Khara and his army attack Rama – Rama retaliates – kills all the demons
श्लोकः
मूलम्
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्।
ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः॥3.25.1॥
शब्दार्थः
खरः Khara, पुरस्सरैः सह accompanied by the pilot party, आश्रमम् to the hermitage, आगम्य arrived, अवष्टब्धधनुम् holding the bow, क्रुद्धम् angry, रिपुघातिनम् destroyer of the enemy, रामम् Rama, ददर्श saw.
आङ्ग्लानुवादः
Khara accompanied by his pilot party arrived at the hermitage of Rama, the destroyer of enemies and saw him in fury, standing ready with his bow.
श्लोकः
मूलम्
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्स्वनम्।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥3.25.2॥
शब्दार्थः
तम् him, दृष्ट्वा seeing, खरनिस्स्वनम् producing terrible sound, सशरम् with the arrow, चापम् bow, उद्यम्य lifted, रामस्य Rama’s, अभिमुखम् facing him, चोद्यताम् drive (the chariot), इति thus, सूतम् to charioteer, अचोदयत् ordered to go.
आङ्ग्लानुवादः
On seeing Rama, Khara held his terribly twanging bow and arrow, stood facing him, and ordered the charioteer to drive towards him.
श्लोकः
मूलम्
स खरस्याज्ञया सूतस्तुरगान् समचोदयत्।
यत्र रामो महाबाहुरेको चुन्वन्स्थितो धनुः॥3.25.3॥
शब्दार्थः
सः that, सूतः charioteer, खरस्य Khara’s, आज्ञया by the order, महाबाहुः mightyarmed, एकः alone, रामः Rama, धनुः bow, चुन्वन् selecting, स्थितः stood, तुरगान् horses, समचोदयत् drove.
आङ्ग्लानुवादः
Commanded by Khara, the charioteer also urged the horses towards the
mightyarmed Rama standing alone and wielding the bow.
श्लोकः
मूलम्
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः।
नर्दमाना महानादं सचिवाः पर्यवारयन्॥3.25.4॥
शब्दार्थः
निष्पतितम् fell upon, तम् him, दृष्ट्वा seeing, सचिवाः ministers, ते they, सर्वे all, रजनीचराः demons, महानादम् very loud sound, नर्दमानाः while roaring, पर्यवारयन् surrounded.
आङ्ग्लानुवादः
Seeing Khara attacking (Rama) all the demon ministers surrounded him roaring.
श्लोकः
मूलम्
स तेषां यातुधानानां मध्ये रथगतः खरः।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥3.25.5॥
शब्दार्थः
तेषां यातुधानाम् of the demons, मध्ये in the midst, रथगतः seated on a chariot, खरः Khara, ताराणाम् of stars, मध्ये in the middle, उदितः risen, लोहिताङ्गः the planet Mars, इव like, बभूव looked.
आङ्ग्लानुवादः
Seated on a chariot in the midst of the demons, Khara looked like the rising Mars in the middle of the stars.
श्लोकः
मूलम्
ततश्शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः॥3.25.6॥
शब्दार्थः
ततः then, खरः Khara, समरे in war, शरसहस्रेण with a thousand arrows, अप्रतिमौजसम् of immeasureable prowess, रामम् to Rama, अर्दयित्वा striking, महानादम् a loud voice, ननाद made.
आङ्ग्लानुवादः
Khara struck Rama of immeasurable prowess with a thousand arrows and roared loudly.
श्लोकः
मूलम्
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः।
रामं नानाविधैः शस्स्रैरभ्यवर्षन्त दुर्जयम्॥3.25.7॥
शब्दार्थः
ततः thereafter, सर्वे all, क्रुद्धाः angry, निशाचराः demons, भीमधन्वानम् wielder of the fierce bow, दुर्जयम् invincible, तं रामम् to that Rama, नानाविधैः with many kinds of, शस्स्रैः weapons, अभ्यवर्षन्त rained.
आङ्ग्लानुवादः
Thereafter all the infuriated demons showered on invincible Rama, wielder of a fierce bow, many kinds of weapons.
श्लोकः
मूलम्
मुद्गरैः पट्टसैश्शूलैः प्रासैः खङ्गै परश्वथैः।
राक्षसास्समरे रामं निजघ्नू रोषतत्पराः॥3.25.8॥
शब्दार्थः
राक्षसाः demons, रोषतत्पराः overtaken by anger, मुद्गरैः with hammers, पट्टसैः with spears, शूलैः with spikes, प्रासैः with barbed missiles, खङ्गैः with swords, परश्वधः battleaxes, समरे in war, रामम् to Rama, निजघ्नुः continously hurled.
आङ्ग्लानुवादः
Overtaken by anger, the demons continuously hurled at Rama hammers, spears, spikes, barbed missiles, swords and battleaxes.
श्लोकः
मूलम्
ते वलाहसङ्काशा महानादा महौजसः।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च॥3.25.9॥
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः।
शब्दार्थः
वलाहकसङ्काशाः resembling clouds, महानादाः with huge uproar, महौजसः very powerful, ते demons, रथैः on chariots, वाजिभिरेव च on horses and, पर्वतकूटाभैः looking like tops of mountains, गजैः by elephants, युद्धे in war, जिघांसवः eager to kill, रामम् to Rama, अभ्यधावन्त ran towards.
आङ्ग्लानुवादः
Very powerful demons like huge clouds roared, eager to kill Rama in war. They ran forward on chariots, horses and tall elephants, looking like mountain tops.
श्लोकः
मूलम्
ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः॥3.25.10॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा वलाहकाः।
शब्दार्थः
ते they, रक्षसाम् of demons, गणाः battalions, रामे on Rama, वर्षमाणाः raining, वलाहकाः clouds, धाराभिः by downpour, शैलेन्द्रमिव like moutains, शरवर्षाणि rain of arrows, व्यसृजन् sent forth.
आङ्ग्लानुवादः
The battalions of demons sent down streams of arrows on Rama just like clouds downpour on mountains.
श्लोकः
मूलम्
स तैः परिवृतो घोरैः राघवो रक्षसां गणैः॥3.25.11॥
तिथिष्वि महादेवो वृत परिषदाङ्गणै
शब्दार्थः
सः that, राघवः Rama, घोरैः terrible, रक्षसां गणैः by hordes of demons, परिवृतः surrounded, महादेवः Lord Siva, वृतः surrounded, परिषदाङ्गणैः with hosts of retinues, तिथिष्वि at dusk.
आङ्ग्लानुवादः
Surrounded by the terrible demons Rama appeared like Lord Siva at dusk with hosts of his retinues arounds.
श्लोकः
मूलम्
तानि मुक्तानि शस्त्राणि यातुधानैस्सराघवः।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः॥3.25.12॥
शब्दार्थः
सः that, राघवः Rama, यातुधानैः by the demons, मुक्तानि released, तानि those, शस्त्राणि weapons, सागरः sea, नद्योघानिव like the flow of rivers, विशिखैः with arrows, प्रतिजग्राह resisted.
आङ्ग्लानुवादः
Rama resisted the weapons released by the demons like the sea, the inflow of river waters.
श्लोकः
मूलम्
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे।
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः॥3.25.13॥
शब्दार्थः
घोरैः by the dreadful, प्रहरणै by weapons, तैः by those, भिन्नगात्रः his limbs being hit, सः रामः that Rama, प्रदीपैः by the glowing, बहुभिः by many, वज्रैः by thunderbolts, महाचल इव like the great mountain, न विव्यथे was not hurt.
आङ्ग्लानुवादः
Rama remained unhurt like a great mountain struck by many glowing thunderbolts. He felt no pain even though his limbs were hit by the dreadful weapons.
श्लोकः
मूलम्
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः।
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः॥3.25.14॥
शब्दार्थः
विद्धः wounded, सर्वगात्रेषु all over the body, क्षतजादिग्धः bleeding through the wounds, राघवः Rama, सः रामः that Rama, सन्ध्याभ्रैः by evening clouds, आवृतः surrounded, दिवाकरः इव like the Sun, बभूव became (appeared).
आङ्ग्लानुवादः
Wounded all over the body, bleeding through the wounds caused by weapons, Rama looked like the evening Sun covered with clouds.
श्लोकः
मूलम्
विषेदुर्देवगन्धर्वास्सिद्धाश्च परमर्षयः।
एकं सहस्रैर्भहुभिस्तदा दृष्ट्वा समावृतम्॥3.25.15॥
शब्दार्थः
तदा then, बहुभिः by many, सहस्रैः by thousands, समावृतम् surrounded by, एकम् single, दृष्ट्वा seeing, देवगन्धर्वाः gods and gandharvas, सिद्धाश्च siddhas, परमर्षयः great sages, विषेदुः became sad.
आङ्ग्लानुवादः
Seeing Rama left alone surrounded by many thousands of demons, the gods, ghandarvas and siddhas became very sad.
श्लोकः
मूलम्
ततो रामस्सुसङ्कृद्धो मण्डलीकृतकार्मुकः।
ससर्ज विशिखान्बाणाञ्छतशोऽथ सहस्रश॥3.25.16॥
शब्दार्थः
ततः thereafter, रामः Rama, सुसङ्कृद्धः mighty angry, मण्डलीकृतकार्मुकः bending the bow,
शतशः in hundreds, अथ and, सहस्रशः thousands, विशिखान् unfeathered ones, बाणान् arrows, ससर्ज released.
आङ्ग्लानुवादः
Thereafter Rama, mighty angry, bent his bow and released hundreds and thousands of unfeathered arrows.
श्लोकः
मूलम्
दुरावारान्दुर्विषहान्कालदण्डोपमान् रणे।
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्॥3.25.17॥
शब्दार्थः
रामः Rama, रणे in war, दुरावारान् those difficult to stop, दुर्विषहान् unbearable ones, कालदण्डोपमान् those looking like Yama’s staff, अजिह्मगान् going straight without missing the goal, कङ्कपत्रान् arrows furnished with herons’ feathers, लीलया very easily, मुमोच discharged.
आङ्ग्लानुवादः
As if sporting, Rama discharged the arrows attached with herons’ feathers. The arrows were inescapable, unbearable like that of Yama’s staff, that went straight without missing the target.
श्लोकः
मूलम्
ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया।
अददू रक्षसां प्राणान्पाशाः कालकृता इव॥3.25.18॥
शब्दार्थः
रामेण by Rama, लीलया sportively, शत्रुसैन्येषु at the army of the enemy, मुक्ताः released, ते शराः those arrows, कालकृताः made by the god of death, पाशाः nooses, इव like, रक्षसाम् of the demons, प्राणान् life, आददुः pulled out.
आङ्ग्लानुवादः
The arrows like the noose of the god of death released by Rama on the enemy army easily destroyed the lives of the demons.
श्लोकः
मूलम्
भित्त्वा राक्षसदेहां स्तांस्ते शरा रुधिराप्लुताः।
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः॥3.25.19॥
शब्दार्थः
ते शराः those arrows, तान् those, राक्षसदेहान् bodies of the demons, भित्त्वा after piercing,
रुधिराप्लुताः drenched in blood, अन्तरिक्षगताः gone high up into the sky, दीप्ताग्निसमतेजसः glowing red like burning fire, रेजुः sparkled.
आङ्ग्लानुवादः
Rama’s arrows pierced the bodies of the demons and drenched in blood, they, looking like burning fire, shone in the sky.
श्लोकः
मूलम्
असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात्।
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः॥3.25.20॥
शब्दार्थः
रामस्य Rama’s, चापमण्डलात् from the bow bent into a circle, अतीव highly, उग्राः fierce, रक्षःप्राणापहारिणः which can take the lives of demons, असङ्ख्येयाः countless ones, सायकाः arrows, विनिष्पेतुः thrown out destroying.
आङ्ग्लानुवादः
From Rama’s bow bent into a cirle, countless fierce arrows able to take the lives of demons were released.
श्लोकः
मूलम्
तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च।
बाहून्सहस्ताभरणानूरून्करिकरोपमान्॥3.25.21॥
चिच्छेद रामस्समरे शतशोऽथ सहस्रशः।
शब्दार्थः
रामः Rama, समरे in war, तैः by them (arrows), शतशः in hundreds, अथ and, सहस्रशः in thousands, धनूंषि bows, ध्वजाग्राणि tops of flags, वर्माणि च and armour, शिरांसि च and heads, सहस्ताभरणान् along with armlets, बाहून् shoulders, करिकरोपमान् like elephants’ trunks, ऊरून् thighs, चिच्छेद cut.
आङ्ग्लानुवादः
In war Rama cut asunder the bows, flag tops, armour and heads of demons, their shoulders and thighs that were like the trunks of elephants, in their hundreds and thousands.
श्लोकः
मूलम्
हयान्काञ्चनसन्नाहान्रथयुक्तान्ससारथीन्॥3.25.22॥
गजांश्च सगजारोहान्सहयान्सादिनस्तथा।
पदातीन्समरे हत्वा ह्यनयद्यमसादनम्॥3.25.23॥
शब्दार्थः
काञ्चनसन्नाहान् golden ornaments, रथयुक्तान् yoked to the chariots, ससारथीन् along with charioteers, हयान् horses, सगजारोहान् with elephant riders, गजांश्च and elephants, तथा likewise, सहयान् along with horses, सादिनः horse riders, पदातीन् infantry, समरे in war, हत्वा killed, यमसादनम् to the abode of lord of death, अनयत् sent.
आङ्ग्लानुवादः
He killed horses with golden armours yoked to the chariots along with charioteers, elephants along with riders, the cavalry along with their horses and infantry and sent them all to the abode of death.
श्लोकः
मूलम्
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः॥3.25.24॥
शब्दार्थः
ततः then, नालीकनाराचैः with iron arrows, तीक्ष्णाग्रैः with sharp tops, विकर्णिभिः by shafts called vikarni, भिद्यमानाः torn into parts, निशाचराः demons, भीमम् terrible, आर्तस्वरम् pitiable cries, चक्रुः made.
आङ्ग्लानुवादः
The bodies of the demons torn into pieces by the very sharp iron arrows and by the arrows called vikarni, they cried and shouted aloud in pitiable voices.
श्लोकः
मूलम्
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना॥3.25.25॥
शब्दार्थः
रामेण by Rama, मर्मभेदिभिः by those piercing into vital parts, निशितैः by sharp ones, बाणैः by arrows, अर्दितम् tormented, तत् सैन्यम् that army, शुष्कम् dried up, वनम् forest, अग्निना इव as if by fire, सुखम् relief न लेभे did not have.
आङ्ग्लानुवादः
Just like the dried up forest burnt by the fire, the army was totally destroyed by Rama’s arrows that pierced into the vital parts of the soldiers.
श्लोकः
मूलम्
केचिद्भीमबलाश्शूराश्शूलान्खङ्गान्परश्वधान्।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान्॥3.25.26॥
शब्दार्थः
भीमबलाः men of fierce strength, केचित् a few, शूराः warriors, रामस्य Rama’s, अभिमुखम् going towards, गत्वा went, परमायुधान् very powerful weapons, शूलान् spikes, खङ्गान् swords, परश्वधान् axes, चिक्षिपुः threw.
आङ्ग्लानुवादः
A few warriors of fierce strength approached Rama and hurled at him very powerful weapons, spears, swords and axes.
श्लोकः
मूलम्
तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥3.25.27॥
शब्दार्थः
महाबाहुः strongarmed, राघवः Rama, समरे in war, बाणैः with arrows, तेषाम् their, शस्त्राणि weapons, आवार्य attacked, प्राणान् life, जहार took, शिरोधरान् heads, चिच्छेद cut off.
आङ्ग्लानुवादः
Strongarmed Rama attacked them with his arrows and cut off their heads and took their lives.
श्लोकः
मूलम्
ते छिन्नशिरसः पेतुश्चिन्नवर्मशरासनाः।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा॥3.25.28॥
शब्दार्थः
ते they, छिन्नशिरसः broken heads, छिन्नवर्मशरासनाः broken armour and bows, सुपर्णवातविक्षिप्ताः broken tree tops fallen down by the wind of eagle’s wing (blow of the the great eagle Garuda), पादपाः trees, यथा just as, जगत्याम् on the land, पेतुः fell.
आङ्ग्लानुवादः
The heads, armour and bows fell down broken on the ground like trees in the wind gererated by Garuda’s wings.
श्लोकः
मूलम्
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः।
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः॥3.25.29॥
शब्दार्थः
तत्र there, अवशिष्टाः remaining ones, ये those, निशाचराः demons, शरार्दिताः hit by arrows, विषण्णाश्च desperate, खरमेव to Khara only, शरणार्थम् for refuge, अभ्यधावन्त ran towards.
आङ्ग्लानुवादः
The rest of the demons hit by the arrows ran desperate towards Khara for refuge.
श्लोकः
मूलम्
तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः॥3.25.30॥
शब्दार्थः
दूषणः Dusana, तान् स them, सर्वान् all, समाश्वास्य pacifying, पुनः again, आदाय bringing them together, क्रुद्धः wrathful, अन्तकः yama, रुद्रमिव like Rudra, काकुत्स्थं on Rama, अभ्यधावत ran towards.
आङ्ग्लानुवादः
Pacifying them all, Dusana regathered them again and ran towards Rama like an angry Yama rushing towards Rudra.
श्लोकः
मूलम्
निवृत्तास्तु पुनस्सर्वे दूषणाश्रयनिर्भयाः।
राममेवाभ्यधावन्त सालतालशिलायुधाः॥3.25.31॥
शब्दार्थः
सर्वे all, दूषणाश्रयनिर्भयाः were free from fear due to Dusana’s protection, पुनः again, निवृत्ताः returned, सालतालशिलायुधाः carrying sal, palm and stones as weapons, राममेव to Rama, अभ्यधावन्त advanced towards.
आङ्ग्लानुवादः
Under Dusana’s protection, all of them felt relieved from fear and, carrying sal and palm trees and stones as weapons, advanced towards Rama again.
श्लोकः
मूलम्
शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः।
सृजन्तश्शरवर्षाणि शस्त्रवर्षाणि संयुगे॥3.25.32॥
द्रुमवर्षाणि मुञ्चन्तश्शिलावर्षाणि राक्षसाः॥
शब्दार्थः
शूलमुद्गरहस्ताश्च spears and hammers in their hands, चापहस्ताः bows in hands, महाबलाः extremely strong, राक्षसाः demons, संयुगे in war, शरवर्षाणि rain of arrows, शस्त्रवर्षाणि rain of
weapons, सृजन्तः poured, द्रुमवर्षाणि rain of trees, शिलावर्षाणि rain of stones, मुञ्चन्तः continuously released.
आङ्ग्लानुवादः
Holding spears, hammers and bows in their hands, the mighty demons rained on Rama weapons like arrows, trees and stones.
श्लोकः
मूलम्
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्।
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम्॥3.25.33॥
शब्दार्थः
पुनः again, रामस्य Rama’s, तेषां रक्षसां च of those demons, तुमुलम् fierce, अद्भुतम् wonderful, रोमहर्षणम् horripilating, महाघोरम् very dreadful, तत् युद्धम् that war, बभूव became.
आङ्ग्लानुवादः
The thrilling, fierce, horrifying and horripilating battle again ensued betwen Rama and the demons.
श्लोकः
मूलम्
ते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः॥3.25.34॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः।
राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः॥3.25.35॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्।
संयोजयत गान्धर्वं राक्षसेषु महाबलः॥3.25.36॥
शब्दार्थः
ते they, अतिक्रुद्धाः mighty angry, पुनः again, राघवम् at Rama, समन्तात् from all directions, अभ्ययुः advanced towards, महाबलः mighty, सः he, उद्यतप्रासैः by raised missiles, शरवर्षिभिः raining arrows, तैः by them, सर्वाः all, दिशः quarters, प्रदिशश्च also intermediate directions, समावृताः were covered, दृष्ट्वा seeing, भैरवम् frightening, नादम् sound, कृत्वा produced, राक्षसेषु at the demons, परमभास्वरम् very dazzling, गान्धर्वम् belonging to gandharva, अस्त्रम् weapon, संयोजयत aimed at.
आङ्ग्लानुवादः
As the infuriated demons again hurtled towards Rama, filling the quarters and the intermediate directions and raining missiles, Rama aimed at them dazzling gandharvastras, producing a frightening warcry.
श्लोकः
मूलम्
ततश्शरसहस्राणि निर्ययुश्चापमण्डलात्।
सर्वा दश दिशो बाणैरावार्यन्त समागतैः॥3.25.37॥
शब्दार्थः
ततः then, चापमण्डलात् from the the bow bent round, शरसहस्राणि thousands of arrows, निर्ययुः let out, समागतैः by approaching, बाणैः by arrows, सर्वाः all, दश ten, दिशः quarters, अवार्यन्त were filled.
आङ्ग्लानुवादः
Rama then let out from his bow, stretched round, thousands of arrows that covered all the ten quarters.
श्लोकः
मूलम्
नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान्।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥3.25.38॥
शब्दार्थः
शरार्दिताः hurt by the arrows, ते राक्षसाः the demons, घोरान् terrible, शरान् arrows, आददानम् taking out, न पश्यन्ति could not see, शिलीमुखान् arrows, मुञ्चन्तम् sending forth, न not, विकर्षमाणम् shooting arrow.
आङ्ग्लानुवादः
The demons, though wounded, could not see whereform the terrible arrows came. They only saw Rama shooting the arrows.
श्लोकः
मूलम्
शरान्धकारमाकाशमावृणोत्सदिवाकरम्।
बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान्॥3.25.39॥
शब्दार्थः
शरान्धकारम् darkness created by the arrows, सदिवाकरम् along with the Sun, आकाशम् sky, आवृणोत् covered, रामः Rama, तान् those, शरान् arrows, प्रवमन्निव as if vomitting, अवस्थितः stationed, भभूव appeared.
आङ्ग्लानुवादः
Through the darkness created by the arrows that covered the sky and the Sun, Rama looked as though he was vomitting them.
श्लोकः
मूलम्
युगपत्पतमानैश्च युगपच्च हतैर्भृशम्।
युगपत्पतितैश्चैव विकीर्णा वसुधा भवत्॥3.25.40॥
शब्दार्थः
वसुधा earth, युगपत् simultaneously, पतमानैश्च fallen down, हतैश्च by those slain, पतितैश्चैव by those who fell on the ground, भृशम् exceedingly, विकीर्णा scattered all over, अभवत् appeared.
आङ्ग्लानुवादः
It seemed as if it all happened at the same time, the entire earth filling with demons seriously injured, slain and fallen down on the ground.
श्लोकः
मूलम्
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः॥3.25.41॥
शब्दार्थः
ते राक्षसाः they, demons, निहताः killed, तत्र तत्र all over there, सहस्रशः in their thousands, पतिताः fallen, क्षीणाः thinned down, छिन्नाः cut into pieces, भिन्नाः those broken pieces, विदारिताः those pierced, दृश्यन्ते स्म were found.
आङ्ग्लानुवादः
There were bodies of demons pierced and torn, thinned and fallen down, destroyed, broken and cut into pieces scattered in their thousands.
श्लोकः
मूलम्
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैविभूषणैः॥3.25.42॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः।
चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि॥3.25.43॥
रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टिसैः।
खङ्गै खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः॥3.25.44॥
चूर्णिताभिश्शिलाभिश्च शरैश्चित्रैरनेकशः।
विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयङ्करा॥3.25.45॥
शब्दार्थः
समरे in war, सोष्णीषैः with headgears, उत्तमाङ्गैश्च heads (best part of body), तथा like that, साङ्गदैः armlets, बाहुभिः with shoulders, छिन्नैः cut to pieces, ऊरुभिः with thighs, जानुभिः with knees, नानारूपैर्विभूषणैः with different kinds of arms, अनेकशः in many ways, हयैश्च with horses, द्विपमुख्यैश्च with best of elephants, भिन्नैः by those broken, रथैः with chariots, चामरैः by fans made of yaktail, व्यजनैः by fans, छत्रैः by umbrellas, नानाविधैः of several kinds, ध्वजैः by flags, रामस्य Rama’s, बाणाभिहतैः destroyed by arrows, विचित्रैः by different kinds, शूलपट्टिशैः by spears, खण्डीकृतैः by the broken ones, खङ्गैः with swords, प्रासैः by darts, विकीर्णैः by the scattered, परश्वधैः by battleaxes, चूर्णिताभिः by those crushed into small pieces, शिलाभिश्च stones, अनेकशः many, विच्छिन्नैः broken, शरैः arrows, विकीर्णा scattered, भूमिः on the ground, भयंकरा frightening, अभूत् to see.
आङ्ग्लानुवादः
Slain thus by Rama’s arrows, the ground was littered with (bodies of) demons with limbs dismembered, headdresses and shoulders cut off, arms, thighs and knees decked with various ornaments amputated, chariots, horses, best of elephants, fans made of the tail of chamari deer (used as an insignia of royalty), umbrellas, several flags, and weapons like spears, swords, darts, battleaxes and stones crushed into pieces and arrows splintered and scattered all over. The ground looked frightening.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चविंशस्सर्गः॥
Thus ends the twentyfifth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.