वानरप्राप्त्यनन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । ते हनुमत्प्रभृतयः सीतायाः प्रवृत्तिं वृत्तात्तं प्रवक्तुमुपचक्रमुः । श्लोकद्वयमेकान्वयि ॥ ५।६५।१,२ ॥
तदुक्तिप्रकारं बोधयन्नाह रावणेति । रावणान्तःपुरे रोधं निरोधं राक्षसीभिस्तर्जनं च सीतायाः इति शेषः । यथा येन प्रकारेण नियमः दशमो वर्तते मासौ द्वौ च शेषौ प्लवङ्गमेत्यादिनोक्तो ऽवधिः कृतः सीतयेति शेषः । एतत्सर्वं रामसंनिधौ ते हरय आख्याय अतिष्ठन्तेति शेषः । सार्धश्लोक एकान्वयी ॥ ५।६५।३ ॥
वैदेहीमिति । अक्षताम् अहिंसितां वैदेहीं श्रुत्वा उत्तरं श्रेष्ठं वचनं रामो ऽब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह क्केति । सीता क्क वर्तते मयि कथं केन भावेन वर्त्तते वैदेहीं प्रति वैदेहीसंबन्धि एतत्सर्वं यूयमाख्यातं केन भावेन इत्युक्त्या द्रुतस्वकर्तृकरावणवधाभावजनितसीतामर्षविषयकसंभावना सूचिता । अर्धद्वयमेकान्वयि ॥ ५।६५।४,५ ॥
रामस्येति । रामस्य वचनं श्रुत्वा हरयो वानराः सीतावृत्तान्तकोविदं हनूमन्तं चोदयन्ति वृत्तान्तकथनाय प्रैरयन्त ॥ ५।६५।६ ॥
श्रुत्वेति । हनूमान् तेषां वचनं श्रुत्वा सीतायै तां दक्षिणां दिशं प्रति च प्रणम्य यथा येन प्रकारेण सीताया दर्शनमभवदिति शेषः । तथा वाक्यमुवाच । सार्धश्लोक एकान्वयी ॥ ५।६५।७ ॥
तदेव भङ्ग्यन्तरेणाह तमिति । तं सीतया दत्तं मणिं रामाय दत्त्वा हनूमानब्रवीत् ॥ ५।६५।८ ॥
तद्वचनाकारमाह समुद्रमिति । शतयोजनमायतं समुद्रं लङ्घयित्वा सीतां मार्गमाणो ऽहम् अगच्छं सागरदक्षिणतीरमिति शेषः ॥ ५।६५।९ ॥
तत्रेति । तत्र प्रसिद्धे दक्षिणस्य समुद्रस्य तीरे रावणस्य लङ्केति नगरी वसति अस्ति ॥ ५।६५।१० ॥
तत्रेति । तत्र लङ्कायां रावणान्तःपुरे सती सीता मया दृष्टा । अर्धं पृथक् ॥ ५।६५।११ ॥
तदेव भङ्ग्यन्तरेणाह त्वयीति । राक्षसीमध्ये मुहुर्मुहुस्तर्ज्यमाना मनोरथं त्वयि संन्यस्य जीवन्ती रामा सीता मया दृष्टा ॥ ५।६५।१२ ॥
राक्षसीभिरिति । त्वया सुखोचिता अक्षता अहिंसिता सीता प्रमदावने राक्षसीभिः करणैर्दुःखमापद्यते प्राप्नोति ॥ ५।६५।१३ ॥
रावणेति । राक्षसीभिः सुरक्षिता अधः भूमौ शय्या शयनं यस्याः हिमागमे पद्मिनीव विवर्णाङ्गी तत्त्वेन प्रतीयमाना रावणाद्धेतोः विनिवृत्तः अर्थः त्वत्सेवारूपपरमप्रयोजनं यस्या अत एव मर्तव्ये मरणे कृतः निश्चयो यया सा देवी सीता इक्ष्वाकुवंशविख्यातिं कीर्तयता मया कथञ्चित् मार्गिता । श्लोकत्रयमेकान्वयि ॥ ५।६५।१४१६ ॥
सेति । सा मार्गिता सीता शनैर्विश्वासिता रामदूतो ऽयमिति विश्वासं प्रापिता ततो ऽनन्तरं संभाषिता कृतप्रश्ना अत एव सर्वमर्थं वृत्तान्तं दर्शिता बोधिता ॥ ५।६५।१७ ॥
रामेति । रामसुग्रीवसख्यं श्रुत्वा हर्षं प्रमोदमुपागता प्राप्ता । अर्धं पृथक् नियत इति । अस्याः मद्बुद्धिस्थायाः सीतायास्त्वयि भक्तिः परप्रीतिः तथा समुदाचारः तदनुकूलानुचरणं नियतः नियमेन वर्तमानो ऽस्तीति शेषः ॥ ५।६५।१८ ॥
एवमिति । उग्रेण तपसा त्वद्भक्त्या च युक्ता जनकनन्दिनी एवमुक्तप्रकारेण मया दृष्टा ॥ ५।६५।१९ ॥
अभिज्ञानमिति । चित्रकूटे वायसं जयन्तं प्रति तवान्तिके यद्वृत्तं वृत्तान्तं तदभिज्ञानं मत्संवादचिह्नं मे मह्यं दत्तं कथितमित्यर्थः ॥ ५।६५।२० ॥
सीतायाः वचनान्तरमाह विज्ञाप्य इति । वायुसुत यथा येन प्रकारेण त्वया दृष्टं तथा अखिलेन निश्शेषम् एषः मद्धृदये स्थितो रामः त्वया विज्ञाप्यः वक्तव्य इति मां जानकी आह ॥ ५।६५।२१ ॥
अयमिति । एवं वचनानि उपशृण्वतः सुग्रीवस्य समीपे ब्रुवता त्वया यत्नात् त्वत्प्रयत्नं विज्ञाप्य सुपरिरक्षितः स्वदेह इति शेषः । अयं वृत्तान्तसमूहः त्वया प्रदातव्यः वक्तव्य इत्यर्थः ॥ ५।६५।२२ ॥
एष इति । यत्नरक्षितः एष मया दत्तो यो मणिः तं तत् पूर्वं त्वया कृतं मनःशिलायाः तिलकं च स्मरस्व इत्यब्रवीत् सीतेति शेषः ॥ ५।६५।२३ ॥
एष इति । यया मया वारिसंभवः एष मणिः निर्यातितः प्रेषितः सा व्यसने दुःखे स्थिता ऽहम् एतत् त्वत्प्रेषिताङ्गुलीयकं त्वामिव पश्यामि ॥ ५।६५।२४ ॥
जीवितमिति । मासादूर्ध्वं न जीवेयम् ॥ ५।६५।२५ ॥
इतीति । सीता मामित्यब्रवीत् ॥ ५।६५।२६ ॥
एतदिति । यथा यथावत् तदेतत् सर्वमाख्यातम् अतः सागरजले संतारः संतरणोपायः प्रविधीयतां क्रियताम् ॥ ५।६५।२७ ॥
ताविति । जाताश्वासौ प्राप्ताश्वासनौ राजपुत्रौ विदित्वा सर्वम् अभिज्ञानं प्रदाय देव्या सीतया आख्यातं संपूर्णं वायुपुत्रो वाचा शशंस ॥ ५।६५।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ५।६५ ॥