The demonesses attempt to convince Sita
श्लोकः
मूलम्
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।
सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥5.23.1॥
शब्दार्थः
राजा king, शत्रुरावणः tormentor of enemies, रावणः Ravana, मैथिलीम् Mythili, इति thus, उक्त्वा having spoken, ततः thereafter, सर्वाः all, राक्षसीः demonesses, सन्दिश्य च having commanded, निर्जगाम departed.
आङ्ग्लानुवादः
King Ravana, tormentor of enemies, having thus spoken to Mythili commanded the demonesses and departed.
श्लोकः
मूलम्
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥5.23.2॥
शब्दार्थः
राक्षसेन्द्रे the lord of demons, निष्क्रान्ते having left, पुनः again, अन्तःपुरम् to the inner chambers, गते gone, भीमरूपाः women of hideous appearance, ताः those, राक्षस्यः demonesses, सीताम् Sita, समभिदुद्रुवुः ran to her.
आङ्ग्लानुवादः
As the demon king left for his abode all the demonesses of hideous looks rushed towards Sita and crowded around her.
श्लोकः
मूलम्
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः।
परं परुषया वाचा वैदेहीमिदमब्रुवन्॥5.23.3॥
शब्दार्थः
ततः then, राक्षस्यः demonesses, सीताम् to Sita, उपागम्य went near, क्रोधमूर्छिताः senses lost in anger, परम् very, परुषया harsh, वाचा words, वैदेहीम् Vaidehi, इदम् thus, अब्रुवन् spoke.
आङ्ग्लानुवादः
The demonesses, overcome with anger, approached Sita and harshly saidः
श्लोकः
मूलम्
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे॥5.23.4॥
शब्दार्थः
सीते O Sita, पौलस्त्यस्य in Paulastya’s, वरिष्ठस्य the distinguished, महात्मनः of the highsouled, दशग्रीवस्य tennecked, रावणस्य Ravana’s, भार्यात्वम् to be his wife, न बहुमन्यसे not treating it as a privilege
आङ्ग्लानुवादः
‘O Sita don’t you think it is a privilege to be the wife of the highsouled, tennecked Ravana, who is the distinguished king of a high family of sage Paulastya?
श्लोकः
मूलम्
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्।
आमन्त्य्र क्रोधाताम्राक्षी सीतां करतलोदरीम्॥5.23.5॥
शब्दार्थः
ततः then, एकजटा नाम called Ekajata, राक्षसी shedemon, क्रोधाताम्राक्षी eyes red with anger, करतलोदरीम् with a belly of the size of the palm, सीताम् Sita, आमन्त्य्र having called, वाक्यम् these words, अब्रवीत् spoke.
आङ्ग्लानुवादः
Then Ekajata, a shedemon of hideous looks, eyes red with anger and a belly of the size of the palm said to Sitaः
श्लोकः
मूलम्
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥5.23.6॥
शब्दार्थः
षण्णाम् of the six, प्रजापतीनाम् of Prajapatis, यः he who was, चतुर्थः fourth, प्रजापतिः, ब्रह्मणः Brahma, मानसः born out of mind, पुत्रः a son, पुलस्त्यः Pulastya, इति thus, विश्रुतः very famous.
आङ्ग्लानुवादः
‘The mindborn son of Brahma is well known as Paulastya. He was the fourth among the six Prajapatis (Maricha, Atri, Angira, Pulastya, Plaha, Kratu).
श्लोकः
मूलम्
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥5.23.7॥
शब्दार्थः
नाम्ना with the name, विश्रवा नाम Vishravas by name, प्रजापतिसमप्रभः equal in splendour to Prajapati, तेजस्वी glorious, सः महर्षिः that sage, पुलस्त्यस्य Pulastya’s, मानसः mindborn, सुतः son.
आङ्ग्लानुवादः
‘This glorious mindborn sage Pulastya’s son is the famous Vishrava who, in glory and splendour was equal to Prajapatis.
श्लोकः
मूलम्
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥5.23.8॥
मयोक्तं चारुसर्वाङ्गिः वाक्यं किं नानुमन्यसे।
शब्दार्थः
विशालाक्षि a largeeyed lady, शत्रुरावणः a tormentor of enemies, रावणः Ravana, तस्य his, पुत्रः son, त्वम् you, राक्षसेन्द्रस्य lord of demons, तस्य his, भार्या wife, भवितुम् to become, अर्हसि you deserve, चारुसर्वाङ्गि a lady of beautiful limbs, मया by me, उक्तम् spoken, वाक्यम् words, किम् why, नानुमन्यसे not heeding.
आङ्ग्लानुवादः
‘O largeeyes lady to become the wife of the lord of demons is a stroke of good luck. You deserve to be one. O lady of beautiful limbs why don’t you accept his proposal?’
श्लोकः
मूलम्
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥5.23.9॥
विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा।
शब्दार्थः
ततः then, मार्जारसदृशेक्षणा cateyed, हरिजटा नाम called Harijata, राक्षसी ogress, कोपात् with anger, नयने both eyes, विवर्त्य rolling, वाक्यम् these words, अब्रवीत् said.
आङ्ग्लानुवादः
Then an ogress called Harijata said this in anger, her cateyes rollingः
श्लोकः
मूलम्
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः॥5.23.10॥
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।
शब्दार्थः
येन by him, त्रयस्त्रिंशत् thirtythree, देवाः gods, देवराजश्च Indra, king of the gods, निर्जिताः are conquered, तस्य his, राक्षसेन्द्रस्य of the lord of ogres, त्वम् you, भार्या wife, भवितुम् to become, अर्हसि you ought to be.
आङ्ग्लानुवादः
‘You ought to be the wife of the lord of ogres who has vanquished thirty three crores of gods including Indra, their king.’
श्लोकः
मूलम्
ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता॥5.23.11॥
भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत्।
शब्दार्थः
ततः then, प्रघसा नाम named Praghasa, राक्षसी ogress, क्रोधमूर्छिता overwhelmed with anger, तदा then, भर्त्सयन्ती deriding, घोरम् terrific manner, इदम् these, वचनं तु words also, अब्रवीत् spoke.
आङ्ग्लानुवादः
Then an ogress named Praghasa, overwhelmed with anger, deriding Sita said these terrible wordsः
श्लोकः
मूलम्
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेषु निवर्तिनः॥5.23.12॥
बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे।
शब्दार्थः
वीर्योत्सिक्तस्य Valiant, शूरस्य hero’s, सङ्ग्रामेषु in wars, अनिवर्तिनः hero who never retreats, बलिनः powerful, वीर्ययुक्तस्य mighty one, भार्यात्वम् to be a wife, किम् why, न लप्स्यसे not wishing.
आङ्ग्लानुवादः
‘Why don’t you wish to be the wife of such a mighty and powerful king, a valiant hero who has never beaten a retreat in war?
श्लोकः
मूलम्
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः॥5.23.13॥
सर्वासां च महाभागां त्वामुपैष्यति रावणः।
शब्दार्थः
राजा king, महाबलः mighty, रावणःRavana, प्रियाम् his dear, बहुमताम् favourrite lady, सर्वासाम् of all, महाभागाम् highly respectable, भार्याम् wife, त्यक्त्वा renouncing, त्वाम् you, उपैष्यति he is desirous
आङ्ग्लानुवादः
‘Even renouncing his highly respectable, favourite wife among all, mighty Ravana is prepared to accept you.
श्लोकः
मूलम्
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्॥5.23.14॥
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः।
शब्दार्थः
रावणः Ravana, स्त्रीसहस्रेण with a thousand wives, समृद्धम् rich, नानारत्नोपशोभितम् decorated with many gems, अन्तःपुरम् inner chambers, समुत्सृज्य abandoning, त्वाम् you, उपैष्यति is desiring.
आङ्ग्लानुवादः
‘Ravana is prepared to abandon a thousand wives in his prosperous harem decorated with all kinds of gems in order to accept you.’
श्लोकः
मूलम्
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्॥5.23.15॥
असकृद्देवता युद्धे नागगन्धर्वदानवाः।
निर्जिताः समरे येन स ते पार्श्वमुपागतः॥5.23.16॥
शब्दार्थः
विकटा नाम called Vikata, अन्या other, राक्षसी तु ogress also, वाक्यम् these words, अब्रवीत् spoke, येन by whom, असकृत् often, युद्धे in war, देवताः gods, समरे in war, नागगन्धर्वदानवाः nagas, gandharvas and demons, निर्जिताः vanquished, सः he, ते your, पार्श्वम् side, आगतः has come to you.
आङ्ग्लानुवादः
Another ogress called Vikata said, ’ Know that he who has often defeated gods in war and has vanquished nagas, gandharvas and demons has come to you (seeking your favour)’.
श्लोकः
मूलम्
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः।
किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे॥5.23.17॥
शब्दार्थः
अधमे O foolish woman, सर्वसमृद्धस्य who has abundance of wealth, महात्मनः great self, राक्षसेन्द्रस्य of the lord of ogres, तस्य his, रावणस्य Ravana’s, भार्यात्वम् to be wife, अद्य now, किम् why, नेच्छसे do not you desire
आङ्ग्लानुवादः
‘O foolish woman why don’t you seek the wifehood of a glorious king of demons who has abundance of wealth?’
श्लोकः
मूलम्
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः॥5.23.18॥
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि।
शब्दार्थः
ततः then, दुर्मुखी नाम named Durmukhi, राक्षसी ogress, वाक्यम् these words, अब्रवीत् spoke, आयतापाङ्गे lady of long side glaces, यस्य whose, भीतः by fear of whom, सूर्यः Sun, न तपति not scorch, यस्य by whose, भीतः by fear of whom, मारुतः wind, न वाति स्म not blow, तस्य his, त्वम् you, किम् why, न तिष्ठसि not yield
आङ्ग्लानुवादः
Then an ogress called Durmukhi said, ‘O lady of long sideglances why don’t you yield to him, afraid of whom the Sun scorches not and strong winds blow not?
श्लोकः
मूलम्
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्॥5.23.19॥
शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति।
तस्य नैरृतराजस्य राजराजस्य भामिनि ॥5.23.20॥
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि।
शब्दार्थः
सुभ्रु lady with beautiful eyebrows, भामिनि radiant one, यस्य whose, भयात् fear, तरवः trees, पुष्पवृष्टिम् rain of flowers, मुमुचुः released, यदा whenever, इच्छति wishes, शैलाश्च even mountains, जलदाश्च clouds also, पानीयम् water, नैरृतराजस्य for the king of the
southwest, Ravana, राजराजस्य king of kings, तस्य his, रावणस्य Ravana’s, भार्यार्थे to become his wife, बुद्धिम् mind accepting, त्वम् you, किम् why, न कुरुषे not wishing?
आङ्ग्लानुवादः
‘O lady of beautiful brows why don’t you make up your mind to accept the king of kings, afraid of whom the trees rain flowers, the mountains and clouds release water at his will? Ravana is the king of the southwest, direction Why don’t you wish to be his wife?
श्लोकः
मूलम्
साधु ते तत्त्वतो देवि कथितं साधु भामिनि॥5.23.21॥
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि।
शब्दार्थः
सुस्मिते lady with a gentle smile, भामिनि a beautiful lady, देवि queen, तत्त्वतः truly, साधु well, ते you, कथितम् spoken, साधु wishing well, वाक्यम् these words, गृहाण accept, अन्यथा otherwise, न भविष्यसि will not be alive.
आङ्ग्लानुवादः
‘O beautiful lady with a gentle smile we have tendered good advice to you wishing you well. Accept this advice or else you may not be alive.’
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयोविंशस्सर्गः।
Thus ends the twentythird sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.