०११ वालिपराक्रमवर्णनम्

Sugriva expatiates about the prowess of Vali – narrates Dundubhi’s challenge – sage Matanga’s curse on Vali – Rama demonstrates his strength.

श्लोकः

मूलम्

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्।
सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च4.11.1॥

शब्दार्थः

सुग्रीवः Sugriva, रामस्य Rama’s, हर्षपौरुषवर्धनम् joy and manliness increased, वचनम् words, श्रुत्वा heard, राघवम् to Rama, पूजयाञ्चक्रे offered prayers, प्रशशंस च and praised.

आङ्ग्लानुवादः

The words of Rama boosted Sugriva’s joy and manliness. He offered him prayers and praiseः

श्लोकः

मूलम्

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः।
त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः4.11.2॥

शब्दार्थः

प्रज्वलितैः by blazing, तीक्ष्णैः by the sharp, मर्मातिगैः go through vital parts, शरैः with arrows, कुपितः outraged one, त्वम् you, युगान्ते at the end of the Yuga, भास्करः इव like the Sun, लोकान् worlds, दहेः you many burn, असंशयम् no doubt.

आङ्ग्लानुवादः

‘There is no doubt that your sharp, blazing arrows will pierce through the vital parts of the body once you are angry, just as the Sungod burns all worlds at the end of the Yuga.

श्लोकः

मूलम्

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।
तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनन्तरम्4.11.3॥

शब्दार्थः

वालिनः Vali’s, यत् such, पौरुषम् manliness, तत् that, यत् वीर्यम् such valour, तत् that, या धृतिश्च courage, मम my, एकमनाः concentrate, श्रुत्वा on hearing, यत् which, अनन्तरम् after that, विधत्स्व do what is to be done.

आङ्ग्लानुवादः

श्लोकः

मूलम्

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः4.11.4॥

शब्दार्थः

वाली Vali, व्यपगतक्लमः without getting tired, सूर्ये when the Sun, अनुदिते has not yet risen, पश्चिमात् from the west, समुद्रात् from the ocean, पूर्वम् east, दक्षिणात् from the south, उत्तरम् north, क्रामति crosses over.

आङ्ग्लानुवादः

‘In the early hours before Sunrise Vali crosses over the oceans from the west to the east and moving from south to north (performing sandhya) without getting fatigued.

श्लोकः

मूलम्

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्4.11.5॥

शब्दार्थः

वीर्यवान् valiant , शैलानाम् of the mountains, आग्राणि tops, आरुह्य ascending, महान्ति huge, शिखराणि peaks, तरसा speedily, ऊर्ध्वम् upward, उत्क्षिप्य climbing, प्रतिगृह्णाति catches.

आङ्ग्लानुवादः

‘Climbing up speedily, valiant Vali would catch the huge mountain peaks.

श्लोकः

मूलम्

बहवस्सारवन्तश्च वनेषु विविधा द्रुमाः।
वालिना तरसा भग्ना बलं प्रथयताऽत्मनः4.11.6॥

शब्दार्थः

आत्मनः his, बलम् strength, प्रथयता exihibiting, वालिना by Vali, वनेषु in the forests, सारवन्तः sturdy, विविधाः several, बहवः many, द्रुमाः trees, तरसा with vigour, भग्नाः break

आङ्ग्लानुवादः

‘Vali would break several sturdy trees in the forest with his vigour and speed, exhibiting his strength.

श्लोकः

मूलम्

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।
बलं नागसहस्रस्य धारयामास वीर्यवान्4.11.7॥

शब्दार्थः

कैलासशिखरप्रभः shining like the peak of mount Kailas, वीर्यवान् valiant one, महिषः mighty buffalo, दुन्दुभिः नाम by name Dundubhi, नागसहस्रस्य of a thousand elephants, बलम् strength, धारयामास possessed.

आङ्ग्लानुवादः

‘Massive like the shining peak of mount Kailas and valiant like the mightybuffalo in form, Dundubhi possessed the strength of a thousand elephants.

श्लोकः

मूलम्

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः।
जगाम सुमहाकायस् समुद्रं सरितां पतिम्॥4.11.8॥

शब्दार्थः

वीर्योत्सेकेन proud of valour, वरदानात् by virtue of boons, मोहितः deluded, दुष्टात्मा wickedself, महाकायः of huge body, सः he (Dundubhi), सरितां पतिम् lord of rivers, समुद्रम् to ocean, जगाम went.

आङ्ग्लानुवादः

‘Wicked Dundubhi of huge body was proud of his valour and deluded by virtue of the boons, went to the ocean, the lord of rivers.

श्लोकः

मूलम्

ऊर्मिमन्तमभिक्रम्य सागरं रत्नसञ्चयम्।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम्4.11.9॥

शब्दार्थः

ऊर्मिमन्तम् with waves, रत्नसञ्चयम् a hoarder of gems, सागरम् ocean, अभिक्रम्य after reaching, मह्यं to me, युद्धम् war, प्रयच्छ give, इति thus, तम् him, महार्णवम् mighty ocean, उवाच said.

आङ्ग्लानुवादः

‘Reaching the mighty ocean, he implored the sea with (high) waves and hoards of gems for a fight.

श्लोकः

मूलम्

ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः।
अब्रवीद्वचनं राजन्नसुरं कालचोदितम्4.11.10॥

शब्दार्थः

राजन् O king, ततः then, धर्मात्मा righteous self, महाबलः powerful समुद्रः ocean, समुत्थाय rising, कालचोदितम् driven to death by fate, असुरम् demon, वचनम् these words, अब्रवीत् spoke.

आङ्ग्लानुवादः

‘O king, then the powerful and righteous king of the ocean came out and spoke to the demon (Dundubhi) who was driven to death by fate.’

श्लोकः

मूलम्

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद।
श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति4.11.11॥

शब्दार्थः

युद्धविशारद O warrior proficient in war, ते to you, युद्धम् war, दातुम् to offer (challenge), समर्थः not capable, नास्मि I am not, यः he who, ते to you, युद्धम् war, प्रदास्यति will give, अभिधास्यामि I can name him, श्रूयताम् listen.

आङ्ग्लानुवादः

‘You are proficient in warfare. I am not competent enough to challenge you to a duel. But I will name the one who can.

श्लोकः

मूलम्

शैलराजो महारण्ये तपस्विशरणं परम्।
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः4.11.12॥
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे4.11.13॥

शब्दार्थः

परम् supreme, तपस्विशरणम् abode of ascetics, शङ्करश्वशुरः fatherinlaw of lord Siva, हिमवानिति Himavan, नाम्ना by name, विश्रुतः wellknown, महाप्रस्रवणोपेतः great waterfalls, बहुकन्दरनिर्दरः many caves and caverns, शैलराजः king of mountains, महारण्ये in the great forest, सः he, समर्थः is competent, तव to you, अतुलाम् incomparable, प्रीतिम् love, कर्तुम् to do, आहवे in the war.

आङ्ग्लानुवादः

‘Himavan, the supreme abode of ascetics is the fatherinlaw of Lord Siva. He is wellknown as king of mountains, who has, waterfalls, caves, caverns and great
forests.He is competent to match your incomparable love for war.

श्लोकः

मूलम्

तं भीत इति विज्ञाय समुद्रमसुरोत्तमः।
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः4.11.14॥
ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः।
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च4.11.15॥

शब्दार्थः

असुरोत्तमः best of demons, दुन्दुभिः Dundubhi, तम् him, समुद्रम् ocean, भीतः frightened, इति thus, विज्ञाय knowing, चापात् from the bow, च्युतः released, शर इव arrowlike, हिमवद्वनम् forest of Himavan, आगम्य reached, ततः then, तस्य गिरेः of that mountain, श्वेताः white, गजेन्द्र (like) elephants, विप्रला huge, शिलाः rocks, बहुधा several, भूमौ on the earth, चिक्षेप threw, विननाद roared, च also.

आङ्ग्लानुवादः

‘Dundubhi, the most powerful of demons, aware that the ocean is frightened of him went swiftly to Himavan like an arrow released from a bow. He raised many huge white cliffs of the size of great elephants to the ground and roared.

श्लोकः

मूलम्

ततश्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।
हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः4.11.16॥

शब्दार्थः

ततः then, श्वेताम्बुदाकारः in a white cloudlike form, सौम्यः a gentle one, प्रीतिकराकृतिः one who has a pleasing appearance, हिमवान् Himavan, स्वे on his own, शिखरे एव on the peak, स्थितः he stood, वाक्यम् these words, अब्रवीत् spoke.

आङ्ग्लानुवादः

‘Then the gentle Himavan of pleasing appearance stood in the form of a white cloud on the peak and spokeः

श्लोकः

मूलम्

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल।
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्4.11.17॥

शब्दार्थः

धर्मवत्सल devoted to dharma, दुन्दुभे Dundubhi, त्वम् you, माम् me, क्लेष्टुम् to trouble, नार्हसि it is not proper, तपस्विशरणम् the resort of ascetics, अहम् I am, रणकर्मसु to wage war, अकुशलः हि not adept

आङ्ग्लानुवादः

‘Dundubhi, it is not proper for you to trouble me, for I am devoted to righteousness. I am the resort of ascetics and not adept in warfare’.

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः4.11.18॥

शब्दार्थः

दुन्दुभिः Dundubhi, धीमतः of the wise one, तस्य गिरिराजस्य of that king of mountains, तत् that, वचनम् word, श्रुत्वा after hearing, क्रोधात् angrily, संरक्तलोचनः with eyes turned red, वाक्यम् these words, उवाच said.

आङ्ग्लानुवादः

“At these words of Himavan, the wise king of mountains, Dundubhi whose eyes turned red in anger repliedः

श्लोकः

मूलम्

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः।
समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः4.11.19॥

शब्दार्थः

त्वम् you, युद्धे in a duel, असमर्थः यदि if in capable, वा or else, मद्भयात् due to fear of me, निरुद्यमः unwilling, यः whosoever, युयुत्सतः wants to fight, मे with me, युद्धम् duel, प्रदद्यात् give me a challenge, समाचक्ष्व tell me.

आङ्ग्लानुवादः

‘If you are unable or unwilling to fight me out of fear, tell me who wants to challenge me to a duel.

श्लोकः

मूलम्

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः।
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्4.11.20॥

शब्दार्थः

वाक्यविशारदः skilful in conversation, धर्मात्मा righteous, हिमवान् Himavan, श्रुत्वा on hearing, तम् him, असुरोत्तमम् best of demon, क्रोधात् in anger, अनुक्तपूर्वम् had not spoken earlier,
वाक्यम् such words, अब्रवीत् spoke.

आङ्ग्लानुवादः

‘On hearing such words, which no one had spoken earlier, righteous Himavan, skilful in conversation, flew into a rage and said to Dundubhi,the best of demonsः

श्लोकः

मूलम्

वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः।
अध्यास्ते वानरश्श्रीमान् किष्किन्धामतुलप्रभाम्4.11.21॥

शब्दार्थः

महाप्राज्ञः wise one, शक्रपुत्रः son of Indra, प्रतापवान् powerful, श्रीमान् prosperous one, वाली नाम Vali by name, वानरः monkey, अतुलप्रभाम् of incomparable glory, किष्किन्धाम् Kishkindha, अध्यास्ते residing.

आङ्ग्लानुवादः

‘Vali, son of Indra, is a wise, powerful and prosperous monkey. He resides at Kishkinda, a city of incomparable glory.

श्लोकः

मूलम्

स समर्थो महाप्राज्ञस्तव युद्धविशारदः।
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः4.11.22॥

शब्दार्थः

महाप्राज्ञः wise, युद्धविशारदः expert in warfare, सः he, वासवः Indra, नमुचेरिव like Namuchi, तव to you, महत् great, द्वन्द्वयुद्धम् duel, दातुम् to give (challenge), समर्थः competent.

आङ्ग्लानुवादः

‘Vali is profoundly wise, an expert in warfare. He is capable of challenging you to a duel like Indra to Namuchi.

श्लोकः

मूलम्

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि।
स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि4.11.23॥

शब्दार्थः

इह now, युद्धम् fight, इच्छसि यदि if you want to fight, त्वम् you, शीघ्रम् quickly, तम् him, अभिगच्छ go now, शूरः heroic, सः he, नित्यम् ever, समरकर्मणि in warfare, दुर्धर्षणः हि difficult to combat.

आङ्ग्लानुवादः

‘If you wish to fight, go to him quickly.He is ever heroic and difficult to combat.

श्लोकः

मूलम्

श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुन्दुभिः।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा4.11.24॥

शब्दार्थः

तदा then, सः दुन्दुभिः that Dundubhi, हिमवतः Himavan’s, वाक्यम् words, श्रुत्वा on hearing, कोपाविष्टः seized with anger, तस्य his वालिनः Vali’s, पुरीम् city, किष्किन्धाम् Kishkinda, जगाम went.

आङ्ग्लानुवादः

‘Having heard Himavan, Dundubhi, seized with anger, went to Kishkindha, the city of Vali.

श्लोकः

मूलम्

धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।
प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25॥
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः।
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26॥

शब्दार्थः

महाबलः mighty, दुन्दुभिः Dundubhi, माहिषम् buffalo, रूपम् form, धारयन् assuming, तीक्ष्णशृङ्गः pointed horns, भयावहः frightening, प्रावृषि in rainy season, नभस्तले in the sky, तोयपूर्णः laden with water, महामेघ इव like a huge cloud, किष्किन्धायाः Kishkinda’s, द्वारम् entrance, आगम्य reached, भूमिम् earth, कम्पयन् shaking, दुन्दुभिर्यथा like Dundubhi a wardrum, ननर्द roared.

आङ्ग्लानुवादः

‘Mighty Dundubhi assuming the form of a frightening buffalo with pointed horns looking like a huge, dark raincloud in the sky in monsoon marched to the entrance of Kishkinda and roared like a wardrum as if shaking the earth.

श्लोकः

मूलम्

समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः।
विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा4.11.27॥

शब्दार्थः

समीपस्थान् nearby, द्रुमान् trees, भञ्जन् felling, वसुधाम् earth, खुरैः with hoofs, दारयन् breaking, दर्पात् arrogantly, विषाणेन by the horn, तद्वारम् that entrance, द्विरदो यथा like an
elephant, उल्लिखन् digging.

आङ्ग्लानुवादः

‘Dundubhi felled the trees nearby, rent the earth with its hoofs, scratched the entrance gate of the city as an elephant would do with its horns in arrogance.

श्लोकः

मूलम्

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः4.11.28॥

शब्दार्थः

अन्तःपुरगतः in the harem, वाली Vali, शब्दम् sound, श्रुत्वा hearing, अमर्षणः intolereable, ताराभिः stars also, चन्द्रमाः Moon, स्त्रीभिः with women, निष्पपात jumped out.

आङ्ग्लानुवादः

‘Unable to tolerate the sound, Vali jumped out of the harem along with the women like the Moon with stars.

श्लोकः

मूलम्

मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम्।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्4.11.29॥

शब्दार्थः

वनचारिणाम् forestrangers, सर्वेषाम् for all, हरीणाम् of monkeys, ईश्वरः king, (सः वाली that Vali), दुन्दुभिम् to Dundubhi, व्यक्ताक्षरपदम् a brief statement, मितम् in limited words, उवाच said.

आङ्ग्लानुवादः

‘Vali, king of the monkeys who roam the forest, saw Dundubhi and addressed, but brieflyः

श्लोकः

मूलम्

किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि।
दुन्दुभे विदितो मेऽसि रक्षप्राणान्महाबल4.11.30॥

शब्दार्थः

दुन्दुभे O Dundubhi, इदम् this, नगरद्वारम् entrance of the city, रुध्द्वा blocking, किमर्थम् for what reason, विनर्दसि are you roaring, मे to me, विदितः known, असि you are,महाबल O powerful one, प्राणान् life, रक्ष you may protect.

आङ्ग्लानुवादः

‘O Dundubhi why are you roaring, blocking the entrance of the city? I know you are
powerful. Go and save your life.’

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः4.11.31॥

शब्दार्थः

धीमतः wise, तस्य his, वानरेन्द्रस्य of the king of monkeys, तत् that, वचनम् words, श्रुत्वा hearing, दुन्दुभिः Dundubhi, रोषात् angrily, संरक्तलोचनः eyes turned red, वाक्यम् words, उवाच said

आङ्ग्लानुवादः

‘Dundubhi whose eyes turned red in anger when he heard the words of Vali ,the wise king of the monkeys, saidः

श्लोकः

मूलम्

न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्4.11.32॥

शब्दार्थः

वीर hero, त्वम् you, स्त्रीसन्निधौ in the presence of women, वचनम् words, वक्तुम् to speak, नार्हसि not proper for you, अद्य to day, मम to me, युद्धम् war, प्रयच्छ you may give, ततः then, ते your, बलम् strength, ज्ञास्यामि I will let you know.

आङ्ग्लानुवादः

‘O hero speaking such words in the presence of women is not proper. Come to me for a combat and I will let you know your strength.

श्लोकः

मूलम्

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्।
गृह्यतामुदयस्स्वैरं कामभोगेषु वानर4.11.33॥

शब्दार्थः

वानर O monkey, अथवा or else, अद्य now, इमाम् this, निशाम् night, क्रोधम् anger, धारयिष्यामि I will control, स्वैरम् freedom, कामभोगेषु for your sensual pleasures, उदयः morning, गृह्यताम् I will give you time.

आङ्ग्लानुवादः

‘O monkey I will restrain my anger tonight and give you time for your indulgence in sensual pleasures till morning.

श्लोकः

मूलम्

दीयतां सम्प्रदानं च परिष्वज्य च वानरान्।
सर्वशाखामृगेन्द्र स्त्वं संसादय सुहृज्जनान्4.11.34॥

शब्दार्थः

वानरान् of monkeys, परिष्वज्य embracing, सम्प्रदानम् a gift, दीयताम् may give, सर्वशाखामृगेन्द्रः king of all monkeys, त्वम् you, सुहृज्जनम् with dear friends, संसादय spend

आङ्ग्लानुवादः

‘O king of monkeys, hug them and give them any gift you want. Spend the night with your dear ones.

श्लोकः

मूलम्

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे।
क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः4.11.35॥

शब्दार्थः

किष्किन्धाम् Kishkindha, सुदृष्टाम् give a good look, पुरे the city, आत्मसमम् some one equal to you, कुरुष्व assign kingship, स्त्रीभिः with women, सह along with, क्रीडस्व च and sport, अहम् am, ते to you, दर्पनाशनः a destroyer of arrogance.

आङ्ग्लानुवादः

‘Have a good look a Kishkinda. Assign some one like you kingship. Sport freely with women and come, I shall destroy your arrogance.

श्लोकः

मूलम्

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्।
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्4.11.36॥

शब्दार्थः

यः whoever, मत्तम् drunk, प्रमत्तं वा or heedless, सुप्तं वा or sleeping, रहितम् or without weapons, भृशम् greatly, मदमोहितम् stupified by lust, हन्यात् if killed, सः he, लोके in the world, भ्रूणहा हि is a killer of foetus in the womb.

आङ्ग्लानुवादः

‘Whoever kills a person, who is drunk or is heedless or is asleep or without weapons or stupified by lust in this world, is equal to a killer of a foetus in the womb.’

श्लोकः

मूलम्

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्।
विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा4.11.37॥

शब्दार्थः

तदा then, सः he, प्रहस्य laughing, ताराप्रभृतिकाः Tara and others, ताः those, सर्वाः all, स्त्रियः women, विसृज्य having sent away, मन्दम् slowly, तम् him, असुरोत्तमम् best of demons, क्रोधात् angrily, अब्रवीत् said.

आङ्ग्लानुवादः

‘Then, Vali sent away Tara and all other women slowly and replied angrily to the foolish demon with a mischievous smileः

श्लोकः

मूलम्

मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे।
मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम्4.11.38॥

शब्दार्थः

अयम् this, मत्तः a drunken person, इति thus, मा मंस्थाः do not think, संयुगे in the combat, अभीतः not afraid, असि यदि if you are, अयम् this, मदः drunkeness, अस्मिन् सम्प्रहारे in striking you, वीरपानम् warrior’s drink (sharpening a warrior’s skill), समर्थ्यताम् consider.

आङ्ग्लानुवादः

‘Do not consider me drunken. This drink will serve as a warrior’s drink in the combat. Be ready, if you are not afraid of a combat.’

श्लोकः

मूलम्

तमेवमुक्त्वा सङ्कृद्धो मालामुत्क्षिप्य काञ्चनीम्।
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत4.11.39॥

शब्दार्थः

तम् him, एवम् that way, उक्त्वा having spoken, सङ्कृद्धः angry, पित्रा by his father, महेन्द्रेण by Indra, दत्ताम् gifted, काञ्चनीम् golden, मालाम् garland, उत्क्षिप्य removed, युद्धाय for the combat, व्यवतिष्ठत stood ready

आङ्ग्लानुवादः

‘Having addressed thus in a rage, Vali removed the golden garland gifted by Indra, his father, and stood ready for the combat.

श्लोकः

मूलम्

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम्।
आविध्यत तदा वाली विनदन्कपिकुञ्जरः4.11.40॥

शब्दार्थः

तदा then, कपिकुञ्जरः elephantlike monkey, वाली Vali, गिरिसन्निभम् resembling a mountain, तम् him, दुन्दुभिम् Dundubhi, विषाणयोः by horns, गृहीत्वा held, विनदन् roaring loudly, आविध्यत struck down.

आङ्ग्लानुवादः

‘Vali, the elephantlike monkey then held the mountainlike Dundubhi by the horns and struck him down, roaring loudly.

श्लोकः

मूलम्

वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम्।
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः4.11.41॥

शब्दार्थः

वाली Vali, व्यापादयाञ्चक्रे whirled round, महास्वनम् great sound, ननर्द च roared, अथ then, पात्यतः down, तस्य his, श्रोत्राभ्याम् from the ears, रक्तम् blood, सुस्राव flowed.

आङ्ग्लानुवादः

‘Vali whirled him round and round and threw him downroaring. Blood flowed from Dundubhi’s ears.

श्लोकः

मूलम्

तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः।
युद्धं समभवद्घोरं दुन्दुभेर्वानरस्यच4.11.42॥

शब्दार्थः

क्रोधसंरम्भात् highly agitated in anger, परस्परजयैषिणोः of both trying to win over the other, तयोः of both, दुन्दुभेः for Dundubhi, वानरस्य च and of the monkey, घोरम् terrific, युद्धम् combat, समभवत् took place.

आङ्ग्लानुवादः

‘Each one of them was highly agitated and angry trying to win over the other. A terrific fight took place between Dundubhi and Vali.

श्लोकः

मूलम्

अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः।
मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा4.11.43॥

शब्दार्थः

तदा then, शक्रतुल्यपराक्रमः equal to Indra in prowess, वाली Vali, मुष्टिभिः with fists, जानुभिः with knees, च एव also, शिलाभिः with rocks, तथा so also, पादपैः with trees, अयुध्यत fought.

आङ्ग्लानुवादः

‘Then Vali who was equal to Indra in prowess fought, hitting him with fists, knees, rocks and trees.

श्लोकः

मूलम्

परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा।
आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत4.11.44॥

शब्दार्थः

तदा then, तत्र there, वानरासुरयोः of monkey and demon, परस्परम् one to one, घ्नतोः pouncing on the other, युद्धे in fight, असुरः demon, हीनः reduced, आसीद become, शक्रसूनुः son of Indra, व्यवर्धत grew (in strength and spirit).

आङ्ग्लानुवादः

‘Then as the monkey and demon fought pouncing on each other, the prowess of Dundubhi got diminished and that of Vali, the son of Indra, increased.

श्लोकः

मूलम्

व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः।
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत्॥4.11.45॥
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा।
पपात च महाकायः क्षितौ पञ्चत्वमागतः4.11.46॥

शब्दार्थः

व्यापारवीर्यधैर्यै in effort, strength and courage, पराक्रमैः in prowess as well, परिक्षीणं deterioration, तम् Vali, दुन्दुभिम् Dundubhi, उद्यम्य having lifted, धरण्याम् on the ground, अभ्यपातयत् hit down, तदा then, प्राणहरे in the deadly, तस्मिन् in that, युद्धे fight, दुन्दुभिः Dundubhi, निष्पिष्टः crushed, पातयतः thrown down, तस्य his, महाकायः of huge body, पञ्चत्वम् resolved into the five elements (dead), आगतः go, क्षितौ on the ground, पपात fell down.

आङ्ग्लानुवादः

In the fight, Dundubhi fell down, with his strength, courage and prowess dwindled. Vali lifted his huge body and dashed it down on the ground. The body of Dundubhi dissolved into the five elements.

श्लोकः

मूलम्

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्।
चिक्षेप बलवान्वाली वेगेनैकेन योजनम्4.11.47॥

शब्दार्थः

बलवान् powerful, वाली Vali, गतसत्त्वम् life drained, अचेतनम् lost consciousness, तम् him, बाहुभ्याम् with both shoulders, तोलयित्वा after lifting, एकेन in one piece, वेगेन with speed, योजनम् distance of a yojana (eight miles), चिक्षेप hurled.

आङ्ग्लानुवादः

‘Mighty Vali lifted on both shoulders the insensate body drained of life and hurled it speedily to a distance of a yojana.

श्लोकः

मूलम्

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः।
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गप्याश्रमं प्रति4.11.48॥

शब्दार्थः

वेगप्रविद्धस्य flung, तस्य his, वक्त्रात् from the mouth, क्षतजबिन्दवः drops of blood, मारुतोत्क्षिप्ताः scattered by the wind, मतङ्गस्य Matanga’s, आश्रमं प्रति at the hermitage of, प्रपेतुः fell.

आङ्ग्लानुवादः

‘Scattered by the wind, drops of blood fell at the hermitage of Matanga from the mouth of the deadbody flung.

श्लोकः

मूलम्

तान्दृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः।
क्रुद्धस्तत्र महाभागश्चिन्तयामास कोन्वयम्4.11.49॥

शब्दार्थः

महाभागः venerable one, मुनिः sage, तत्र there, पतितान् fallen, शोणितविप्रुषः drops of blood, दृष्ट्वा after seeing, तस्य his, क्रुद्धः became angry, अयम् this, को नु who can he be, चिन्तयामास started thinking.

आङ्ग्लानुवादः

‘The venerable sage became furious to see drops of blood fallen there. He started thinking who could he be?

श्लोकः

मूलम्

येनाहं सहसा स्पृष्टश्शोणितेन दुरात्मना।
कोऽयं दुरात्मा दुर्भुदि्घरकृतात्मा च बालिशः4.11.50॥

शब्दार्थः

दुरात्मना wicked self, येन by whom, अहम् I, सहसा instantly, शोणितेन with blood, स्पृष्टः
touched, दुरात्मा a villain, दुर्भुद्धिः evilminded, अयम् he, बालिशः a petty man, कः who?

आङ्ग्लानुवादः

‘Who is that petty, wicked, evil minded one who caused the drops of blood to touch (fall on) me suddenly?

श्लोकः

मूलम्

इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः।
महिषं पर्वताकारं गतासुं पतितं भुवि4.11.51॥

शब्दार्थः

सः he, मुनिसत्तमः venerable sage, इति thus, उक्त्वा having said, विनिष्क्रम्य having come out, गतासुम् a dead one, भुवि on the floor, पतितम् fallen, पर्वताकारम् with a mountaneous form, महिषम् buffalo, ददृशे saw.

आङ्ग्लानुवादः

‘The venerable sage came out of the hermitage and saw a mountaneous buffalo fallen dead on the floor.

श्लोकः

मूलम्

स तु विज्ञाय तपसा वानरेण कृतं हि तत्।
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति4.11.52॥

शब्दार्थः

सः he, तत् that, वानरेण by the monkey, कृतम् done, तपसा by ascetic vision, विज्ञाय having known, क्षेप्तारम् who hurled, वालिनं प्रति at that Vali, महाशापम् great curse, उत्ससर्ज pronounced.

आङ्ग्लानुवादः

‘Having known through his ascetic vision that it was the act of a monkey, he pronounced a curse on Vali who had hurled (the body)ः

श्लोकः

मूलम्

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्।
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः4.11.53॥

शब्दार्थः

मत्संश्रयम् under my protection, वनम् forest, येन by whom, रुधिरस्रवैः with drops of blood, दूषितम् is violated, तेन by him, इह here, न प्रवेष्टव्यम् should not enter, प्रविष्टस्य of him who enters, वधः death, भवेत् will take place.

आङ्ग्लानुवादः

‘Whoever has desecrated this forest, protected by me, with drops of blood is forbidden to enter this place. Once he does it, he will die.

श्लोकः

मूलम्

सम्भग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम्।
समन्तादाद्योजनं पूर्णमाश्रमं मामकं यदि4.11.54॥
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति।

शब्दार्थः

आसुरीम् demon’s, तनुम् body, क्षिपता hurled, इमे those, पादपाश्च trees also, सम्भग्नाः are broken, समन्तात् all over, पूर्णम् entire, योजनम् yojana, मामकम् mine, आश्रमम् hermitage, आगमिष्यति if he comes, दुर्बुद्धिः wicked one, सः he, न भविष्यति will not survive.

आङ्ग्लानुवादः

‘Whoever has broken the trees all over this forest and has thrown the demon’s body will not survive if he enters within a radius of one yojana of my hermitage.

श्लोकः

मूलम्

ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम्4.11.55॥
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम्।

शब्दार्थः

मामकम् my, वनम् forest, संश्रिताः taking refuge, ये (केचित्) indeed, अस्य सचिवाः his counsellors, तैः च by them also, इह here, न वस्तव्यम् should not stay, श्रुत्वा on hearing, यथासुखम् safely, यान्तु depart.

आङ्ग्लानुवादः

‘Indeed his counsellors who are here must leave this forest. Let them depart safely.

श्लोकः

मूलम्

यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम्4.11.56॥
वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते।
पत्राङ्कुरविनाशाय फलमूलाभवाय च4.11.57॥

शब्दार्थः

नित्यम् always, पुत्रवत् like a son, परिरक्षिते protected, मामके my, अस्मिन् वने in this forest, तेऽपि they also, पत्राङ्कुरविनाशाय for destroying shoots, फलमूलाभवाय च and for the loss of fruits and roots etc, तिष्ठन्ति यदि if they stay back, तानपि them also, ध्रुवम् certainly, शपिष्ये I
will curse.

आङ्ग्लानुवादः

‘If the monkeys stay back to destroy the leaves and shoots and plunder the fruits and roots of this forest which I have protected just like my son will also certainly invite my curse.

श्लोकः

मूलम्

दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्।
बहुवर्षसहस्राणि स वै शैलो भविष्यति4.11.58॥

शब्दार्थः

अस्य for him, दिवसः one day, मर्यादा time limit, श्वः tomorrow, यम् whosoever, वानरम् monkey, द्रष्टास्मि I will see, सः he, बहुवर्षसहस्राणि for many thousands of years, शैलः mountain, भविष्यति will become.

आङ्ग्लानुवादः

‘I give one day’s time for the monkeys (to leave). Whomsoever, I see tomorrow will get transformed into a mountain for many thousands of years’

श्लोकः

मूलम्

ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम्।
निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्वा वालिरब्रवीत्4.11.59॥

शब्दार्थः

ततः then, ते those, वानराः monkeys, मुनिसमीरिताम् spoken by the sage, गिरम् word, श्रुत्वा after hearing, तस्मात् वनात् from that forest, निश्चक्रमुः went away, तान् the, दृष्ट्वा on seeing, वालिः Vali, अब्रवीत् said.

आङ्ग्लानुवादः

‘The monkeys fled on hearing the words spoken by the sage. Said Valiः

श्लोकः

मूलम्

किं भवन्तस्समस्ताश्च मतङ्गवनवासिनः।
मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्4.11.60॥

शब्दार्थः

मतङ्गवनवासिनः residents of the groves of Matanga, भवन्तः you, समस्ताः all, किम् why, मत्समीपम् to me, अनुप्राप्ताः came here, वनौकसाम् for all the monkeys, अपि स्वस्ति hope all are safe.

आङ्ग्लानुवादः

‘Why have you, residents of the groves of Matanga, come to me? Hope all are safe’

श्लोकः

मूलम्

ततस्ते कारणं सर्वं तदा शापं च वालिनः।
शशंसुर्वानरास्सर्वे वालिने हेममालिने4.11.61॥

शब्दार्थः

ततः then, सर्वे all, ते वानराः those monkeys, सर्वम् everything, कारणम् reason, तदा then, वालिनः of Vali, शापं च curse also, हेममालिने to him wearing golden necklace, वालिने to Vali, शशंसुः narrated.

आङ्ग्लानुवादः

‘Then all the monkeys collected together and narrated everything about the curse given to Vali , adorned with a golden chain(on his neck).

श्लोकः

मूलम्

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्।
स महर्षिंतदाऽसाद्य याचते स्म कृताञ्जलिः4.11.62॥

शब्दार्थः

तदा then, सः वाली that Vali, वानरेरितम् spoken by monkeys, एतत् all that, वचनम् words, श्रुत्वा on hearing, कृताञ्जलिः with folded hands, महर्षिम् to the sage, (सम्) आसाद्य having approached, याचते स्म begged.

आङ्ग्लानुवादः

‘On hearing the monkeys, Vali went to the sage and begged forgiveness with folded hands.

श्लोकः

मूलम्

महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा।
शापधारणभीतस्तु वाली विह्वलतां गतः4.11.63॥

शब्दार्थः

महर्षिः great sage, तम् him, अनादृत्य without obliging, आश्रमं to the hermitage, तदा then, प्रविवेश entered, वाली Vali, शापधारणभीतः with the fear of hearing the curse, विह्वलताम् agrieved, गतः became.

आङ्ग्लानुवादः

‘The sage went into the hermitage without obliging Vali who became apprehensive of the curse of the sage.

श्लोकः

मूलम्

ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम्।
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर4.11.64॥

शब्दार्थः

नरेश्वर O Lord Rama, ततः then onwards, हरिः monkeys, शापभयात् for fear of the curse, भीतः frightened, महागिरिम् great mountain, ऋष्यमूकम् Rishyamuka, प्रवेष्टुम् to enter, द्रष्टुं वापि even to see, नेच्छति does not like.

आङ्ग्लानुवादः

‘O Lord Rama because of the fear of the curse, Vali will not enter the great Rishyamuka mountain nor will he like to see it.

श्लोकः

मूलम्

तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम्।
विचरामि सहामात्यो विषादेन विवर्जितः4.11.65॥

शब्दार्थः

राम O Rama, अहम् I, तस्य his, अप्रवेशम् entry prohibited, ज्ञात्वा after knowing, विषादेन apprehension, विवर्जितः without, सहामात्यः accompanied by ministers, इदम् this, महावनम् great forest, विचरामि I am roaming about.

आङ्ग्लानुवादः

‘O Rama aware of the prohibition of Vali from entering the place, I roam about this great forest accompanied by my ministers without any apprehension.

श्लोकः

मूलम्

एषोऽस्थिनिचयस्तस्य दुन्दुभेस्सम्प्रकाशते।
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान्4.11.66॥

शब्दार्थः

वीर्योत्सेकात् with pride of prowess, निरस्तस्य thrown away, तस्य दुन्दुभेः Dundubhi’s, गिरिकूटोपमो as the mountain peak, महान् huge, एषः this, अस्थिनिचयः heap of bones, सम्प्रकाशते is shining

आङ्ग्लानुवादः

‘Hurled with the pride of his(Vali’s) prowess is this heap of bones of Dundubhi here, which shines like a huge mountain peak.

श्लोकः

मूलम्

इमे च विपुलास्सालास्सप्त शाखावलम्बिनः।
यत्रैकं घटते वाली निष्पत्रयितुमोजसा4.11.67॥

शब्दार्थः

शाखावलम्बिनः branches overlapping one another, इमे these, सप्त seven, विपुलाः sturdy, सालाः Sala trees, यत्र there, एकम् one, वाली Vali, ओजसा his own, निष्पत्रयितुम् to remove its leaves, घटते he is competent.

आङ्ग्लानुवादः

‘Look at these seven sturdy Sala trees with branches of one overlapping the other. Vali was able to remove all the leaves of one Sala tree with just one arrow.

श्लोकः

मूलम्

एतदस्यासमं वीर्यं मया राम प्रकीर्तितम्।
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप4.11.68॥

शब्दार्थः

राम O Rama, अस्य his, असमम् unequalled, एतत् this, वीर्यम् strength, प्रकीर्तितम् is narrated, नृप king, समरे in a combat, तं वालिनम् that Vali’s, हन्तुम् to kill, कथम् how is it, शक्ष्यसे it is possible for you?

आङ्ग्लानुवादः

‘O Rama Vali’s strength and fame related by me is unequalled. O king how is it possible for you to kill him in a combat?’

श्लोकः

मूलम्

तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत्।
कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्4.11.69॥

शब्दार्थः

लक्ष्मणः Lakshmana, तथा that way, ब्रुवाणम् while he spoke, सुग्रीवम् to Sugriva, प्रहसन् with a smile, अब्रवीत् said, कस्मिन् in which, कर्मणि in action, निवृत्ते when carried out, वालिनः Vali’s, वधम् killing, श्रद्दध्याः trust

आङ्ग्लानुवादः

Smiling, Lakshmana asked Sugriva, ‘By what action will you trust?. By the fulfilment of which task (by Rama) will you have faith?’

श्लोकः

मूलम्

तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा।
एवमेकैकशो वाली विव्याथाथ स चासकृत्। 4.11.70॥

शब्दार्थः

अथ then, सुग्रीवः Sugriva, तम् him, उवाच said, पुरा earlier, सः वाली that Vali, इमान् these, सप्तसालान् seven sala trees, एवम् in this way, एकैकशः one after the other, अथ then, असकृत् several times, विव्याध struck.

आङ्ग्लानुवादः

Then Sugriva told Lakshmana that earlier Vali had split through these seven Sala trees one after the other, several times.

श्लोकः

मूलम्

रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम्।
वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्4.11.71॥

शब्दार्थः

रामः Rama, अपि also, एषाम् these, द्रुमम् trees, एकेन with one, बाणेन with arrow, दारयेत् pierce through(split), रामस्य Rama’s, विक्रमम् prowess, दृष्ट्वा on seeing, वालिनम् Vali, निहतम् killing, मन्ये I think, अपि also.

आङ्ग्लानुवादः

‘If I see Rama splitting these trees with one arrow, I will believe he can kill Vali with his prowess.

श्लोकः

मूलम्

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण।
उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते4.11.72॥

शब्दार्थः

लक्ष्मण Lakshmana, हतस्य of the dead, महिषस्य buffalo’s, अस्थि skeleton, एकेन by one, पादेन by the foot, उद्यम्य lifted, तरसा with his strength, द्वेधनुः शते a distance of eight hundred hands (distance of two hundred bows), प्रक्षिपेच्चापि if he can also hurl.

आङ्ग्लानुवादः

‘O Lakshmana and if Rama can also lift the dead buffalo’s (Dundubhi’s) skeleton and hurl it to a distance of two hundred bows with one of his feet.

श्लोकः

मूलम्

एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्।
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्4.11.73॥

शब्दार्थः

सुग्रीवः Sugriva, रक्तान्तलोचनम् with reddened eyes, रामम् Rama, एवम् thus, उक्त्वा having
spoken, मुहूर्तम् for a moment after, ध्यात्वा thinking, काकुत्स्थम् Rama, पुनरेव again, वचः these words, अब्रवीत् said.

आङ्ग्लानुवादः

Having said this and thinking for a moment, Sugriva again said to the heroic Rama whose eyes had turned red.

श्लोकः

मूलम्

शूरश्च शूरघाती च प्रख्यातबलपौरुषः।
बलवान्वानरो वाली संयुगेष्वपराजितः4.11.74॥

शब्दार्थः

शूरश्च hero, शूरघाती च killer of heroes, प्रख्यातबलपौरुषः wellknown for prowess and valour, बलवान् powerful, वानरः वाली monkey Vali, संयुगेषु in combat, अपराजितः unconquered.

आङ्ग्लानुवादः

‘Powerful Vali is valiant and has killed brave fighters. He is wellknown for his prowess and valour. He has not faced defeat in war.

श्लोकः

मूलम्

दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि।
यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः4.11.75॥

शब्दार्थः

सुरैरपि even by gods, दुष्कराणि difficult, तस्य his, कर्माणि tasks, दृश्यन्ते are seen(all over), यानि all those, सञ्चिन्त्य thinking of, भीतः fear, अहम् I, ऋष्यमूकम् at Rishyamuka, उपाश्रितः I have taken refuge.

आङ्ग्लानुवादः

‘Even gods cannot do what he has done. Thinking of all this and being afraid of him, I have taken refuge at Rishyamuka.

श्लोकः

मूलम्

तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्।
विचिन्तयन्न मुञ्चामि ऋश्यमूकमहन्विमम्4.11.76॥

शब्दार्थः

तम् him, वानरेन्द्रम् lord of monkeys, अजय्यम् invincible, अधृष्यम् one who can not be overpowered, अमर्षणम् indignant, विचिन्तयन् while thinking over, अहम् I, ऋष्यमूकम् Rishyamuka, न मुञ्चामि I have not left, इयम this.

आङ्ग्लानुवादः

‘Thinking that this indignant, invincible lord of the monkeys, cannot be overpowered, I have not stepped out of Rishyamuka.

श्लोकः

मूलम्

उद्विग्नश्शङ्कितश्चापि विचरामि महावने।
अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः4.11.77॥

शब्दार्थः

(अहम् I), उद्विग्नः agitated, शङ्कितः frightened, अनुरक्तैः who are devoted to me, वरैः excellent, हनुमत्प्रमुखैः by Hanuman and others, अमात्यैः with ministers, सह along with, महावने in this great forest, विचरामि I am roaming.

आङ्ग्लानुवादः

श्लोकः

मूलम्

उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल।
त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः4.11.78॥

शब्दार्थः

श्लाघ्यम् praiseworthy, सन्मित्रम् a good friend, मे to me, उपलब्धम् Is obtained, मित्रवत्सल O loyal to friends, पुरुषव्याघ्र tiger among men, अहम् I am, हिमवन्तमिव like the Himalaya, त्वाम् you, आश्रितः seek your protection.

आङ्ग्लानुवादः

‘I have discovered in you a faithful friend. O tiger among men, O venerable one, you are to me like the Himalayas.

श्लोकः

मूलम्

किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः।
अप्रत्यक्षं तु मे वीर्यं समरे तव राघव4.11.79॥

शब्दार्थः

किं तु but, अहम् I, बलशालिनः mighty, दुर्भ्रातुः bad brother’s, तस्य his, बलज्ञः know his strength, राघव Rama, समरे in war, तव your, वीर्यं तु power also, मे I, अप्रत्यक्षम् not see.

आङ्ग्लानुवादः

‘What to do? I know the strength of my mighty bad brother. But so far I have not seen your power in a battle.

श्लोकः

मूलम्

न खल्वहं त्वां तुलये नावमन्ये न भीषये।
कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम4.11.80॥

शब्दार्थः

अहम् I am, त्वाम् your, न खलु तुलये indeed do not compare, नावमन्ये I do not insult you, न भीषये not to scare , तस्य his, भीमैः by dreadful, कर्मभिः by his actions, मम in me, कातर्यम् cowardice, जनितम् is created.

आङ्ग्लानुवादः

‘The dreadful acts of Vali have made me feel timid. This is not to compare you with him or your strength with his or insult you and scare you.

श्लोकः

मूलम्

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः।
सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्4.11.81॥

शब्दार्थः

राघव Rama, ते you, वाणी word, प्रमाणम् evidence, धैर्यम् courage, आकृतिः appearance, भस्मच्छन्नम् covered with ashes, आनलम् इव like fire, परम् supreme, तेजः strength, सूचयन्ति indicate, कामम् no doubt.

आङ्ग्लानुवादः

‘Rama your word and your courage indicate your supreme strength which is like fire covered with ashes.’

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः4.11.82॥

शब्दार्थः

रामः Rama, महात्मनः great soul, तस्य सुग्रीवस्य that Sugriva’s, तत् वचनम् those words, श्रुत्वा having heard, अथ then, हरिं प्रति seeing Sugriva, स्मितपूर्वम् smiling gently, प्रत्युवाच replied.

आङ्ग्लानुवादः

Having heard the great Sugriva, Rama replied with a gentle smileः

श्लोकः

मूलम्

यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर।
प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते4.11.83॥

शब्दार्थः

वानर monkey, विक्रमे in valour, अस्मासु in us, तव to you, प्रत्ययः faith, न यदि if not, अहम् I, समरे in combat, श्लाघ्यम् praiseworthy, प्रत्ययम् confidence, ते to you, उत्पादयामि create.

आङ्ग्लानुवादः

‘If you have no confidence in my strength in fight, O monkey, I will create it in you so much so that you will admire it.’

श्लोकः

मूलम्

एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः।
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84॥
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्।
असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85॥

शब्दार्थः

लक्ष्मणाग्रजः Lakshmana’s elder brother, महाबाहुः longarmed one, वीर्यवान् mighty, राघवः Rama, एवम् in that way, उक्त्वा having said, सुग्रीवम् to Sugriva, सान्त्वं In a pleasing way, दुन्दुभेः Dundubhi’s, कायम् body, लीलया easily, पादाङ्गुष्ठेन with the toe, तोलयित्वा lifting, असुरस्य demon’s, शुष्काम् dried, तनुम् body, दशयोजनम् ten yojanas, चिक्षेप flung

आङ्ग्लानुवादः

Rama,the mighty elder brother of Lakshmana, having said so to Sugriva in a pleasing manner, lifted the dried body of Dundubhi easily with his toe, shook it and flung it with ease to a distance of ten yojanas.

श्लोकः

मूलम्

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्।
लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्4.11.86॥

शब्दार्थः

सुग्रीवः Sugriva, क्षिप्तम् the thrown, कायम् body, दृष्ट्वा seeing, ततः then, पुनः again, अब्रवीत् said, अर्थवत् meaningful, इदम् these, वचनम् words, अब्रवीत् said, लक्ष्मणस्य Lakshmana’s, अग्रतः In the presence.

आङ्ग्लानुवादः

Having seen Rama flinging the body, Sugriva said to him again in the presence of Lakshmanameaningfullyः

श्लोकः

मूलम्

आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे4.11.87॥
लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव।
परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा4.11.88॥
क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन।

शब्दार्थः

सखे friend, तदा that time, परिश्रान्तेन by the tired, मत्तेन by the intoxicated, मे भ्रात्रा by my brother, वालिना by Vali, पुरा earlier, आर्द्रः wet, समांसः with flesh, प्रत्यग्रः fresh, कायः body, क्षिप्तः flung, रघुनन्दन O delight of the Raghu race, राघव Raghava, सम्प्रति now, लघुः light, निर्मांसः without flesh, तृणभूतश्च like a bunch of grass, प्रहर्षेण playfully, भवता by you, एवम् this, क्षिप्तम् flung.

आङ्ग्लानुवादः

‘O friend, when Vali my brother flung the body, he was tired and intoxicated and the body was fresh with flesh (meaning heavy), but now, O Delight of the Raghu race, it is fleshless and light like a bunch of (dry) grass (for) which you could throw it playfully.

श्लोकः

मूलम्

नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम्।
आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम्4.11.89॥

शब्दार्थः

अत्र here (in this case), तव your, बलम् strength, अधिकं वा is more or, तस्य वा or his, ज्ञातुम् to know, न शक्यम् not able, राघव Rama, आर्द्रम् wet, शुष्कमिति dried, एतत् this, सुमहत् great, अन्तरं हि difference.

आङ्ग्लानुवादः

‘I was unable to gauge whether your strength is more than his (Vali’s) since there is a great difference between a dry body and a wet one.

श्लोकः

मूलम्

स एव संशयस्तात तव तस्य च यद्बले4.11.90॥
सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले।

शब्दार्थः

तात O dear, तव your, तस्य च and his, यत् such, बले strength, स एव that alone, संशयः doubt, एकम् one, सालम् Sala tree, निर्भिद्य after splitling through, व्यक्तिः demonstrated, भवेत् will be known, बलाबले strength or otherwise.

आङ्ग्लानुवादः

‘O Dear, therefore, I have my doubt about your relative strength. If you can split a sala tree with a single arrow then can your strength or weakness be demonstrated.

श्लोकः

मूलम्

कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम्4.11.91॥
आकर्णपूर्णमायम्य विसृजस्व महाशरम्।

शब्दार्थः

आततम् stretched, हस्तिहस्तमिव like the elephant’s trunk, एतत् that, कार्मुकम् bow, सज्यम् strung(tie it with string), कृत्वा after doing, आकर्णपूर्णम् drawing it (the string) to the ear, आयम्य after stretching, महाशरम् great arrow, विसृजस्व release.

आङ्ग्लानुवादः

‘Now string your bow, draw it like the trunk of an elephant up to your ear and release the great arrow.

श्लोकः

मूलम्

इमं हि सालं सहित स्त्वया शरो
न संशयोऽत्रास्ति विदारयिष्यति।
अलं विमर्शेन मम प्रियं ध्रुवं
कुरुष्व राजात्मज शापितो मया4.11.92॥

शब्दार्थः

राजन् king, त्वया your, प्रहितः good, शरः arrow, इमं सालम् this sala tree, विदारयिष्यति will pierce through, अत्र then, संशयः doubt, नास्ति will not be there, विमर्शेन clear, अलम् enough, ध्रुवम् certainly, मम to me, प्रियम् gladden, कुरुष्व do, मया my, प्रतिशापितः not to test you.

आङ्ग्लानुवादः

‘It will be enough and my doubt will be cleared. If you can pierce the sala tree with your arrow it will be my pleasure and not a test of your strength.

श्लोकः

मूलम्

यथा हि तेजस्सु वरस्सदा रवि
र्यथा हि शैलो हिमवान्महाद्रिषु।
यथा चतुष्पात्सु च केसरी वर
स्तथा नरणामसि विक्रमे वरः4.11.93॥

शब्दार्थः

तेजस्सु among the brilliant, रविः Sun, यथा as, वरः best, महाद्रिषु among the great mountains, हिमवान् शैलः Himalaya mountain, यथा as, चतुष्पात्सु among the quadrupeds, केसरी lion, यथा as, वरः best, तथा similarly, नराणाम् among men, विक्रमे in valour, वरः best, असि you are.

आङ्ग्लानुवादः

‘Just as the Sun is the best among the brilliant, the Himalayas among the great mountains, the lion among the quadrupeds, so also you are the best among men of valour.’

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकादशस्सर्गः॥
Thus ends the eleventh sarga of Kishkindakanda of the Holy Ramayana, the first epic, composed by sage Valmiki.