Rama sees signs of war – asks Sita and Lakshmana to stay in the cave and proceeds to meet Khara.
श्लोकः
मूलम्
आश्रमं प्रति याते तु खरे खरपराक्रमे।
तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह॥3.24.1॥
शब्दार्थः
खरपराक्रमे endowed with malicious might, खरे when Khara, आश्रमं प्रति towards the hermitage, याते marched, रामः Rama, भ्रात्रा सह with his brother, औत्पातिकान् phenomena boding calamity, तानेव ददर्श ह he also saw.
आङ्ग्लानुवादः
When Khara endowed with malicious might was marching towards the hermitage, Rama and his brother saw the same omens of impending calamity the demon had seen.
श्लोकः
मूलम्
तानुत्पातान्महोघोरानुत्थितान्रोमहर्षणान्।
प्रजानामहितान्दृष्ट्वा रामो लक्ष्मणमब्रवीत्॥3.24.2॥
शब्दार्थः
महाघोरान् most dreadful, रोमहर्षणान horripilation, प्रजानाम् to people, अहितान् harmful, तान् those, उत्पातान् calamitous, दृष्ट्वा seeing, रामः Rama, लक्ष्मणम् Lakshmana, अब्रवीत् said.
आङ्ग्लानुवादः
When Rama saw the most dreadful, horripilating phenomena foreboding calamity, he said to Lakshmanaः
श्लोकः
मूलम्
इमान्पश्य महाबाहो सर्वभूतापहारिणः।
समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्॥3.24.3॥
शब्दार्थः
महाबाहो longarmed, सर्वभूतापहारिणः alldestructive, सर्वराक्षसान् all demons, संहर्तुम् to kill, समुत्थितान् present, इमान् these, महोत्पातान् great calamitous events, पश्य see.
आङ्ग्लानुवादः
O longarmed Lakshmana see these calamitous phenomena that forebode mass destruction of men and demons.
श्लोकः
मूलम्
अमी रुधिरधारास्तु विसृजन्तः खरस्वनाः।
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥3.24.4॥
शब्दार्थः
रुधिरधाराः flow of blood, विसृजन्तः showering, खरस्वनाः harsh sounds, परुषाः rough, गर्दभारुणाः brownishred like the colour of donkeys, अमी these, मेघाः clouds, व्योम्नि in the sky, विवर्तन्ते are moving about.
आङ्ग्लानुवादः
These rumbling clouds, brownishred like the colour of a donkey, are moving about in the sky showering streams of blood.
श्लोकः
मूलम्
सधूमाश्च शरास्सर्वे मम युद्धाभिनन्दिनः।
रुक्मपृष्ठानि चापानि विचेष्टन्ते च लक्ष्मण॥3.24.5॥
शब्दार्थः
युद्धाभिनन्दिनः welcome me to war, सर्वे all, मम शराः my arrows, सधूमाश्च smoking, लक्ष्मण Lakshmana, रुक्मपृष्ठानि coated with gold, चापानि च and bows, विचेष्टन्ते are trying.
आङ्ग्लानुवादः
O Lakshmana all my arrows are smoking and this goldplated bow welcomes me to war.
श्लोकः
मूलम्
यादृशा इह कूजन्ति पक्षिणः वनचारिणः।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च॥3.24.6॥
शब्दार्थः
इह here, वनचारिणः moving in the forest, पक्षिणः birds, यादृशाः in such way, कूजन्ति screeching, नः for us, अग्रतः in future, भयम् fear, प्राप्तम् is foreseen, जीवितस्य of life, संशयः च also doubtful.
आङ्ग्लानुवादः
The way the forestbirds are screeching makes me foresee danger and makes survival doubtful.
श्लोकः
मूलम्
सम्प्रहारस्तु सुमहान्भविष्यति न संशयः।
अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः॥3.24.7॥
सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम्।
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते॥3.24.8॥
शब्दार्थः
सुमहान् very great, सम्प्रहारस्तु destruction of life, भविष्यति will take place, संशयः doubt, न no, शूर O brave one, मुहुः मुहुः again and again, स्फुरमाणः shivering, अयम् this, मे बाहुः my (right) shoulder, सन्निकर्षे in near future, नः our, जयम् success, शत्रोः enemy’s, पराजयम् defeat, आख्याति indicating, तव your, वक्त्रम् face, सप्रभं च is bright, प्रसन्नं च cheerful too, लक्ष्यते हि appears indeed.
आङ्ग्लानुवादः
A mass destruction of life is going to take place. There is no doubt about it. O brave Lakshmana my right shoulder trembles again and again, indicating the defeat of the enemy. Your beaming visage presages victory.
श्लोकः
मूलम्
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण।
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः॥3.24.9॥
शब्दार्थः
लक्ष्मण Lakshmana, युद्धार्थम् for war, उद्यतानाम् of those making effort, येषाम् of those, वदनम् face, निष्प्रभम् pale, भवति becomes, तेषाम् their, आयुः life, परिक्षयः shortened, भवति become.
आङ्ग्लानुवादः
O Lakshmana, while preparing for war, those whose faces look pale are, for sure, going to die.
श्लोकः
मूलम्
रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः॥3.24.10॥
शब्दार्थः
नर्दताम् of the roaring ones, रक्षसाम् of the demons, क्रूरकर्मभिः doing cruel deeds, राक्षसैः by the demons, आहतानाम् of the beaten (drums), भेरीणां च of kettle drums, घोरः dreadful, महाध्वनिः very loud sound, श्रूयते च is heard.
आङ्ग्लानुवादः
A dreadful roar of demons and the loud sound of wardrums beaten by the wicked demons are heard.
श्लोकः
मूलम्
अनागतविधानं तु कर्तव्यं शुभमिच्छता।
आपदं शङ्कमानेन पुरुषेण विपश्चिता॥3.24.11॥
शब्दार्थः
आपदम् danger, शङ्कमानेन by a person apprehending, शुभम् good, इच्छता by one desirous of, विपश्चिता by a learned one, पुरुषेण by a man, अनागतविधानम् defence before the onset of danger, कर्तव्यं हि should be planned.
आङ्ग्लानुवादः
A wise man who apprehends danger or one who desires his own good should plan his defence even before the onset of danger.
श्लोकः
मूलम्
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।
गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम्॥3.24.12॥
शब्दार्थः
तस्मात् therefore, वैदेहीम् to Sita, गृहीत्वा taking, शरपाणिः with arrows in hand, धनुर्धरः wielding bow, शैलस्य mountains, दुर्गाम् inaccessible, पादपसङ्कुलाम् crowded with trees, गुहाम् cave, आश्रय take shelter.
आङ्ग्लानुवादः
Therefore, take shelter along with Sita in the inaccessible mountain cave, overgrown with trees, ready with your bow and arrows.
श्लोकः
मूलम्
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया।
शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्॥3.24.13॥
शब्दार्थः
इदं वाक्यम् these words, त्वया you, प्रतिकूलितुम् to oppose, न इच्छामि I do not desire, वत्स dear one, मम पादाभ्याम् my word of honour on my feet, शापितः असि you are bound, गम्यताम् go, चिरम् मा without delay.
आङ्ग्लानुवादः
O dear, I do not like you to oppose this word of honour. You must touch my feet and
go without delay.
श्लोकः
मूलम्
त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः।
स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान्॥3.24.14॥
शब्दार्थः
त्वम् you, शूरश्च valiant too, बलवान् strong man, एतान् these demons, हन्याः हि you can kill them, तु सर्वानेव all of them, निशाचरान् demons, स्वयम् myself, हन्तुम् to kill, इच्छामि wish.
आङ्ग्लानुवादः
You are valiant and strong. There is no doubt that you can kill all these demons. But I desire to kill them.
श्लोकः
मूलम्
एवमुक्तस्तु रामेण लक्ष्मणस्सह सीताया।
शरानादाय चापं च गुहां दुर्गां समाश्रयत्॥3.24.15॥
शब्दार्थः
रामेण by Rama, एवम् in that way, उक्तः was bid, लक्ष्मणः Lakshmana, शरान् arrows, चापं च bow too, आदाय taking, सीतया सह with Sita, दुर्गाम् inaccessible, गुहाम् cave, समाश्रयत् took shelter.
आङ्ग्लानुवादः
Thus ordered by Rama, Lakshmana took the arrows and the bow and accompanied by Sita took shelter in the inaccessible cave.
श्लोकः
मूलम्
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥3.24.16॥
शब्दार्थः
तस्मिन् when he, लक्ष्मणे Lakshmana, सीतया सह with Sita, गुहाम् into the cave, प्रविष्टे entered, रामः Rama, हन्त oh, निर्युक्तम् work is accomplished, इति this, उक्त्वा having spoken, कवचम् shield, आविशत् put on.
आङ्ग्लानुवादः
With Lakshmana and Sita inside the cave, Rama heaved his shield, saying, Oh the work is accomplished.
श्लोकः
मूलम्
स तेनाग्नि निकाशेन कवचेन विभूषितः।
बभूव राम स्तिमिरे विधूमोऽग्निरिवोत्थितः॥3.24.17॥
शब्दार्थः
अग्निनिकाशेन blazing like fire, तेन by that, कवचेन by the shield, विभूषितः welldecorated, सः रामः that Rama, तिमिरे in darkness, उत्थितः arising, विधूमः smokeless, अग्निरिव like fire, बभूव looked.
आङ्ग्लानुवादः
Adorned with the shield, Rama shone like smokeless fire rising in darkness.
श्लोकः
मूलम्
स चापमुद्यम्य महच्छरानादाय वीर्यवान्।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः॥3.24.18॥
शब्दार्थः
वीर्यवान् valiant, सः he, महत् huge, चापम् bow, उद्यम्य lifting, ज्यास्वनैः by the twangs of the bowstring, दिशः all directions, पूरयन् filling, तत्र there, अवस्थितः बभूव stayed.
आङ्ग्लानुवादः
Valiant Rama lifted the huge bow and arrows and stood there, filling the directions with the twangs of his bow.
श्लोकः
मूलम्
ततो देवास्सगन्धर्वास्सिद्धाश्च सह चारणैः।
समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः॥3.24.19॥
शब्दार्थः
ततः thereafter, सगन्धर्वाः along with the celestial muscians, देवाः gods, महात्मनः great souls, सिद्धाश्च siddhas, चारणैः with bards, सह along with, युद्धदर्शनकाङ्क्षिणः desiring to see the war, समेयुः assembled.
आङ्ग्लानुवादः
Then the gods along with gandharvas, siddhas, and celestial bards assembled there, wishing to witness the war.
श्लोकः
मूलम्
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः।
समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः॥3.24.20॥
शब्दार्थः
महात्मानः highsouled, ऋषयश्च ascetics, लोके in the world, ब्रह्मर्षिसत्तमाः brahmarsis, पुण्यकर्मणः pious, समेत्य assembling, अन्योन्यम् to one another, सहिताः collectively, ऊचुः said.
आङ्ग्लानुवादः
Great ascetics of the world, distinguished brahmarsis, accomplishers of pious deeds assembled and said to one anotherः
श्लोकः
मूलम्
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥3.24.21॥
चक्रहस्तो यथा युद्धे सर्वानसुर पुङ्गवान्।
शब्दार्थः
गोब्राह्मणेभ्यः to cows and brahmins, लोकानां of all the world, (सर्वशः by all means), स्वस्ति auspicious, अस्तु let it be, (ऊचुः spoke), चक्रहस्तः Visnu, युद्धे in war, सर्वान् all, असुरपङ्गवान् powerful demons, यथा likewise, राघवः Rama, सङ्ख्ये पौलस्त्यान् all members of the Paulastya race in the battle, रजनीचरान् nightrangers (demons), जयताम् let him win.
आङ्ग्लानुवादः
‘Let there be wellbeing for the cows, brahmins, and all the worlds. Let Rama, the scion of the Raghu race, conquer the Paulastyas (demons) in war like lord Visnu, wielder of the disc, who defeated the most powerful demons’.
श्लोकः
मूलम्
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्॥3.24.22॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति॥3.24.23॥
शब्दार्थः
एवम् in that way, उक्त्वा having spoken, आलोक्य च and after looking at, परस्परम् to one another, पुनः again, प्रोचुः spoke, भीमकर्मणाम् of those of terrific deeds, रक्षसाम् of demons, चतुर्दश fourteen, सहस्राणि thousands, धर्मात्मा righteous self, रामश्च Rama, एकः all alone, युद्धम् war, कथम् how, भविष्यति will it be?
आङ्ग्लानुवादः
Thus looking at one another they discussed among themselves how there can be war between the righteous Rama fighting singlehanded on the one hand and the fourteen thousand demons, performers of terrific deeds, on the other.
श्लोकः
मूलम्
इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः।
जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः॥3.24.24॥
शब्दार्थः
राजर्षयः rajarsis, सगणाः along with their groups, सिद्धाः siddhas, द्विजर्षभाः great brahmins, विमानस्थाः on the celestial chariots, देवताश्च gods also, इति this way, जातकौकूहलाः with curiosity born, तस्थुः waited.
आङ्ग्लानुवादः
Rajarsis, siddhas, great brahmins with their clan and gods on the celestial chariots waited to see the war whetted with curiosity.
श्लोकः
मूलम्
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा॥3.24.25॥
शब्दार्थः
तदा then, सङ्ग्रामशिरसि on the war front, स्थितम् standing, तेजसा with heroic lustre, आविष्ठम् engrossed, रामम् Rama, दृष्ट्वा seeing, सर्वाणि all, भूतानि beings, भयात् out of fear, विव्यथिरे were alarmed.
आङ्ग्लानुवादः
Seeing Rama standing on the war front, engrossed and radiating heroic lustre, all beings were alarmed.
श्लोकः
मूलम्
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः।
बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः॥3.24.26॥
शब्दार्थः
अक्लिष्टकर्मणः of one who is unwearied in action, तस्य his, रामस्य Rama’s, अप्रतिमम् incomparable, रूपम् form, क्रुद्धस्य of an angry one, पिनाकिनः wielder of Pinaka, रुद्रस्य Rudra’s, रूपमिव like the form, बभूव appeared.
आङ्ग्लानुवादः
Rama, who is unwearied in action and who is of an incomparable (lovely) form, looked ferocious like the wielder of Pinaka (Lord Siva).
श्लोकः
मूलम्
ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्।
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत॥3.24.27॥
शब्दार्थः
ततः then, गम्भीरनिर्ह्रादम् deep sound, घोरवर्मायुधध्वजम् having dreadful shields, weapons and banners, यातुधानानाम् of the demons, अनीकम् army, समन्तात् on all sides, प्रत्यदृश्यत appeared before.
आङ्ग्लानुवादः
Then appeared on all sides the wellequipped army of demons raising deep sounds with dreadful shields, weapons and banners.
श्लोकः
मूलम्
सिंहनादं विसृजतामन्योन्यमभिगर्जताम्।
चापानि विस्फ़ारयतां जृम्भतामप्यभीक्ष्णशः॥3.24.28॥
विप्रघुष्टस्वनानां च दुन्धुभींश्चापि निघ्नताम्।
तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम्॥3.24.29॥
शब्दार्थः
सिंहनादम् roar of lion, विसृजताम् released, अन्योन्यम् at one another, अभिगर्जताम् shouting loudly, चापानि bows, विस्फ़ारयताम् stretching the bows, अभीक्ष्णशः constantly, जृम्भतामपि yawning, विप्रघुष्टस्वनानां च proclaiming loudly, दुन्धुभींश्च अपि even drums, निघ्नताम् beating, तेषाम् of them, सुतुमुलः tumultuous, शब्दः sound, तद्वनम् that forest, पूरयामास filled.
आङ्ग्लानुवादः
The forest was filled with tumultuous sounds of the warriors roaring like lions, shouting at one another, stretching the bowstrings constantly, yawning, proclaiming loudly and beating the drums.
श्लोकः
मूलम्
तेन शब्देन वित्रस्ताश्वापदा वनचारिणः।
दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन्॥3.24.30॥
शब्दार्थः
तेन शब्देन by that sound, वित्रस्ताः alarmed, वनचारिणः roaming the forest, श्वापदाः animals, यत्र whereever, निश्शब्दम् silence, दुद्रुवुः ran, पृष्ठतः at the back, न व्यलोकयन् did not look back.
आङ्ग्लानुवादः
The ferocious animals of the forest got frightened and ran away to silent spots without looking back.
श्लोकः
मूलम्
तत्त्वनीकं महाघोरं रामं समुपसर्पत।
धृतनानाप्रहरणं गम्भीरं सागरोपमम्॥3.24.31॥
शब्दार्थः
महाघोरम् extremely frightening, धृतनानाप्रहरणम् equipped with different kinds of missiles, गम्भीरम् deep, सागरोपमम् like the sea, तत् अनीकम् that army, रामम् to Rama, समुपसर्पत came near.
आङ्ग्लानुवादः
The fierce army, deep like the sea, equipped with various missiles approached Rama.
श्लोकः
मूलम्
रामोऽपि चारयंश्चक्षुस्सर्वतो रणपण्डितः।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्॥3.24.32॥
शब्दार्थः
रणपण्डितः wellversed in warfare, रामोऽपि even Rama, चक्षुः his eyes, सर्वतः on all sides, चारयन् while casting, युद्धाभिमुखम् facing war, उत्थितम् was standing, तत् that, खरसैन्यम् army of Khara, ददर्श he saw.
आङ्ग्लानुवादः
Rama, wellversed in warfare, cast his eyes on all sides to see the army of Khara that had come prepared for war.
श्लोकः
मूलम्
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्॥3.24.33॥
शब्दार्थः
भीमम् formidable, धनुः bow, वितत्य stretched, तूण्याः from the quiver, सायकान् arrows, उद्धृत्य took out, सर्व रक्षसाम् to all the demons, वधार्थम् to kill, तीव्रम् intense, क्रोधम् anger, आहारयत् gathered.
आङ्ग्लानुवादः
Rama stretched the formidable bow and lifted the arrows from his quiver to kill the demons and assumed intense anger.
श्लोकः
मूलम्
दुष्प्रेक्ष्यस्सोऽभवत्कृद्धो युगान्ताग्निरिव ज्वलन्।
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः॥3.24.34॥
शब्दार्थः
क्रुद्धः angry, सः Rama, ज्वलन् while burning, युगान्ताग्निरिव like fire rising at the end of the creation, दुष्प्रेक्ष्यः difficult even to look at अभवत् became, तेजसा glow, आविष्टम् filled with, तम् him, दृष्ट्वा after seeing, वनदेवताः sylvan deities, प्राद्रवन् ran away.
आङ्ग्लानुवादः
Rama stood burning in anger like the fire of the doom’s day. It was difficult even to look at him. Seeing him full of glow even the sylvan deities ran away.
श्लोकः
मूलम्
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा।
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥3.24.35॥
शब्दार्थः
तदा then, क्रुद्धस्य of an angry one, तस्य his, रूपम् face, दक्षस्य Daksha’s, क्रतुम् sacrifice, हन्तुम् to destroy, उद्यतस्य ready to, पिनाकिनः इव like that of Siva, ददृशे looked.
आङ्ग्लानुवादः
Rama in anger looked like Lord Siva ready to destroy the sacrifice of Daksha.
श्लोकः
मूलम्
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः॥3.24.36॥
शब्दार्थः
तेजसा with splendour, आविष्टम् occupied, सङ्ग्रामशिरसि at the head of the battle, स्थितम् stood, रामम् Rama, दृष्ट्वा seeing, सर्वाणि all, भूतानि beings, भयार्तानि frightened, प्रदुद्रुवुः ran away.
आङ्ग्लानुवादः
Seeing Rama flashing (in anger) and standing on the warfront all creatures ran away frightened.
श्लोकः
मूलम्
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृन्दम्॥3.24.37॥
शब्दार्थः
पिशिताशनानाम् of the demons, तत् that, सैन्यम् army, कार्मुकैः with bows, आभरणैः with armour, ध्वजैश्च with flags, अग्निसमानवर्णैः the colour of fire, तैः by them, वर्मभिः by armours, सूर्योदये at Sunrise, नीलम् blue, अभ्रवृन्दमिव like a mass of cloud, बभूव looked.
आङ्ग्लानुवादः
The army of demons equipped with blazing armour, bows and banners appeared like a mass of blue clouds at Sunrise.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुर्विंशस्सर्गः॥
Thus ends the twentyfourth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.