०३८ राम-सुग्रीवसंवादः

Sugriva expresses his indebtedness to Rama – armies of monkeys of varied forms and strength from different parts of the earth arrive.

श्लोकः

मूलम्

प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम्।
वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत्॥4.38.1॥

शब्दार्थः

उपाहृतम् presented, तत् that, सर्वम् all that, उपायनम् gifts, प्रतिगृह्य after taking, सान्त्वयित्वा च pleasing them, सर्वान् एव all of them, वानरान् monkeys, व्यसर्जयत् permitted to go.

आङ्ग्लानुवादः

On receiving all the gifts presented by the monkeys, Sugriva permitted them to go happy.

श्लोकः

मूलम्

विसर्जयित्वा स हरीन् शूरांस्तान्कृतकर्मणः।
मेने कृतार्थमात्मानं राघवं च महाबलम्॥4.38.2॥

शब्दार्थः

सः he, कृतकर्मणः those who have done the task asigned, शूरान् तान् those heroes, हरीन् the monkeys, विसर्जयित्वा after sending away, आत्मानम् himself, महाबलम् powerful, राघवं च and Rama, कृतार्थम् achieved, मेने felt.

आङ्ग्लानुवादः

The monkey heroes sent by Sugriva performed the task assigned to them and felt powerful Rama’s task has been achieved (a successful beginning has been made).

श्लोकः

मूलम्

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्॥4.38.3॥
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते।

शब्दार्थः

सः लक्ष्मणः that Lakshmana, भीमबलम् of terrific strength, सर्ववानरसत्तमम् foremost among the monkeys, सुग्रीवम् Sugriva, सम्प्रहर्षयन् cheering, प्रश्रितम् humbly, वाक्यम् words, अब्रवीत्
said, सौम्य O goodnatured, ते to you, रोचते यदि if it pleases, किष्किन्धायाः from Kishkinda, विनिष्क्राम depart.

आङ्ग्लानुवादः

Cheering Sugriva, the foremost among the monkeys, the mighty Lakshmana said in a humble wayः ‘O goodnatured Sugriva if you would like to come to Rama let us depart from Kishkinda.

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्॥4.38.4॥
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह।
एवं भवतु गच्छावः स्थेयं त्वच्छासने मया॥4.38.5॥

शब्दार्थः

सुग्रीवः Sugriva, सुभाषितम् gentle words, तस्यलक्ष्मणस्य of Lakshmana, तत् वचनम् those words, श्रुत्वा on hearing, परमप्रीतः highly pleased, एतत् this, वाक्यम् word, उवाच ह spoke, एवम् in that manner, भवतु let it be so, गच्छावः we both may go, मया to me, त्वच्छासने at your command, स्थेयम् I should stand.

आङ्ग्लानुवादः

Hearing the gentle words of Lakshmana, spoken lovingly in that manner and asking him to come along with him, Sugriva was highly pleased.He agreed to go with him and said, ‘As you please. I abide by your command’.

श्लोकः

मूलम्

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्।
विसर्जयामास तदा तारामन्याश्च योषितः॥4.38.6॥

शब्दार्थः

सुग्रीवः Sugriva, शुभलक्षणम् auspicious signs, तं लक्ष्मणम् that Lakshmana, एवम् in such a way, उक्त्वा having spoken, तदा then, ताराम् to Tara, अन्याः योषितश्चैव other women also, विसर्जयामास despatched.

आङ्ग्लानुवादः

Sugriva spoke to Lakshmana endowed with auspicious signs, and thereupon permitted Tara and other women to leave the place.

श्लोकः

मूलम्

एतेत्युच्चैर्हरिवरान्सुग्रीवस्समुदाहरत्।
तस्य तद्वचनं श्रुत्वा हरयश्शीघ्रमाययुः॥4.38.7॥
बद्धाञ्जलिपुटास्सर्वे ये स्युः स्त्रीदर्शनक्षमाः।

शब्दार्थः

सुग्रीवः Sugriva, एते you come, इति thus, उच्चैः loudly, हरिवरान् foremost of the monkeys, समुदाहरत् as he collected them, तस्य his, तत् that, वचनं श्रुत्वा on hearing the word, ये who, स्त्रीदर्शनक्षमाः female monkeys fit to see, स्युः they be, सर्वे all, हरयः monkeys, बद्धाञ्जलिपुटाः those with folded hands, शीघ्रम् quickly, आययुः came.

आङ्ग्लानुवादः

Sugriva called in the monkeys who deserved audience of the female folk of the royal family. They came forward quickly with folded hands welcoming the heroes.

श्लोकः

मूलम्

तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः॥4.38.8॥
उपस्थापयत क्षिप्रं शिबिकां मम वानराः।

शब्दार्थः

ततः then, अर्कसदृशप्रभः shining like the Sun, राजा king, प्राप्तान् those who came there, तान् them, उवाच said, वानराः monkeys, मम my, शिबिकाम् palanquin, क्षिप्रम् at once, उपस्थापयत get it here.

आङ्ग्लानुवादः

Then seeing the monkeys who had come there, king Sugriva who was shining like the Sungod asked them to get a palanquin ready at once.

श्लोकः

मूलम्

श्रुत्वा तु वचनं तस्य हरयश्शीघ्रविक्रमाः॥4.38.9॥
समुपस्थापयामासुश्शिबिकां प्रियदर्शनाम्।

शब्दार्थः

शीघ्रविक्रमाः those who were quick to act, हरयः monkeys, तस्य his, वचनम् words, श्रुत्वा after hearing, प्रियदर्शनाम् pleasing to see, शिबिकाम् palanquin, समुपस्थापयामासुः placed in front of him.

आङ्ग्लानुवादः

On hearing the king, the monkeys who were quick to act placed a beautiful palanquin in front of him.

श्लोकः

मूलम्

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः॥4.38.10॥
लक्ष्मणाऽरुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्।

शब्दार्थः

वानराधिपः chief of monkeys, उपस्थापिताम् was brought in, तां शिबिकाम् palanquin, दृष्ट्वा seeing, लक्ष्मण Lakshmana, शीघ्रम् quickly, आरुह्यताम् get on, इति thus, सौमित्रिम् to Saumithri, अब्रवत् said.

आङ्ग्लानुवादः

Seeing the palanquin placed in front of Sugriva, the chief of the monkeys requested Lakshmana to get in quickly.

श्लोकः

मूलम्

इत्युक्त्वा काञ्चनं यानं सुग्रीवस्सूर्यसन्निभम्॥4.38.11॥
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः।

शब्दार्थः

सुग्रीवः Sugriva, इति thus, उक्त्वा having spoken, सूर्यसन्निभम् shining like the Sun, बृहद्भिः by the strong, हरिभिः by the monkeys, युक्तम् fit to be yoked, काञ्चनम् golden, यानम् that vehicle, सलक्ष्मणः along with Lakshmana, आरुरोह got in.

आङ्ग्लानुवादः

With this Sugriva, shining like the Sungod, entered along with Lakshmana the golden palanquin carried by ablebodied monkeys.

श्लोकः

मूलम्

पाण्डुरेणातपत्रेण म्रियमाणेन मूर्धनि॥4.38.12॥
शुक्लैश्च वालव्यजनैर्धूयमानैस्समन्ततः।
शङ्खभेरीनिनादैश्च हरिभिश्चाभिवन्दितः॥4.38.13॥
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्।

शब्दार्थः

सुग्रीवः Sugriva, अनुत्तमाम् utmost, राज्यश्रियम् royal prosperity, प्राप्य having attained, हरिभिः by monkeys, अभिनन्दितः greeted, मूर्धनि over his head, ध्रियमाणेन holding, शुक्लेश्च पाण्डुरेण with pale white, आतपत्रेण by an umbrella, समन्ततः all over, धूयमानैः fanning, वालव्यजनैः made of yaktail, शङ्खभेरीनिनादैश्च by the sounds of conches and drums निर्ययौ set out.

आङ्ग्लानुवादः

With a pale white umbrella over his head, white yaktail fans and sounds of conches and drums, Sugriva set out receiving greetings from monkeys, rejoicing in his royal
glory.

श्लोकः

मूलम्

स वानरशतैस्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः॥4.38.14॥
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः।

शब्दार्थः

सः he, शस्त्रपाणिभिः wielding weapons in hand, तीक्ष्णैः sharp, बहुभिः varied, वानरशतैः by hundreds of monkeys, परिकीर्णः surrounded by, रामः Rama, यत्र where, व्यवस्थितः resided, तत्र there, ययौ went forth.

आङ्ग्लानुवादः

Surrounded by hundreds of monkeys wielding various sharp weapons, Sugriva went forth to the region where Rama resided৷৷

श्लोकः

मूलम्

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्॥4.38.15॥
अवातरन्महातेजा श्शिबिकायास्सलक्ष्मणः।

शब्दार्थः

महातेजाः brilliant, सलक्ष्मणः along with Lakshmana, सः he, रामनिषेवितम् where Rama was resided, श्रेष्ठम् best, तं देशम् that location, अनुप्राप्य having reached, शिबिकायाः from the palanquin, अवातरत् descended.

आङ्ग्लानुवादः

Having reached the place where Rama lived, brilliant Sugriva along with Lakshmana descended from the palanquin.

श्लोकः

मूलम्

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥4.38.16॥
कृताञ्जलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा।

शब्दार्थः

ततः then, रामम् to Rama, आसाद्य approached, कृताञ्जलिपुटः with folded hands, अभवत् remained, तस्मिन् when he, कृताञ्जलौ with folded hands, स्थिते stood, वानराश्च monkeys also, तथा similarly, अभवन् did so.

आङ्ग्लानुवादः

Thereafter Sugriva followed by the monkeys approached Rama, and stood with folded hands.

श्लोकः

मूलम्

तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्॥4.38.17॥
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्।

शब्दार्थः

रामः Rama, कुड्मलपङ्कजम् filled with lotus buds, तटाकमिव resembling a pond, वानराणाम् of the vanaras, महत् great, सैन्यम् army, दृष्ट्वा after witnessing, सुग्रीवे at Sugriva, प्रीतिमान् pleased one, अभूत् appeared.

आङ्ग्लानुवादः

Rama was pleased on beholding the great army of monkeys standing, resembling a pond full of lotus buds.

श्लोकः

मूलम्

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्॥4.38.18॥
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे।

शब्दार्थः

राघवः Rama, मूर्ध्ना bending the head, पादयोः at both his feet, पतितम् touching in prostration, तम् him, हरीश्वरम् Sugriva, उत्थाप्य lifted him up, प्रेम्णा च with love, बहुमानाच्च with great regard, परिषस्वजे he embraced.

आङ्ग्लानुवादः

Sugriva touched Rama’s feet, bending his head down, and Rama lifted him up and embraced him with love and great regard.

श्लोकः

मूलम्

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्॥4.38.19॥
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः।

शब्दार्थः

ततः thereafter, धर्मात्मा righteous, रामः Rama, परिष्वज्य embracing, ततः then, निषीद sit, इति thus, अब्रवीत् said, वचः words, क्षितौ on the ground, निषण्णाम् sat down, तम् him, दृष्ट्वा on seeing, अब्रवीत् said.

आङ्ग्लानुवादः

Embracing him, Rama offered him a seat on the ground and saidः

श्लोकः

मूलम्

धर्ममर्थं च कामं च यस्तु काले निषेवते॥4.38.20॥
विभज्य सततं वीरस् स राजा हरिसत्तम।

शब्दार्थः

वीरः a hero, हरिसत्तम O best among monkeys, यः whoever, धर्मम् duty, अर्थं च wealth also, कामं च desire too, काले in time, विभज्य after dividing due time, निषेवते attends, सः such a man, राजा is king.

आङ्ग्लानुवादः

‘O best among the heroic monkeys, a king who apportions his time properly towards pursuit of dharma, artha and kama is a hero and deserves to be a king.

श्लोकः

मूलम्

हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते॥4.38.21॥
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते।

शब्दार्थः

यः whoever, धर्मम् one’s duty, तथा so also, अर्थं च pursuit of wealth also, हित्वा after giving up, कामम् desire, निषेवत् attends, सः he, वृक्षाग्रे on the tree top, सुप्तः इव as one lying, पतितः fallen down, प्रतिबुध्यते gets awakened.

आङ्ग्लानुवादः

‘One who neglects dharma and artha and pursues only kama (sensuous enjoyment) is like a man asleep on top of the tree, waking up only to realize that he has fallen down.

श्लोकः

मूलम्

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः॥4.38.22॥
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते।

शब्दार्थः

अमित्राणाम् of enemies, वधे in slaying, युक्तः right, मित्राणाम् of friends, सङ्ग्रहे in the acqusition of, रतः is engaged, राजा that king, धर्मेण with righteousness, युज्यते is associated, त्रिवर्गफलभोक्ता च enjoys the fruits of all the three (dharma, artha and kama) goals of life.

आङ्ग्लानुवादः

श्लोकः

मूलम्

उद्योगसमयस्त्वेषप्राप्तश्शत्रुविनाशन॥4.38.23॥
सञ्चिन्त्यतां हि पिङ्गेश हरिभिस्सह मन्त्रिभिः।

शब्दार्थः

शत्रुविनाशन O slayer of enemies, पिङ्गेश O king of monkeys, एषः this, उद्योगसमयः time for enterprise, प्राप्तः set in, मन्त्रिभिः ministers, हरिभिः सह and with monkeys, सञ्चिन्त्यताम् think over.

आङ्ग्लानुवादः

‘O king of monkeys, slayer of enemies the time to act has arrived. Think of the strategies with your ministers and other monkeys.

श्लोकः

मूलम्

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥4.38.24॥
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया॥4.38.25॥

शब्दार्थः

एवम् in that manner, उक्तः having said, सुग्रीवः Sugriva, रामम् to Rama, वचनम् these words, अब्रवीत् spoke, महाबाहो O longarmed one, प्रणष्टा that had been lost, श्रीश्च fortune, कीर्तिश्च and fame, शाश्वतम् permanent, इदम् this, कपिराज्यं च kingdom of vanaras too, मया by me, त्वत्प्रसादात् by your grace only, प्राप्तम् obtained.

आङ्ग्लानुवादः

On hearing this, Sugriva said to Rama,‘O longarmed one the fortune, fame and soverignty of vanaras which was lost has been regained only by your grace.

श्लोकः

मूलम्

तव देव प्रसादाच्च भ्रातुश्च जयतां वर।
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः॥4.38.26॥

शब्दार्थः

देव O lord, जयतां वर best of the victorious men, तव your, भ्रातुश्च your brother’s, प्रसादात् by the grace, च also, कृतम् accomplished, यः whoever, न प्रतिकुर्यात् not help in return, पुरुषाणाम् among men, स दूषकः the lowest.

आङ्ग्लानुवादः

‘O victorious lord he who does not repay the help got through your grace and your brother’s is despicable among men.

श्लोकः

मूलम्

एते वानरमूख्याश्च शतशश्शत्रुसूदन।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्॥4.38.27॥

शब्दार्थः

शत्रुसूदन destroyer of enemies, शतशः in hundreds, एते these, वानरमुख्याः chiefs of monkeys, पृथिव्याम् on the earth, बलिनः strong ones, सर्ववानरान् all the vanaras, आदाय gathering, प्राप्ताः have reached.

आङ्ग्लानुवादः

‘O destroyer of enemies hundreds of strong vanara chiefs gathered from all over the earth have reached here.

श्लोकः

मूलम्

ऋक्षाश्चावहिताश्शूरा गोलाङ्गूलाश्च राघव।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥4.38.28॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः।
स्वैस्स्वैः परिवृतास्सैन्यैर्वर्तन्ते पथि राघव॥4.38.29॥

शब्दार्थः

राघव O Rama, कान्तार वनदुर्गाणाम् inaccessible fortresses of forests, घोरदर्शनाः of fierce appearance, ऋक्षाश्च bears, अवाहिताः familiar with every place, शूराः valiant, गोलाङ्गूलाश्च golangulas also, देवगन्धर्वपुत्राश्च loins of divine beings, and gandharvas, कामरूपिणः who can assume any form at their will, वानराश्च vanaras, स्वैः स्वैः with their, सैन्यैः armies, परिवृताः gathered, पथि on the way, वर्तन्ते are coming.

आङ्ग्लानुवादः

‘O Rama valiant bears of fierce appearance, also golangulas (a variety of monkeys with tails like cows’) familiar with the inaccessible fortresses of forest have come. These monkeys are sons of divine beings and gandharvas who can assume any form at will. They are on their way along with their armies.

श्लोकः

मूलम्

शतैश्शतसहस्रैश्च वर्तन्ते कोटिभिश्च प्लवङ्गमाः।
अयुतैश्चावृता वीराश्शङ्कुभिश्च परन्तप ॥4.38.30॥
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः।
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः॥4.38.31॥
आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः।
मेरुमन्दरसङ्काशा विन्ध्य मेरुकृतालयाः॥4.38.32॥

शब्दार्थः

राजन् O king, वीर heroic, शतैः in hundreds, शतसहस्रैश्च in lakhs, कोटिभिश्च even in crores, प्लवङ्गमाः monkeys, अयुतैश्च in ayutas, शङ्कुभिश्च in sankus(multitudes), अर्बुदैः one hundred millions, अर्बुदशतैः hundreds of arbudas, मध्यैश्च in madhyas, अन्त्येश्च in antyas, आवृताः come together, वानराः monkeys, वर्तन्ते are reaching, समुद्रैश्च in samudras, परार्धैश्च in parardhas, हरयः monkeys, महेन्द्रसमविक्रमाः comparable to Indra in courage, मेरुमन्दरसङ्काशाः mount Meru, and Mandara, विन्ध्यमेरुकृतालयाः mount Vindhya and Meru, हरियूथपाः monkey troops, आगमिष्यन्ति have started coming.

आङ्ग्लानुवादः

O scorcher of enemies the vanara troops in hundred thousand crores, ayutas, sanku, arbuda, hundreds of arbudas, madhyas, antyas, samudras and parardhas (100000000000000000), are expected. O king they are residents of Vindhya and Meru mountains, comparable to lord Indra in courage and appear like mountains Meru and Mandara.

श्लोकः

मूलम्

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्।
निहत्य रावणं सख्ये ह्यानयिष्यन्ति मैथिलीम्॥4.38.33॥

शब्दार्थः

ये those, संख्ये in war, सबान्धवम् with relatives, राक्षसम् ogre, रावणम् Ravana, निहत्य after killing, मैथिलीम् Maithili, आनयिष्यन्ति will bring her, ते they, त्वाम् you, अभिगमिष्यन्ति they will reach you.

आङ्ग्लानुवादः

‘The monkeys who can kill ogre Ravana and his relatives in battle and bring back Maithili will be arriving shortly.

श्लोकः

मूलम्

ततस्तमुद्योगमवेक्ष्य बुद्धिमा
न्हरिप्रवीरस्य निदेशवर्तिनः।
बभूव हर्षाद्वसुधाधिपात्मजः
प्रबुद्धनीलोत्पलतुल्यदर्शनः॥4.38.34॥

शब्दार्थः

ततः then, बुद्धिमान् wise, वसुधाधिपात्मजः son to king of the earth (Rama), निदेशवर्तिनः those who take orders, हरिप्रवीरस्य of the monkey lord, तमुद्योगम् that effort, अवेक्ष्य observing, हर्षात् with delight, प्रबुद्धनीलोत्पलतुल्यदर्शनः appeared like a blooming blue lotus, बभूव remained.

आङ्ग्लानुवादः

The wise statesman, Rama observing the efforts of Sugriva and his attendants looked like a blooming blue lotus through delight.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे अष्टत्रिंशस्सर्गः॥
Thus ends of thirtyeighth sarga in Kishkindakanda of the first epic, the Holy Ramayana, composed by sage Valmiki.