हनुमत्कर्तृकलङ्कावृत्तान्तवर्णनमुक्त्वा तत्कर्तृकवृत्तान्तरं वर्णयितुमुपक्रमते एतदिति । हनूमान् तत्स्वाचरितमेतत्सर्वमाख्याय उत्तरं श्रेष्ठं वचनमुक्त्यन्तरं वक्तुं भूयः समुपचक्राम आरेभे ॥ ५।५९।१ ॥
तदाकारमाह सफल इत्यादिभिः । सीतायाः शीलं रामैकनिष्ठस्वभावम् आसाद्य विज्ञाय मम मनः प्रीणितं तृप्तम् अत एव राघवोद्योगः सुग्रीवस्य संभ्रमः राघवादरश्च सफलः ॥ ५।५९।२ ॥
आर्याया इति । आर्यायाः सीतायाः सदृशं शीलं यस्या अस्ति सेति शेषः, तपसा स्वधर्मबलेन लोकान् धारयेत् वा यदि क्रुद्धा तर्हि निर्दहेदपि ॥ ५।५९।३ ॥
सर्वथेति । तां सीतां स्पृशतः अपहरणाय स्पर्शं कुर्वतः यस्य रावणस्य गात्रं पाणिः तपसा सीतातपोबलेन न विनाशितं सो ऽसौ रावणः सर्वथा सर्वप्रकारेण अतिप्रकारेण अतिप्रकृष्टः प्रतिभातीति शेषः, एतेनेदं महदाश्चर्यमिति सूचितम् ॥ ५।५९।४ ॥
तदेव पोषयन्नाह नेति । क्रोधकलुषीकृता जनकस्य सुता यद्दहनं न कुर्यात्तद्दहनं पाणिसंस्पृष्टा अग्निशिखा न कुर्यात् । एतेन सीतायाः सामर्थ्यातिशयः सूचितः । तेन सीतायाः अधिकः कोपो न जात इति ध्वनितम् ॥ ५।५९।५ ॥
जाम्बवदिति । एवमनेन प्रकारेण गते सिद्धिं प्राप्ते अस्मिन् कार्ये भवतां समीपे निवेदिते सति जाम्बवत्प्रमुखान् कपीन् अनुज्ञाप्य तदाज्ञां गृहीत्वेत्यर्थः, वैदेह्या सह पार्थिवात्मजौ द्रष्टुं न्याय्यमस्माकमिति शेषः । सार्धश्लोक एकान्वयी ॥ ५।५९।६ ॥
ननु रामसुग्रीवयोर्लङ्कागमनमन्तरा कथमेवं भविष्यतीत्यत आह अहमिति । लङ्कां रावणं च हन्तुम् अहमेकः पर्याप्तो यदि तर्हि भवद्भिः सहितः पर्याप्तश्चेत् किं वक्तव्यम् । अर्धचतुष्टयमेकान्वयि ॥ ५।५९।७,८ ॥
तान्प्रोत्साहयितुं पुनः स्वपराक्रममाह अहमिति । सैन्यादिविशेषणविशिष्टं रावणं युधि वधिष्यामि ॥ ५।५९।९ ॥
ब्राह्ममिति । ब्रह्मास्त्रादीनि शक्रजितो यदि यान्यस्त्राणि तानि च भवतामभ्यनुज्ञातो ऽहं निहनिष्यामि अत एव राक्षसान् विधमिष्यामि । ननु कथमेवं भवतो निश्चय इत्यत आह– मे विक्रमः तं रावणं रुणद्धि पीडयतीत्यर्थः । अर्धचतुष्टयमेकान्वयि ॥ ५।५९।१०,११ ॥
मयेति । मया विसृष्टा प्रवर्तिता शैलवृष्टिः देवानपि हन्यात् राक्षसान् हन्यादिति किम् ॥ ५।५९।१२ ॥
नन्वेवं सति तत्रैव रावणः कुतो न हतः इत्यत आह– भवतामिति । भवताम् अननुज्ञात आज्ञात आज्ञाया अभावाद्धेतोर्मे विक्रमो मां रुणद्धि हन्तुं न्यवारयदित्यर्थः । अर्धं पृथक् ॥ ५।५९।१३ ॥
अन्येषामपि सामर्थ्यं वर्णयन्नाह– सागर इत्यादिभिः । सागरो वेलां स्वावधिमतियात् अतियायात् अतिक्रमेत् मन्दरश्च प्रचलेत् जाम्बवन्तं तु अरिवाहिनी रिपुसेना न कम्पयेत् ॥ ५।५९।१४ ॥
सर्वेति । सर्वराक्षससंघानां मध्ये ये पूर्वजाः अतिबला इत्यर्थः, तेषामपि नाशाय एको ऽप्यङ्गदो ऽलम् ॥ ५।५९।१५ ॥
प्लवगस्येति । नीलस्योरुवेगेन मन्दरो ऽपि अवशीर्येत ॥ ५।५९।१६ ॥
सेति । देवादिसहितेषु गन्धर्वादिषु मध्ये मैन्दस्य द्विविदस्य वा प्रतियोद्धारं यूयं शंसत कथयत न को ऽपि प्रतियोद्धा ऽस्तीत्यर्थः ॥ ५।५९।१७ ॥
अश्वीति । अश्विपुत्रौ यौ प्लवगसत्तमौ तयोः प्रतियोद्धारं न पश्यामि ॥ ५।५९।१८ ॥
इदानीं राक्षसविघाते न बहुश्रम इति बोधयन्नाह– मयेति । मयैव लङ्का दग्धा अत एव भस्मीकृता राजमार्गेषु नाम च मया विश्रावितम् ॥ ५।५९।१९ ॥
विश्रावणप्रकारमाह जयतीति द्वाभ्याम् ॥ ५।५९।२०,२१ ॥
द्रुतं प्रपतितं सीतावृत्तमाह– अशोकेति । राक्षसीभिः परिवृता अत एव मेघरेखया परिवृता आच्छादिता चन्द्ररेखेव निष्प्रभा रावणमचिन्तयन्ती अगणयन्ती सर्वात्मना राममनुरक्ता अत एव पुरन्दरे पौलोमीव रामेण रामातिस्मरणेन युक्तेति शेषः, अत एव अनन्यचिन्ता राक्षसीमध्ये मुहुर्मुहुः तर्ज्यमाना प्रमदानम् अवनमतिरक्षा यस्मिन् पुरुषागम्ये इत्यर्थः, रावणस्याशोकवनिकामध्ये शिंशपामूले अधस्तात् निम्नदेशे राक्षसीभिः अवष्टब्धा निरुद्धा जानकी मया दृष्टा । सार्धश्लोकपञ्चकमेकान्वयि ॥ ५।५९।२२२६ ॥
एकेति । हिमोदये पद्मिनी कमलिनीव विवर्णाङ्गी रावणाद्धेतोर्विनिवृत्तः अर्थो रामसेवा यस्याः सा सीता कथंचित् विश्वासमुपपादिता प्रापिता । श्लोकद्वयमेकान्वयि ॥ ५।५९।२७,२८ ॥
तत इति । संभाषिता अत एव सर्वमर्थं प्रकाशिता प्रबुद्धा सीता रामसुग्रीवसख्यं श्रुत्वा प्रीतिमुपागता प्राप्ता ॥ ५।५९।२९ ॥
नियत इति । नियतः समुदाचारः सीतासदाचरणं भर्तरि रामे उत्तमा भक्तिश्च यद्यस्माद्दशग्रीवं न हन्ति तस्माद्दशाननो महात्मा प्रतीयते इति शेषः, एतेन रावणो मृतप्राय एवेति सूचितम् । अत एव रामः तस्य रावणस्य वधे निमित्तमात्रं भविष्यति । सार्धश्लोक एकान्वयी ॥ ५।५९।३०,३१ ॥
सीतास्वरूपं निर्वक्ति सेति । प्रकृत्यैव तन्वङ्गी सीता तद्वियोगात् रामवियोगजदुःखात् कर्शिता अतिकृशत्वं प्राप्ता अत एव प्रतिपत्पाठशीलस्य जनस्य विद्येव तनुतां गता ॥ ५।५९।३२ ॥
एवमिति । सीता एवमास्ते अतः अत्र समये यत्प्रतिकर्तव्यं तत् उपकल्प्यताम् ॥ ५।५९।३३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५।५९ ॥