०६० जाम्बवता मार्गदर्शनम्

हनुमद्वचनश्रवणानन्तरकालिकामङ्गदोक्तिं वर्णयन्नाह– तस्येति । तस्य हनूमतो वचनं श्रुत्वा वालिसूनुरङ्गदो ऽभाषत । अर्धं पृथक् । तद्भाषणाकारमाह– अश्वीत्यादिभिः । महावेगौ अश्विपुत्रौ प्लवङ्गमौ पितामहवरोत्सेकाद्धेतोः परमं दर्पमास्थितौ स्त इति शेषः ॥ ५।६०।१ ॥

सकारणं वरस्वरूपमाह– अश्विनोरिति । माननार्थं सर्वलोकपितामहः अनयोरश्विपुत्रयोः सर्वावध्यत्वं सर्वकर्तृकवध्यत्वाभावं दत्तवान् ॥ ५।६०।२ ॥

वरोत्सेकेनेति । वरोत्सेकेन मत्तौ तावश्विपुत्रौ सुराणां चमूं प्रमथ्य अमृतं पीतवन्तौ अतः संक्रुद्धौ एतावश्विपुत्रावेव लङ्कां नाशयितुं शक्तौ अतः सर्वे वानराः तिष्ठन्तु । श्लोकद्वयमेकान्वयि ॥ ५।६०।३,४ ॥

अहमिति । अहमप्येकः लङ्कां रावणं च हन्तुं पर्याप्तो यदि तर्हि विजयैषिभिर्भवद्भिः सहितः पर्याप्तश्चेत्किं वक्तव्यम् । अर्धचतुष्टयमेकान्वयि ॥ ५।६०।५,६ ॥

वायुसूनोरिति । वायुसूनोर्बलेनैव लङ्का दग्धा । अर्धं पृथक् ॥ ५।६०।७ ॥

दृष्टेति । देवी सीता दृष्टा आनीता तु न इति तत्र रामस्य समीपे भवद्भिर्निवेदितुं न युक्तमिव पश्यामि ॥ ५।६०।८ ॥

नेति । हे हरिसत्तमाः वो युष्माकं प्लवनादौ तुल्यः सामरदैत्येषु कश्चिन्न ॥ ५।६०।९ ॥

जित्वेति । सरक्षौघां राक्षससमूहवतीं लङ्कां जित्वा सीतामादाय वयं गच्छामः अत एव निर्देशात्संहितादन्तता वा कल्प्या ॥ ५।६०।१० ॥

तेष्विति । हनूमता हतशेषेषु राक्षसेषु सत्सु जानकीं गृहीत्वा याम रामसमीपं यामः अन्यत् इतो भिन्नम् अत्र अस्मिन् समये किं कर्तव्यम् इदमेव कर्तव्यमित्यर्थः ॥ ५।६०।११ ॥

रामेति । जनकात्मजां रामलक्ष्मणयोर्मध्ये न्यस्याम संस्थापयाम वानरर्षभान् सर्वान् वानरान् प्रति व्यलीकैः अप्रियैः रामादिकर्तृकौदासीन्यवचनैः किं न किमपीत्यर्थः ॥ ५।६०।१२ ॥

उपसंहरन्नाह– वयमिति । वयमेव राक्षसपुङ्गवान् हत्वा राघवं द्रष्टुमर्हामः ॥ ५।६०।१३ ॥

तमिति । एवमुक्तप्रकारेण कृतसंकल्पमङ्गदं जाम्बवान् अर्थवद्वाक्यमुवाच ॥ ५।६०।१४ ॥

तद्वचनाकारमाह– नेत्यादिभिः । यतः दक्षिणां दिशं विचेतुमेव वयमाज्ञप्ताः नानेतुं सीतामिति शेषः, अतः यद्ब्रवीषि तद्विषयिणी एषा बुद्धिर्निश्चयो न कर्तव्येति शेषः । सार्धश्लोक एकान्वयी ॥ ५।६०।१५ ॥

ननु सीतानयनाज्ञाया अभावे ऽपि तदनुकूलाचरणात् तत्प्रीतिरेव भविष्यतीत्यत आह– कथंचित् अस्माभिर्निर्जितां रावणनिर्जयेनानीतां सीतां स्वकं कुलं स्ववीर्यगुप्तत्वरूपकुलधर्मं व्यपदिशन् कथयन् सन् राघवः कथंचिन्नाभिरोचयन् ॥ ५।६०।१६ ॥

प्रतिज्ञायेति । कपिमुख्यानामग्रतः स्वकं स्वसंपाद्यं सीताविजयं सीताहेतुकस्वकर्तृकरावणपराभवपूर्वकस्वोत्कर्षप्राप्तिं प्रतिज्ञाय मिथ्या कथं करिष्यति न करिष्यतीत्यर्थः, अतः तस्य रामस्य तुष्टिर्न भवेत् अस्मत्कर्तृकसीतानयनेनेति शेषः, अतः कृतमपि कर्म विफलं भवेत् । सार्धश्लोक एकान्वयी ॥ ५।६०।१७,१८ ॥

वृथेति । हे वानरपुङ्गवाः दर्शितं रावणविषये प्रकटितमपि वीर्यं वृथा आज्ञामन्तरा निरर्थकं भवेत् तस्मात् अस्य कृतस्य कार्यस्य सीतादर्शनस्य निवेदने बोधनार्थं यत्र रामः तत्र वयं सर्वे गच्छामः । सार्धश्लोक एकान्वयी ॥ ५।६०।१९ ॥

स्वोक्ते अङ्गदसंमतिसंपादनार्थमाह– नेति । हे राजपुत्र यतो भवान् यथा यथावत् पश्यति विचारयति अतः एषा मतिर्भवन्निश्चयो नो ऽस्माकमक्षमा अयुक्ता न । तथापि यथा येन प्रकारेण रामस्य मतिर्निश्चयः निविष्टा प्राप्ता तथा तेनैव प्रकारेण कार्यसिद्धिं भवान् पश्यतु विचारयतु ॥ ५।६०।२० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षष्टितमः सर्गः ॥ ५।६० ॥