०७० दशरथवंशकथनम्

Janaka sends messengers to fetch his brother Kusadhwaja – at the request of Dasaratha Vasishta narrates the greatness of Ikshvaku dynasty.

श्लोकः

मूलम्

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः।
उवाच वाक्यं वाक्यज्ञ श्शतानन्दं पुरोहितम्॥1.70.1॥

शब्दार्थः

ततः thereafter, प्रभाते at dawn, महर्षिभिः by maharshis, कृतकर्मा having performed daily (sacrificial) acts, वाक्यज्ञः conversant in speech, जनकः Janaka, पुरोहितम् chief priest, शतानन्दम् Satananda, वाक्यम् words, उवाच said.

आङ्ग्लानुवादः

Thereafter at dawn after the maharshis had performed their daily (sacrificial) rites the eloquent Janaka said to the chief priest Satanandaः

श्लोकः

मूलम्

भ्राता मम महातेजा यवीयानतिधार्मिकः।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥1.70.2॥
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्।
साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम्॥1.70.3॥

शब्दार्थः

अतिधार्मिकः extremely righteous, कुशध्वजः इति named Kusadhwaja, ख्यातः renowned, महातेजाः most brilliant, मम my, यवीयान् younger, भ्राता brother, इक्षुमतीम् named Ikshumati, नदीम् river, पिबन् drinking, वार्याफलकपर्यन्ताम् darts planted in water as boundary, शुभाम् auspicious, पुण्यसङ्काशाम् sacred, साङ्काश्यां पुरीम् named Sankasya, पुष्पकम् Pushpaka, विमानमिव like chariot, अध्यवसत् is residing.

आङ्ग्लानुवादः

“The extremely righteous, renowned and most brilliant Kusadhwaja, my younger brother is (at present) ruling the sacred kingdom of Sankasya, which is like the aerial chariot Pushpaka, with darts planted in water as boundary on the bank of the auspicious, sacred river Ikshumati.

श्लोकः

मूलम्

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥1.70.4॥

शब्दार्थः

अहम् I, तम् him, द्रष्टुम् to behold, इच्छामि I am desiring, सः he, मे my, यज्ञगोप्ता protector of the sacrifice, मतः has been accepted, महातेजाः most glorious, सोऽपि he also, मया सह with me, इमाम् this, प्रीतिम् pleasure, भोक्ता will enjoy.

आङ्ग्लानुवादः

I desire to see Kusadhwaja who I have accepted as the protector of the sacrifice. I want that my glorious brother should share this pleasure, with me”.

श्लोकः

मूलम्

एवमुक्ते तु वचने शतानन्दस्य सन्निधौ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥1.70.5॥

शब्दार्थः

शतानन्दस्य Satananda’s, सन्निधौ in the presence, एवम् thus, वचने words, उक्ते (सति) when he uttered, अव्यग्राः undistracted, केचित् some (attendants), आगताः had come, जनकः Janaka, तान् them, समादिशत् commanded.

आङ्ग्लानुवादः

Janaka having said so in the presence of Satananda gave instructions to a few faithful attendants who were present.

श्लोकः

मूलम्

शासनात्तु नरेन्द्रस्य प्रययुश्शीघ्रवाजिभिः।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥1.70.6॥

शब्दार्थः

नरेन्द्रस्य king Janaka’s, शासनात् by the command, इन्द्राज्ञया by the order of Indra, विष्णुं यथा like Visnu, नरव्याघ्रम् tiger among men, समानेतुम् to bring him, शीघ्रवाजिभिः on swift moving steeds, प्रययुः rode away.

आङ्ग्लानुवादः

In obedience to the command of Indra among men (king Janaka), the messengers rode away on swift horses to bring king Kusadhwaja, a tiger among men just like fetching Visnu by the orders of Indra.

श्लोकः

मूलम्

साङ्काश्यां ते समागत्य ददृशुश्च कुशध्वजम्।
न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम्॥1.70.7॥

शब्दार्थः

ते those messengers, साङ्काश्याम् city of Sankasya, समागम्य having reached, कुशध्वजम् Kusadhwaja, ददृशुश्च beheld him, यथावृत्तम् as happened, जनकस्य Janaka’s, चिन्तितम् intention, न्यवेदयन् च informed.

आङ्ग्लानुवादः

The messengers reached Sankasya, met Kusadhwaja and related to him what had happened. They informed him the intention of (king) Janaka.

श्लोकः

मूलम्

तद्वृत्तं नृपति श्शृत्वा दूतश्रेष्ठैर्महाबलैः।
अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वजः॥1.70.8॥

शब्दार्थः

नृपति king, कुशध्वजः Kusadhwaja, महाबलैः by men endowed with strength, दूतश्रेष्ठैः by the loyal messengers, तत् that, वृत्तम् events, श्रुत्वा having learned, अथ thereafter, नरेन्द्रस्य king’s, आज्ञया by order, आजगाम set out.

आङ्ग्लानुवादः

Kusadhwaja having heard the events from the loyal, mighty messengers set out for Mithila in compliance with the request of the king (Janaka).

श्लोकः

मूलम्

स ददर्श महात्मानं जनकं धर्मवत्सलम्।
सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्॥1.70.9॥
राजार्हं परमं दिव्यमासनं चाऽध्यरोहत।

शब्दार्थः

सः he, धर्मवत्सलम् devoted to righteousness, महात्मानम् magnanimous, जनकम् Janaka, ददर्श beheld, सः he, शतानन्दम् Satananda, धार्मिकम् virtuous, राजानं च king also, अभिवाद्य having saluted with reverence, राजार्हम् befitting a king, परमम् great, दिव्यम् excellent, आसनम् seat, अध्यरोहत occupied.

आङ्ग्लानुवादः

There he saw the highsouled Janaka devoted to righteousness. Having paid his regards to Satananda and the virtuous king he occupied an exalted seat befitting a
king.

श्लोकः

मूलम्

उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ॥1.70.10॥
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्।

शब्दार्थः

अतितेजसौ possessing great splendour, तौ वीरौ those two heores, उभौ both, भ्रातरौ brothers, उपविष्टौ seated, मन्त्रिश्रेष्ठम् wisest of ministers, सुदामनम् Sudaman, प्रेषयामासतुः despatched.

आङ्ग्लानुवादः

The two heroic brothers endowed with great splendour seated beside each other, despatched Sudamana the wisest of ministers (to Dasaratha).

श्लोकः

मूलम्

गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकुममितप्रभम्॥1.70.11॥
आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम्।

शब्दार्थः

मन्त्रिपते O Foremost of counsellors, शीघ्रम् speedily, गच्छ go, अमितप्रभम् immeasurable splendour, ऐक्ष्वाकुम् Ikshvaku king Dasaratha, दुर्धर्षम् invincible, समन्त्रिणम् together with ministers, आत्मजैः along with sons, समानयस्व bring him.

आङ्ग्लानुवादः

“O Foremost among counsellors, go speedily and bring along with his ministers and sons the invincible Dasaratha of the Ikshvakus dynasty whose splendour is immeasurable”.

श्लोकः

मूलम्

औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥1.70.12॥
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्।

शब्दार्थः

सः he, औपकार्याम् tent, गत्वा having gone, रघूणाम् of the race of Raghus, कुलवर्धनम् perpetuating, ददर्श saw, एनम् him, शिरसा bowing down his head, अभिवाद्य having saluted him, इदम् these words, अब्रवीत् spoke.

आङ्ग्लानुवादः

Having reached the tent, he (Sudamana) saw Dasaratha, perpetuator of the race of the
Raghus and bowing down his head, saidः

श्लोकः

मूलम्

अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥1.70.13॥
स त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम्।

शब्दार्थः

वीर O Heroic one, अयोध्याधिपते O Lord of Ayodhya, मिथिलाधिपः lord of Mithila, वैदेहः Janaka, सोपाध्यायपुरोहितम् along with spiritual preceptors and chief priest, त्वाम् you, द्रष्टुम् to see, सः he, व्यवसितः has decided.

आङ्ग्लानुवादः

“O Heroic lord of Ayodhya, Janaka, the lord of Mithila desires to see you along with preceptors and priest”.

श्लोकः

मूलम्

मंत्रिश्रेष्ठवच श्शृत्वा राजा सर्षिगणस्तदा॥1.70.14॥
सबंधुरगमत्तत्र जनको यत्र वर्तते।

शब्दार्थः

तदा then, राजा king, मंत्रिश्रेष्ठवचः the words of the best of counsellors, श्रुत्वा having listened, सर्षिगणः with hosts of rishis, सबंधुः with relations, जनकः Janaka, यत्र where, वर्तते was waiting, तत्र there, अगमत् went.

आङ्ग्लानुवादः

King Dasaratha on hearing the words of the best of the counsellors reached the place
where Janaka was waiting with hosts of rishis and relations.

श्लोकः

मूलम्

स राजा मन्त्रिसहितस् सोपाध्यायः सबान्धवः॥1.70.15॥
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्।

शब्दार्थः

मन्त्रिसहितः along with counsellors, सबान्धवः with relations, सः king Dasaratha, वाक्यविदाम् among those skilled speech, श्रेष्ठः excellent, राजा king, वैदेहम् addressing, इदम् these, वाक्यम् words, अब्रवीत् spoke.

आङ्ग्लानुवादः

The king (Dasaratha), skilled in speech, accompanied by counsellors and kins said to Janaka,the lord of the Videhasः

श्लोकः

मूलम्

विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥1.70.16॥
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः।

शब्दार्थः

महाराज O Great king, भगवान् venerable, वसिष्ठः Vasishta, इक्ष्वाकुकुलदैवतम् spiritual protector of Ikshvaku race, सर्वेषु in all, कृत्येषु ceremonies, वक्ता spokesman, ते to you, विदितम् is known.

आङ्ग्लानुवादः

“O Great king venerable Vasishta is the spiritual protector of the Ikshvakus race and it is known that for all ceremonies he is our spokesman”.

श्लोकः

मूलम्

विश्वामित्राभ्यनुज्ञातस्सह सर्वैर्महर्षिभिः॥1.70.17॥
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्।

शब्दार्थः

सर्वैः by all, महर्षिभिः सह along with maharshis, विश्वामित्राभ्यनुज्ञातः having been permitted by Visvamitra, धर्मात्मा virtuous, एषः वसिष्ठः this Vasishta, यथाक्रमम् in detailed order, मे my (race), वक्ष्यति will tell you.

आङ्ग्लानुवादः

“Having been permitted by Viswamitra, along with all maharshis virtuous Vasishta will tell you in detail about my race”.

श्लोकः

मूलम्

एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम्॥1.70.18॥
तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः।
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्॥1.70.19॥

शब्दार्थः

नरश्रेष्ठे when the best among men, दशरथे Dasaratha, महात्मनाम् of the distinguished, राज्ञाम् kings, मध्ये amidst, एवम् in this way, उक्त्वा having spoken, तूष्णींभूते remained silent, वाक्यज्ञः wellversed in speech, भगवान् adorable, वसिष्ठः ऋषिः Vasishta, सपुरोधसम् in the company of priests, वैदेहम् Janaka, वाक्यम् these words, उवाच spoke.

आङ्ग्लानुवादः

Having said this amidst the best of men and the most distinguished among kings, Dasaratha remained silent. Then Vasishta, the venerable sage, wellversed in speech
spoke to the Lord of Videhas (Janaka) in the midst of priests.

श्लोकः

मूलम्

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।
तस्मान्मरीचिस् संजज्ञे मरीचेः काश्यपः सुतः॥1.70.20॥

शब्दार्थः

अव्यक्तप्रभवः the unmanifest, शाश्वतः eternal, नित्यः constant, अव्ययः Imperishable, ब्रह्मा Brahma, तस्मात् from him, मरीचिः Marichi, संजज्ञे was born, मरीचेः from Marichi, काश्यपः Kasyapa, सुतः son (sprang).

आङ्ग्लानुवादः

“From the unmanifest was born the eternal, the constant, the imperishable Brahma. To him was born Marichi and to Marichi, Kasyapa.

श्लोकः

मूलम्

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस् स्मृतः।
मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोस्सुतः॥1.70.21॥

शब्दार्थः

काश्यपात् from Kasyapa, विवस्वान् Vivasvan, जज्ञे was begotten, वैवस्वतः as Vivasvata, मनुः Manu, स्मृतः said, मनुः Manu, पूर्वम् formerly, प्रजापतिः prajapati, इक्ष्वाकुः Ikshavaku, मनोः Manu’s, सुतः son.

आङ्ग्लानुवादः

Kasyapa begot Vivasvan and Vivasvan, Manu. Ikshavaku was the son of Manu
otherwise called Prajapati or Vaivasvata.

श्लोकः

मूलम्

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्।
इक्ष्वाकोस्तु सुतश्श्रीमान् कुक्षिरित्येव विश्रुतः॥1.70.22॥

शब्दार्थः

तम् इक्ष्वाकुम् him as Ikshvaku, अयोध्यायाम् in the city of Ayodhya, पूर्वकम् राजानम् ancestral king, विद्धि be informed, श्रीमान् the glorious, कुक्षिरित्येव known as Kukshi, विश्रुतः wellknown, इक्ष्वाकोः Ikshvaku’s, सुतः son(was born).

आङ्ग्लानुवादः

It may be noted that Ikshvaku was the first ancestral king of Ayodhya whose son was the wellknown, glorious Kukshi.

श्लोकः

मूलम्

कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्॥1.70.23॥

शब्दार्थः

अथ thereafter, कुक्षेः Kushi’s, श्रीमान् prosperous, विकुक्षिः Vikushi, आत्मजः as son, उदपद्यत was born, महातेजाः highly lustrous, प्रतापवान् valourous, बाणः Bana, विकुक्षेः Vikushi’s, पुत्रः son.

आङ्ग्लानुवादः

Prosperous Vikukshi was Kukshi’s son, who brought forth brilliant and powerful Bana.

श्लोकः

मूलम्

बाणस्य तु महातेजा अनरण्यः प्रतापवान्।
अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुतः॥1.70.24॥

शब्दार्थः

महातेजाः highly splendrous, प्रतापवान् valourous, अनरण्यः Anaranya, बाणस्य Bana’s, अनरण्यात् from Anaranya, पृथुः Pruthu, जज्ञे born, त्रिशङ्कुः तु Trishanku, पृथो Pruthu’s, सुतः son.

आङ्ग्लानुवादः

Bana’s son was the most brilliant and valiant Anaranya whose son Pruthu was succeeded by Trisanku.

श्लोकः

मूलम्

त्रिशङ्कोरभवत्पुत्रो दुन्दुमारो महायशाः।
युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः॥1.70.25॥

शब्दार्थः

त्रिशङ्कोः of Trishanku, महायशाः highly famous, दुन्दुमारः Dundumara, पुत्रः अभवत् born as a son, मान्धाता known as Mandhata, पृथिवीपतिः king, युवनाश्वसुतः son of Yuvanashva, आसीत् was born.

आङ्ग्लानुवादः

Trisanku’s famous son was Dundumara also known as Yuvanashva whose son was king Mandhata.

श्लोकः

मूलम्

मान्धातुस्तु सुत श्श्रीमान् सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥1.70.26॥

शब्दार्थः

मान्धातुः for Mandhata, सुसन्धिः Susandhi, श्रीमान् venerable, उदपद्यत was born, सुसन्धेरपि for Susandhi, ध्रुवसन्धिः Dhruvasandhi, प्रसेनजित् Prasenajit, द्वौ two, पुत्रौ sons.

आङ्ग्लानुवादः

Mandhata’s son was prosperous Susandhi who brought forth two sons Dhruvasandhi and Prasenajit.

श्लोकः

मूलम्

यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः।
भरतात्तु महातेजा असितो नाम जातवान्॥1.70.27॥

शब्दार्थः

ध्रुवसन्धेः तु for Dhruvasandhi, नामतः by name, भरतः नाम known Bharata, यशस्वी illustrious, भरतात् from Bharata, महातेजाः highly vigoruos, असितो नाम named Asita, जातवान् begot.

आङ्ग्लानुवादः

To Dhruvasandhi was born the wellknown Bharata who begot the vigorous Asita.

श्लोकः

मूलम्

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः।
हैहयास्तालजंघाश्च शूराश्च शशिबिन्दवः॥1.70.28॥

शब्दार्थः

यस्य for Asita, हैहयाः Haihayas, तालजंघाश्च Talajanghas, शूराः valiant men, शशिबिन्दवश्च Sasibindus, एते प्रतिराजानः kings fighting against him, शत्रवः enemies, उदपद्यन्त arose.

आङ्ग्लानुवादः

Valiant kings belonging to the races of the Haihayas, Talaiangha, and Sasibindus became the enemies to Asita.

श्लोकः

मूलम्

तांस्तु स प्रतियुध्यन् वै युद्धे राजा प्रवासितः।
हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत्॥1.70.29॥
असितोऽल्पबलो राजा मन्त्रिभिस्सहितस्तदा।

शब्दार्थः

सः राजा that king, तान् them, युद्धे in the conflict, प्रतियुध्यन् fighting against them, प्रवासितः was exiled from his kingdom, राजा असितः king Asita, अल्पबलः with relatively lesser strength, मन्त्रिभिः with counsellors, सहितः accompanied, तदा then, हिमवन्तम् towards Himavat mountain, उपागम्य having reached, भृगुप्रस्रवणे in a place known as Bhriguprasravana, अवसत् lived.

आङ्ग्लानुवादः

The king Asita who was a weakling was defeated in the conflict against the kings and was exiled. Along with his counsellors he lived at on the Bhriguprasravana Himavat mountain.

श्लोकः

मूलम्

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम्॥1.70.30॥
एका गर्भविनाशाय सपत्न्यै सगरं ददौ।

शब्दार्थः

अस्य his, द्वे two, भार्ये wives, गर्भिण्यौ pregnant, बभूवतुः became, इति thus, श्रुतम् is known, एका one, गर्भविनाशाय to destroy the embryo, सपत्नयै the other wife, सगरम् poison mixed in food, ददौ gave.

आङ्ग्लानुवादः

It is said that his (Asita’s) two wives were pregnant. One gave food mixed with poison to the other with the intention of destroying her embryo.

श्लोकः

मूलम्

तत श्शैलवरं रम्यं बभूवाभिरतो मुनिः॥1.70.31॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः।

शब्दार्थः

ततः afterwards, रम्यम् delightful, शैलवरम् best of mountains, अभिरतः relished, भार्गवः of the family of Bhrigu, च्यवनो नाम named Chyavana, हिमवन्तम् Himavt, उपाश्रितः has taken refuge.

आङ्ग्लानुवादः

At that time Chyavana of the family of Bhrigu liked to stay at Himavat, the great, pleasant mountain.

श्लोकः

मूलम्

तत्रैका तु महाभागा भार्गवं देववर्चसम्॥1.70.32॥
ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः।

शब्दार्थः

महाभागा highly accomplished, तत्र (तयोः) एका one of those two, पद्मपत्राक्षी lotuseyed, आत्मनः for her, सुतम् son, काङ्क्षन्ती desiring, देववर्चसम् resembling the lustre of devatas, भार्गवम् Chyavana, ववन्दे offered salutations.

आङ्ग्लानुवादः

That the lotuseyed and highly accomplished Kalindi, offered herself for a son to
Chyavana who was glowing like a god.

श्लोकः

मूलम्

तमृषिं साऽभ्युपागम्य कालिंदी चाभ्यवादयत्॥1.70.33॥
स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि।

शब्दार्थः

सा that, कालिंदी च Kalindi also, तम् that, ऋषिम् ascetic, अभ्युपागम्य after approaching, अभ्यवादयत् paid obeisance, सः that, विप्रः brahmin, ताम् her, पुत्रेप्सुम् desiring son, पुत्रजन्मनि concerning the birth of a son to her, अभ्यवदत् spoke.

आङ्ग्लानुवादः

Having approached the ascetic. Kalindi paid obeisance to him who saidः

श्लोकः

मूलम्

तव कुक्षौ महाभागे सुपुत्रस्सुमहाबलः॥1.70.34॥
महावीर्यो महातेजा अचिरात्सञ्जनिष्यति।
गरेण सहित श्श्रीमान् मा शुचः कमलेक्षणे॥1.70.35॥

शब्दार्थः

महाभागे O Prosperous one, तव your, कुक्षौ in womb, सुमहाबलः having great prowess, महातेजाः highly lustrous, सुपुत्रः virtuous child, श्रीमान् glorious, गरेण with poison, सहितः furnished, अचिरात् in a short time, सञ्जनिष्यति will be born, कमलेक्षणे O Lotus eyedone, मा शुचः do not grieve.

आङ्ग्लानुवादः

‘O Great lady a child of high prowess, lustre and virtues is growing in your womb. In a short time this glorious son carrying with him the poison (administered to you) will be born. O Lotuseyed lady, do not grieve’.

श्लोकः

मूलम्

च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता।
पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत॥1.70.36॥

शब्दार्थः

राजपुत्री princess, पतिव्रता chaste and virtuous one, पतिशोकातुरा afflicted with the sorrow due to loss of her husband, देवी that eldest queen, च्यवनम् Chyavana, नमस्कृत्य having saluted him, तस्मात् for that husband, पुत्रम् son, व्यजायत gave birth.

आङ्ग्लानुवादः

This eldest queen who was a devoted wife, afflicted with sorrow due to loss of her
husband gave birth to a son by the grace of Chyavana.

श्लोकः

मूलम्

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
सह तेन गरेणैव जातः स सगरोऽभवत्॥1.70.37॥

शब्दार्थः

सपत्न्या by her rival queen, तस्यै for her, गर्भजिघांसया with the intention of destroying embryo, गरः poison, दत्तः was given, तेन by that, गरेण सह एव with poison itself, जातः was born, सः that, सगरः sagara, अभवत् became.

आङ्ग्लानुवादः

Since poison was given to her by her rival queen with the intention of destroying the embryo, the son was born with poison and so came to be known as Sagara.

श्लोकः

मूलम्

सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥1.70.38॥

शब्दार्थः

असमञ्जः Asamanjasa, सगरस्य Sagara’s, तथा also, असमञ्जात् from Asamanja, अंशुमान् Anshuman, दिलीपः Dilipa, अंशुमतः Anshuman’s, पुत्रः son, भगीरथः Bhagiratha, दिलीपस्य Dilipa’s (son).

आङ्ग्लानुवादः

Asamanja was the son of Sagara and to him was born Anshuman. Dilipa was the son of Anshuman and father of Bhagiratha.

श्लोकः

मूलम्

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥1.70.39॥
कल्माषपादो ह्यभवत्तस्माज्जातस्तु शंखणः।

शब्दार्थः

भगीरथात् from Bhagiratha, ककुत्स्थः Kakutsthsa, रघुः Raghu, ककुत्स्थस्य Kakutsthsa’s, सुतः son, तेजस्वी powerful, प्रवृद्धः Pravriddha, रघोः Raghu’s, पुत्रः son, पुरुषादकः Purushadaka, कल्माषपादः Kalmashapada, अभवत् became, तस्मात् for him, शंखणः Samkhana, जातः was born.

आङ्ग्लानुवादः

Bhagiratha begot Kakustha whose son was Raghu. Powerful Pravriddha was Raghu’s son. He became Purushadaka (cannibal), on the curse of Vasistha. He grasped water in order to retaliate Vasishta but was prevented by his wife. The water fell on his feet and he came to be known as Kalmashapada (feet polluted with water). Samkhana was born to him.

श्लोकः

मूलम्

सुदर्शनः शङ्घणस्य अग्निवर्णस् सुदर्शनात्॥1.70.40॥
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुस् सुतः।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रृकात्॥1.70.41॥

शब्दार्थः

शङ्घणस्य for Samkhana, सुदर्शनः Sudarsana, सुदर्शनात् from Sudarsana, अग्निवर्णः Agnivarna, अग्निवर्णस्य for AgniVarna, शीघ्रगः Sighraga, शीघ्रगस्य for sighraga, मरुः Maru, सुतः son, मरोः for Maru, प्रशुश्रुकः Prasusruka, प्रशुश्रुकात् from Prasusukra, अम्बरीषः Ambarisha, आसीत् were born.

आङ्ग्लानुवादः

Sudarsana was the son of Samkhana. His son was Agnivarna. To Agnivarna was born Sighraga and to Sighraga, Maru. To Maru, was born Prasusruka and to Prasrusuka, Ambarisha.

श्लोकः

मूलम्

अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥1.70.42॥

शब्दार्थः

पृथिवीपतिः king, नहुषः Nahusha, अम्बरीषस्य Ambarisha’s, पुत्रः son, अभूत् became, नहुषस्य Nahusha’s, ययातिः Yayati was born, नाभागः Nabhaga , ययातिजः was born to Yayati.

आङ्ग्लानुवादः

King Nahusha was the son of Ambarisha. To Nahusha was born Yayati whose son was Nabhaga.

श्लोकः

मूलम्

नाभागस्य बभूवाजः अजाद्दशरथोऽभवत्।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥1.70.43॥

शब्दार्थः

नाभागस्य Nabhaga’s, अजः Aja, बभूव was born, अजात् from Aja, दशरथः Dasaratha, अभवत् was born, अस्मात् from this, दशरथात् from Dasaratha, भ्रातरौ brothers, रामलक्ष्मणौ Rama and Lakshmana, जातौ were born.

आङ्ग्लानुवादः

Nabhaga’s son was Aja. Aja was the father of Dasaratha and Dasaratha, the father of Rama and Lakshmana.

श्लोकः

मूलम्

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥1.70.44॥
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप।
सदृशाभ्यां नृपश्रेष्ठ सदृशे दातुमर्हसि॥1.70.45॥

शब्दार्थः

नृपश्रेष्ठ O Great among men, नृप O King, आदिवंशविशुद्धानाम् possessing purity of race right from the beginning, परमधर्मिणाम् supremely virtuous, वीराणाम् heroic, सत्यवादिनाम् truth speaking, इक्ष्वाकुकुलजातानाम् sprung from the family of Ikshwaku, राज्ञाम् pertaining to the kings, रामलक्ष्मणयोरर्थे for Rama and Lakshmana, त्वत्सुते your daughters, वरये I choose as brides for them, सदृशाभ्याम् for both of the worthy ones, सदृशे equally accomplished two worthy daughters, दातुम् to bestow, अर्हसि behoves of you.

आङ्ग्लानुवादः

Great among men, O King be gracious enough to give your equally accomplished two daughters in mariage to Rama and Lakshmana who are born in the family of Ikshvakus kings possessing the purity of race right from the beginning. They are highly virtuous, heroic, and truthful. They have chosen your daughters as their brides”.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्ततितमस्सर्गः॥
Thus ends the seventieth sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.