Svayamprabha helps the monkeys to reach out of the cave – Angada regrets for exceeding the time limit – proposes fasting unto death fearing punishment – the monkeys decide to end their life rather than return without Sita.
श्लोकः
मूलम्
एवमुक्तश्शुभं वाक्यं तापस्या धर्मसंहितम्।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्॥4.53.1॥
शब्दार्थः
तापस्या by the hermitess, एवम् that way, धर्मसंहितम् coupled with righteousness, शुभम् auspicious, वाक्यम् words, उक्तः expressed, हनुमान् Hanuman, अनिन्दितचेष्टिताम् blameless in actions, ताम् her, वाक्यम् words, उवाच said.
आङ्ग्लानुवादः
To the auspicious words of the righteous, blameless hermitess Hanuman repliedः
श्लोकः
मूलम्
शरणं त्वां प्रपन्ना स्म सर्वे वै धर्मचारिणीं।
यः कृतस्समयोऽस्माकं सुग्रीवेण महात्मना॥4.53.2॥
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम्।
शब्दार्थः
धर्मचारिणीम् to the righteous lady, त्वाम् you, सर्वे all, शरणं प्रसन्नाः स्मः have taken refuge, महात्मना by the great self, सुग्रीवेण by Sugriva, अस्माकं to us, यः such, समयः condition, कृतः having given, सः that, बिले in the cave, परिवर्तताम् while we were moving about, ह्यतिक्रान्तः exceeded.
आङ्ग्लानुवादः
‘You are a righteous lady. You have given us refuge. Now in moving about the cave we have exceeded the time limit given by Sugriva.’
श्लोकः
मूलम्
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि॥4.53.3॥
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः।
शब्दार्थः
सा such lady, त्वम् you, तस्मात् therefore, सुग्रीववचनात् Sugriva’s words, अतिक्रान्तान् those who exceeded, गतायुषः lost our lives, घोरात् from the dreadful, अस्मात् from this, बिलात् from this cave, उत्तारयितुम् to help us go out, अर्हसि should.
आङ्ग्लानुवादः
श्लोकः
मूलम्
त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान्॥4.53.4॥
महच्चकार्यमस्माभिः कर्तव्यं धर्मचारिणि।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः॥4.53.5॥
शब्दार्थः
धर्मचारिणि a woman of righteous practices, सुग्रीवभयकर्शितान् who are afraid of Sugriva, नः us, सर्वान् all, त्रातुम् to save, अर्हसि should, अस्माभिः by us, महत् great, कार्यं च task also, कर्तव्यम् should be done, इह now, वासिभिः staying here, अस्माभिः by us, तत् that, कार्यं चापि the objective, न कृतम् not accomplished.
आङ्ग्लानुवादः
‘O righteous lady we have a great task waiting. We are afraid of Sugriva as we could not accomplish our objective by staying here. Save us.’
श्लोकः
मूलम्
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्॥4.53.6॥
शब्दार्थः
हनुमता by Hanuman, एवम् in that manner, उक्ता being told, तापसी ascetic, वाक्यम् these words, अब्रवीत् said, प्रविष्टेन by one who entered, जीवता with life, निवर्तितुम् to go back, दुष्करम् it is difficult, मन्ये I think.
आङ्ग्लानुवादः
To the words of Hanuman the ascetic replied, ‘I consider it difficult for any one who enters here to go back alive.’
श्लोकः
मूलम्
तपसस्तु प्रभावेन नियमोपार्जितेन च।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्॥4.53.7॥
शब्दार्थः
नियमोपार्जितेन earned by practising, तपसः by asceticism, तु प्रभावेन by virtue of it, सर्वानेव all of you, वानरान् monkeys, अस्मात् बिलात् from this cave, उद्धरियिष्यामि I will help you out.
आङ्ग्लानुवादः
‘I will help all monkeys out of this cave by virtue of my power of asceticism duly practised.
श्लोकः
मूलम्
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः॥4.53.8॥
शब्दार्थः
सर्वे all, वानरपुङ्गवाः great monkeys, चक्षूंषि eyes, निमीलयतः keep them closed, अनिमीलितलोचनैः if you do not close your eyes, निष्क्रमितुम् to get out, नशक्यं हि is not possible.
आङ्ग्लानुवादः
श्लोकः
मूलम्
ततस्सम्मीलितास्सर्वे सुकुमाराङ्गुलैः करैः।
सहसाऽपिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया॥4.53.9॥
शब्दार्थः
ततः then, गमनकाङ्क्षया with a desire to get out, हृष्टाः joyful ones, सर्वे all, सम्मीलिताः closed their eye lids, सहसा at once, सुकुमाराङ्गुलैः with delicate fingers, करैः with hands, दृष्टिम् eyes, पिदधुः closed.
आङ्ग्लानुवादः
Happy at the prospect of getting out (of the cave) they all not only closed their eyes but also covered them with their delicate fingers.
श्लोकः
मूलम्
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया॥4.53.10॥
शब्दार्थः
तदा then, हस्तरुद्धमुखाः faces covered with hands, महात्मानः great souls, वानराः monkeys, तया with her help, निमेषान्तरमात्रेण in a moment, बिलात् from the cave, उत्तारिताः came out.
आङ्ग्लानुवादः
Then the great monkeys, faces covered with their hands, emerged from the cave in a moment.
श्लोकः
मूलम्
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी।
निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्॥4.53.11॥
शब्दार्थः
धर्मचारिणी righteous, तापसी ascetic, तत्र there, तान् सर्वान् all of them, विषमात् from the difficult situation, तस्मात् from that, निस्सृतान् those who were released, समाश्वास्य after consoling them all, इदम् these words, अब्रवीत् said.
आङ्ग्लानुवादः
The righteous hermitess released all the monkeys out of that difficult situation and said these words of consolationः
श्लोकः
मूलम्
एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः।
एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः॥4.53.12॥
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः।
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा॥4.53.13॥
शब्दार्थः
एषः this, श्रीमान् rich, नानाद्रुमलताकुलः filled with different kinds of trees and vines, विन्ध्यः Vindhya, गिरिः mountain, एषः this, प्रस्रवणः Prasravana, शैलः hill, अयम् this, सागरः sea, महोदधिः great ocean, वानरर्षभाः bulls among monkeys वः you, स्वस्ति be happy, अस्तु so be it, भवनम् to my house, गमिष्यामि I will go, इति thus, उक्त्वा having said, स्वयम्प्रभा Svayamprabha, श्रीमत् splendid, तत् बिलम् that cave, प्रविवेश entered.
आङ्ग्लानुवादः
‘This Vindhya mountain has a rich collection of trees and bushes. This is Prasravana hill and this is the great ocean.O monkeys. Good luck to you. (Now) I am going back home’. Having said so, Svayamprabha entered the splendid cave.
श्लोकः
मूलम्
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्॥4.53.14॥
शब्दार्थः
ततः then, ते they, घोरम् dreadful, वरुणालयम् abode of Varuna, अपारम् endless, अभिगर्जन्तम् roaring wildly, घोरैः with terrific, ऊर्मिभिः with waves, आवृतम् spread over, सागरम् ocean, ददृशुः saw.
आङ्ग्लानुवादः
Then the monkeys saw the boundless, dreary ocean roaring wild with its terrific waves spread all over.
श्लोकः
मूलम्
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥4.53.15॥
शब्दार्थः
तेषाम् for them, मयस्य Maya’s, मायाविहितम् created by his Maya, गिरिदुर्गम् impassable mountain, विचिन्वताम् while searching, यः such, राज्ञा by the king, समयः time set, कृतः was fixed, मासः month, व्यतिक्रान्तः exceeded.
आङ्ग्लानुवादः
While they were ransacking the impassable mountain created with the magical powers of Maya, the time limit of one month set by the king was over.
श्लोकः
मूलम्
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे।
उपविश्य महाभागाश्चिन्तामापेदिरे तदा॥4.53.16॥
शब्दार्थः
तदा then, महाभागाः great souls, सम्प्रपुष्पितपादपे in a location where trees are in full bloom, विन्ध्यस्य तु of Vindhya, गिरेः of that mountain, पादे adjacent, उपविश्य sat, चिन्ताम् thinking, आपेदिरे did.
आङ्ग्लानुवादः
Then the highsoul monkeys reached the hill adjacent to Vindhya mountain on which trees were in full bloom.They sat there, lost in thought.
श्लोकः
मूलम्
ततः पुष्पातिभाराग्रान् लताशतसमावृतान्।
द्रुमान्वासन्तिकान्दृष्टवा बभूवुर्भयशङ्किताः॥4.53.17॥
शब्दार्थः
ततः then, पुष्पातिभाराग्रान् heavily loaded with flowers on top, लताशतसमावृतान् entwined by hundreds of creepers, वासन्तिकान् spring, द्रुमान् trees, दृष्ट्वा saw, भयशङ्किताः frightened, बभूवुः became.
आङ्ग्लानुवादः
Alarmed at the thought (of transgression of time limit), the monkeys kept looking at the tree tops entwined with a hundred oreepers heavily loaded with the flowers of spring.
श्लोकः
मूलम्
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम्।
नष्टसन्देशकालार्था निपेतुर्धरणीतले॥4.53.18॥
शब्दार्थः
ते they, वसन्तम् spring, अनुप्राप्तम् set in, परस्परम् with one onather, प्रतिबुद्ध्वा after realising, नष्टसन्देशकालार्थाः having exceeded the time set, धरणीतले on the ground, निपेतुः fell down.
आङ्ग्लानुवादः
Having realised (looking at the flowers) that spring has set in and they have exceeded the time limit, they all fell down on the ground.
श्लोकः
मूलम्
ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः।
वाचा मधुरयाऽभाष्य यथावदनुमान्य च॥4.53.19॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः।
युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत्॥4.53.20॥
शब्दार्थः
ततः then, सिंहवृषस्कन्धः one who has shoulders like a lion or bull, पीनायतभुजः of sturdy and long arms, युवराजः heir apparent, महाप्राज्ञः very wise, कपिः monkey, अङ्गदः Angada, तान् them, कपिवृद्धांस्तु to the elderly monkeys, शिष्टान् respectable, वनैकसश्चैव forestdwellers (monkeys), मधुरया with a sweet, वाचा tone, आभाष्य spoke, यथावत् properly, अनुमान्य च after coming to a decision, वाक्यम् these words, अब्रवीत् said.
आङ्ग्लानुवादः
Coming to a conclusion after due deliberation Angada, heir apparent, profoundly wise, endowed with sturdy and broad shoulders like those of a lion or a bull, spoke in a sweet voice to the elderly, respectable monkeys, dwellers of the forestः
श्लोकः
मूलम्
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः।
मासः पूर्णो बिलस्थानां हरयः किं न बुद्ध्यते॥4.53.21॥
शब्दार्थः
हरयः O monkeys, वयं सर्वे all of us, कपिराजस्य monkey king’s, शासनात् by his command, विनिर्गताः came here, बिलस्थानाम् for us staying in the cave, मासः a month, पूर्णः is completed, किम् what, न बुद्ध्यते do you not know?
आङ्ग्लानुवादः
‘O monkeys don’t you realize that all of us have come here at the command of the monkey king, and while we were in the cave a whole month has gone by?
श्लोकः
मूलम्
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः।
प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम्॥4.53.22॥
शब्दार्थः
वयम् we, कालसङ्ख्याव्यवस्थिताः with time limit, आश्वयुजे मासि the month of Ashvayuja, प्रस्थिताः we started our journey, सोऽपि even that has, अतीतः exceeded, अतः therefore, उत्तरं later, कार्यम् task, किम् what?
आङ्ग्लानुवादः
‘We started our journey in the month of Ashvayuja with a certain time limit. That has exceeded. What is the future course of action?
श्लोकः
मूलम्
भवन्तः प्रत्ययं प्राप्ताः नीतिमार्गविशारदाः।
हितेष्वभिरता भर्तुर्निसृष्टास्सर्वकर्मसु॥4.53.23॥
शब्दार्थः
भवन्तः all of you, प्रत्ययम् trusted, प्राप्ताः you have got, नीतिमार्गविशारदाः experts in morals, भर्तुः king’s, हितेषु wellwishers, अभिरताः dedicated, सर्वकर्मसु in all tasks, निसृष्टाः sent with specific instructions.
आङ्ग्लानुवादः
श्लोकः
मूलम्
कर्मस्वप्रतिमास्सर्वे दिक्षु विश्रुतपौरुषाः।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः॥4.53.24॥
शब्दार्थः
सर्वे all, कर्मसु in actions, अप्रतिमाः incomparable, दिक्षु in all quarters, विश्रुतपौरुषाः very famous for bravery, पिङ्गाक्षप्रतिचोदिताः sent by tawnyeyed Sugriva, माम् me, पुरस्कृत्य obeying the orders, निर्याताः you have followed me.
आङ्ग्लानुवादः
‘You are all celebrated for bravery and incomparable in your activities. You have followed me in obedience to the orders of the tawnyeyed Sugriva.
श्लोकः
मूलम्
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः।
हरिराजस्य सन्देशमकृत्वा कस्सुखी भवेत्॥4.53.25॥
शब्दार्थः
इदानीम् at this time, अकृतार्थानाम् not having achieved the objective (of finding Sita), मर्तव्यम् we should die, अत्र here, संशयः doubt, न not, हरिराजस्य the king’s, सन्देशम् orders, अकृत्वा not executing, कः who, सुखी happy, भवेत् will be
आङ्ग्लानुवादः
‘We should be killed since we have failed to achieve the objective (of finding Sita). There is no doubt about it. Who can live in peace without executing the orders of the king?
श्लोकः
मूलम्
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥4.53.26॥
शब्दार्थः
सुग्रीवेण by Sugriva, कृते fixed, तस्मिन् काले at this time, अतीते when exceeded, सर्वेषाम् for all of us,वनौकसाम् for the forest dwellers (monkeys) स्वयम् personally, प्रायोपवेशनम् fasting unto death, युक्तम् is right.
आङ्ग्लानुवादः
‘Now that the time limit fixed by Sugriva has expired, the right thing to do for the monkeys is to fast unto death.
श्लोकः
मूलम्
तीक्ष्णः प्रकृत्या सुग्रीवस्स्वामिभावे व्यवस्थितः।
न क्षमिष्यति नस्सर्वानपराधकृतो गतान्॥4.53.27॥
शब्दार्थः
सुग्रीवः Sugriva, प्रकृत्या by nature, तीक्ष्णः harsh, स्वामिभावे as a king, व्यवस्थितः consecrated, गतान् when we reach, अपराधकृतः us who are real offenders, नः not, सर्वान् to all, न क्षमिष्यति will not forgive us.
आङ्ग्लानुवादः
‘By nature Sugriva is harsh, and being a king now, he will not forgive us who are real offenders and have not done the task assigned.
श्लोकः
मूलम्
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति।
तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् हि नः॥4.53.28॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च।
शब्दार्थः
सीतायाः Sita, अप्रवृत्तौ for not bringing any clue, पापमेव sin, करिष्यति he will do, तस्मात् therefore, पुत्रांश्च sons, दारांश्च wives, धनानि च and wealth, गृहाणि च and houses, त्यक्त्या bid farewell to, इह here, अद्यैव today itself, प्रायोपवेशनम् death, गन्तुम् take recourse, क्षमम् proper.
आङ्ग्लानुवादः
श्लोकः
मूलम्
धृवं नो हिंसिता राजा सर्वान्प्रतिगतानितः॥4.53.29॥
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः।
शब्दार्थः
राजा king, इतः here, प्रतिगतान् when we return, नः us, सर्वान् all, अप्रतिरूपेण in an incomparable manner, वधेन with death sentence, ध्रुवम् surely, हिंसिता will torture us, नः us, इहैव here itself, मृत्युः death, श्रेयान् it is better.
आङ्ग्लानुवादः
‘Surely the king will torture us by awarding death sentence in a singular manner when we go back. It is better for us to meet death here itself.
श्लोकः
मूलम्
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥4.53.30॥
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा।
शब्दार्थः
अहम् I, सुग्रीवेण by Sugriva, यौवराज्येन as heir apparent, न अभिषेचितः not installed, अक्लिष्टकर्मणा who never harms others, नरेन्द्रेण by the king of the people, रामेण by Rama, अभिषिक्तः crowned prince, अस्मि I was.
आङ्ग्लानुवादः
‘I was not installed as heir apparent by Sugriva. I was made crowned prince by king Rama, the king of the people who never hurts others.
श्लोकः
मूलम्
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥4.53.31॥
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः।
शब्दार्थः
पूर्वम् earlier, बद्धवैरः nursed bitter enmity, सः राजा that king, व्यतिक्रमम् lapse, दृष्ट्वा after seeing, कृतनिश्चयः decidedly, माम् me, तीक्ष्णेन with a severe, दण्डेन with punishment, घातयिष्यति he will inflict.
आङ्ग्लानुवादः
‘The Monkeyking nursed bitter enmity against me even earlier. Now seeing my lapse, he will decidedly inflict severe punishment on me.
श्लोकः
मूलम्
किं मे सुहृदभिर्व्यसनं पश्यद्भिर्जीवितान्तरे॥4.53.32॥
इहैव प्रायमासिष्ये पुण्ये सागररोधसि।
शब्दार्थः
जीवितान्तरे at the end of life, मे व्यसनम् my calamity, पश्यद्भिः by seeing, सुहृदभिः by my friends, किम् what, इहैव here itself, पुण्ये in a sacred, सागररोधसि on the shores of the ocean, प्रायमासिष्ये I shall sit down and await my death.
आङ्ग्लानुवादः
‘I do not want my friends to see my calamity, my death. I shall sit here on the sacred shores of this ocean and await my death’.
श्लोकः
मूलम्
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्॥4.53.33॥
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्।
शब्दार्थः
युवराजेन by heir apparent, कुमारेण by the young prince, भाषितम् talk, एतत् this, श्रुत्वा heard, सर्वे all, ते they, वानरश्रेष्ठाः best of the monkeys करुणम् kindly, वाक्यम् these words, अब्रुवन् said.
आङ्ग्लानुवादः
Hearing the young heir apparent thus speaking, the best of the monkeys kindly respondedः
श्लोकः
मूलम्
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः॥4.53.34॥
अदृष्टायां तु वैदेह्यां दृष्ट्वाऽस्मांश्त समागतान्।
राघवप्रियकामार्थं घातयिष्यत्यसंशयम्॥4.53.35॥
शब्दार्थः
सुग्रीवः Sugriva, प्रकृत्या by nature, तीक्ष्णः harsh, राघवः Rama, प्रियासक्तः devoted to his wife, वैदेह्याम् princess of Videha, अदृष्टायाम् when she is not found, अस्मान् us, तु indeed, समागतान् reaching, दृष्ट्वा on seeing, राघवप्रियकामार्थम् in order to please Rama, असंशयम् without any doubt, घातयिष्यति he will punish us to death.
आङ्ग्लानुवादः
‘By nature Sugriva is harsh. Rama is devoted to his wife. Therefore, if Sugriva sees that we have not found Vaidehi and have returned (without fulfilling the mission) he will award death sentence to us in order to please Rama.There is no doubt.
श्लोकः
मूलम्
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः।
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा॥4.53.36॥
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम्।
शब्दार्थः
अपराद्धानाम् for offenders, स्वामिपार्श्वतः to the king’s presence, गमनम् going, नक्षमम् is not proper, इहैव here itself, सीताम् Sita, अन्विष्य after searching, प्रवृत्तिम् whereabouts, उपलभ्य वा or after finding out, तं वीरम् to that hero, नो गच्छाम चेत् if we cannot go, यमक्षयम् to the abode of Yama, गमिष्यामः we will go.
आङ्ग्लानुवादः
‘Those who have failed in their mission, being offenders should not go to meet the king. Offenders are not forgiven. Here itself we will search for Sita and if we are able to know her whereabouts we will go back. Or else we will go to the abode of Yama’.
श्लोकः
मूलम्
प्लवङ्गमानां तु भयार्दितानां
श्रुत्वा वचस्तार इदं बभाषे।
अलं विषादेन बिलं प्रविश्य
वसाम सर्वे यदि रोचते वः॥4.53.37॥
शब्दार्थः
तारः Tara, भयार्दितानाम् those shaken with fear, प्लवङ्गमानाम् of the monkeys, वचः words, श्रुत्वा after hearing, इदम् this, बभाषे he spoke, विषादेन with sorrow, अलम् enough, वः to you, रोचते यदि if it pleases you, सर्वे all of us, बिलम् cave, प्रविश्य after entering, वसाम let us reside.
आङ्ग्लानुवादः
‘On hearing the words of the frightened monkeys, Tara said, ‘Enough of this sorrow. If it pleases you, we will all go to the cave and reside there’ '’
श्लोकः
मूलम्
इदं हि मायाविहितं सुदुर्गमं
प्रभूतवृक्षोदकभोज्यपेयकम्।
इहास्ति नो नैव भयं पुरन्दरा
न्न राघवाद्वानरराजतोऽपि वा॥4.53.38॥
शब्दार्थः
मायाविहितम् built by magic, प्रभूतवृक्षोदकभोज्यपेयकम् with many trees, water, food and drinks, इदम् this, सुदुर्गमं हि inaccessible, इह here, नः for us, पुरन्दरात् from Indra, the breaker of enemy citadel, भयम् fear, नैव not there, राघवात् of Rama even, वानरराजतोऽपि वा also of king of monkeys, न not.
आङ्ग्लानुवादः
‘This cave built by magic is inaccessible. It has a number of trees, water, eatables and drinks. (If we live here) we need not be afraid of even Indra, the breaker of enemy citadels or even of Rama or also of the king of monkeys’.
श्लोकः
मूलम्
श्रुत्वाऽङ्गदस्यापि वचोऽनुकूल
मूचुश्च सर्वे हरयः प्रतीताः।
यथा न हिंस्येम तथा विधान
मसक्तमद्यैव विधीयतां नः॥4.53.39॥
शब्दार्थः
अङ्गदस्य Angada’s, वचः words, श्रुत्वा after hearing, सर्वे all, हरयः monkeys, प्रतीताः became agreeable, अनुकूलम् favourable, ऊचुः spoke, यथा as, न हिंस्येम we will not be punished, तथा that way, नः for us, अद्यैव now itself, विधानम् strategy, असक्तम् not conditional, विदीयताम् be planned.
आङ्ग्लानुवादः
All the monkeys agreed to the favourable suggestion of Tara which was acceptable to Angada. ‘A plan may be made in such a way by which we will not be killed by the king. Our strategy should be delinked from the conditions laid down by the king. Let us not face punishment’ said the monkeys.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशस्सर्गः॥
Thus ends the fiftythird sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.