Bharata’s journey with queens, ministers and all others.
श्लोकः
मूलम्
ततस् समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्।
प्रययौ भरतश्शीघ्रं रामदर्शनकाङ्क्षया॥2.83.1॥
शब्दार्थः
ततः then, भरतः Bharata, काल्यम् at dawn, समुत्थितः risen, स्यन्दनोत्तमम् best chariot, आस्थाय
having boarded, रामदर्शनकाङ्क्षया longing to see Rama, शीघ्रम् swiftly, प्रययौ set forth.
आङ्ग्लानुवादः
Getting up at dawn, Bharata boarded his excellent chariot and set forth swiftly, longing to see Rama.
श्लोकः
मूलम्
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः।
अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान्॥2.83.2॥
शब्दार्थः
सर्वे all, मन्त्रिपुरोधसः ministers and priests, हयैः horses, युक्तान् harnessed, सूर्यरथोपमान् resembling the chariot of the Sun, रथान् chariots, अधिरुह्य having mounted, तस्य his, अग्रतः in front of, प्रययुः went.
आङ्ग्लानुवादः
All the ministers and priests went ahead of Bharata mounting their chariots, harnessed with horses and resembling the chariot of the Sun god.
श्लोकः
मूलम्
नवनागसहस्राणि कल्पितानि यथाविधि।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्॥2.83.3॥
शब्दार्थः
यथाविधि as per tradition, कल्पितानि arranged, नवनागसहस्राणि nine thousand elephants, यान्तम् while going, इक्ष्वाकुकुलनन्दनम् the delight of the house of Ikshvakus, भरतम् Bharata, अन्वयुः followed.
आङ्ग्लानुवादः
As per tradition, nine thousand elephants were arranged to follow Bharata, delight of
the race of the Ikshvakus as he set out.
श्लोकः
मूलम्
षष्टी रथसहस्राणि धन्विनो विविधायुधाः।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥2.83.4॥
शब्दार्थः
षष्टिः sixty, रथसहस्राणि thousands of chariots, विविधायुधाः men with weapons of every kind, धन्विनः archers, यान्तम् while going, यशस्विनम् illustrious, राजपुत्रम् king’s son, भरतम् Bharata, अन्वयुः followed.
आङ्ग्लानुवादः
Sixty thousands chariots and many archers holding weapons of every kind followed the illustrious prince Bharata as he went.
श्लोकः
मूलम्
शतं सहस्राण्यश्वानां समारूढानि राघवम्।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम्॥2.83.5॥
शब्दार्थः
राघवम् born in the Raghu race (Bharata), सत्यसन्धम् adhering to truth, जितेन्द्रियम् one who conquered passions, यान्तम् while going, भरतम् Bharata, समारूढानि mounted by riders, अश्वानाम् of horses, शतम् hundred, सहस्राणि thousand, अन्वयुः followed.
आङ्ग्लानुवादः
One hundred thousand horses each mounted by a rider followed Bharata, one who had conquered his passion and adhered to truth.
श्लोकः
मूलम्
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी।
रामानयनसंहृष्टा ययुर्यानेन भास्वता॥2.83.6॥
शब्दार्थः
कैकेयी च Kaikeyi as well as, सुमित्रा च Sumitra also, यशस्विनी illustrious, कौसल्या च Kausalya also, रामानयनसंहृष्टाः delighted at the thought of bringing Rama back, भास्वता by a resplendent, यानेन by the chariot, ययुः went.
आङ्ग्लानुवादः
Kaikeyi, Sumitra as well as the illustrious Kausalya travelled by a resplendent chariot, delighted with the thought of bringing Rama back.
श्लोकः
मूलम्
प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम्।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥2.83.7॥
शब्दार्थः
आर्यसङ्घाताश्च venerable groups of people, हृष्टमानसाः delighted in their hearts, चित्राः various, तस्यैव Rama’s only, कथाः accomplishments, कुर्वाणाः doing, सलक्ष्मणम् with Lakshmana, रामम् Rama, द्रष्टुम् to see, प्रयाताः went forth.
आङ्ग्लानुवादः
Venerable people in groups, narrating various accomplishments of Rama and eager to see him with Lakshmana, proceeded in a delightful mood.
श्लोकः
मूलम्
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्।
कदा द्रक्ष्यामहे रामं जगत श्शोकनाशनम्॥2.83.8॥
शब्दार्थः
मेघश्यामम् darkblue like raincloud, महाबाहुम् the mightyarmed, स्थिरसत्त्वम् firm in strength, दृढव्रतम् steadfast in vows, जगतः of this world, शोकनाशनम् destroyer of sorrow, रामम् Rama, कदा when, द्रक्ष्यामहे shall see?
आङ्ग्लानुवादः
When shall we see that mightyarmed Rama of darkblue complexion like the raincloud, firm in strength and steadfast in vows and the destroyer of the sorrows of this world?
श्लोकः
मूलम्
दृष्ट एव हि न श्शोकमपनेष्यति राघवः।
तमस् सर्वस्य लोकस्य समुद्यन्निव भास्करः॥2.83.9॥
शब्दार्थः
समुद्यन् rising, भास्करः Sun, सर्वस्य of the entire, लोकस्य world’s, तमः इव like darkness, राघवः Rama, दृष्ट एव at his sight alone, नः our, शोकम् sorrow, अपनेष्यति will dispel.
आङ्ग्लानुवादः
At his sight alone our sorrows will be dispelled, the way the darkness of the entire world is dispelled by the rising Sun.
श्लोकः
मूलम्
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथा श्शुभाः।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः॥2.83.10॥
शब्दार्थः
ते they, नागरिकाः जनाः inhabitants of the city, इत्येवम् in this way, शुभाः delightful, कथाः achievements, कथयन्तः narrating, सम्प्रहृष्टाः joyfully, अन्योन्यम् mutually, परिष्वजानाश्च embracing also, ययुः proceeded.
आङ्ग्लानुवादः
The inhabitants of the town proceeded joyfully, narrating Rama’s delightful achievements on their way by embracing one another.
श्लोकः
मूलम्
ये च तत्रापरे सर्वे सम्मता ये च नैगमाः।
रामं प्रति ययुर्हृष्टास् सर्वाः प्रकृतयस्तथा॥2.83.11॥
शब्दार्थः
तत्र there, ये च अपरे all the others, सम्मताः respectable, ये च नैगमाः those merchants, तथा similarly, सर्वाः all, प्रकृतयः subjects, हृष्टाः delighted, रामम् प्रति to Rama, ययुः went along.
आङ्ग्लानुवादः
Respectable city folks, like traders and other subjects went along in great delight towards Rama.
श्लोकः
मूलम्
मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः।2.83.12॥
मयूरकाः क्राकचिका रोचका वेधकास्तथा।
दन्तकारास् सुधाकारा स्तथा गन्धोपजीविनः॥2.83.13॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः।
स्नापकोष्णोदका वैद्याधूपकाश्शौण्डिकास्तथा॥2.83.14॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा॥2.83.15॥
शब्दार्थः
ये those, केचित् some others, मणिकाराः gempolishers, शोभनाः richly decorated, कुम्भकाराश्च potters, ये शस्त्रोपजीविनः those who live on making weapons (weaponsmiths), सूत्रकर्मकृतश्चैव those who work with thread (weavers), मयूरकाः makers of adornments with peacock feathers, क्राकचिकाः those who work with saws (sawyers), रोचकाः makers of artificial ornaments, वेधकाः perforators (of shells and ornaments), तथा also, दन्तकाराः artists who work with ivory, सुधाकाराः those engaged in whitewashing, तथा also, गन्धोपजीविनः subsisting on selling fragrant essences (perfumers), प्रख्याताः renowned, सुवर्णकाराः goldsmiths, तथा also, कम्भलधावकाः blanketcleaners, स्नापकोष्णोदकाः hot bath attendants, वैद्याः physicians, शौण्डिकाः distillers and sellers of spiritual liquor (vintners), धूपकाः incense merchants, रजकाः washermen, तुन्नवायाश्च those who do sewing work
(tailors), ग्रामघोषमहत्तराः important people in villages and hamlets where cowherds reside, स्त्रीभिः सह along with women, शैलूषाः actors, तथा similarly, कैवर्तकाः fishermen, ययुः went.
आङ्ग्लानुवादः
Gempolishers, potters, weaponsmiths, weavers, makers of adornments with peacock feathers, sawyers, makers of artificial ornaments, perforators of shells and ornaments, ivoryworkers, whitewashers, purveyors of fragrant essences, renowned goldsmiths, blanketcleaners, hotbath attendants, physicians, vintners, incense merchants, washermen, tailors, headmen of villages and hamlets, actors along with their wives, fishermen – all followed Bharata.
श्लोकः
मूलम्
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः।
गोरथैर्भरतं यान्तमनुजग्मुस् सहस्रशः॥2.83.16॥
शब्दार्थः
समाहिताः with composed mind, वृत्तसम्मताः renowned for their virtuous conduct, वेदविदः learned in the Vedas, सहस्रशः in thousands, ब्राह्मणाः brahmins, यान्तम् departing, भरतम् Bharata, गोरथैः on bullock carts, अनुजग्मुः followed.
आङ्ग्लानुवादः
Brahmins learned in the Vedas and renowned for their virtuous conduct followed Bharta in their thousands on bullock carts with composed minds.
श्लोकः
मूलम्
सुवेषा श्शुद्धवसनास्ताम्रमृष्टानुलेपनाः।
सर्वे ते विविधैर्यानै श्शनैर्भरतमन्वयुः॥2.83.17॥
शब्दार्थः
सुवेषाः welldressed, शुद्धवसनाः in clean clothing, ताम्रमृष्टानुलेपनाः anointed with pure red
sandalpaste, ते सर्वे all those, विविधैः various, यानैः on vehicles, शनैः slowly, भरतम् Bharata, अन्वयुः followed.
आङ्ग्लानुवादः
Dressed well in clean clothes and anointed with pure red sandalpaste, they all slowly followed Bharata, mounting on various vehicles.
श्लोकः
मूलम्
प्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम्।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम्॥2.83.18॥
शब्दार्थः
प्रहृष्टमुदिता overwhelmed with joy and cheer, सा सेना that army, भ्रातुः brother’s, आनयने to bring back, यान्तम् set out, कैकयीसुतम् Kaikeyi’s son (Bharata), भ्रातृवत्सलम् to his brother, Rama, भरतम् Bharata, अन्वयात् followed.
आङ्ग्लानुवादः
The army, overwhelmed with joy and cheer followed the devoted brother Bharata who had set out to bring back Rama.
श्लोकः
मूलम्
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः।
समासेदुस्ततो गङ्गां शृङ्गीबेरपुरं प्रति॥2.83.19॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः।
निवसत्यप्रमादेन देशं तं परिपालयन्॥2.83.20॥
शब्दार्थः
ते they, रथयानाश्वकुञ्जरैः on chariots, carriages, horses and elephants, दूरम् a great distance, अध्वानम् the path, गत्वा having travelled, ततः thereafter, रामसखः Rama’s friend, वीरः valiant, गुहः Guha, ज्ञातिगणैः with relatives, वृतः surrounded by, तम् that, देशम् country, अप्रमादेन vigilantly, परिपालयन् ruling, यत्र where, निवसति living, शृङ्गीबेरपुरं प्रति near Srngiberapura, गङ्गाम् Ganges, समासेदुः reached.
आङ्ग्लानुवादः
After travelling a long distance on chariots, carriages, horses and elephants, they reached the river Ganga close to Srngiberapura, a country ruled vigilantly by Rama’s friend, the valiant Guha who lived there along with his relatives.
श्लोकः
मूलम्
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम्।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी॥2.83.21॥
शब्दार्थः
भरतस्य अनुयायिनी following Bharata, सा सेना that army, चक्रवाकैः with chakravakas (the ruddy geese), अलङ्कृतम् graced, गङ्गायाः river Ganga’s, तीरम् bank, उपेत्य having reached, व्यवातिष्ठत halted there.
आङ्ग्लानुवादः
The army following Bharata reached the bank of the river Ganga, graced by chakravakas (ruddy geese) and halted there.
श्लोकः
मूलम्
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्।
भरतस्सचिवान्सर्वानब्रवीद्वाक्यकोविदः॥2.83.22॥
शब्दार्थः
अनुगताम् following, सेनाम् army, शिवोदकाम् having sacred waters, तां गङ्गां च that river Ganga, निरीक्षय having gazed at, वाक्यकोविदः proficient in speech, भरतः Bharata, सर्वान् all, सचिवान् to ministers, अब्रवीत् said.
आङ्ग्लानुवादः
As he beheld the army following him and the river Ganga of sacred waters in front of him, Bharata who was proficient in speech said to his ministersः
श्लोकः
मूलम्
निवेशयत मे सैन्यमभिप्रायेण सर्वतः।
विश्रान्ताः प्रतरिष्यामश्श्व इदानीमिमां नदीम्॥2.83.23॥
शब्दार्थः
मे सैन्यम् my army, अभिप्रायेण according to their desires, सर्वतः all over, निवेशयत you may halt, इदानीम् now, विश्रान्ताः having taken rest, नदीम् river, श्वः tomorrow, प्रतरिष्यामः will cross.
आङ्ग्लानुवादः
You may, according to your convenience, halt the army anywhere here and, after taking rest (for the night), we shall cross the river Ganga tomorrow.
श्लोकः
मूलम्
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्॥2.83.24॥
शब्दार्थः
नदीम् river, अवतीर्य descending, स्वर्गतस्य to the departed, महीपतेः king’s, और्ध्वदेहनिमित्तार्थम् for the good of his life in the other world, उदकम् libations with water, दातुम् च to offer, इच्छामि तावत् I wish.
आङ्ग्लानुवादः
Meanwhile, I shall get into this river and offer libations with water to the departed king for the good of his life in the other world.
श्लोकः
मूलम्
तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः।
न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक्॥2.83.25॥
शब्दार्थः
तस्य his (Bharata’s), एवम् in this way, ब्रुवतः while saying, अमात्याः ministers, तथेति ‘be it so’, उक्त्वा saying, समाहिताः with composed minds, ताम् they, स्वेन स्वेन each of their, छन्देन with pleasure, पृथक् पृथक् separately न्यवेशयन् rested.
आङ्ग्लानुवादः
While he (Bharata’s) was speaking this way, all the ministers assented by saying ‘Be it so’ and made arrangement for their troops to rest separately according to their pleasure.
श्लोकः
मूलम्
निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्॥2.83.26॥
शब्दार्थः
भरतः Bharata, परिबर्हशोभिनीम् looking splendid with their royal insignia, चमूम् army, ताम् that, महानदीम् mighty river, गङ्गाम् अनु following Ganga, विधानैः with adequate arrangements, निवेश्य encamping, तदा then, महात्मनः magnanimous, रामस्य Rama’s, निवर्तनम् to bring back, विचिन्तयानः pondering, उवास stayed.
आङ्ग्लानुवादः
The army encamped by Bharata looked splendid with royal insigaia. After making necessary arrangements for the army on the bank of the mighty river Ganga and pondering over the means of bringing back the magnanimous Rama, Bharata stayed.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्र्यशीतितमस्सर्गः॥
Thus ends the eightythird sarga in Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.