जाम्बवद्वचनश्रवणानन्तरकालिकं वानराणां वृत्तान्तमाह– तत इत्यादिभिः । अङ्गदप्रमुखा हनूमांश्च वनौकसः जाम्बवतो वाक्यमगृह्णन्त ॥ ५।६१।१ ॥
प्रीतिमन्त इति । आकाशं छादयन्त इव मत्ता महागजा इव महाकायाः भूतैः सिद्धादिभिः सभाज्यमानं पूज्यमानं हनूमन्तं दृष्टिभिः अनिमिषावलोकनैः वहन्त इव समृद्धः संपन्नः अर्थः प्रयोजनं येषां ते कर्मसिद्धिभिः सीतादर्शनलङ्कादहनादिभिः उन्नता उद्धतचित्ताः वायुपुत्रपुरःसराः प्रीतिमन्तः सर्वे वानराः राघवे राघवस्य अर्थनिर्वृत्तिं कार्यसिद्धिं कर्तुं संपादयितुं परमं यशः समादाय प्राप्य महेन्द्रात्समुत्पत्य पुप्लवुः जग्मुः । चतुर्णामेकत्रान्वयः ॥ ५।६१।२५ ॥
प्रियेति । सर्वे प्रियाख्याने उन्मुखाः समुत्सुकाः बभूवुः । सर्वे रामप्रतीकारे रामार्थं रावणनिग्रहे निश्चितार्था अत एव सर्वे युद्धाभिनन्दिनश्च बभूवुरिति शेषः ॥ ५।६१।६ ॥
प्लवमाना इति । काननौकसः वानराः नन्दनोपमं नन्दनसदृशं वनमासेदुः प्रापुः ॥ ५।६१।७ ॥
यदिति । अभिरक्षितं सर्वतो रक्षायुक्तम् अत एव सर्वभूतानामधृष्यं यत् दधिमुखो नाम सुग्रीवस्य मातुलः रक्षति रक्षयति यच्च सुग्रीवस्य मनःकान्तं महावनम् अनेकवनिकाविशिष्टं मधुवनं नाम वनं तत् उपागम्य प्राप्य ते वानराः परमोत्कटा तत्रत्यमधुपानेनातिमत्ताः बभुवुः । श्लोकत्रयमेकान्वयि ॥ ५।६१।८१० ॥
मधुपानप्रकारमाह– तत इति । मधुपिङ्गलाः मधुवत् पिङ्गलवर्णाः ते वानराः मधुवनं दृष्ट्वा कुमारं तद्रक्षकं मधून्ययाचन्त ॥ ५।६१।११ ॥
तत इति । कुमारः जाम्बवत्प्रमुखान् अनुमान्य सत्कृत्य निसर्गं स्वभावसिद्धं मधु पुष्पविशेषरसं तेषां भक्षणे भक्षणार्थं ददौ ॥ ५।६१।१२ ॥
ते इति । कुमारेण वालिसूनुना ऽङ्गदेन च निसृष्टाः प्रेरिताः ते हरयः मधुकरैः आकुलान् व्याप्तान् द्रुमान् समपद्यन्त प्राप्नुवन् ॥ ५।६१।१३ ॥
भक्षयन्त इति । मूलानि फलानि च भक्षयन्तो वानराः प्रहर्षं जग्मुः मदोत्कटाः बभूवुश्च ॥ ५।६१।१४ ॥
तत इति । अनुमताः अङ्गदसंमतिविषयीभूताः सुसंहृष्टाः प्राप्तसंतोषाः अत एव मुदिताः सर्वे वानराः ततस्ततः तत्तत्तनुसंनिधौ नृत्यन्ति ॥ ५।६१।१५ ॥
सर्वेषां तत्कालिकक्रियामाह– गायन्तीत्यादिभिः ॥ ५।६१।१६ ॥
परस्परमिति । अतिब्रुवन्ति विवादं कुर्वन्ति ॥ ५।६१।१७ ॥
महीतलादिति । उदीर्णवेगाः अतिवेगवन्तः केचित् महीतलात् महाद्रुमाग्राणि अभिसंपतन्ति ॥ ५।६१।१८ ॥
तुदन्तमिति । तुदन्तं व्यथयन्तमन्यः प्रणदन् अतिनादं कुर्वन्नुपैति प्राप्नोति अतः तत् कपिसैन्यं समाकुलं तुमुलमासीत् । तत्र हेतुः– यो मत्तो न बभूव सो ऽत्र कश्चिन्न अत एव यो दृप्तो न बभूव सो ऽप्यत्र न बभूव ॥ ५।६१।१९ ॥
तत इति । परिभक्ष्यमाणं वनं विध्वंसितपत्रपुष्पान् द्रुमांश्च समीक्ष्य दधिवक्रनामा कपिः तान् विध्वंसनादिकर्तृ़न् निवारयामास ॥ ५।६१।२० ॥
स इति । प्रवृद्धैः तैर्वानरैः परिभर्त्स्यमानो वनस्य गोप्ता स दधिवक्रनामा वानरेभ्यो वनस्य रक्षां प्रति भूयो मतिं चकार ॥ ५।६१।२१ ॥
उवाचेति । अभीतं यथा भवति तथा कांश्चित् परुषाणि उवाच अन्यान् असक्तम् अत्यासंजनरहितं यथा भवति तथा तलैर्जघान कैश्चित् कलहं चकार कांश्चित् साम्ना सामरूपोपायेन जगाम ॥ ५।६१।२२ ॥
स इति । अप्रतिवार्याः वेगाः येषां तैः अत एव तेन रक्षकेण अप्रतिवार्यमाणैः त्यक्तभयैः तैर्वानरैः उद्धर्षणे रक्षकपराभवे दोषं राजदण्डमनवेक्ष्य अपरिगणय्य समेत्य एकीभूय स रक्षकः बलात् प्रकृष्यते पुच्छादिग्रहणेन इतस्ततो नीयते ॥ ५।६१।२३ ॥
नखैरिति । कपिं नखैस्तुदन्तो व्यथयन्तः समापयन्तः मृतप्रायं कुर्वन्तः ते कपयः समन्तान्महावनं निर्विषयं फलादिभ्यो रहितं चक्रुः ॥ ५।६१।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ५।६१ ॥