Origin of marutsVishala constructs the city Diti practises her austerities–Sumati honours Viswamitra.
श्लोकः
मूलम्
सप्तधातु कृते गर्भे दितिः परमदुःखिता।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत्॥1.47.1॥
शब्दार्थः
गर्भे when the embryo, सप्तधा into seven pieces, कृते having been cut, दितिः Diti, परमदुःखिता highly distressed, दुराधर्षम् unassailable, सहस्राक्षम् Indra, सानुनया affectionate, वाक्यम् words, अब्रवीत् spoke.
आङ्ग्लानुवादः
Deeply distressed Diti, having come to know that the embryo had been severed into seven pieces, humbly spoke to the unassailable Indra.
श्लोकः
मूलम्
ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः।
नापराधोऽस्ति देवेश तवात्र बलसूदन॥1.47.2॥
शब्दार्थः
बलसूदन O Slayer of Balasura, देवेश Devendra, मम my, अपराधात् by the fault, अयम् this, गर्भः embryo, सप्तधा into seven pieces, विफलीकृतः rendered useless, अत्र in this matter, तव your, अपराधः fault, नास्ति was not there.
आङ्ग्लानुवादः
“O Indra, Slayer of Balasura, because of my fault this embryo has been made into
seven pieces and rendered useless. In this matter you have not committed any fault.
श्लोकः
मूलम्
प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये।
मरुतां सप्तसप्तानां स्थानपाला भवन्त्विमे॥1.47.3॥
शब्दार्थः
गर्भविपर्यये this misfortune to embryo, मम for me, प्रियम् favour, कर्तुम् to do, इच्छामि I am desiring, इमे this, सप्त seven pieces, सप्तानां seven, मरुताम् maruts, स्थानपाला guardians of regions, भवन्तु become.
आङ्ग्लानुवादः
This disaster to the embryo has happened contrary to expectations. Hence, I seek a favour from you. Let these seven pieces become seven guardians of marut regions (regions of the wind).
श्लोकः
मूलम्
वातस्कन्धाःइमे सप्त चरन्तु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥1.47.4॥
शब्दार्थः
पुत्रक O Son, सप्त seven, इमे these, मम my, आत्मजाः sons, दिव्यरूपाः having celestial beauty, वातस्कन्धाः presiding deities for Vata Skandha (divisions of wind), मारुताः इति named Maruts, विख्याताः wellknown, दिवि in the sky (intermediate regions), चरन्तु let them wander.
आङ्ग्लानुवादः
O Son, all these seven are my sons of celestial beauty.They will become pesiding deities for Vata Skandha (divisions of wind) and let them be wellknown as maruts wandering in the universe.
श्लोकः
मूलम्
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपरः।
दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः॥1.47.5॥
शब्दार्थः
एकः one, ब्रह्मलोकम् in Brahma loka, चरतु may move about, तथा similarly, अपरः another, इन्द्रलोकम् Indra loka, महायशाः highly renowned, तृतीयोऽपि third one, वायुरिति known as Vayu, ख्यातः wellknown, दिवि in this universe, move about.
आङ्ग्लानुवादः
Among them, one will move about in Brahmaloka, another in Indraloka, and the third, well known as vayu will move around in the sky.
श्लोकः
मूलम्
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्।
सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः॥1.47.6॥
शब्दार्थः
सुरश्रेष्ठ O Best of devatas, चत्वारः four, मम आत्मजाः my sons, तव your, शासनात् by command, देवभूताः becoming celestial beings, दिशः directions, सञ्चरिष्यन्तु may range about.
आङ्ग्लानुवादः
O best of devatas by your command the other four sons will remain celestial, and will range about in four directions.
श्लोकः
मूलम्
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः।
उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः॥1.47.7॥
शब्दार्थः
सहस्राक्षः thousandeyed, बलनिषूदनः slayer of Bala, पुरन्दरः Indra, तस्याः her, तत् वचनम् those words, शृत्वा having heard, प्राञ्जलिः with folded palms, दितिम् addressing Diti, वाक्यम् these words, उवाच spoke.
आङ्ग्लानुवादः
The thousandeyed Indra, slayer of Bala, on hearing Diti’s words, addressed her with folded palms, sayingः
श्लोकः
मूलम्
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः।
विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः॥1.47.8॥
शब्दार्थः
ते to you, यथा as, उक्तम् said, एतत् सर्वम् all this, भविष्यति will take place, संशयः doubt, न not there, तव your, आत्मजाः sons, देवभूताः like celestial beings, विचरिष्यन्ति shall wander about, भद्रम् ते prosperity to you.
आङ्ग्लानुवादः
“Everything will, no doubt, happen the way you said. Your sons will wander about as celestial beings. Prosperity to you.”
श्लोकः
मूलम्
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम्॥1.47.9॥
शब्दार्थः
राम O Rama, तौ मातापुत्रौ those mother and sons, एवम् in this way, निश्चयम् conclusion, कृत्वा having arrived, कृतार्थौ having fulfilled their desire, त्रिदिवम् towords heaven, जग्मतुः had gone, इति श्रुतम् thus heard.
आङ्ग्लानुवादः
“O Rama mother and sons having arrived at this conclusion in the tapovana ascended to heaven with their desire fulfilled. This is what we have heard.”
श्लोकः
मूलम्
एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा।
दितिं यत्र तपस्सिद्धामेवं परिचचार सः॥1.47.10॥
शब्दार्थः
काकुत्स्थ O Rama, एषः this one, पुरा formerly, महेन्द्राध्युषितः inhabited by Indra, सः that, देशः country, यत्र where, सः he, तपः in austerities, सिद्धाम् succeded, दितिम् Diti, एवम् this way, परिचचार attended on.
आङ्ग्लानुवादः
“O Descendant of Kakustha (Rama) this is that country which was formerly inhabited by Indra. Here Indra attended on Diti who achieved the fruit of her austerities.
श्लोकः
मूलम्
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥1.47.11॥
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः।
तेन चासीदिह स्थाने विशालेति पुरी कृता॥1.47.12॥
शब्दार्थः
नरव्याघ्र O Tiger among men, Rama, इक्ष्वाकोः for Ikshvaku, अलम्बुषायाम् in Alambusa, परमधार्मिकः highly virtuous, विशाल इति named Vishala, विश्रुतः wellknown, पुत्रः son, उत्पन्नः was norn, तेन by him, इह here, स्थाने in this place, विशालेति named as Vishala, पुरी city, कृता आसीत् was built.
आङ्ग्लानुवादः
“O Tiger among men (Rama) this highly virtuous and wellknown son named Vishala was born to Ikshvakus in Alambusa. Where, a city named Vishala was built.
श्लोकः
मूलम्
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥1.47.11॥
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः।
तेन चासीदिह स्थाने विशालेति पुरी कृता॥1.47.12॥
शब्दार्थः
नरव्याघ्र O Tiger among men, Rama, इक्ष्वाकोः for Ikshvaku, अलम्बुषायाम् in Alambusa, परमधार्मिकः highly virtuous, विशाल इति named Vishala, विश्रुतः wellknown, पुत्रः son, उत्पन्नः was born, तेन by him, इह here, स्थाने in this place, विशालेति named as Vishala, पुरी city, कृता आसीत् was built.
आङ्ग्लानुवादः
“O Tiger among men (Rama) this highly virtuous and wellknown son named Vishala was born to Ikshvakus in Alambusa. Where, a city named Vishala was built.
श्लोकः
मूलम्
विशालस्य सुतो राम हेमचन्द्रो महाबलः।
सुचन्द्र इति विख्यातः हेमचन्द्रादनन्तरः॥1.47.13॥
शब्दार्थः
राम O Rama, महाबलः mighty, हेमचन्द्रः Hemachandra, विशालस्य Vishala’s, सुतः son, हेमचन्द्रात् from Hemachandra, अनन्तरः his successor, सुचन्द्र इति as Suchandra, विख्यातः celebrated one.
आङ्ग्लानुवादः
O Rama mighty Hemachandra was Vishala’s son. Hemachandra’s successor was the celebrated Suchandra.
श्लोकः
मूलम्
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः।
धूम्राश्वतनयश्चापि सञ्जयस्समपद्यत॥1.47.14॥
शब्दार्थः
राम O Rama, सुचन्द्रतनयः son of Suchandra, धूम्राश्व इति as Dhumraswa, विश्रुतः wellknown, सञ्जयः Sanjaya, धूम्राश्वतनयः son of Dhumraswa, समपद्यत was born.
आङ्ग्लानुवादः
O Rama son of Suchandra was Dhumraswa, wellknown Sanjaya was the son of Dhumraswa.
श्लोकः
मूलम्
सञ्जयस्य सुतश्श्रीमान् सहदेवः प्रतापवान्।
कुशाश्वस्सहदेवस्य पुत्रः परमधार्मिकः॥1.47.15॥
शब्दार्थः
श्रीमान् prosperous, प्रतापवान् powerful, सहदेवः Sahadeva, सञ्जयस्य Sanjaya’s, सुतः son, परमधार्मिकः highly virtuous, कुशाश्वः Kusaswa, सहदेवस्य Sahadeva’s, पुत्रः son.
आङ्ग्लानुवादः
Prosperous and powerful Sahadeva was Sanjaya’s son. Highly virtuous Kusaswa was Sahadeva’s son.
श्लोकः
मूलम्
कुशाश्वस्य महातेजा सोमदत्तः प्रतापवान्।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥1.47.16॥
शब्दार्थः
महातेजाः highly lustrous, प्रतापवान् powerful, सोमदत्तः Somadatta, कुशाश्वस्य Kusaswa’s (son), सोमदत्तस्य Somadatta’s, पुत्रः son, काकुत्स्थः Kakutstha, इति विश्रुतः is wellknown.
आङ्ग्लानुवादः
Brilliant and powerful Somadatta was Kusaswa’s son. That Somadatta’s son was Kakutstha is wellknown.
श्लोकः
मूलम्
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्।
आवसत्यमरप्रख्यस्सुमतिर्नाम दुर्जयः॥1.47.17॥
शब्दार्थः
सम्प्रति now, इमां पुरीम् in this city, तस्य पुत्रः son of Ikshvaku, महातेजाः heroic, अमरप्रख्यः equal to devatas, दुर्जयः invincible, सुमतिर्नाम named Sumati, आवसति is living.
आङ्ग्लानुवादः
Son of Ikshvakus, Sumati comparable to devatas, invincible and exceedingly energetic is still ruling this city.
श्लोकः
मूलम्
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः।
दीर्घायुषो महात्मानो वीर्यवन्तस्सुधार्मिकाः॥1.47.18॥
शब्दार्थः
इक्ष्वाकोः Ikshwaku’s, प्रसादेन by his graciousness, वैशालिकाः relating to Vishala, नृपाः kings, सर्वे all, दीर्घायुषः possessing longlife, महात्मानः exalted, वीर्यवन्तः valourous, सुधार्मिकाः are virtuous.
आङ्ग्लानुवादः
By the grace of the Ikshvakus, all the kings of Vishala have been long lived and exalted, valiant and deeply religious.
श्लोकः
मूलम्
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥1.47.19॥
शब्दार्थः
राम O Rama, अद्य today, रजनीम् night, वयम् we, इह here, सुखम् happily, वत्स्यामहे will stay on, नरश्रेष्ठ O Best among men, श्वः tomorrow, प्रभाते early morning, जनकम् Janaka, द्रष्टुम् to see, अर्हसि fit and proper.
आङ्ग्लानुवादः
O Rama we shall spend the right happily here. O Best among men On the tomorrow we see Janaka”.
श्लोकः
मूलम्
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः॥1.47.20॥
शब्दार्थः
महातेजाः most brilliant, महायशाः man of immense renown, नरवरश्रेष्ठः chief of men, सुमतिस्तु king Sumati, विश्वामित्रम् Visvamitra, उपागतम् arrived, श्रुत्वा having heard, प्रत्युद्गच्छत् went forward (to receive him).
आङ्ग्लानुवादः
Having heard of the arrival of Viswamitra the celebrated Sumati, most brilliant chief of kings proceeded (to receive him).
श्लोकः
मूलम्
पूजां च परमां कृत्वा सोपाध्यायस्सबान्धवः।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥1.47.21॥
शब्दार्थः
सोपाध्यायः with spiritual preceptors, सबान्धवः together with his relatives, परमाम् supreme, पूजाम् honours, कृत्वा having performed, प्राञ्जलिः with folded palms, कुशलम् welfare, पृष्ट्वा having enquired, अथ thereafter, विश्वामित्रम् addressing Visvamitra, अब्रवीत् spoke.
आङ्ग्लानुवादः
Along with his spiritual preceptors and relatives he paid Viswamitra great respect,
enquired his wellbeing and saidः
श्लोकः
मूलम्
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥1.47.22॥
शब्दार्थः
यस्य मे my, विषयम् country, मुनिः Muni (you), सम्प्राप्तः has visited, दर्शनम् चैव having graced all of us, धन्यः अस्मि blessed am I, अनुगृहीतः अस्मि I am ( highly )favoured, मम for me, न अस्ति धन्यतरः there is none more blessed than me.
आङ्ग्लानुवादः
“O Sage no one is more blessed than me since you have favoured me with your arrival in my country.”
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तचत्वारिंशस्सर्गः॥
Thus ends the fortyseventh sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.