Sugriva once again addresses all troops – the vanaras departRama and Lakshmana return to Prasravana mountain
श्लोकः
मूलम्
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः।
समस्तानब्रवीद्भूयो रामकार्यर्थसिद्धये॥4.45.1॥
एवमेतद्विचेतव्यं यन्मया परिकीर्तितम्।
शब्दार्थः
प्लवगर्षभः bull of among monkeys, भूयः further, सुग्रीवः Sugriva, सर्वान् all, प्लवगान् vanaras, आहूय called, रामकार्यर्थसिद्धये for fulfilling the objective of Rama, समस्तान् all of them, अब्रवीत् addressed, मया by me, यत् whatever, परिकीर्तितम् described, एवम् in the same way, एतत् thus, विचेतव्यम् you should search.
आङ्ग्लानुवादः
Summoning the entire body of vanaras, Sugriva, the bull among monkeys, said, ‘Go to the places I have described and look for Sita in order to fulfil Rama’s objective’.
श्लोकः
मूलम्
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः॥4.45.2॥
शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे।
शब्दार्थः
हरिपुङ्गवाः best of monkeys, भर्तुः king’s, तत् that, उग्रशासनम् strict order, विज्ञाय having understood, मेदिनीम् the whole earth, शलभा इव like locusts, सञ्छाद्य covered, सम्प्रतस्थिरे started moving.
आङ्ग्लानुवादः
Having understood Sugriva’s strict orders, the forces of monkeys started moving. They spread like locusts all over the earth.
श्लोकः
मूलम्
रामः प्रस्रवणे तस्मिन्यवसत्सहलक्ष्मणः॥4.45.3॥
प्रतीक्षमाणस्तं मासं यस्सीताधिगमे कृतः।
शब्दार्थः
रामः Rama, सहलक्ष्मणः along with Lakshmana, यः such, सीताधिगमे sin tracing the whereabouts of Sita, कृतः was fixed, तं मासम् that month, प्रतीक्षमाणः waiting, तस्मिन् प्रस्रवणे on that Prasravana mountain, न्यवसत् stayed.
आङ्ग्लानुवादः
Rama accompanied by Lakshmana stayed back at Prasravana mountain looking forward for the expiry of the month fixed for the monkeys to trace Sita’s whereabouts.
श्लोकः
मूलम्
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥4.45.4॥
प्रतस्थे सहसा वीरो हरिश्शतवलिस्तदा।
शब्दार्थः
तदा then, शतवालिः Satavali, वीरः warrior, हरिः monkey, गिरिराजसमावृताम् surrounded by kings of mountains, रम्याम् lovely, उत्तरां दिशम् northern direction, सहसा at once, प्रतस्थे started their journey.
आङ्ग्लानुवादः
Then the monkey warrior Satavali departed for the north, surrounded by kings of mountains.
श्लोकः
मूलम्
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥4.45.5॥
ताराङ्गदादिसहितः प्लवङ्गो मारुतात्मजः।
अगत्याचरितामाशां दक्षिणां हरियूथपः॥4.45.6॥
शब्दार्थः
हरियूथपः leader of monkeys, विनतः Vinata, पूर्वां दिशं प्रति towards the east, ययौ started, हरियूथपः leader of the monkeys, मारुतात्मजः son of the Windgod, प्लवगः monkey, ताराङ्गदादिसहितः along with Tara and Angada, अगस्त्याचरिताम् inhabited by Agastya, दक्षिणाम् आशाम् to the southern quarter.
आङ्ग्लानुवादः
Vinata, leader of the monkeys, set out for the eastern direction.The troop leader, son of the Windgod along with Angada and Tara left for the south inhabited by Agastya.
श्लोकः
मूलम्
पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥4.45.7॥
शब्दार्थः
प्लवगेश्वरः chieftain of monkeys, हरिशार्दूलः tiger among monkeys, सुषेणः Sushena, वरुणपालिताम् ruled by Varuna, दिशम् side, भृशम् quickly, घोराम् fearsome, पश्चिमां दिशम् western side, प्रतस्थे started.
आङ्ग्लानुवादः
‘The chieftain Sushena, tiger among the monkeys, started quickly for the fearsome western direction ruled by Varuna.
श्लोकः
मूलम्
ततस्सर्वा दिशो राजा चोदयित्वा यथातथम्।
कपिसेनापतीन्मुख्यान्मुमोद सुखितस्सुखम्॥4.45.8॥
शब्दार्थः
ततः then, मुख्यान् of chieftans, राजा king, कपिसेनापतीन् chief of the army of monkeys, यथातथम् properly, सर्वाःदिशः all quarters, चोदयित्वा having sent, सुखितः relieved, सुखम् मुमोद rejoiced.
आङ्ग्लानुवादः
Sugriva, chief of the army of monkeys, having sent the leaders to all quarters felt relieved and rejoiced.
श्लोकः
मूलम्
एवं सम्बोधितास्सर्वे राज्ञा वानरयूथपाः।
स्वां स्वां दिशमभिप्रत्त्य त्वरिता सम्प्रतस्थिरे॥4.45.9॥
शब्दार्थः
राज्ञा by the king, एवम् in that way, सम्बोधिताः having been addressed, सर्वे all, वानरयूथपाः leaders of the monkeys, स्वां स्वाम् in their respective, दिशम् direction, अभिप्रेत्य bound, त्वरिताः quickly, सम्प्रतस्थिरे departed from there.
आङ्ग्लानुवादः
Addressed thus by the king, all the monkeys departed quickly from there for their respective directions with all enthusiasm.
श्लोकः
मूलम्
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।
क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः॥4.45.10॥
शब्दार्थः
महाबलाः mighty, प्लवङ्गमाः monkeys, नदन्तः making noise, उन्नदन्तश्च loudly, गर्जन्तश्च
chattering, क्ष्वेलन्तः leaping, विनदन्तः screaming, धावमानाश्च gallopping.
आङ्ग्लानुवादः
The powerful monkeys went gallopping and chattering, leaping and screaming.
श्लोकः
मूलम्
एवं सम्बोदितास्सर्वे राज्ञा वानरयूथपाः।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥4.45.11॥
शब्दार्थः
राज्ञा by the king, एवम् in that way, सम्बोदिताःhaving addressed, सर्वे all, वानरयूथपाः the leaders of monkeys, सीताम् Sita, आनयिष्यामहे we will get, रावणम् Ravana, हनिष्यामश्च we will kill.
आङ्ग्लानुवादः
Thus addressed by the king, the leaders of the monkeys shouted, ‘We will kill Ravana and get back Sita’.
श्लोकः
मूलम्
अहमेको हनिष्यामि रावणं प्राप्तमाहवे।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥4.45.12॥
शब्दार्थः
अहम् I am, एकः alone, आहवे in a war, प्राप्तम् faced, रावणम् Ravana, हनिष्यामि I will kill, ततश्च there after, उन्मथ्य after churning, सहसा at once, जनकात्मजाम् Janaka’s daughter, आहरिष्ये I will get.
आङ्ग्लानुवादः
‘I shall kill Ravana singlehanded in war and quickly get back Janaka’s daughter churning (the enemy army).’ (said one)
श्लोकः
मूलम्
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति।
एक एवाहरिष्यामि पातालादपि जानकीम्॥4.45.13॥
शब्दार्थः
श्रमेण with exhaustion, वेपमानाम् trembling, जानकीम् Sita, पातालादपि even from the nether most world, एक एव I alone, आहरिष्यामि I will get, अद्य now, भवद्भिः you, स्थीयताम् wait, इति thus.
आङ्ग्लानुवादः
‘I will alone restore Sita, exhausted and trembling (in fear), even from the nether world.
Wait here’ (said another leader).
श्लोकः
मूलम्
वधिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्॥4.45.14॥
शब्दार्थः
अहम् I, वृक्षान् trees, वधिष्यामि will smash, गिरीन् mountains, दारयिष्यामि I will cleave, धरणीम् earth, दारयिष्यामि break open, सागरान् seas, क्षोभयिष्यामि I will churn.
आङ्ग्लानुवादः
‘I will smash trees, shatter mountains, cleave the earth and churn up the seas’. (said a another).
श्लोकः
मूलम्
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः।
शतं योजनसङ्ख्यायाश्शतं समधिकं ह्यहम्॥4.45.15॥
शब्दार्थः
अहम् I, योजनसङ्ख्यायाः शतम् cross a hundred yojanas, प्लविता leap, अहम् I, शतयोजनसङ्ख्यायाः cross a distance of hundred yojanas, समधिकम् more, अत्र here, संशयः doubt, न no.
आङ्ग्लानुवादः
‘I can doubtless cross a distance of a hundred yojanas’ said one. Another said,’ I can leap a hundred yojanas more’.
श्लोकः
मूलम्
भूतले सागरे वाऽपि शैलेषु च वनेषु च।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥4.45.16॥
शब्दार्थः
भूतले on the earth, सागरे वाऽपि or even in the sea, शैलेषु च and in mountains also, वनेषु च in forest also, पातालस्य of the underworld, मध्येवापि in the midst also, मम my, गतिः movement, न आच्छिद्यते is not obstructed.
आङ्ग्लानुवादः
‘I can go unobstruted on the earth, or even in the sea, on the mountains, in the forests or even to the centre of the underworld’. (said another)
श्लोकः
मूलम्
इत्येकैकं तदा तत्र वानरा बलदर्पिताः।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ॥4.45.17॥
शब्दार्थः
तदा then, बलदर्पिताः proud of prowess, वानराः monkeys, तत्र his, तस्य their, हरिराजस्य of the king of monkeys’, सन्निधौ in the presence of, एकैकः each one of them, इति thus, वचनम् words, ऊचुः spoke.
आङ्ग्लानुवादः
The monkeys uttered such words in the presence of their king, being proud of their prowess.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशस्सर्गः॥
Thus ends the fortyfifth sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.