सुग्रीवाज्ञाश्रवणानन्तरकालिकदधिमुखवृत्तान्तमाह सुग्रीवेणेत्यादिभिः । सुग्रीवेणैवमुक्तो दधिमुखः राघवादीन् अभ्यवादयत् ॥ ५।६४।१ ॥
स इति । वानरैः सहितः स दधिमुखः दिवमाकाशमार्गमुत्पपात ॥ ५।६४।२ ॥
स इति । यथा त्वरितं पूर्वमागतः तथैव गतः गमनवान् स दधिमुखः गगनाद्भूमौ निपत्य वनं मधुवनं प्रविवेश ॥ ५।६४।३ ॥
स इति । मधुवनं प्रविष्टः स दधिमुखः मधुरूपमुदकं मेहमानान् मूत्रयतः विमदान् हरियूथपान् ददर्श ॥ ५।६४।४ ॥
स इति । स दधिमुखः करपुटाञ्जलिं बद्ध्वा हृष्टवत् हर्षकारकं वचनमङ्गदमुवाच ॥ ५।६४।५ ॥
तदाकारमाह सौम्येति । हे सौम्य अज्ञानात् भवत्संपादितकार्यविषयज्ञानाभावात् रक्षिभिः भवन्तः प्रतिषेधिताः अतः यदेभिः परिवारणम् एतत्करणकनिवारणं तत्संस्मृत्येति शेषः । रोषो न कर्तव्यः । किंच एभिर्वानरैः सह भवन्तः प्रतिषेधिताः अतो यत्परिवारणमस्मत्कर्तृकनिवारणं तत्संस्मृत्य रोषो न कर्तव्यः ॥ ५।६४।६ ॥
श्रान्त इति । दूरादनुप्राप्तः अत एव श्रान्तस्त्वं स्वकं मधु भक्षयस्व पिब स्वकीयत्वे हेतुः यतस्त्वं युवराजः अत एव अस्य वनस्य ईशः स्वामी असीति शेषः ॥ ५।६४।७ ॥
मौर्ख्यादिति । यथा पूर्वं ते पिता हरिगणेश्वरः तथा त्वं सुग्रीवो ऽपि अन्यो न अतः मौर्ख्यात् अज्ञानात् पूर्वं कृतो यो रोषस्तत् क्षन्तुं भवानर्हति । सार्धश्लोक एकान्वयी ॥ ५।६४।८ ॥
आख्यातमिति । सर्वेषाम् एतेषां भवतामिहोपयानमागमनं तव पितृव्यस्य समीपे गत्वा मया ऽ ऽख्यातं कथितम् ॥ ५।६४।९ ॥
भवदिति । असौ सुग्रीवः वनं प्रधर्षितं श्रुत्वापि भवदागमनं श्रुत्वा प्रहृष्ट एव न तु रुष्टः ॥ ५।६४।१० ॥
प्रहृष्ट इति । प्रहृष्टस्ते पितृव्यः तान् वानरान् शीघ्रं प्रेषय इत्युवाच ॥ ५।६४।११ ॥
श्रुत्वेति । अङ्गदः एतत् श्रुत्वा अब्रवीत् ॥ ५।६४।१२ ॥
तदाकारमाह शङ्के इति । हे हरियूथपाः अयं दधिमुखः हर्षादाख्याति किंचित्कथयति तेन हेतुना अयम् अस्मदीयो वृत्तान्तः रामेण श्रुत इत्यहं शङ्के अनुमिनोमि जानामि निश्चिनोमि च हे परन्तपाः तत्तस्माद्धेतोः कार्ये कृते सति इह स्थातुं नो ऽस्माकं न क्षमम् । सार्धश्लोक एकान्वयी ॥ ५।६४।१३,१४ ॥
पीत्वेति । यथाकामं मधु पीत्वा विद्यमानाः ये वनचारिणः तेषां कृत्यं शेषमवशिष्टं किं न किंचिदित्यर्थः । अतः यत्र सुग्रीवः तत्र गमनं कुरुतेति शेषः ॥ ५।६४।१५ ॥
सर्वे इति । सर्वे हरिपुङ्गवाः समेत्य यथा मां वक्ष्यन्ति तथा ऽहं कर्ता ऽस्मि । तत्र हेतुः कर्तव्ये भवद्भिरहं परवान् भवदधीन इत्यर्थः ॥ ५।६४।१६ ॥
नेति । यतः कृतकर्माणो यूयं धर्षयितुमयुक्तम् अतः यद्यप्यहं युवराजः तथाप्याज्ञापयितुं नोशो ऽस्मि कृतकर्माणो यूयमिति । समुदायस्य कर्मत्वविवक्षया तस्य प्रातिपदिकत्वाभावान्न द्वितीया ॥ ५।६४।१७ ॥
ब्रुवत इति । एवं ब्रुवतो ऽङ्गदस्य समीपे वनौकस इदमूचुः ॥ ५।६४।१८ ॥
तदाकारमाह एवमिति । हे राजन् यतः सर्वो जनः ऐश्वर्यमदमत्तः सन् अहमेव प्रभुरिति मन्यते अतः एवं भवद्वचनसदृशं कः प्रभृर्वक्ष्यति प्रभुरिति उभयान्वयि ॥ ५।६४।१९ ॥
तवेति । इदं वाक्यं तवैव सुसदृशं योग्यं हि युक्तमिदं यतः इयं सन्नतिः तव
भविष्यच्छुभयोग्यतामाख्याति कथयति ॥ ५।६४।२० ॥
सर्व इति । हरिवीराणामव्ययः पतिः सुग्रीवो यत्र तत्र गन्तुं कृतक्षणाः जातोत्साहाः सन्तः वयं सर्वे प्राप्ताः ॥ ५।६४।२१ ॥
त्वयेति । त्वया अनुक्तैः अनाज्ञापितैः हरिभिः पदात्स्थानात् पदं पादमात्रमपि गन्तुं न शक्यम् इदं सत्यं ब्रूमः ॥ ५।६४।२२ ॥
एवमिति । एवं वदतां तेषां मध्ये अङ्गदः प्रत्यभाषत गमनाय आज्ञापयत् अत एव महाबलाः अङ्गदप्रभृतयः खमुत्पेतुः ॥ ५।६४।२३ ॥
उत्पतन्तमिति । उत्पतन्तमङ्गदप्रभृतिमनुते अवशिष्टाः सर्वे हरियूथपाः आकाशं निराकाशमवकाशरहितं कृत्वा यन्त्रोत्क्षिप्ताः उपला इव उत्पेतुः ॥ ५।६४।२४ ॥
गमनप्रकारं बोधयन्नाह– अङ्गदमिति । ते जाम्बवत्प्रभृतयः प्लवङ्गमाः अङ्गदं हनूमन्तं च पुरतो ऽग्रे कृत्वा सहसोत्पत्य वातेरिता घना इव महानादं यथा भवति तथा विनदन्तः सन्तः जग्मुरिति शेषः । सार्द्धश्लोक एकान्वयी ॥ ५।६४।२५ ॥
अङ्गदे इति । अङ्गदे समनुप्राप्ते दृश्यमाने सतीत्यर्थः । सुग्रीवः राममुवाच ॥ ५।६४।२६ ॥
तदाकारमाह– समिति । यतः अतीतसमयैः इहागन्तुं न शक्यम् अतः तदागमनादित्यर्थः, अङ्गदस्य प्रहर्षाच्च देवी सीता दृष्टेत्यहं जानामि निश्चिनोमि अतः समाश्वसिहि । सार्धश्लोक एकान्वयी ॥ ५।६४।२७,२८ ॥
नेति । कृत्ये सीतादर्शने विनिपातिते अनिष्पादिते सति अङ्गदः मत्सकाशं नागच्छेत् यदि अङ्गदो नागच्छेत्तर्हि अन्ये नागच्छेयुरिति किं वक्तव्यमिति । काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ ५।६४।२९ ॥
नन्वसाधितकार्याणामप्यागमनं लोके दृष्टमित्यत आह यद्यपीति । यद्यपि अकृतकृत्यानामपि ईदृशः उपक्रमः समीपागमनं स्यात् संभवेत् तथापि भ्रान्तिविप्लुतमानसः सन् सो ऽङ्गदः दीनवदनो भवेत् । एतेन दीनवदनाभावस्य सीतादर्शने लिङ्गत्वं बोधितम् ॥ ५।६४।३० ॥
पितृ इति । जनकात्मजाम् अदृष्ट्वा मे मधुवनं न हन्यात् ॥ ५।६४।३१ ॥
कौसल्येति । देवी दृष्टा तत्रापि हनुमतैव अत एव कौशल्या सुप्रजा शोभनपुत्रवती अस्तीति शेषः । अतः समाश्वसिहि ॥ ५।६४।३२ ॥
हनुमत एव दर्शने हेतुमाह– नेति । तद्विधः परमोत्तमबुद्धिधारको हनुमान् अस्य वाटिकाविध्वंसरूपस्य कर्मणः साधने हेतुर्न भवेत् अतः हनुमत्येव सिद्धिः इतीह अस्मिन् समये मतिर्मम निश्चयः ॥ ५।६४।३३ ॥
हनुमतः साधने योग्यतामाह– व्यवसाय इति । व्यवसायप्रभृति प्रतिष्ठितं हनुमतीत्यनुकृष्यते । अर्धं पृथक् । जाम्बवानिति । यत्र सैन्ये जाम्बवत्प्रभृतिः नेत्रादिः तत्र अन्यथा गतिः उत्पथगमनं न स्यात् । एतेन सीतादर्शनजनितानन्द एवोत्पथगमने हेतुरिति सूचितम् ॥ ५।६४।३४ ॥
मेति । यदा यदि काननौकसः दर्पितोदग्राः प्रवृद्धदर्पाः सन्तः सङ्गताः तर्हि चिन्तासमायुक्तस्त्वं मा भूः ॥ ५।६४।३५ ॥
उपसंहरन्नाह नेति । अकृतकार्याणामेषामीदृशं आनन्दहेतुकोपद्रवकारक उपक्रमो न स्यात् । अत एव वनभङ्गादिना जानामि सीतादर्शननिष्पत्तिं निश्चिनोमि ॥ ५।६४।३६ ॥
तत इति । ततः सुग्रीवकर्तृकोक्त्यनन्तरं सिद्धिं कथयतामिव किष्किन्धामुपयातानां काननौकसाम् आसन्नं समीपवर्तिनं किलकिलाशब्दं शुश्राव । सार्धश्लोक एकान्वयी ॥ ५।६४।३७,३८ ॥
तत इति । कपीनां नादं श्रुत्वा हृष्टमानसः अत एव आयताञ्चितं लाङ्गूलं यस्य स सुग्रीवो ऽभवत् ॥ ५।६४।३९ ॥
आजग्मुरिति । रामदर्शनकाङ्क्षिणस्ते हरय आजग्मुः समीपं प्रापुः ॥ ५।६४।४० ॥
ते इति । प्रहृष्टाः प्राप्तसंतोषाः अत एव मुदान्विताः अङ्गदप्रमुखाः समीपे निपेतुः ॥ ५।६४।४१ ॥
हनूमानिति । हनूमान् प्रणम्य नियतां यतचित्ताम् अक्षतां विनाशरहितां देवीं सीतां राघवाय न्यवेदयत् ॥ ५।६४।४२ ॥
दृष्टेति । हनूमद्वदनान्निस्मृतम् अमृतोपमं दृष्टा देवीति वचनमाकर्ण्य रामो हर्षमाप ॥ ५।६४।४३ ॥
निश्चितार्थमिति । पवनात्मजे निश्चितः अर्थः सीतादर्शनं येन तं सुग्रीवं हनूमन्तं च प्रीतिमान् लक्ष्मणो ऽवैक्षत । प्रीत्या ऽतिप्रेम्णोपलक्षितः परमया लक्ष्म्या अपि परया सीतयेत्यर्थः, उपेतो मनसा संयुक्तो राघवश्च महता प्रशंसनीयेन बहुमानेनावैक्षत । श्लोकद्वयं संमिलितान्वयि ॥ ५।६४।४४,४५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ५।६४ ॥