०२६ दूषणवधः

Dusana and his army chiefs get killed in severe combat with Ramathe demon army also gets destroyed

श्लोकः

मूलम्

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः।
सन्दिदेश महाबाहुर्भीमवेगान्दुरासदान्॥3.26.1॥
राक्षसान्पञ्चसहस्रान्समरेष्वनिवर्तिनः।

शब्दार्थः

सः that, महाबाहुः mightyarmed, दूषणः Dusana, हन्यमानम् getting killed, स्वकम् his own, सैन्यम् army, निरीक्ष्य seeing, भीमवेगान् dreadfuly quick, दुरासदान् dangerous to face, समरेषु in war, अनिवर्तिनः who will not beat a retreat, पञ्च सहस्रान् five thousand, राक्षसान् demons, सन्दिदेश led.

आङ्ग्लानुवादः

Mightyarmed Dusana saw the army getting killed in war. He led the forces of five thousand demons, dreadfuly quick at fighting, dangeous to face and who will not beat a retreat.

श्लोकः

मूलम्

ते शूलैः पट्टिशैः खङ्गै शिलावर्षैर्द्रुमैरपि॥3.26.2॥
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः।

शब्दार्थः

ते they, शूलैः spears, पट्टिशैः sharpedged spears, खङ्गैः swords, शिलावर्षैः by raining stones, द्रुमैरपि and with trees, शरवर्षैः by showers of arrows, अविच्छिन्नम् continuously, समन्ततः from all sides, तम् him(Rama), ववर्षुः rained.

आङ्ग्लानुवादः

The demons continuously hurled at him (Rama) spears and swords and rained stones, trees and arrows from all sides

श्लोकः

मूलम्

स दृमाणां शिलानां च वर्षं प्राणहरं महत्॥3.26.3॥
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः।

शब्दार्थः

धर्मात्मा righteous self, सः राघवः Rama, प्राणहरम् destroyers of life, महत् mighty, द्रुमाणाम् trees, शिलानां च of stones and, वर्षम् rain, तीक्ष्णसायकैः with sharp arrows, प्रतिजग्राह retaliated.

आङ्ग्लानुवादः

Righteous Rama, retaliated with his sharp arrows such as the rain of trees and stones, the mighty destroyers of life.

श्लोकः

मूलम्

प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः॥3.26.4॥
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्।

शब्दार्थः

रामः Rama, निमीलितः closed his eyes, ऋषभः इव like a bull, तत् that, वर्षम् rain, प्रतिगृह्य retaliated, सर्वरक्षसाम् all the demons, वधार्थम् to kill, परं excessively, क्रोधम् angry, भेजे felt.

आङ्ग्लानुवादः

Rama retaliated in great anger to kill without caring for the shower of weapons like a bull with its eyes closed.

श्लोकः

मूलम्

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा॥3.26.5॥
शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम्।

शब्दार्थः

ततः then, क्रोधसमाविष्टः overpowered by anger, तेजसा glow, प्रदीप्त इव as though blazing, सहदूषणम् along with Dusana, सैन्यम् army, सर्वतः all over, शरैः with arrows, अवाकिरत् filled.

आङ्ग्लानुवादः

Overpowered by anger, Rama, with a blazing glow, covered Dusana and his army with his arrows.

श्लोकः

मूलम्

ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः॥3.26.6॥
शरैरशनिकल्पैस्तं राघवं समवाकिरत्।

शब्दार्थः

ततः thereafter, सेनापतिः chief of the army, दूषणः Dusana, क्रुद्धः angry, अशनिकल्पैः comparable to thunderbolt, शरैः with arrows, तं राघवम् to that Rama, समवाकिरत् charged from everywhere.

आङ्ग्लानुवादः

Thereafter Dusana, chief of the army, angrily released at Rama equally powerful arrows comparable to thunderbolt.

श्लोकः

मूलम्

ततो रामस्सुसङ्कृद्धः क्षुरेणास्य महद्धनुः॥3.26.7॥
चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान्।

शब्दार्थः

ततः thereafter, सुसङ्कृद्धः became furious, समरे in war, वीरः hero, रामः Rama, क्षुरेण with a swordlike, अस्य his, महत् great, धनुः bow, चतुर्भिः four more, चतुरः four, हयान् horses, चिच्छेद cut to pieces.

आङ्ग्लानुवादः

Heroic Rama, mighty angry, then, broke the big bow of Dusana, with his swordlike arrow. And with a series of four arrows cut his four horses to pieces.

श्लोकः

मूलम्

हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥3.26.8॥
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि।

शब्दार्थः

तीक्ष्णैः sharp ones, शरैः arrows, अश्वान् horses, हत्वा killed, अर्धचन्द्रेण with an arrow of the shape of the cresunt moon, सारथेः charioteer’s, शिरः head, जहार cut, त्रिभिः with three arrows, तत् that, रक्षः demon( Dushana), वक्षसि chest, विव्याध pierced.

आङ्ग्लानुवादः

After killing the horses with sharp arrows Rama severed the charioteer’s head with an arrow of the shape of the crescent moon and pierced Dusana’s chest with a set of three arrows.

श्लोकः

मूलम्

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥3.26.9॥
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्।
वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम्॥3.26.10॥
आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्।
वज्राशनिसमस्पर्शं परगोपुरदारणम्॥3.26.11॥

शब्दार्थः

छिन्नधन्वा with broken bow, विरथः no chariot, हताश्वः horses killled, हतसारथिः charioteer killed, सः he, गिरिशृङ्गाभम् looking like a huge mountain top, रोमहर्षणम् causing horripilation, काञ्चनैः with golden, पट्टैः with bands, वेष्टितम् bound, देवसैन्यप्रमर्दनम् that which can crush even gods’ army, तीक्ष्णैः sharp, आयसैः made of iron, शङ्कुभिः with nails, कीर्णम् covered, परवसोक्षितम् sprinkled with enemy’s marrow, वज्राशनिसमस्पर्शम् like the touch of thunderbolt, परगोपुरदारणम् that which can break open enemies fort, परिघम् spear, जग्राह took up .

आङ्ग्लानुवादः

With his bow and chariot broken, charioteer and horses killed, Dusana took up a spear in his hand that appeared like a huge mountain top. Bound by golden bands, covered the iron nails, wetted with the enemy’s marrow it created a horripilation. It appeared as though it could crush the army of gods and render the enemy powerless. It carried the killing touch of the thunderbolt and could break open the enemy’s fort.

श्लोकः

मूलम्

तं महोरगसङ्काशं प्रगृह्य परिघं रणे।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः॥3.26.12॥

शब्दार्थः

क्रूरकर्मा cruel, निशाचरः demon, दूषणः Dusana, रणे in war, महोरगसङ्काशम् mighty serpent like, तं परिघम् spear, प्रगृह्य holding, रामम् at Rama, अभ्यद्रवत् went forward.

आङ्ग्लानुवादः

With the spear that looked like a mighty serpent, Dusana, the cruel demon, advanced towards Rama.

श्लोकः

मूलम्

तस्याभिपतमानस्य दूषणस्य स राघवः।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥3.26.13॥

शब्दार्थः

सः राघवः that Rama, अभिपतमानस्य pouncing on him, तस्य दूषणस्य that Dusana, सहस्ताभरणौ adorned with armlets, भुजौ द्वाभ्याम् with two, शराभ्याम् with arrows, चिच्छेद cut.

आङ्ग्लानुवादः

Seeing Dusana going to pounce upon him, Rama cut off with two arrows both his arms adorned with armlets.

श्लोकः

मूलम्

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥3.26.14॥

शब्दार्थः

रणमूर्धनि on the battle front, छिन्नहस्तस्य of one whose hands were cut off, तस्य his, महाकायः huge body, परिघः spear, भ्रष्टः fallen down, शक्रध्वजः इव like the banner of Indra, अग्रतः in front, पपात fell down.

आङ्ग्लानुवादः

With the hands amputated, his huge spear, like the banner of Indra, slipped off his hands and fell down on the ground on the battle front.

श्लोकः

मूलम्

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥3.26.15॥

शब्दार्थः

सः दूषणः Dusana, विकीर्णाभ्याम् scattered, कराभ्याम् with both hands, विशीर्णाभ्याम् shattered to pieces, विषाणाभ्याम् with two tusks, मनस्वी proud one, महागजः इव like a mighty elephant, भुवि ground, पपात fell down.

आङ्ग्लानुवादः

Dusana fell down on the ground with broken hands like a proud elephant with both his tusks shattered.

श्लोकः

मूलम्

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥3.26.16॥

शब्दार्थः

रणे in battle, निहतम् killed, भूमौ on the ground, पतितम् fallen down, तं दूषणम् that Dusana, दृष्ट्वा seeing, सर्वभूतानि all beings, काकुत्स्थम् Rama, साधु साधु इति saying, ‘well done well done’, अपूजयन् hailed.

आङ्ग्लानुवादः

Seeing Dusaana collapse dead on the ground, all beings hailed Rama, saying, ‘Well done, well done’.

श्लोकः

मूलम्

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः।
संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥3.26.17॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः।

शब्दार्थः

एतस्मिन् अन्तरे meanwhile, क्रुद्धाः angry , महाकपालः Mahakapala, स्थूलाक्षः Stulaksha, महाबलः mighty, प्रमाथी च Pramathi, त्रयः all three, सेनाग्रयायिनः army chiefs, मृत्युपाशावपाशिताः bound by the noose of death, संहृत्य all together, रामम् Rama, अभ्यद्रवन् ran towards.

आङ्ग्लानुवादः

Meanwhile all the three army chiefs, Mahakapala, Sthulaksha, and the mighty Pramathi ran towards Rama in anger, bound (as though) by the noose of death.

श्लोकः

मूलम्

महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥3.26.18॥
स्थूलाक्षः पट्टिसं गृह्य प्रमाथी च परश्वधम्।

शब्दार्थः

महाकपालः Mahakapala, विपुलम् huge, शूलम् spear, उद्यम्य lifted up, स्थूलाक्षः Sthulaksha, राक्षसः demon, पट्टिसम् sharpedged spear, गृह्य holding, प्रमाथी च and Pramathi too, परश्वधं च with a battleaxe.

आङ्ग्लानुवादः

Mahakapala had a huge spear, Sthulaksha, a sharpedged spear and Pramathi, a battleaxe.

श्लोकः

मूलम्

दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः॥3.26.19॥
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव।

शब्दार्थः

राघवः Rama, तूर्णम् quickly, आपततः attacking, दृष्ट्वैव on seeing, शितैः with sharp weapons, तीक्ष्णाग्रैः pointed , सायकैः with arrows, सम्प्राप्तान् those who arrived, अतिथीनिव like guests, प्रतिजग्राह received.

आङ्ग्लानुवादः

On seeing them rushing to attack him with sharp weapons, Rama received them quickly with pointed arrows as though they were guests.

श्लोकः

मूलम्

महाकपालस्य शिरश्चिच्छेद परमेषुभिः॥3.26.20॥
असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्।
स पपात हतो भूमौ विटपीव महाद्रुमः॥3.26.21॥

शब्दार्थः

परमेषुभिः sharp arrows, महाकपालस्य Mahakapala’s, शिरः head, चिच्छेद cut to pieces, असङ्ख्येयैः with innumerable, बाणौघैः arrows, प्रमाथिनम् Pramathi also, प्रममाथ killed, सः he, हतः dead, विटपी with branches, महाद्रुमः इव like a huge tree, भूमौ on the ground, पपात fell down.

आङ्ग्लानुवादः

Mahakapala’s head was cut to pieces with sharp arrows and Pramathi was killed with a countless series of arrows. Pramathi’s body, like a huge tree with many branches collapsed on the ground.

श्लोकः

मूलम्

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः।
दूषणस्यानुगान्पञ्चसहस्रान्कुपितः क्षणात्॥3.26.22॥
बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम्।

शब्दार्थः

स्थूलाक्षस्य Sthulaksha’s, अक्षिणी eyes, तीक्ष्णैः with sharp, सायकैः with arrows, पूरयामास filled, कुपितः an angry, पञ्चसाहस्रैः with five thousand, बाणौघैः with arrows, दूषणस्य Dusana’s, पञ्चसाहस्रान् five thousand, अनुगान् followers, क्षणात् in a moment, यमसादनम् to the abode of Yama, अनयत् sent.

आङ्ग्लानुवादः

Rama filled the eyes of Sthulaksha with sharp arrows, and in anger shot five thousand arrows at the five thousand followers of Dusana in a moment and sent them to the abode of Yama.

श्लोकः

मूलम्

दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान्॥3.26.23॥
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान्।

शब्दार्थः

दूषणं Dusana, निहतम् killed, तस्य his, पदानुगान् followers, दृष्ट्वा after seeing, खरः Khara, क्रुद्धः angry , महाबलान् extremely strong, सेनाध्यक्षान् chiefs of the army, व्यादिदेश commanded.

आङ्ग्लानुवादः

Seeing Dusana and his followers killed, enraged Khara commanded his extremely strong army chiefs this wayः

श्लोकः

मूलम्

अयं विनिहतस्संख्ये दूषणस्सपदानुगः॥3.26.24॥
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः॥3.26.25॥

शब्दार्थः

अयं this one, सपदानुगः along with his followers, दूषणः Dooshana, सङ्ख्ये in battle, (वि)निहतः killed, सर्व राक्षसाः all the demons, महत्या with great, सेनयासार्धम् along with army, युद्ध्वा after fighting, नानाविधाकारैः different kinds, शस्त्रैः weapons, कुमानुषम् wicked human being, रामम् Rama, हनध्वम् should kill.

आङ्ग्लानुवादः

Dusana and his followers are killed in the battle. You, all the demons, along with your great army and different kinds of weapons should kill that wicked human being, Rama.

श्लोकः

मूलम्

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः॥3.26.26॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः।
मेघमाली महामाली सर्पास्यो रुधिराशनः॥3.26.27॥
द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः।
राममेवाभ्यधावन्त विसृजन्तश्शरोत्तमान्॥3.26.28॥

शब्दार्थः

खरः Khara, एवम् in that way, उक्त्वा having said, क्रुद्धः angry one, राममेव towards Rama, अभिदुद्रुवे ran, श्येनगामी Syenagami, पृथुग्रीवः Pruthugriva, यज्ञशत्रुः Yajnasatru, विहङ्गमः Vihangama, दुर्जयः Durjaya, करवीराक्षः Karaveeraksha, परुषः Parusha, कालकार्मुकः Kalakarmuka, मेघमाली Meghamali, महामाली Mahamali, सर्पास्यः Sarpasya, रुधिराशनः
Rudhirasana, एते these, महावीर्याः mighty heroes, द्वादश twelve, बलाध्यक्षाः army chiefs, ससैनिकाः with army, शरोत्तमान् sharpest of arrows, विसृजन्तः releasing, राममेव towards Rama alone, अभ्यधावन्त ran forward.

आङ्ग्लानुवादः

Having spoken thus, angry Khara ran towards Rama. Syenagami, Pruthugriva, Yajnasatru, Vihanga, Durjaya, Karaveeraksha, Parusha, Kalakarmuka, Meghamali, Mahamali, Sarpasya, Rudhirasanaall these twelve valiant army chiefs along with their forces rushed towards Rama, releasing the sharpest arrows at him.

श्लोकः

मूलम्

ततः पावकसङ्काशैर्हेमवज्रविभूषितैः।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥3.26.29॥

शब्दार्थः

तेजस्वी powerful Rama, ततः then, पावकसङ्काशैः glowing like fire, हेमवज्रविभूषितैः studded with gold and diamonds, सायकैः arrows, तस्य his, सैन्यस्य army’s, शेषम् remaining, जघान slayed.

आङ्ग्लानुवादः

Powerful Rama thereafter slayed the remaining army with his weapons studded with gold and diamonds and glowing like fire.

श्लोकः

मूलम्

ते रुक्मपुङ्खा विशिखास्सधूमा इव पावकाः।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्॥3.26.30॥

शब्दार्थः

रुक्मपुङ्खाः goldtipped arrows, सधूमाः covered with smoke, पावकाः इव like fire, ते विशिखाः tips of arrows, वज्राः thunderbolts, महाद्रुमानिव like huge trees, तानि those, रक्षांसि demons, निजघ्नुः shattered.

आङ्ग्लानुवादः

The goldtipped arrows which resembled fire covered with smoke shattered the army of demons like huge trees knocked down by thunder.

श्लोकः

मूलम्

रक्षसां तु शतं रामश्शतेनैकेन कर्णिना।
सहस्रं च सहस्रेण जघान रणमूर्धनि॥3.26.31॥

शब्दार्थः

रामः Rama, रक्षसाम् of demons, शतम् one hundred, एकेन कर्णिना by a single stroke, शतेन one hundred, सहस्रम् thousand, सहस्रेण thousand, रणमूर्धनि on the battle front, जघान killed.

आङ्ग्लानुवादः

Rama killed a hundred demons with one hundred arrows by a single stroke. The same way he killed a thousand of them with a thousand arrows on the battle front.

श्लोकः

मूलम्

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः।
निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः॥3.26.32॥

शब्दार्थः

तैः by them, भिन्नवर्माभरणाः with broken shields and ornaments, छिन्नभिन्नशरासनाः the bows broken to pieces, रजनीचराः demons, शोणिता दिग्धाः smeared with blood, धरण्याम् on the ground, निपेतुः fell.

आङ्ग्लानुवादः

The demons fell down on the ground with their shields and ornaments broken, their bows stained with blood splintered.

श्लोकः

मूलम्

तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव॥3.26.33॥

शब्दार्थः

समरे in the battle, पतितैः by those fallen down, मुक्तकेशैः loose hair, शोणितोक्षितैः by those wet with blood, तैः those, कृत्स्ना entire, वसुधा ground, महावेदिः a great sacrificial altar, कुशैरिव like the Kusa grass, आस्तीर्णा was spread all over.

आङ्ग्लानुवादः

The entire ground was littered with bodies of demons fallen in the battle with loose hair and with drops of blood on them looking like a great sacrificial altar strewn all over with kusa grass.

श्लोकः

मूलम्

क्षणेन तु महाघोरं वनं निहतराक्षसम्।
बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥3.26.34॥

शब्दार्थः

निहतराक्षसम् with demons killed, वनम् the forest, क्षणेन तु in a moment, महाघोरम् very
dreadful, मांसशोणितकर्दमम् soil soaked with the mud of flesh and blood, निरयप्रख्य like a hell, बभूव appeared.

आङ्ग्लानुवादः

With the slaughtered bodies of demons lying on the ground, the forest in a moment looked very dreadful like hell with the mud of soil soaked with flesh and blood.

श्लोकः

मूलम्

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण मानुषेण पदातिना॥3.26.35॥

शब्दार्थः

मानुषेण by a human being, पदातिना going on foot, रामेण Rama, एकेन alone, भीमकर्मणाम् of formidable acts, रक्षसाम् demons, चतुर्दश fourteen, सहस्राणि thousands, हतानि were killed.

आङ्ग्लानुवादः

Fourteen thousand formidable demons were killed by Rama, a pedestrian human, singlehanded.

श्लोकः

मूलम्

तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥3.26.36॥

शब्दार्थः

महारथः great warrior, खरः Khara, राक्षसः demon, त्रिशिराः Trisira, तस्य सैन्सस्य सर्वस्य of that entire army, शेषः were remanant, रिपुसूदनः destroyer of foes, रामश्च Rama also.

आङ्ग्लानुवादः

Of that entire army great warrior Khara,Trisira and Rama, destroyer of foes alone remained.

श्लोकः

मूलम्

शेषा हता महासत्वा राक्षसा रणमूर्धनि।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥3.26.37॥

शब्दार्थः

महासत्त्वाः mighty, घोराः dreadful, दुर्विषहाः intolerable, सर्वे all, शेषाः the remaining, ते they, लक्ष्मणस्य Lakshmana’s, अग्रजेन by the elder brother, रणमूर्धनि on the battle front, हताः were killed.

आङ्ग्लानुवादः

The rest of the mighty, dreadful, intolerable demons were killed on the war front by
Rama, elder brother to Lakshmana.

श्लोकः

मूलम्

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः॥3.26.38॥

शब्दार्थः

ततः thereafter, खरः Khara, महाहवे in the great fight, बलीयसा by the mighty, रामेण by Rama, हतम् killed, तत् that, भीमबलम् formidable army, समीक्ष्य seeing, तदा then, उद्यताशनिः raised thunderbolt, इन्द्र इव like Indra, महता with a great, रथेन chariot, रामम् Rama, समाससाद went forward.

आङ्ग्लानुवादः

Thereafter seeing the formidable army killed by mighty Rama, Khara lifted a thunderbolt like Indra, and advanced towards Rama in a great chariot.

समाप्तिः

श्रीमद्रामायणे वालमिकिय आदिकाव्ये अरण्यकाण्डे षङ्विंशस्सर्गः॥
Thus ends the twentysixth sarga in Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.