०४९ लोपामुद्रायाः सप्तपर्णवने सीतान्वेषणम्

Angada encourages the troops to search the silver mountain.

श्लोकः

मूलम्

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत्।
परिश्रान्तो महाप्राज्ञस्समाश्वास्य शनैर्वचः॥4.49.1॥

शब्दार्थः

अथ then, परिश्रान्तः an exhausted person, महाप्राज्ञः very wise, अङ्गदः Angada, तदा then, सर्वान् all, वानरान् the vanaras, समाश्वास्य consoled, शनैः slowly, इदम् these, वचः words, अब्रवीत् said.

आङ्ग्लानुवादः

Wise Angada, exhausted after the search, collected the monkeys, and consoling them, said slowlyः

श्लोकः

मूलम्

वनानि गिरयो नद्यो दुर्गाणि गहनानि च।
दर्यो गिरिगुहाश्चैव विचितानि समन्ततः॥4.49.2॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते।
तद्वा रक्षो हृता येन सीता सुरसुतोपमा॥4.49.3॥

शब्दार्थः

अस्माभिः by all of us, सह along with, वनानि forests, गिरयः the mountains, नद्यः the rivers, दुर्गाणि inaccessible forts, गहनानि च dense, दर्यः caves, गिरिगुहाश्चैव and the mountain ranges also, समन्ततः all over, तत्र तत्र everywhere, विचितानि searched, जानकी Janaki, न दृश्यते is not seen, तदा then, सीता Sita, हृता येन by one who has stolen, सुरसुतोपमा one who is like a goddess, रक्षः च raksha, वा or.

आङ्ग्लानुवादः

‘We have searched here, there, everywhere, in dense forests, hills, forts, impenetrable caverns and mountain ranges. But we could find neither Janaki who is like a goddess nor the demon who abducted her.

श्लोकः

मूलम्

कालश्च नो महान्यातस्सुग्रीवश्चोग्रशासनः।
तस्माद्भवन्तस्सहिता विचिन्वन्तु समन्ततः॥4.49.4॥

शब्दार्थः

नः for us, महान् long, कालः time, यातः over, सुग्रीवश्च Sugriva also, उग्रशासनः strict in administration, तस्मात् therefore, भवन्तः all of you, सहिताः together, समन्ततः all over, विचिन्वन्तु you may search for.

आङ्ग्लानुवादः

श्लोकः

मूलम्

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्॥4.49.5॥

शब्दार्थः

समुत्थिताम् overpowering us, तन्द्रीं laziness, शोकं च and sorrow, निद्रां चैव even sleep, विहाय after giving up, जनकात्मजाम् Janaka’s daughter, सीताम् Sita, पश्यामः we will see, यथा so also, विचिनुध्वम् you may search.

आङ्ग्लानुवादः

‘You should keep searching on till we see Sita, Janaka’s daughter, giving up laziness and sorrow and sleep that is overpowering us.

श्लोकः

मूलम्

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः।
कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्॥4.49.6॥

शब्दार्थः

अनिर्वेदम् zeal, दाक्ष्यं च capability and, मनसः mind’s, अपराजयं च robust optimism, कार्यसिद्धिकराणि conducive to success, आहुः is said, तस्मात् therefore, अहम् I am, एतत् all this, ब्रवीमि I am telling you.

आङ्ग्लानुवादः

‘It is said, zeal, capability, and fortitude can overcome defeat and lead to success. Therefore I am saying this.

श्लोकः

मूलम्

अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः।
खेदं त्यक्त्वा पुनस्सर्वैर्वनमेतद्विचीयताम्॥4.49.7॥

शब्दार्थः

अद्यापि even now, वनौकसः you forestdwellers, दुर्गम् difficult to enter, तत् वनम् that forest, विचिन्वन्तु search, सर्वैः by all, खेदम् grief, त्यक्ता giving up, पुनः again, वनमेव forest itself, विचीयताम् search.

आङ्ग्लानुवादः

‘Search this impenetrable forest even now, O you denizens of this forest Give up grief, let us all once again ransack this forest.

श्लोकः

मूलम्

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्।
अलं निर्वेदमागम्य न हि नो मीलनं क्षमम्॥4.49.8॥

शब्दार्थः

क्रियमाणस्य being carried on, कर्मणः of the deed, फलम् result, अवश्यम् certainly, दृश्यते will be seen, अलम् enough, निर्वेदम् despair, आगम्य experiencing, नः for us, मीलनम् closing eyes, न क्षमम् हि not proper.

आङ्ग्लानुवादः

श्लोकः

मूलम्

सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः।
भेतव्यं तस्य सततं रामस्य च महात्मनः॥4.49.9॥

शब्दार्थः

वानरः monkey, राजा king, सुग्रीवः Sugriva, कोपनः an angry one, तीक्ष्णदण्डश्च severe punishment, तस्य his, महात्मनः of the great self, रामस्य च of Rama also, सततम् ever, भेतव्यम् we have to fear.

आङ्ग्लानुवादः

‘Sugriva, the monkey king, is wrathful and awards severe punishment. We should ever bear in mind the (purpose of the) great self, Rama.

श्लोकः

मूलम्

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते।
उच्यतां वा क्षमं यन्नस्सर्वेषामेव वानराः॥4.49.10॥

शब्दार्थः

वानराः O monkeys, वः हितार्थम् for your benefit, एतत् all this, उक्तम् said, रोचते यदि if it
pleases you, क्रियताम् it may be done, यत् whatever, सर्वेषामेव for all of you, क्षमम् right, नः for us, उच्यताम् you may tell.

आङ्ग्लानुवादः

‘I have said all this for your good. You may carry it out, if it pleases you. Speak freely if there is any other course left for all of us, O monkeys’

श्लोकः

मूलम्

अङ्गदस्य वचश्श्रुत्वा वचनं गन्धमादनः।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया॥4.49.11॥

शब्दार्थः

अङ्गदस्य Angada’s, वचः words, श्रुत्वा having heard, गन्धमादनः Gandhamadana, पिपासाश्रमखिन्नया worn out by thirst and exhaustion, अव्यक्तया feebly, वाचा with language, वचनम् these words, उवाच expressed.

आङ्ग्लानुवादः

Having heard Angada, Gandhamadana worn out by thirst and exhaustion, replied in a feeble toneः

श्लोकः

मूलम्

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह।
हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥4.49.12॥

शब्दार्थः

अङ्गदः Angada, यत् वाक्यम् those words, उवाच ह expressed, वः for us, सदृशं खलु appropriate too, हितं चैव good also, अनुकूलं च even favourable, अस्य his, भाषितम् utterance, क्रियताम् carry out.

आङ्ग्लानुवादः

‘What Angada says is appropriate, beneficial and also favourable. Carry out his command.

श्लोकः

मूलम्

पुनर्मार्गामहै शैलान्कन्दरांश्च दरीस्तथा।
काननानि च शून्यानि गिरिप्रस्रवणानि च॥4.49.13॥

शब्दार्थः

पुनः once again, शैलान् mountains, कन्दरांश्च valleys also, तथा similarly, दरीः caverns, शून्यानि desolate places, काननानि च and forests, गिरिप्रस्रवणानि च mountain streams, मार्गामहै we will explore again.

आङ्ग्लानुवादः

‘Once again let us explore the mountains, caverns, forests, desolate places and mountain streams.

श्लोकः

मूलम्

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥4.49.14॥

शब्दार्थः

सर्वे all of you, सर्वशः everywhere, महात्मना by great self, सुग्रीवेण by Sugriva, यथोद्दिष्टानि as pointed out, सर्वाणि all places, गिरिदुर्गाणि mountains, विचिन्वन्तु search, वनम् forest.

आङ्ग्लानुवादः

श्लोकः

मूलम्

ततस्समुत्थाय पुनर्वानरास्ते महाबलाः।
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम्॥4.49.15॥

शब्दार्थः

ततः then, महाबलाः mighty, ते वानराः those monkeys, पुनः again, समुत्थाय after getting up, विन्ध्यकाननसङ्कीर्णाम् filled with forests surrounding the ranges of Vindhya, दक्षिणां दिशम् in the southern side, विचेरुः started exploring.

आङ्ग्लानुवादः

Once again the monkeys rose up and started exploring the mountain ranges of Vindhya and the forests surrounding the southern side.

श्लोकः

मूलम्

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्।
शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः॥4.49.16॥
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च।
व्यचिन्वंस्ते हरिवरास्सीता दर्शनकाङ्क्षिणः॥4.49.17॥

शब्दार्थः

सीतादर्शनकाङ्क्षिणः eager to see Sita, हरिवराः best of monkeys, ते वानराः those monkeys, शारदाभ्रप्रतिमम् resembling the autumn clouds, श्रीमत् rich, शृङ्गवन्तम् endowed with peaks,
दरीमन्तम् with caverns, रजतपर्वतम् silver mountain, अधिरुह्य having ascended, तत्र there, रम्यम् enchanting, लोध्रवनम् Lodhra grove, सप्तपर्णवनानि च and gardens of seven leaves, व्यचिन्वंस्ते they looked out.

आङ्ग्लानुवादः

Eager to find Sita, the best of monkeys climbed the silver mountain rich with peaks and caverns resembling the autumnal clouds. And looked out into the Lodhra grove and the garden of seven leaves (banara plantations).

श्लोकः

मूलम्

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्॥4.49.18॥

शब्दार्थः

तस्य its, अग्रम् peak, अधिरूढाः they climbed, विपुलविक्रमाः very brave ones, ते they, श्रान्ताः exhausted, रामस्य Rama’s, प्रियां महिषीम् dear queen, वैदेहीम् Vaidehi, न पश्यन्ति स्म did not find.

आङ्ग्लानुवादः

Even after scaling up the peak, the exhausted, heroic monkeys could not find Vaidehi, the dear queen of Rama.

श्लोकः

मूलम्

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्।
अवारोहन्त हरयो वीक्षमाणास्समन्ततः॥4.49.19॥

शब्दार्थः

ते हरयः those monkeys, दृष्टिगतम् having seen all over, बहुकन्दरम् having many caves, तं शैलम् that mountain, कृत्वा after doing so, समन्ततः everywhere, वीक्षमाणाः while looking at, अवारोहन्त descended.

आङ्ग्लानुवादः

Having looked all over the mountain and many caverns, those monkeys got down from the mountain.

श्लोकः

मूलम्

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः।
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥4.49.20॥

शब्दार्थः

ततः then, भूमिम् ground, अवरुह्य descending down, श्रान्ताः tired, विगतचेतसः dejected at
heart, तत्र there, मुहूर्तम् for a moment, स्थित्वा having stood, अथ and then, वृक्षमूलम् under a tree, उपाश्रिताः lay down.

आङ्ग्लानुवादः

Descending to the foothills, the exhausted monkeys became quiet. Fatigued and disheartened, they assembled under a tree, stood for a moment and then lay down.

श्लोकः

मूलम्

ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥4.49.21॥

शब्दार्थः

ते they, मुहूर्तम् for a while, समाश्वस्ताः took rest, किञ्चित् a little, भग्नपरिश्रमाः frustrated, पुनरेव once again, कृत्स्नाम् entire, दक्षिणां दिशम् southern side, मार्गितुम् to search, उद्यताः decided.

आङ्ग्लानुवादः

Resting for a while, the frustrated monkeys resumed their search throughout the southern direction.

श्लोकः

मूलम्

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः।
विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः॥4.49.22॥

शब्दार्थः

हनुमत्प्रमुखाः Hanuman being the prominent one of the group, प्लवगर्षभाः bulls among the vanaras, प्रस्थिताः started search, आदितः from the beginning, तावत् all over, विन्ध्यमेव Vindhya range itself, समन्ततः everywhere, विचेरुः roamed.

आङ्ग्लानुवादः

The bulls among vanaras and Hanuman, the chief of the group again started exploring everywhere in the Vindhya range starting from the beginning.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशस्सर्गः॥
Thus ends the fortyninth sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.