०६२ दधिमुखेन किष्किन्धानिवर्तनम्

वानरकर्तृकरक्षकपराभवानन्तरकालिकं वृत्तान्तमाह– तामित्यादिभिः । हे वानराः युष्माकं परिपन्थिनः रिपून् अहम् आवर्जयिष्यामि अतो यूयं मधु सेवत पिबत इति वचो हनूमान् तान् वानरान् उवाच । सार्धश्लोक एकान्वयी ॥ ५।६२।१ ॥

श्रुत्वेति । हनूमतो वाक्यं श्रुत्वा अङ्गदः प्रत्युवाच । तदाकारमाह– कृतकार्यस्य हनूमतः अकार्यमपि वाक्यम् अस्माभिरवश्यं कर्तव्यम् । ईदृशं कार्यं कर्तव्यमिति किम् अतः मधु पिबत । अर्धचतुष्टयमेकान्वयि ॥ ५।६२।२,३ ॥

अङ्गदस्येति । वानराः वचनं प्रत्यपूजयन् ॥ ५।६२।४ ॥

पूजयित्वेति । अङ्गदं पूजयित्वा यत्र मधुवनं तत्र वानरर्षभाः सर्वे वानराः नदीवेग इव जग्मुः ॥ ५।६२।५ ॥

ते इति । मैथिलीं दृष्ट्वा श्रुत्वा च आगताः सर्वे वानराः अतिसर्गात् अङ्गदाज्ञातः शक्तितः सामर्थ्यात् पालान् मधुवनरक्षकान् आक्रम्य त्वितरकर्तृकमिति विवेकः । सार्धश्लोक एकान्वयी ॥ ५।६२।६,७ ॥

उत्पत्येति । समागतान् शतशो वनपालान् ताडयन्तः सर्वे वानराः ततस्तस्मिन् मधुवने सक्ता बभूवुरिति शेषः ॥ ५।६२।८ ॥

मधूनीति । संघशो विद्यमानाः केचित्कपये द्रोणमात्राणि अष्टाढकप्रमाणानि मधूनि बाहुभिः परिगृह्य हृष्टवत् संतोषकारकं यथा भवति तथा पिबन्ति ॥ ५।६२।९ ॥

घ्नन्तीनि । मधुपिङ्गलाः सहिताः सर्वे वानराः मधूनि मधुपटलानि घ्नन्ति ताडयन्ति अपरे भक्षयन्ति पिबन्ति केचित्पीत्वा अपविध्यन्ति प्रक्षिपन्ति ॥ ५।६२।१० ॥

मध्विति । उत्कटाः मधुमत्ताः केचित् मधूच्छिष्टेन उच्छिष्टमधुना अन्योन्यं जघ्नुः अपरे शाखाः गृह्य गृहीत्वा वृक्षमूले व्यवस्थिताः ॥ ५।६२।११ ॥

अत्यर्थमिति । मधुमत्ताः अत एव मदग्लानाः मदहेतुकग्लानिविशिष्टाः अत एव उन्मत्तभूताः उन्मत्तत्वं प्राप्ताः प्लवगाः पर्णानि आस्तीर्य शेरते ॥ ५।६२।१२ ॥

क्षिपन्तीति । केचित् अन्योन्यं क्षिपन्ति क्षेपयन्ति अपरे स्खलन्ति केचित् क्षेडान् विलासान् प्रकुर्वन्ति केचित् हृष्टवत् हर्षकारकं यथा भवति तथा कूजन्ति ॥ ५।६२।१३ ॥

हरय इति । मधुना मत्ताः केचित् हरयः हसन्ति अन्ये इतरत् रोदनादि कुर्वन्ति ॥ ५।६२।१४ ॥

कृत्वेति । केचित् कृत्वा किंचित्कर्म संपाद्य वदन्ति अन्ये केचित् इतरत् कृतकार्यात् भिन्नं कार्यं बुध्यन्ति । अर्धं पृथक् । ये इति । अत्र मधुवने दधिमुखस्य प्रेष्याः भृत्याः ये मधुपालाः स्युः अतिष्ठन् ते ऽपि भीमैर्वानरैः प्रतिषिद्धाः सन्तः दिशो गताः पलायिताः । अर्धद्वयमेकान्वयि ॥ ५।६२।१५ ॥

जानुभिरिति । जानुभिः जानुग्रहणैः प्रघृष्टाः आकृष्टा अनन्तरं देवमार्गम् आकाशं दर्शिताः प्रक्षेपेण प्रापिता इत्यर्थः । अत एव परमोद्विग्नाः केचित् रक्षकाः दधिमुखं गत्वा प्राप्य हनूमता दत्तः वरः यथेच्छं मूलफलादिस्वीकारो येभ्यः तैः मधुवनं हतं विनाशितं वयं च जानुभिर्घृष्टाः सन्तः देवमार्गं प्रदर्शिताः इति वचः अब्रुवन् । अर्धचतुष्टयमेकान्वयि ॥ ५।६२।१६,१७ ॥

तदेति । तदा रक्षकगमनानन्तरकाले मधुवनं हतं श्रुत्वा क्रुद्धो वनपो दधिमुखः तानागतान् हरीन् सान्त्वयामास ॥ ५।६२।१८ ॥

सान्त्वप्रकारमाह– एतेति । यूयम् एत वानरान् गच्छत वयं गच्छामः मधूत्तमं प्रभुञ्जानान् वानरान् वयमावारयिष्यामः ॥ ५।६२।१९ ॥

श्रुत्वेति । दधिमुखस्य वचनं श्रुत्वा तेन दधिमुखेन सह वानरर्षभाः मधुवनं पुनर्ययुः ॥ ५।६२।२० ॥

मध्य इति । तेषां प्रेष्याणां मध्ये स्थितः दधिमुखः महातरुं सुप्रगृह्य वेगेन समभ्यधावत् प्लवङ्गमाश्च समभ्यधावन् ॥ ५।६२।२१,२२ ॥

तत्प्रकारमाह– ते इति । पाणिभिः शिलापादपांश्च गृहीत्वा यत्र कपिकुञ्जराः तत्र क्रुद्धाः सन्तो ऽभ्यगमन् ॥ ५।६२।२३ ॥

बलादिति । क्रुद्धाः अत एव संदष्टौष्ठपुटाः अत एव मुहुर्मुहुर्भर्त्सयन्तः वारयन्तो हरयः हरीन् आसेदुः प्रापुः ॥ ५।६२।२४ ॥

अथेति । दधिमुखं दृष्ट्वा हनुमत्प्रमुखाः अभ्यधावन्त ॥ ५।६२।२५ ॥

सेति । सवृक्षं वृक्षसहितमापतन्तं तं दधिमुखम् अङ्गदो विजग्राह ॥ ५।६२।२६ ॥

मदान्धा इति । मदान्धो दधिमुखः ममायमार्यकः स्वामीति बुद्ध्या कृपां न चक्रे अथातः सो ऽङ्गदः एनं दधिमुखं वेगेन वसुधातले निष्पिपेष ॥ ५।६२।२७ ॥

स इति । भग्नबाहूरुमुखः अत एव शोणितोक्षितो दधिमुखः प्रमुमोह ॥ ५।६२।२८ ॥

स इति । तैः अङ्गदप्रमुखैः कथंचिद्विमुक्तः स दधिमुखः एकान्तमागत्य स्वान् भृत्यानुवाच ॥ ५।६२।२९ ॥

तदाकारमाह– एत इति । यत्र सुग्रीवः तत्र गच्छामः ॥ ५।६२।३० ॥

सर्व इति । वयं सर्वे अङ्गदे दोषं पार्थिवे सुग्रीवसमीपे श्रावयिष्याम श्रावयिष्यामः अतः अमर्षी सुग्रीवः वानरान् अङ्गदादीन् घातयिष्यति ॥ ५।६२।३१ ॥

तदेव भङ्ग्यन्तरेणाह– इष्टमिति । हि यतएतत् विनाशितं मधुवनं सुग्रीवस्य इष्टम् अतः इमान् वानरान् सुग्रीवो घातयिष्यति । अर्धचतुष्टयमेकान्वयि ॥ ५।६२।३२,३३ ॥

वध्या इति । नृपाज्ञया परिपन्थिनः विरोधिनः एते वध्या अत एव मे रोषः सफलो भविष्यति ॥ ५।६२।३४ ॥

एवमिति । दधिमुखः एवमुक्त्वा जगाम ॥ ५।६२।३५ ॥

निमेषेति । स दधिमुखः यत्र सुग्रीवः तत्र निमेषान्तरमात्रेण प्राप्तः ॥ ५।६२।३६ ॥

राममिति । रामप्रभृतिं दृष्ट्वा समप्रतिष्ठां समतलां जगतीं भूमिं निपपात प्राप्नोत् ॥ ५।६२।३७ ॥

समिति । तैः भृत्यैः परिवारितः दधिमुखः संनिपत्य दीनवदनो भूत्वा शिरसि अञ्जलिं कृत्वा मूर्ध्ना सुग्रीवस्य चरणौ प्रत्यपीडयत् । अर्धचतुष्टयमेकान्वयि ॥ ५।६२।३८,३९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ५।६२ ॥