दधिमुखप्रणामानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः वानरर्षभः सुग्रीवः निपतितं दृष्ट्वैव उद्विग्नहृदयः सन् उवाच ॥ ५।६३।१ ॥
तदाकारमाह उत्तिष्ठेति । अभयं रिपुहेतुकभयनिवृत्तिं ते प्रदास्यामि ॥ ५।६३।२ ॥
किमिति । यत् किं किञ्चित् हितं स्वस्य मम वा पथ्यं तद्वक्तुमर्हसि ब्रूहीत्यर्थः, मधुवने स्वस्ति च ब्रूहि । तत्र हेतुः संभ्रमादादरात् श्रोतुमिच्छामि ॥ ५।६३।३ ॥
स इति । सुग्रीवेण समाश्वासितः समहाप्राज्ञः महाप्रज्ञासहितः स दधिमुखः उत्थायाब्रवीत् । प्राज्ञाशब्दः स्वार्थिकाणन्तः ङीबभावस्त्वजादित्वात् ॥ ५।६३।४ ॥
तदाकारमाह नेति । यद्वनम् ऋक्षरजःप्रभृतिभिर्निसृष्टपूर्वं यथेच्छभोगाय पूर्वं दत्तं न तद्वनं ते वानरैर्नाशितम् ॥ ५।६३।५ ॥
न्यवारयमिति । अहं न्यवारयं तथापि मामचिन्तयित्वा अपरिगणय्य भक्षयन्ति पिबन्ति ॥ ५।६३।६ ॥
एभिरिति । एभिर्वनरक्षिभिः प्रधृष्यमाणाः भर्त्स्यमाना वारिताश्च ते वानराः भक्षयन्ति पिबन्ति च ॥ ५।६३।७ ॥
शिष्टमिति । अपरे भक्षयन्ति शिष्टमवशिष्टम् अपविध्यन्ति प्रक्षिपन्ति च निवार्यमाणाः सन्तः भृकुटिं दर्शयन्ति ॥ ५।६३।८ ॥
इमे इति । संरब्धतराः निवारणफलकयत्नवन्तः इमे वानराः क्रुद्धैर्वानरपुङ्गवैः संप्रधर्षिताः सन्तः तस्माद्धनात् निर्वाप्यन्ते ॥ ५।६३।९ ॥
तदेव भङ्ग्यन्तरेणाह तत इति । हरयः मदनुयायिवानराः बहुभिस्तैर्वानरैः संप्रधर्षिताः ॥ ५।६३।१० ॥
तत्प्रकारमाह पाणिभिरिति । प्रकृष्टाः प्रगृह्य आकृष्टाः सन्तः देवमार्गमाकाशं दर्शिताः प्रक्षेपेण प्रापिताः ॥ ५।६३।११ ॥
एवमिति । एवमुक्तप्रकारेण एते शूराः हताः तैर्वानरैः कृत्स्नं वनं भक्ष्यते अभक्ष्यत ॥ ५।६३।१२ ॥
एवमिति । एवं विज्ञाप्यमानं सुग्रीवं लक्ष्मणो ऽपृच्छत् ॥ ५।६३।१३ ॥
तत्प्रश्नाकारमाह किमिति । हे राजन् अयं वनपः किं किमर्थं प्रत्युपस्थितः किमर्थमभिनिर्दिश्य बोधयित्वा दुःखितः सन् अब्रवीत् ॥ ५।६३।१४ ॥
एवमिति । एवमुक्तः सुग्रीव उवाच ॥ ५।६३।१५ ॥
तदाकारमाह आर्येति । अङ्गदप्रमुखैः मधु मधुवनसंबन्धिमूलफलादि भक्षितम् इति दधिमुखः कपिः संप्राह ॥ ५।६३।१६ ॥
नेति । अकृतकार्याणाम् अनिष्पादितमत्प्रयोजनानां वानराणाम् ईदृशो व्यतिक्रमो न स्यात् । यद्यस्माद्धेतोस्ते वानराः वनमभिपन्नाः विध्वंसितुं प्रवृत्ताः तस्माद्धेतोः कर्म मत्प्रयोजनं ध्रुवं साधितं वानरैरिति शेषः ॥ ५।६३।१७ ॥
वारयन्त इति । वारयन्तः प्राप्ताः पालाः वनरक्षकाः जानुभिर्भृशमाहता बभूवुरिति शेषः । तथा वनस्य पतिः अस्माभिः स्थापितः अयं दधिमुखो न गणितः अतः देवी सीता दृष्टा तत्रापि हनूमतैव दृष्टा नान्येन संदेहः अत्र संशयो न । श्लोकद्वयमेकान्वयि ॥ ५।६३।१८,१९ ॥
हनुमत एव दर्शने हेतुं वदन्नाह नेति । यस्मिन् व्यवसायादि प्रतिष्ठितं तस्मिन् हनुमत्येव कार्यसिद्धिः अतः अस्य दधिमुखवर्णितस्य कर्मणः वाटिकाविध्वंसस्य साधने हेतुर्मुख्यकारणं हनूमतो ऽन्यो न इति मतिर्मम निश्चयः । सार्धश्लोक एकान्वयी ॥ ५।६३।२० ॥
कार्यसिद्धिमन्तरा वानरकर्तृकमधुवनविध्वंसस्यासंभवं द्योतयन्नाह जाम्बवानिति । यत्र सैन्ये जाम्बवान्नेता मुख्यः अङ्गदो हरीश्वरः सर्ववानरनियन्ता हनूमान् अधिष्ठाता संमतिद्धाता तत्र सैन्ये अन्यथागतिः अन्याय्येन गमनं न संभवतीति शेषः ॥ ५।६३।२१ ॥
अङ्गदेति । अङ्गदप्रमुखैर्वानरैः उपयुक्तं भोगोपयोगि कृत्स्नं मधुवनं हतं वनं वनपजातं धर्षितं च ॥ ५।६३।२२ ॥
पातिता इति । जानुभिराहताः ते वनपालाः पातिताः एतदर्थं वक्तुं मधुरवाक् नाम्ना दधिमुखनामा इह प्राप्तः । सार्धः श्लोक एकान्वयी ॥ ५।६३।२३,२४ ॥
दृष्टेति । यतो वानराः अभिगम्य मधु यथा यथावत्पिबन्ति अतः सीता दृष्टा इति पश्य जानीहि ॥ ५।६३।२५ ॥
नेति । वैदेहीमदृष्ट्वा विश्रुता प्रख्याता वनौकसः दत्तवरम् अस्माभिः प्राप्ताभयं वनं न धर्षयेयुः ॥ ५।६३।२६ ॥
तत इति । सुग्रीववदनात् च्युतां वाणीं श्रुत्वा राघवः प्रहृष्टो ऽभवदिति शेषः ॥ ५।६३।२७ ॥
प्राहृष्यतेति । एवं सुग्रववचनसदृशं दधिमुखस्य वाक्यं श्रुत्वा रामः प्राहृष्यत सुग्रीवादीन् प्रहर्षयामास अन्तर्भावितणिजर्थः । सुग्रीवः शोभनग्रीवाविशिष्टः सुग्रीवस्तु वनपालं पुनः प्रत्यभाषत । सार्धश्लोक एकान्वयी ॥ ५।६३।२८ ॥
प्रतिभाषणाकारमाह प्रीत इति । कृतकर्मभिः साधितास्मत्प्रयोजनैस्तैर्वानरैर्यद्वनं भुक्तं तेनाहं प्रीतो ऽस्मि अतः कृतकर्मणां वानराणां धर्षितं प्रागल्भ्यं चेष्टितं ध्वंसानुकूलव्यापारश्च मर्षणीयं क्षन्तव्यम् ॥ ५।६३।२९ ॥
गच्छेति । मधुवनं गच्छ त्वमेव संरक्षस्व हनुमत्प्रमुखान् शीघ्रं प्रेषय ॥ ५।६३।३० ॥
प्रेषणे हेतुमाह इच्छामीति । मृगराजदर्पान् सिंहवद्दर्पविशिष्टान् कृतार्थान् शाखामृगान् द्रष्टुं शीघ्रमिच्छामि । तत्र हेतुः सीताधिगमे सीतादर्शनप्राप्त्यर्थं प्रयत्नं यत्नविशेषं श्रोतुं शीघ्रमिच्छामि ॥ ५।६३।३१ ॥
प्रीतीति । सिद्धार्थौ निष्पन्नप्रयोजनौ अत एव संप्रहृष्टौ अत एव प्रीत्या हनुमदाविषयकातिस्नेहेन स्फीते अक्षिणी ययोः तौ कुमारौ रामलक्ष्मणौ दृष्ट्वा प्रहृष्टैः अङ्गैः दक्षिणनेत्रादिभिः करणैर्बाह्वोरासन्नां प्राप्तमिव कार्यसिद्धिं विदित्वा वानराणां राजा सुग्रीवः अतिमात्रम् अत्यतं ननन्द ॥ ५।६३।३२ ॥
इति श्रीमद्वल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रिषष्टितमः सर्गः ॥ ५।६३ ॥