Rama reaches the banks of Tamasa river.
श्लोकः
मूलम्
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥2.45.1॥
शब्दार्थः
अनुरक्ताः devoted, मानवाः men, वनवासाय to dwell in the forest, प्रयान्तम् setting out, महात्मानम् great, सत्यपराक्रमम् to one whose truth is his power, तं रामम् that Rama, अनुजग्मुः followed him.
आङ्ग्लानुवादः
When the highsouled Rama whose strength was his sense of truth set out for the forest, the faithful people followed him.
श्लोकः
मूलम्
निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि।
नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥2.45.2॥
शब्दार्थः
सुहृद्वर्गे when hosts of friends, राजनि च and when the king, बलात् forcibly, निवर्तितेऽपि च
though sent back, रामस्य Rama’s, रथम् chariot, अनुगताः followers, ते those people, नैव संन्यवर्तन्त did not return.
आङ्ग्लानुवादः
The king and the hosts of friends were forcibly sent back but they did not return. They continued to follow the chariot of Rama.
श्लोकः
मूलम्
अयोध्यानिलयानां हि पुरुषाणां महायशाः।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥2.45.3॥
शब्दार्थः
महायशाः illustrious, गुणसम्पन्नः endowed with virtue of every kind, अयोध्यानिलयानाम् dwelling in Ayodhya, पुरुषाणाम् for men, पूर्णचन्द्र इव like the full Moon, प्रियः बभूव हि became dear.
आङ्ग्लानुवादः
The illustrious and virtuous Rama was as dear to the inhabitants of Ayodhya as the
full Moon.
श्लोकः
मूलम्
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥2.45.4॥
शब्दार्थः
सः that, काकुत्स्थः descendant of the Kakutsthas (Rama), तदा then, स्वाभिः his own, प्रकृतिभिः by the subjects, याच्यमानः although pleaded, पितरम् father’s, सत्यम् as truthful, कुर्वाणः doing, वनमेव to the forest, अन्वपद्यत proceeded.
आङ्ग्लानुवादः
Although entreated by his subjects (not to go) Rama proceeded to the forest to make his father’s vow come true.
श्लोकः
मूलम्
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव॥2.45.5॥
शब्दार्थः
रामः Rama, चक्षुषा with eyes, प्रपिबन्निव as if drinking, ताः those, प्रजाः people, स्वाः his own, प्रजाः इव like children, सस्नेहम् (स्नेहेन) with affection, अवेक्षमाणः seeing, उवाच said.
आङ्ग्लानुवादः
Looking at the people with love as if they were his own children and as though
drinking them with his glances, Rama appealed to themः
श्लोकः
मूलम्
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्॥2.45.6॥
शब्दार्थः
अयोध्यानिवासिनाम् of residents of Ayodhya, मयि in me, या प्रीतिः which love, बहुमानश्च also respect, सा that one, विशेषेण specially, मत्प्रियार्थं for endearing me, भरते in Bharata, निवेश्यताम् be placed on Bharata.
आङ्ग्लानुवादः
O citizens of Ayodhya may the love and respect you have shown to please me be bestowed specially on Bharata
श्लोकः
मूलम्
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।
करिष्यति यथावद्वः प्रियाणि च हितानि च॥2.45.7॥
शब्दार्थः
कल्याणचारित्रः one having auspicious character, कैकेय्यानन्दवर्धनः enhancer of Kaikeyi’s delight, सः that Bharata, यथावत् appropriate, वः to you, प्रियाणि agreeable, हितानि च beneficial acts also, करिष्यति हि will do.
आङ्ग्लानुवादः
Bharata, enhancer of the delight of Kaikeyi, possesses an auspicious character. He will do for you everything appropriate, agreeable and beneficial.
श्लोकः
मूलम्
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।
अनुरूपः स वो भर्ता भविष्यति भयापहः॥2.45.8॥
शब्दार्थः
ज्ञानवृद्धः old in wisdom, वयोबालः young in age, मृदुः gentle, वीर्यगुणान्वितः endowed with valour and virtues, सः he, वः to you, अनुरूपः worthy one, भयापहः eliminating fears, भर्ता भविष्यति will be protector.
आङ्ग्लानुवादः
Though tender in age Bharata is mature in intellect. Gentle, valiant and virtuous, he will dispel all your fears and act as a true protector.
श्लोकः
मूलम्
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥2.45.9॥
शब्दार्थः
राजगुणैः royal qualities, युक्तः endowed with, सः that, युवराजः as heirapparent, समीक्षितः is recognised, अपि च also, मया by me, शिष्टैः by others, वः to you, भर्तृशासनम् king’s order, कार्यम् should be obeyed.
आङ्ग्लानुवादः
Endowed with kingly qualities, he is recognised as heirapparent. Therefore, as I did, all of you should obey the order of the king.
श्लोकः
मूलम्
न च सन्तप्येद्यथा चासौ वनवासं गते मयि।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥2.45.10॥
शब्दार्थः
मयि when I, वनवासम् to the forest, गते had left, असौ महाराजः this king, यथा as, न च सन्तप्येत् does not grieve, तथा in that way, मम to me, प्रिय चिकीर्षया with a desire to please, कार्यः fit to be done.
आङ्ग्लानुवादः
If you desire to please me, act in such a way that the king does not grieve after I have gone to the forest.
श्लोकः
मूलम्
यथा यथा दाशरथि र्धर्म एवास्थितोऽभवत्।
तथा तथा प्रकृतयो रामं पतिमकामयन्॥2.45.11॥
शब्दार्थः
दाशरथिः Dasaratha’s son, Rama, यथा यथा such as, धर्मे एव in righteousness only, आस्थितः अभवत् became committed, तथा तथा in the same way, प्रकृतयः subjects, रामम् Rama, पतिम् as king, अकामयन् desired.
आङ्ग्लानुवादः
The more the son of Dasaratha (Rama) committed to righteousness, the more the subjects desired that he should be their king.
श्लोकः
मूलम्
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।
चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम्॥2.45.12॥
शब्दार्थः
सौमित्रिणा सह accompanied by the son of Sumitra (Lakshmana), रामः Rama, बाष्पेण with tears, पिहितम् concealed, दीनम् piteous, पुरनिवासिनम् citydwellers, जनम् people, गुणैः with his virtues, बद्ध्वा इव as if bound by, चकर्ष attracted.
आङ्ग्लानुवादः
Rama along with Lakshmana attracted the citydwellers who, choked with tears, were looking miserable. It appeared they were bound with his virtues.
श्लोकः
मूलम्
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।
वयः प्रकम्पशिरसो दूरादूचुरिदं वचः॥2.45.13॥
शब्दार्थः
ज्ञानेन in wisdom, वयसा in age, ओजसा in spiritual energy, त्रिविधम् in all the three ways, वृद्धाः aged, ते द्विजाः those brahmins, वयः प्रकम्पशिरसः shaking due to old age, दूरात् from a distance, इदम् these, वचः words, ऊचुः spoke.
आङ्ग्लानुवादः
Those brahmins who were senior (to him) on three counts like age, wisdom and spirtuality spoke to him from a distance with their heads shaking with ageः
श्लोकः
मूलम्
वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः।
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥2.45.14॥
शब्दार्थः
रामम् Rama, वहन्तः conveying, जवनाः swift, जात्याः of noble breed, भो भो तुरङ्गमाः O horses, निवर्तध्वम् turn back, न गन्तव्यम् do not proceed, भर्तरि in your master (Rama), हिताः भवत be good.
आङ्ग्लानुवादः
O horses of noble breed, turn back Do not carry your master swiftyly any farther. Do good to him.
श्लोकः
मूलम्
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।
यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥2.45.15॥
शब्दार्थः
भूतानि animals, कर्णवन्ति हि have keen sense of hearing, तुरङ्गमाः horses, विशेषेण especially, तस्मात् therefore, याचनाम् entreaty, प्रतिवेदिताः having known, यूयम् you, निवर्तध्वम् turn back.
आङ्ग्लानुवादः
All animals, especially horses have a keen sense of hearing. Therefore, having listened to our entreaty, turn back.
श्लोकः
मूलम्
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्॥2.45.16॥
शब्दार्थः
धर्मतः righteous, विशुद्धात्मा a purified soul, वीरः brave, शुभदृढव्रतः auspicious and firm in resolve, सः वः भर्ता your master, उपवाह्यः should be carried back, पुरात् from the city, वनम्
to the forest, न अपवाह्यः should not carry.
आङ्ग्लानुवादः
Your master has a purity of heart. He is righteous, virtuous, brave and firm in resolve, carry him backward and not forward from the city into the forest.
श्लोकः
मूलम्
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।
अवेक्ष्य सहसा रामो रथादवततार ह॥2.45.17॥
शब्दार्थः
एवम् in this manner, आर्तप्रलापान् pitiful lamentations, प्रलपतः muttering, वृद्धान् aged, तान्द्विजान् those brahmins, अवेक्ष्य having seen, रामः Rama, सहसा immediately, रथात् from the chariot, अवततार ह alighted.
आङ्ग्लानुवादः
Having seen the aged brahmins muttering pitiful lamentations in this manner, Rama immediately alighted from the chariot.
श्लोकः
मूलम्
पद्भ्यामेव जगामाथ ससीतस् सहलक्ष्मणः।
सन्निकृष्टपदन्यासो रामो वनपरायणः॥2.45.18॥
शब्दार्थः
अथ then, स सीतः along with Sita, सहलक्ष्मणः and Lakshmana, रामः Rama, वनपरायणः
(moving) towards the forest, सन्निकृष्टपदन्यासः with a slow pace, पद्भ्याम् एव on foot alone, जगाम went.
आङ्ग्लानुवादः
Then Rama along with Sita and Lakshmana began walking on foot with slow steps towards the forest.
श्लोकः
मूलम्
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥2.45.19॥
शब्दार्थः
चारित्रवत्सलः fond of probity, घृणाचक्षुः compassionate eyes, सः रामः that Rama, पदातीन् those walking on foot, तान् द्विजातीन् those brahmins, रथेन with the chariot, परिमोक्तुम् to leave them, न शशाक was not possible.
आङ्ग्लानुवादः
Rama a man of probity and compassion could not ride off in his chariot while those brahmins were trudging far behind.
श्लोकः
मूलम्
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः।
ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः॥2.45.20॥
शब्दार्थः
द्विजाः brahmins, गच्छन्तमेव thus going, तं रामम् that Rama, दृष्ट्वा having seen, सम्भ्रान्तचेतसः with agitated mind, परमसन्तप्ताः deeply distressed, इदं वाक्यम् these words, ऊचुः said.
आङ्ग्लानुवादः
Having seen Rama thus going towards the forest, those brahmins, highly agitated and distressed, said to himः
श्लोकः
मूलम्
ब्राह्मण्यं सर्वमेतत्त्वां ब्रह्मण्यमनुगच्छति।
द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी॥2.45.21॥
शब्दार्थः
सर्वम् all, एतत् these, ब्राह्मण्यम् order of brahmins, ब्रह्मण्यम् seeking good of the brahmins, त्वाम् you, अनुगच्छति is following, अमी these, अग्नयः अपि sacred fires also, द्विजस्कन्धाधिरूढाः mounting on the shoulders of brahmins, त्वाम् you, अनुयान्ति following.
आङ्ग्लानुवादः
This entire order of brahmins with the sacrificial fires on their hsoulders is following you, their wellwisher.
श्लोकः
मूलम्
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः।
पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥2.45.22॥
शब्दार्थः
वाजपेयसमुत्थानि acquired while performing Vajapeya sacrifice, नः पृष्ठतः behind us, अनुप्रयातानि are coming, एतानि these, छत्राणि umbrellas, जलात्यये at the end of the rainy season, मेघानिव like clouds, पश्य please see.
आङ्ग्लानुवादः
See these umbrellas acquired by us while performing Vajapeya sacrifice are following you like the clouds at the end of the rainy season.
श्लोकः
मूलम्
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते।
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः॥2.45.23॥
शब्दार्थः
अनवाप्तातपत्रस्य for one without an umbrella, रश्मिसन्तापितस्य of a man scorched with the rays of the Sun, ते to you, वाजपेयिकैः acquired during Vajapeya sacrifice, स्वैः by your own, छत्रैः with umbrellas, छायाम् shade, करिष्यामः will extend.
आङ्ग्लानुवादः
You do not have a royal umbrella and you are scorched by the rays of the Sun. We will offer you shade with the umbrellas acquired during Vajapeya sacrifice.
श्लोकः
मूलम्
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥2.45.24॥
शब्दार्थः
वत्स dear child, नः our, या बुद्धिः mind, सततं always, वेदमन्त्रानुसारिणी follows Vedic hymns that one, त्वत्कृते for your sake, वनवासानुसारिणी one seeking the forest life, कृता is made.
आङ्ग्लानुवादः
O dear child, our minds always pursue the study of vedic hymns. For your sake now they are made to follow the life in the forest.
श्लोकः
मूलम्
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम्।
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥2.45.25॥
शब्दार्थः
नः our, परं धनम् greatest wealth, ये those, वेदाः the Vedas, हृदयेष्वेव in our hearts, तिष्ठन्ति are remaining, दारा अपि our wives also, चारित्ररक्षिताः protected by fidelity, गृहेष्वेव at home, वत्स्यन्ति shall stay.
आङ्ग्लानुवादः
The Vedas are our greatest wealth and they reside in our hearts. Our wives, protected by their fidelity, shall stay at home.
श्लोकः
मूलम्
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्मपथे स्थितम्॥2.45.26॥
शब्दार्थः
पुनः again (another), निश्चयः decision, न कार्यः should not be taken, त्वद्गतौ on your journey, मतिः mind, सुकृता is well set, त्वयि in you, धर्मव्यपेक्षे reluctant to follow ‘dharma’, धर्मपथे in the path of righteousness, किम् what?, स्थितं स्यात् is left now?
आङ्ग्लानुवादः
We are not going to revoke our decision. We have made up our minds to follow you (into the forest). If you have no regard for this decision, then who will adhere to the path of righteousness?
श्लोकः
मूलम्
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।
शिरोभिर्निभृताचार महीपतनपांसुलैः॥2.45.27॥
शब्दार्थः
निभृताचार ever firm in duty, महीपतनपांसुलैः soiled with the dust fallen on the ground, हंसशुक्लशिरोरुहैः having hairs white like the (plumes of a) swan, नः our, शिरोभिः with our heads, याचितः beg of you, निवर्तस्व you may return.
आङ्ग्लानुवादः
O Rama, you are firm in your duty.We beseech you, our heads bowed with swanwhite hair and soiled with dust, to return to Ayodhya.
श्लोकः
मूलम्
बहूनां वितता यज्ञा द्विजानां य इहागताः।
तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥2.45.28॥
शब्दार्थः
ये who, इह here, आगताः have arrived, बहूनाम् many, द्विजानाम् brahmins, यज्ञाः sacrifices, वितताः commenced, वत्स O dear child, तेषाम् their, समाप्तिः consummation, तव your, निवर्तने returning, आयत्ता is dependent.
आङ्ग्लानुवादः
Many of those brahmins who arrived here have commenced their sacrifices. O dear child, their consummation depends on your return.
श्लोकः
मूलम्
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च।
याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय॥2.45.29॥
शब्दार्थः
राम Rama, जङ्गमाजङ्गमानि movable and immovable, भूतानि living beings, भक्तिमन्ति हि are devoted to you, त्वम् you, याचमानेषु supplicants, भक्तेषु in devotees, भक्तिम् devotion, दर्शय show.
आङ्ग्लानुवादः
O Rama, all these living beings, movable and immovable, are devoted to you and are entreating you with devotion to return. Show consideration to those supplicants.
श्लोकः
मूलम्
अनुगन्तुमशक्ता स्त्वां मूलैरुद्धतवेगिनः।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥2.45.30॥
शब्दार्थः
मूलैः with their roots, उद्धतवेगिनः crushed with their speed, पादपाः trees, त्वाम् you, अनुगन्तुम् to follow, अशक्ताः unable, वायुवेगेन with the speed of wind, उन्नताः uplifted, विक्रोशन्तीव weeping like.
आङ्ग्लानुवादः
Although the trees uplifted by the speed of the wind, intend to follow you, their movement is stalled by their roots. Unable, they appear to be weeping.
श्लोकः
मूलम्
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः।
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥2.45.31॥
शब्दार्थः
पक्षिणोऽपि even the birds, निश्चेष्टाहारसञ्चाराः without foraging for food and wanderings, वृक्षैकस्थानविष्ठिताः perched on the trees at one place, सर्वभूतानुकम्पिनम् one compassionate to all creatures, प्रयाचन्ते are imploring.
आङ्ग्लानुवादः
Even the birds instead of foraging for food are sitting motionless on the trees at one place. They are imploring you, you who are compassionate to all creatures, to return to Ayodhya.
श्लोकः
मूलम्
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।
ददृशे तमसा तत्र वारयन्तीव राघवम्॥2.45.32॥
शब्दार्थः
एवम् in this way, निवर्तने seeking his return, तेषां द्विजातीनाम् those brahmins, विक्रोशताम् crying, तत्र there, तमसा Tamasa river, राघवम् Rama, वारयन्तीव as if preventing, ददृशे appeared.
आङ्ग्लानुवादः
While those brahmins were thus crying out, river Tamasa came into view as if seeking Rama to turn back to Ayodhya.
श्लोकः
मूलम्
ततः सुमन्त्रोऽपि रथाद्विमुच्य
श्रान्तान्हयान्सम्परिवर्त्य शीघ्रम्।
पीतोदकांस्तोयपरिप्लुताङ्गा
नचारयद्वै तमसाविदूरे॥2.45.33॥
शब्दार्थः
ततः then, सुमन्त्रोऽपि Sumantra also, श्रान्तान् fatigued, हयान् horses, रथात् from the chariot, विमुच्य having unyoked, शीघ्रम् quickly, सम्परिवर्त्य allowing them to roll and relax, पीतोदकान् making them drink water, तोयपरिप्लुताङ्गान् bathing them in water, तमसाविदूरे not far from river Tamasa, अचारयत् made them graze.
आङ्ग्लानुवादः
Then Sumantra also unyoked the fatigued horses from the chariot and quickly allowed them to roll and relax on the ground. Having made the horses drink and dip
in water, he released them for grazing not far from Tamasa river.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशस्सर्गः॥
Thus ends the fortyfifth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.