ग्लानुवादः
“My agony would be increased further by not seeing you. It would be inflamming my agony and I would be even more pained.
श्लोकः
मूलम्
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः॥5.39.24॥
शब्दार्थः
वीर hero, हरीश्वर chief of vanaras, त्वत्सहायेषु your helpless, हर्यृक्षेषु among vanaras and bears, अयम् this, सुमहान् great, सन्देहः doubtful, मम अग्रतः in front of me, तिष्ठतीव dwells in my mind.
आङ्ग्लानुवादः
“O heroic chief of vanaras I am doubtful as to whether vanaras and bears can extend help?
श्लोकः
मूलम्
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥5.39.25॥
शब्दार्थः
तानि those, हर्यृक्षसैन्यानि army of vanaras and bears, तौ they both, Rama and Lakshmana, नरवरात्मजौ princes, दुष्पारम् difficult to cross, महोदधिम् ocean, कथं नु how indeed, तरिष्यन्ति they can cross.
आङ्ग्लानुवादः
“How can the army of vanaras and bears, for that matter, princes Rama and Lakshmana negotiate the ocean, which is difficult to cross?
श्लोकः
मूलम्
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने।
शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा॥5.39.26॥
शब्दार्थः
अस्य of this, सागरस्य ocean’s, लङ्घने to leap, वैनतेयस्य वा for Bainateya (Garuda) or, तव वा or you, मारुतस्य or Windgod वा or, त्रयाणाम् for these three, भूतानाम् living beings, शक्तिः energy, स्यात् have.
आङ्ग्लानुवादः
“It is only three beings who have the capacity to leap over this ocean. Garuda, or you or the Windgod.
श्लोकः
मूलम्
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः॥5.39.27॥
शब्दार्थः
वीर hero, तत् such, एवम् in that way, दुरतिक्रमे in a very difficult task, अस्मिन् in this, कार्यनिर्योगे the task, किम् what, समाधानम् means, पश्यसि you foresee, त्वम् you, कार्यविदाम् among those who are capable, वरः हि foremost.
आङ्ग्लानुवादः
“What means do you, being the foremost hero among the three who are capable performing this difficult task, foresee?
श्लोकः
मूलम्
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः॥5.39.28॥
शब्दार्थः
परवीरघ्न slayer of enemy heroes, अस्य कार्यस्य this task, परिसाधने to accomplish, त्वम् you, एक एव alone are, पर्याप्तः कामम् are competent, ते to you, फलोदयः fruit, यशस्यः of the accomplishment.
आङ्ग्लानुवादः
“O slayer of enemy heroes if you alone can accomplish this task the fame of doing this will be yours.
श्लोकः
मूलम्
बलैस्समग्रैर्यदि मां रावणं जित्य संयुगे।
विजयी स्वपुरं यायात्तत्तस्य सदृशं भवेत्॥5.39.29॥
शब्दार्थः
संयुगे in war, समग्रैः with the entire, बलैः with army, रावणम् Ravana, जित्य after winning, माम् me, विजयी victorious , स्वपुरम् his own city, यायात् यदि if he can reach, तत् that, तस्य his, सदृशम् worthy of him, भवेत् will be.
आङ्ग्लानुवादः
“It would be worthy of Rama if he with his entire army emerges victorious over Ravana
in a battle and takes me to his city.
श्लोकः
मूलम्
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः।
मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्॥5.39.30॥
शब्दार्थः
परबलार्दनः slayer of enemy army, काकुत्स्थः Kakutstha, लङ्काम् Lanka, शरैः with arrows, सङ्कुलाम् an agitated place, कृत्वा does, माम् me, नयेद्यदि if he takes, तत् that, तस्य his action, सदृशम् agreeable, भवेत् will be.
आङ्ग्लानुवादः
“If Kakutstha (Rama), slayer of the enemy army fills the entire Lanka with his arrows and takes me, then his action will be worthy of him.
श्लोकः
मूलम्
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवेदाहवशूरस्य तथा त्वमुपपादय॥5.39.31॥
शब्दार्थः
तत् that, महात्मनः of the great self, आहवशूरस्य of the hero in war, तस्य his, अनुरूपम् worthy of him, विक्रान्तम् victorious, यथा in such a way, भवेत् will be, तथा in that way, त्वम् you, उपपादय you may make arrangement.
आङ्ग्लानुवादः
“You may make arrangement in such a manner that, that great self, the hero in war makes his victorious march which is worthy of him.”
श्लोकः
मूलम्
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमान्शेषं वाक्यमुत्तरमब्रवीत्॥5.39.32॥
शब्दार्थः
हनुमान् Hanuman, अर्थोपहितम् meaningful, प्रश्रितम् courteous, हेतुसंहितम् logical, तत् those, वाक्यम् words, निशम्य having heard, शेषम् the rest, वाक्यम् word, अब्रवीत् said, उत्तरं in reply.
आङ्ग्लानुवादः
Having heard the meaningful, courteous and logical words of Sita, Hanuman repliedः
श्लोकः
मूलम्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः॥5.39.33॥
शब्दार्थः
देवि Devi, हर्यृक्षसैन्यानाम् of the army of vanaras and bears, ईश्वरः lord, प्लवतां वरः foremost among monkeys, सत्त्वसम्पन्नः richly endowed with satvaguna, सुग्रीवः Sugriva, तव अर्धे for your sake, कृतनिश्चयः detemined to accomplish.
आङ्ग्लानुवादः
“O Devi the lord of monkeys, Sugriva heads the army of vanaras and bears. He is richly endowed with satvaguna and is determined to accomplish your cause and free you from sorrow.
श्लोकः
मूलम्
स वानरसहस्राणां कोटीभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥5.39.34॥
शब्दार्थः
वैदेहि Vaidehi, सः he, the Sugriva, वानरसहस्राणाम् of thousands of vanaras, कोटीभिः with crores of them, अभिसंवृतः is surrounded, राक्षसानाम् of all the ogres, निबर्हणः will destroy, क्षिप्रम् swiftly, एष्यति he will reach.
आङ्ग्लानुवादः
“O Vaidehi Sugriva will reach this place with thousands of crores of vanaras very soon and would kill all the ogres.
श्लोकः
मूलम्
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः।
मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः॥5.39.35॥
शब्दार्थः
विक्रमसम्पन्नाः powerful, सत्त्ववन्तः virtuous, महाबलाः mighty, मनस्सङ्कल्पसम्पाताः who can leap with the speed of mind, हरयः vanaras, तस्य his, निदेशे at his command, स्थिताः awaiting.
आङ्ग्लानुवादः
“Valiant, virtuous and powerful vanaras who can leap with the speed of mind are awaiting orders (of Sugriva).
श्लोकः
मूलम्
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥5.39.36॥
शब्दार्थः
येषाम् for those monkeys, गतिः movement, उपरि upward, न सज्जते do not get impeded, अधस्तात् downward, न not, तिर्यक् horizontally, न not, अमिततेजसः very brilliant ones, महत्सु any kind, कर्मसु of task, न सीदन्ति do not care
आङ्ग्लानुवादः
“Their course cannot be impeded either upward, or downward or right or left. They are indeed very brilliant and would never fail in any task.
श्लोकः
मूलम्
असकृत्तैर्महोत्साहैस्ससागरधराधरा।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥5.39.37॥
शब्दार्थः
महोत्साहैः by the enthusiastic, वायुमार्गानुसारिभिः following aerial path, तैः by them, असकृत् repeatedly, ससागरधराधरा with the oceans and mountains, भूमिः earth, प्रदक्षिणीकृता has been circumambulated.
आङ्ग्लानुवादः
“They have often circumambulated the earth including its oceans and mountains through the aerial path with great enthusiasm.
श्लोकः
मूलम्
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ॥5.39.38॥
शब्दार्थः
तत्र there, मद्विशिष्टाश्च more powerful than me, तुल्याश्च those equal to me, वनौकसः vanaras who move in the forest, सन्ति are, मत्तः to me, प्रत्यवरः inferior, कश्चित् not even one, सुग्रीवसन्निधौ under Sugriva, नास्ति not there.
आङ्ग्लानुवादः
“The vanaras under Sugriva who move in the forest are more powerful than me or equal to me. None is inferior to me.
श्लोकः
मूलम्
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥5.39.39॥
शब्दार्थः
अहं तावत् I have, इह here, अनुप्राप्तः reached, महाबलाः very powerful, ते to you, किं पुनः why
not others, प्रकृष्टाः the best ones, न प्रेष्यन्ते हि will not be sent, इतरे others, जनाः ordinary ones, प्रेष्यन्ते हि will be sent.
आङ्ग्लानुवादः
“If I have managed to come here, why not the other powerful ones? The superior leaders are not sent (as messengers). Only ordinary ones like me are.
श्लोकः
मूलम्
तदलं परितापेन देवि शोको व्यपैतु ते।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥5.39.40॥
शब्दार्थः
देवि noble lady, तत् therefore, परितापेन with lamentation, अलम् enough, ते your, शोकः agony, व्यपैतु may be given up, ते those, हरियूथपाः monkey troops, एकोत्पातेन in one stride, लङ्काम् to Lanka, एष्यन्ति will reach.
आङ्ग्लानुवादः
“O noble lady therefore, give up your agony. Enough of your lamentation. The monkey troops will reach this place in one stride.
श्लोकः
मूलम्
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः॥5.39.41॥
शब्दार्थः
महासत्त्वौ both great men, नृसिंहौ both lions among men, तौ च and both, मम my, पृष्ठगतौ on my back, उदितौ just risen, चन्द्रसूर्याविव like Sun and Moon, त्वत्सकाशम् to your presence, आगमिष्यतः will come.
आङ्ग्लानुवादः
“Both the valiant Rama and Lakshmana, lions among men, looking brilliant like Sun and Moon will come to you riding on my back.
श्लोकः
मूलम्
ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः॥5.39.42॥
शब्दार्थः
ततः then, वीरौ two heroes, नरवरौ both the princes, रामलक्ष्मणौ Rama and Lakshmana, सहितौ together, आगम्य on coming, लङ्कां नगरीम् to the city of Lanka, सायकैः with their arrows, विधमिष्यतः will blow away.
आङ्ग्लानुवादः
“Both the heroes, Rama and Lakshmana will come and blow up the city of Lanka with their unfailing arrows.
श्लोकः
मूलम्
सगणं रावणं हत्त्वा राघवो रघुनन्दनः।
त्वामादाय वरारोहे स्वपुरीं प्रतियास्यति॥5.39.43॥
शब्दार्थः
वरारोहे O beautiful lady, रघुनन्दनः the delight of the Raghu race, राघवः Rama, सगणम् along with his kins, रावणम् Ravana, हत्त्वा on killing, त्वाम् you, आदाय after taking you, स्वपुरीम् their city, प्रतियास्यति would go back.
आङ्ग्लानुवादः
“O beautiful lady Raghava, the delight of the Raghu race would kill Ravana and his kins and return with you to his city৷৷
श्लोकः
मूलम्
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्॥5.39.44॥
शब्दार्थः
तत् therefore, आश्वसिहि rest assured, ते भद्रम् let it be auspicious to you, त्वम् you, कालकाङ्क्षिणी count your time, भव be, प्रज्वलन्तम् burning, अनलम् इव like the fire, रामम् Rama, नचिरात् shortly, द्रक्ष्यसे would see.
आङ्ग्लानुवादः
“Therefore, count the days and rest assured. Let it be auspicious to you. You will shortly see Rama burning like fire.
श्लोकः
मूलम्
निहते राक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे।
त्वं समेष्वसि रामेण शशाङ्केनेव रोहिणी॥5.39.45॥
शब्दार्थः
सपुत्रामात्यबान्धवे along with his sons, ministers and relatives, अस्मिन् when, राक्षसेन्द्रे the king of demons, निहते killed, त्वम् you, रोहिणी Rohini, शशाङ्केनेव like the Moon, रामेण with Rama, समेष्यसि you will reunite.
आङ्ग्लानुवादः
“When Ravana is slain, with his sons, ministers and kith and kin, you will reunite with
Rama as Rohini unites with the Moon.
श्लोकः
मूलम्
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि।
रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्॥5.39.46॥
शब्दार्थः
देवि queen, मैथिलि Mythili, त्वम् you, क्षिप्रम् soon, शोकस्य grief, पारम् to the other shore, यास्यसि will go, अचिरात् very shortly, रामेण by Rama, रावणम् Ravana, निहतं slain, द्रक्ष्यसे चैव you will see.
आङ्ग्लानुवादः
“O queen Mythili you come to the end of your sorrow and will soon see Ravana killed by Rama”.
श्लोकः
मूलम्
एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥5.39.47॥
शब्दार्थः
मारुतात्मजः son of the Windgod, हनुमान् Hanuman, वैदेहीम् to Vaidehi, एवम् in that manner, आश्वास्य having consoled, गमनाय to depart, मतिम् thought, कृत्वा after resolving, पुनः again, वैदेहीम् to Vaidehi, अब्रवीत् said.
आङ्ग्लानुवादः
Having thus consoled Vaidehi, Hanuman, son of the Windgod resolved to depart. Once again he spoke to Vadehiः
श्लोकः
मूलम्
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम्॥5.39.48॥
शब्दार्थः
लङ्काद्वारम् at the entrance of Lanka, उपागतम् reached, अरिघ्नम् slayer of foes, कृतात्मानम् an accomplished man, तं राघवम् that Rama, धनुष्पाणिम् wielder of bow, लक्ष्मणं च and Lakshmana, क्षिप्रम् very soon, द्रक्ष्यसि you will see.
आङ्ग्लानुवादः
“Very soon you would see the slayer of foes, who is an accomplished wielder of the bow (Rama) along with Lakshmana at the entrance of Lanka.
श्लोकः
मूलम्
नखदंष्ट्रायुधान्वीरान्सिम्हशार्दूलविक्रमान्।
वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान्॥5.39.49॥
शब्दार्थः
नखदंष्ट्रायुधान् whose nails and teeth are their weapons, वीरान् heroes, सिंहशार्दूलविक्रमान् resembling lion and tiger in valour, वारणेन्द्राभान् who resemble wellbred elephants, सङ्गतान् reach, वानरान् vanaras, क्षिप्रम् soon, द्रक्ष्यसि you will see.
आङ्ग्लानुवादः
“You will soon see heroic vanaras whose weapons are their teeth, who are like lion and tiger in their valour. They are (mighty) like wellbred elephants.
श्लोकः
मूलम्
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।
नर्दतां कपिमुख्यानामार्ये यूधान्यनेकशः॥5.39.50॥
शब्दार्थः
आर्ये respectable lady, शैलाम्बुदनिकाशानाम् whose body is like clouds on mountain, नर्दताम् of the roaring, कपिमुख्यानाम् of the chiefs of vanaras, अनेकशः in many ways, यूधानि troops, लङ्कामलयसानुषु on the mountain of Lanka.
आङ्ग्लानुवादः
“O respectable lady you would see many troops of vanara chiefs who resemble clouds hovering on the mountain peaks of Lankaroaring.
श्लोकः
मूलम्
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।
न शर्म लभते रामस्सिंहार्धित इव द्विपः॥5.39.51॥
शब्दार्थः
सः रामः that Rama, घोरेण by the dreadful, मन्मथेषुणा arrows of god of love, मर्मणि pierced into vitals, ताडितः hit, सिंहार्दितः hit by a lion, द्विपः इव like an elephant, न शर्म लभते is not happy
आङ्ग्लानुवादः
“Rama is tormented by the dreadful arrows of the god of love pierced into vitals, like an elephant hit by a lion. He has no happiness in life.
श्लोकः
मूलम्
मा रुदो देवि शोकेन माभूत्ते मनसोऽप्रियम्।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि॥5.39.52॥
शब्दार्थः
देवि devi, शोकेन with sorrow, मा रुदः do not cry, ते your, मनसः in mind, अप्रियम् unpleasant, माभूत् no thought be entertained, पत्या with a husband शक्रेण to Indra, शचीव like Sachi, भर्त्रा by your husband, नाथवती you have a great husband, असि हि you are.
आङ्ग्लानुवादः
“O devi weep no more.Entertain no unpleasant thoughts.You have a great husband, just as Sachi has her lord Indra.
श्लोकः
मूलम्
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥5.39.53॥
शब्दार्थः
रामात् than Rama, विशिष्टः more distinguished, अन्यः others, कः who is there, अस्ति is, सौमित्रिणा to Lakshmana, समः equal, कश्चित् who is there, अग्निमारुतकल्पौ equal to fire and wind, तौ भ्रातरौ both brothers, तव your, संश्रयौ they are your refuge.
आङ्ग्लानुवादः
“Who is superior to Rama? Who is equal to Lakshmana? Both the brothers are like Fire and Wind. They are your refuge.
श्लोकः
मूलम्
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे।
न ते चिरादामगमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम्॥5.39.54॥
शब्दार्थः
देवि noble lady, रक्षोगणैः by the hosts of ogres, अध्युषिते in a stronghold, अतिरौद्रे in a dreadful place, अस्मिन् देशे country, चिरम् not very long, न वत्स्यसि will not stay, ते प्रियस्य with your beloved, आगमनम् coming, न चिरात् not very long, मत्सङ्गमकालमात्रम् for this period, क्षमस्व pardon me.
आङ्ग्लानुवादः
“O noble lady You will not stay longer in this country, which is a strong hold of hosts of demons and a dreadful place It will not be very long before you unite with your beloved. Pray, have patience till then.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशस्सर्गः॥
Thus ends the thirtyninth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.