Sumantra relates the story of sage Rsyasringa to Dasaratha tells him he would get sons after performance of a sacrifice by Rsyasringa–Dasaratha plans to get Rsyasringa to Ayodhya.
श्लोकः
मूलम्
एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत्।
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः॥1.9.1॥
शब्दार्थः
एतत् this matter, श्रुत्वा having heard, सूतः king’s charioteer, राजानम् addressing king, रहः in privacy, इदम् these words, अब्रवीत् said, ऋत्विग्भिः by officiating priests, उपदिष्टः advised, अयम् this solution, पुरा ancient, वृत्तः happened, मया श्रुतः heard by me.
आङ्ग्लानुवादः
The charioteer tells the king in privacy that he has heard the advice given by the offciating priests.
श्लोकः
मूलम्
सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम्।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति॥1.9.2॥
शब्दार्थः
राजन् O King, भगवान् possessing divinity, सनत्कुमारः Sanatkumara, तव your, पुत्रागमं प्रति about the birth of your sons, कथाम् story, ऋषीणां सन्निधौ in the presence of sages, पूर्वम् earlier, कथितवान् narrated.
आङ्ग्लानुवादः
“O king, the divine Sanatkumara had narrated a story about your posterity in the presence of sages.
श्लोकः
मूलम्
काश्यपस्यतु पुत्रोऽस्ति विभण्डक इति श्रुतः।
ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति॥1.9.3॥
शब्दार्थः
काश्यपस्य for Kasyapa, विभण्डकः इति named Vibhandaka, श्रुतः famous, पुत्रः अस्ति has a son, तस्य for him, ऋष्यशृङ्ग इति named Rsyasringa, ख्यातः wellknown, पुत्रः son भविष्यति will be born.
आङ्ग्लानुवादः
Kasyapa has a famous son named Vibhandaka. It was prophesied that he would have a son named Rsyasringa.
श्लोकः
मूलम्
स वने नित्यसंवृद्धो मुनिर्वनचरस्सदा ।
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥1.9.4॥
शब्दार्थः
वने in the forest, नित्यसंवृद्धः grown up, सदा always, वनचरः a person moving in the forest, विप्रेन्द्रः foremost among brahmins, सः मुनिः that sage, नित्यम् always, पित्रनुवर्तनात् by following his father, अन्यम् others, न जानाति will not know.
आङ्ग्लानुवादः
Grown up in the forest and always moving with his father, that sage knows none other than his father.
श्लोकः
मूलम्
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः।
लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा॥1.9.5॥
शब्दार्थः
राजन् O King, महात्मनः eminet one, लोकेषु in the worlds, प्रथितम् celebrated, सदा always, विप्रैः by brahmins, कथितम् described, ब्रह्मचर्यस्य of Brahmacharya (life of celebacy), द्वैविध्यम् twofold, भविष्यति will happen.
आङ्ग्लानुवादः
O eminent king, sage Rsyasringa celebrated in the three worlds who practises a twofold brahmacharya life (life of celebacy) described by brahmins (as vratitva and prajapatya).
श्लोकः
मूलम्
तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्॥1.9.6॥
शब्दार्थः
अग्निम् firegod, यशस्विनम् enowned, पितरम् च his father also, शुश्रूषमाणस्य while attending, एवम् in this manner, वर्तमानस्य living, तस्य for him, कालः time, समभिवर्तत will be spent.
आङ्ग्लानुवादः
Worshipping the firegod and attending on his renowned father, he will spend a long time living in this manner (practising vratitva mode of brahmacharya).
श्लोकः
मूलम्
एतस्मिन्नेव काले तु रोमपादः प्रतापवान्।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः॥ 1.9.7॥
शब्दार्थः
एतस्मिन्नेव काले at this time, अङ्गेषु in the country of Anga, प्रतापवान् mighty, महाबलः possessing great strength, प्रथितः celebrated, रोमपादः king Romapada, भविष्यति will be living.
आङ्ग्लानुवादः
At this time a powerful king Romapada, mighty and celebrated would be living in the country of Anga.
श्लोकः
मूलम्
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥1.9.8॥
शब्दार्थः
तस्य that, राज्ञः king, व्यतिक्रमात् violation of code of conduct, सुदारुणा सुघोरा dreadful, सर्वभूतभयावहा frightening all living beings, अनावृष्टिः drought, भविष्यति will set in.
आङ्ग्लानुवादः
Because of violation of code of conduct by the king, a terrible, dreadful drought frightening all living beings will set in the kingdom.
श्लोकः
मूलम्
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः।
ब्राह्मणान्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति॥ 1.9.9॥
शब्दार्थः
अनावृष्ट्याम् when drought, वृत्तायाम् will be prevailing, राजा king, दुःखसमन्वितः filled with grief, श्रुतवृद्धान् men who grow old by learning, ब्राह्मणान् brahmins, समानीय summoning, प्रवक्ष्यति will say.
आङ्ग्लानुवादः
With drought prevailing, the griefstricken king, would summon all those grown old with learning and tell them.
श्लोकः
मूलम्
भवन्तश्श्रुतधर्माणो लोकचारित्रवेदिनः ।
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥1.9.10॥
शब्दार्थः
भवन्तः all of you, श्रुतधर्माणः are conversant in duties (enjoined by scriptures), लोकचारित्रवेदिनः wellversed in the ways of the world, यथा in whichever manner, प्रायश्चित्तम् expiation, भवेत् happens, नियमम् religious observance, समादिशन्तु instruct.
आङ्ग्लानुवादः
श्लोकः
मूलम्
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः।
विभण्डकसुतं राजन्सर्वोपायैरिहानय॥1.9.11॥
शब्दार्थः
वेदपारगाः those learned in vedas, ते ब्राह्मणाः those brahmins, महीपालम् addressing the king, वक्ष्यन्ति will say, राजन् O king, विभण्डकसुतम् son of sage Vibhandaka, Rsyasringa, सर्वोपायैः by all means, इह here, आनय bring.
आङ्ग्लानुवादः
Those brahmins versed in the Vedas, said, to ‘O king bring here Rsyasringa, son of the sage Vibhandaka by all means’.
श्लोकः
मूलम्
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम्।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥1.9.12॥
शब्दार्थः
महीपाल O Monarch, सुसत्कृतम् greatly honoured, ऋश्यशृङ्गम् Rsyasringa, आनाय्य having brought, समाहितः with due reverence, कन्याम् your daughter, शान्ताम् Shanta, विधिना according to religious ceremonies, प्रयच्छ offer.
आङ्ग्लानुवादः
“O monarch, on having brought Rsyasringa here, honour him, and offer him your daughter Santa with due reverence.
श्लोकः
मूलम्
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्य इहानेतुं स वीर्यवान् ॥1.9.13॥
शब्दार्थः
तेषाम् their, वचनम् words, श्रुत्वा having heard, राजा king, वीर्यवान् with controlled senses, सः he, इह here, आनेतुम् to bring, केन उपायेन by what means, शक्यः capable of being done, चिन्ताम् contemplating, प्रपत्स्यते will obtain.
आङ्ग्लानुवादः
On hearing their words, the king in a thoughtful mood said, ‘How can the mighty sage be brought here’?
श्लोकः
मूलम्
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान्॥1.9.14॥
शब्दार्थः
ततः thereafter, आत्मवान् intelligent, राजा king, मन्त्रिभिः सह in consultation with his ministers, विनिश्चित्य having decided, ततः thereafter, सत्कृतान् duly honouring, पुरोहितम् priest, अमात्यांश्च counsellors, प्रेष्यति send on a mission.
आङ्ग्लानुवादः
Thereafter the confident king, having decided, in consultation with his ministers to bring him (Rsyasringa), sent the priest with the counsellors on this mission.
श्लोकः
मूलम्
ते तु राज्ञो वचश्श्रुशृत्वा व्यथिता विनताननाः।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ 1.9.15॥
शब्दार्थः
ते they, राज्ञः king’s, वचः words, श्रुत्वा having heard, ऋषेः from the Rishi, भीताः frightened, व्यथिताः distressed, विनताननाः with faces bent down, न गच्छेम we will not go, तम् that, नृपम् king, अनुनेष्यन्ति will appeal.
आङ्ग्लानुवादः
On hearing the king’s words, distressed and frightened by rishi’s power, they appealed to the king, faces bent down, ‘We will not go’.
श्लोकः
मूलम्
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान्।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति॥ 1.9.16॥
शब्दार्थः
ते they, चिन्तयित्वा having thought about it, तत्क्षमान् useful in bringing him, उपायान् means, तस्य ते for that king, वक्ष्यन्ति will tell, वयम् we, विप्रम् that sage, आनेष्यामः will bring, दोषः blame, न भविष्यति च will not accrue.
आङ्ग्लानुवादः
After thinking about the means to be employed to bring the rishi to the court, they told him they would bring the sage if they are not to blame (in case anything untoward
happens).
श्लोकः
मूलम्
एवमङ्गाधिपेनैव गणिकाभिः ऋषेस्सुतः।
आनीतोऽवर्षयद्देवश्शान्ता चास्मै प्रदीयते॥1.9.17॥
शब्दार्थः
एवम् in this way, अङ्गाधिपेन by the king of Anga region, Romapada, गणिकाभिः with the help of courtesans, ऋषेः सुतः son of sage Vibhandaka, आनीतः was brought, देवः god (Indra), अवर्षयत् poured rains, अस्मै for Rsyasringa, शान्ता Shanta, प्रदीयते च will be offered.
आङ्ग्लानुवादः
Thus with the help of courtesans of the king of Anga, when the son of the sage (Rsyasringa) was brought rains followed. The king offered his daughter Santa (in marriage to the sage).
श्लोकः
मूलम्
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति।
सनत्कुमारकथितमेतावद्व्याहृतं मया॥1.9.18॥
शब्दार्थः
जामाता soninlaw, ऋश्यशृङ्गस्तु Rsyasringa, तव your, पुत्रान् sons, विधास्यति will ordain to be born, एतावत् till that instance, सनत्कुमारकथितम् the account communicated by Sanatkumara, मया by me, व्याहृतम् told to you.
आङ्ग्लानुवादः
‘Risyasringa, your soninlaw, would help you to obtain sons’. Thus said Sanathkumara which I have related to you.
श्लोकः
मूलम्
अथ हृष्टो दशरथस्सुमन्त्रं प्रत्यभाषत।
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्॥1.9.19॥
शब्दार्थः
अथ now, हृष्टः pleased, दशरथः king Dasaratha, सुमन्त्रं प्रति addressing Sumantra, अभाषत spoke, ऋष्यशृङ्गः Rsyasringa, यथा by whatever means, आनीतः was brought, त्वया by you, विस्तरेण in detail, उच्यताम् be described.
आङ्ग्लानुवादः
Thereupon Dasaratha, pleased, (with him), said to Sumantra, “Describe in detail the means by which Rsyasringa was brought (to the court of Romapada)”.
समाप्तिः
श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे नवमस्सर्गः॥
Thus ends the ninth sarga of Balakanda of the holy Ramayana of the first epic composed by sage Valmiki.