०५८ हनुमज्जाम्बवत्संवादः

वानराणां वृत्तान्तमाह तत इत्यादिभिः । महेन्द्रस्य गिरेः शृङ्गे स्थिताः हनूमत्प्रमुखाः उत्तमां प्रीतिं जग्मुः ॥ ५।५८।१ ॥

प्रीतिति । वानरेषु सूपविष्टेषु सत्सु प्रीतिसंहृष्टो जाम्बवान् कार्यवृत्तान्तं रामकार्यविषयकवृत्तम् अनिलात्मजमपृच्छत् । सार्धश्लोक एकान्वयी ॥ ५।५८।२ ॥

तत्प्रश्नाकारमाह कथमित्यादिभिः । देवी सीता तत्र लङ्कायां त्वया कथं दृष्टा दशाननो रावणः तस्यां सीतायां कथं वृत्तः प्रवृत्तः सेवते इत्यर्थः, एतत्सर्वं नस्त्वं तत्त्वतः प्रब्रूहि । सार्धश्लोक एकान्वयी ॥ ५।५८।३,४ ॥

संमार्गितेति । देवी कथं संमार्गिता अन्वेषिता श्रुतार्थाः वयं कार्यविनिश्चयं कथं चिन्तयिष्यामः ॥ ५।५८।५ ॥

य इति । तत्र रामसमीपे गतैः प्राप्तैरस्माभिः यो ऽर्थो वक्तव्यः यच्च रक्षितव्यं न वक्तव्यमित्यर्थः । तद्भवान् व्याकरोत् कथयतु ॥ ५।५८।६ ॥

स इति । तेन जाम्बवता नियुक्तः प्रेरितः स हनूमान् सीतायै नमस्यन् प्रत्यभाषत ॥ ५।५८।७ ॥

तत्प्रतिभाषणाकारमाह प्रत्यक्षमित्यादिभिः । उदधेः सागरस्य परं पारं काङ्क्षमाणः प्राप्यत्वेनेच्छन्नहं भवतां प्रत्यक्षमेव खमाप्लुतः प्राप्तः ॥ ५।५८।८ ॥

गच्छत इति । गच्छतो मे घोरं विघ्नरूपमिवाभवत् । अर्धं पृथक् । ननु किं तदित्यत आह काञ्चनमिति । पन्थानमावृत्य स्थितं दिव्यं शिखरं प्रशस्तशिखरवन्तं काञ्चनं नगं पश्यामि अपश्यं तं नगमहं विघ्नं मेने । अर्धद्वयमेकान्वयि ॥ ५।५८।९ ॥

उपेति । काञ्चनं नगमुत्तमं उपसंगम्य अयं नगो मया भेत्तव्यः इति बुद्धिर्निश्चयः मे मनसा कृता ॥ ५।५८।१० ॥

प्रहृतस्येति । मया लाङ्गूलेन प्रहृतस्य महागिरेः शिखरं सहस्रधा व्यशीर्यत ॥ ५।५८।११ ॥

व्यवसायमिति । व्यवसायं मत्कर्तृकस्वभेदनयत्नं बुद्ध्वा मनः प्रह्लादयन्नेव हे पुत्र? मातरिश्वनो वायोः सखायम् अत एव पितृव्यं महोदधौ निवसन्तं मैनाकमिति विख्यातं मां विद्धि जानीहि इति मधुरां वाणीं स गिरिरुवाच । अर्धचतुष्टयमेकान्वयि ॥ ५।५८।१२ ॥

पितृव्यं चेति । पितृव्यत्वे हेतुमाह– सखायमिति । पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ ५।५८।१३ ॥

तत्र निवासे कारणमाह पक्षवन्त इति । पर्वतोत्तमाः पूर्वं पक्षवन्तो बभूवुः अत एव बाधमानाः सन्तः छन्दतः स्वाधीनतया पृथिवीं समन्ततश्चेरुः ॥ ५।५८।१४ ॥

श्रुत्वेति । महेन्द्रो नगानां चरितं श्रुत्वा वज्रेण पक्षौ चिच्छेद ॥ ५।५८।१५ ॥

अहमिति । तदा तस्मिन् समये तव पित्रा अहं वरुणालये प्रक्षिप्तः अत एव तस्मात्पक्षछेदात् मोचितः ॥ ५।५८।१६ ॥

राघवस्येति । धर्मभृतां श्रेष्ठः यो रामः तस्य राघवस्य साह्ये साहाय्ये मया वर्तितव्यम् ॥ ५।५८।१७ ॥

एतदिति । मैनाकस्यैतद्वचः श्रुत्वा मया कार्यं कर्तव्यमावेद्य बोधयित्वा विद्यमानस्य मम मनः उद्धतं प्रवृद्धमभवदिति शेषः ॥ ५।५८।१८ ॥

तेनेति । तेन मैनाकेन अहमनुज्ञातः सागरप्लवनाय आज्ञापितो ऽभवमिति शेषः । अर्धं पृथक् ॥ ५।५८।१९ ॥

स इति । वपुष्मता शोभनावयवविशिष्टेन शैलेन शिलामयेन मानुषेण मनुष्याकृतिना शरीरेणोपलक्षिताः महान्तः शैलाः गिरयो यस्य गिरीणां राजेत्यर्थः, शैलः स मैनाकः महोदधौ अन्तर्हितः ॥ ५।५८।२० ॥

उत्तममिति । उत्तमं जवं वेगमास्थाय शेषमवशिष्टमध्वानमास्थितो ऽभवमिति शेषः, पथि तस्मिन् मार्गे सुचिरं कालमभ्यगमं च ॥ ५।५८।२१ ॥

तत इति । ततो ऽनन्तरं नागमातरं सुरसां समुद्रमध्ये अहं पश्यामि अपश्यं सा सुरसा चेदमब्रवीत् ॥ ५।५८।२२ ॥

तद्वचनाकारमाह ममेति । अमरैः मम भक्ष्यः त्वं प्रदिष्टः ततः तस्माद्धेतोः त्वं सुरैर्विहितः प्रापितो ऽतस्त्वां भक्षयिष्यामि ॥ ५।५८।२३ ॥

एवमिति । सुरसया एवमुक्तो ऽहम् इदमुदीरयमुदैरयम् ॥ ५।५८।२४ ॥

तदाकारमाह राम इत्यादिभिः ॥ ५।५८।२५ ॥

तस्येति । रामाशासनात् गमिष्ये ॥ ५।५८।२६ ॥

कर्तुमिति । विषये रामदेशे सति हे विद्यमाने साहाय्यं कर्तुमर्हसि । अर्धं पृथक् । ननु रामादहं न बिभेमीति त्वां भक्षयिष्याम्येवेत्यत आह अथवेति । प्रतिशृणोमि प्रतिज्ञां करोमि । अर्धद्वयमेकान्वयि ॥ ५।५८।२७ ॥

एवमिति । एष वरः देवानामिति शेषः ॥ ५।५८।२८ ॥

एवमिति । दशयोजनमायतः स्वाभाविकदशयोजनविस्तृतो ऽहं यस्मिन् काले सुरसया एवमुक्तस्तस्मिन् काले अर्धगुणविस्तारः पञ्चयोजनविस्तृतो बभूव । तया सुरसया तु क्षणेनैव मत्प्रमाणाधिकं मत्प्रमाणादधिकं मुखं व्यादितं तदास्यं व्यादितं दृष्ट्वा अहं ह्रस्वं सूक्ष्मरूपमकरवम् ॥ ५।५८।२९,३० ॥

तस्मिन्निति । अङ्गुष्ठसंमितः यो ऽहं बभूव सः तद्वक्रमभिपत्य प्रविश्य क्षणान्निर्गतो ऽस्मि । अर्धद्वयमेकान्वयि ॥ ५।५८।३१ ॥

अब्रवीदिति । स्वेन रूपेणोपलक्षिता देवी सुरसा मामब्रवीत् । अर्धं पृथक् ॥ ५।५८।३२ ॥

तद्वचनाकारमाह अर्थेति । हे हरिश्रेष्ठ त्वं गच्छ वैदेहीं समानय संयोजय । सार्धश्लोक एकान्वयी ॥ ५।५८।३३ ॥

तत इति । ततो ऽनन्तरं साधु साध्वीति प्रशंसितो ऽहं विपुलमन्तरिक्षं गरुड इव प्लुतः । साध्वीति दीर्घ आर्ष इति भट्टाः, विस्मयार्थे ऽकारप्रश्लेषे तु नार्षकल्पना ॥ ५।५८।३४ ॥

छायेति । मे छाया निगृहीता कयाचिदिति शेषः, अतो ऽहं किंचिन्न पश्यामि । अर्धं पृथक् ॥ ५।५८।३५ ॥

स इति । येन मे गतिर्विहता तत् किंचिन्न पश्यामि ॥ ५।५८।३६ ॥

अथेति । अथानन्तरं मे बुद्धिः चिन्तोत्पन्ना तदाकारमाह अत्र यस्य रूपं न दृश्यते ईदृशः उत्पन्नः गमने विघ्नः किं नाम किंनामा ॥ ५।५८।३७ ॥

अध इति । शोचतो मम दृष्टिः अधोभागे पतिता तत्राधोभागे सलिलेशयां राक्षसीमद्राक्षम् ॥ ५।५८।३८ ॥

प्रहस्येति । अवस्थितं निश्चेष्टतया विद्यमानमप्यसंभ्रान्तं मामालक्ष्येति शेषः, महानादं यथा भवति तथा प्रहस्य इदं तया ऽहमुक्तः ॥ ५।५८।३९ ॥

तद्वचनाकारमाह क्वेति । क्षुधितायाः ममेप्सितो भक्ष्यस्त्वं क्व गन्तासि न गच्छेत्यर्थः । ननु किं करोमीत्यत आह मे देहं प्रीणय तर्पय ॥ ५।५८।४० ॥

बाढमिति । बाढमित्युक्त्वा तां वाणीं प्रत्यगृह्णाम् अतिष्ठमित्यर्थः । तस्याः आस्यप्रमाणात् अधिकं यथा भवति तथा कायं स्वशरीरम् अपूरयमवर्धयं च ॥ ५।५८।४१ ॥

तस्या इति । तस्याः आस्यं मुखं मम भक्षणे वर्धते सा तु मां मत्सामर्थ्यमित्यर्थः, न बुबुधे आविष्कृतं प्रकटितं मम कृतं रूपं च न बुबुधे ॥ ५।५८।४२ ॥

यन्न बुबुधे तद्रूपमाह तत इति । ततो ऽनन्तरं विपुलं बृहद्रूपं स्वशरीरं संक्षिप्य सूक्ष्मीकृत्य तस्याः हृदयमादाय संशोध्य ताडनेन हिंसाया अयोग्यं कृत्वेर्थः नभस्तलं प्रपतामि प्रापतम् ॥ ५।५८।४३ ॥

सेति । मया ऽतिकृत्तहृदया ताडितान्तरा अत एव विमृष्टौ विकीर्णौ भुजौ यस्याः सा असती लवणाम्भसि निपपात ॥ ५।५८।४४ ॥

शृणोमीति । सिंहिका राक्षसी हनुमता हता ताडितेति खगतानां महात्मनां वाचः शृणोमि अशृणवम् ॥ ५।५८।४५ ॥

तामिति । तां हत्वा आत्ययिकं प्राप्तविलम्बमित्यर्थः, कृत्यं कार्यं स्मरन् सन् महदध्वानं गत्वा नगैः पर्वतैः मण्डितं यत्र लङ्कापुरी तत् उदधेर्दक्षिणं तीरं पश्यामि । सार्धश्लोक एकान्वयी ॥ ५।५८।४६ ॥

अस्तमिति । रक्षोभिः अविज्ञातो ऽहं पुरीं लङ्कां प्रविष्टः ॥ ५।५८।४७ ॥

तत्रेति । तत्र लङ्कायां प्रविशतो मम पुरः अग्रे कल्पान्तघनसंनिभा एका नारी उत्थिता ॥ ५।५८।४८ ॥

जिघां सन्तीमिति । जिघांसन्तीं तां सव्यमुष्टिप्रहारेण पराजित्य तया उदितः कथितवृत्तान्तो ऽहं प्रविशं प्राविशम् । सार्धश्लोक एकान्वयी ॥ ५।५८।४९,५० ॥

तद्वचनाकारमाह अहमिति । यस्मात् ते त्वया अहं निर्जिता तस्मात् सर्वरक्षांसि त्वं विजेता ऽसि ॥ ५।५८।५१ ॥

तत्रेति । तत्र लङ्कायां सर्वरात्रं विचरन् सन् रावणान्तःपुरगतो ऽहं जनकात्मजां नापश्यम् ॥ ५।५८।५२ ॥

तत इति । रावणस्य निवेशने सीतामपश्यन्नहं शोकसागरमासाद्य पारं तं नोपलक्षये ॥ ५।५८।५३ ॥

शोचतेति । विकृष्टेन प्रकृष्टोर्ध्वभागेन प्राकारेण अभिसंवृतम् उत्तमं गृहोपवनं मया दृष्टम् ॥ ५।५८।५४ ॥

स इति । स दृष्टोपवनो ऽहं बहवः पादपायत्समीपे तं प्राकारमवप्लुत्य अशोकवनिकामध्ये यो महान् शिंशुपापादपः तमारुह्य काञ्चनं काञ्चनवर्णविशिष्टकदलीवनं पश्यामि अपश्यम् । सार्धश्लोक एकान्वयी ॥ ५।५८।५५ ॥

अदूरादिति । शिंशुपावृक्षात् अदूरात् समीपे वरवर्णिनीं गौराङ्गीं श्यामां नित्यं षोडशवार्षिकीत्वेन प्रतीयमानां तत्पौर्वकालिकं यदेकं वासः तेन संवीतां रजसा ध्वस्ताः व्याप्ताः शिरोरुहाः यस्याः तां भर्तृहिते स्थितां व्याघ्रीभिर्हरिणीमिव राक्षसीभिः अभिसंवृतां सीतामहं पश्यामि अपश्यम् । अर्धषट्कमेकान्वयि ॥ ५।५८।५६५८ ॥

सति राक्षसीमध्ये मुहुर्मुहुस्तर्ज्यमाना हिमागमे पद्मिनीव विवर्णाङ्गी रावणात् विनिवृत्तः अर्थः रामसेवा यस्याः अत एव मर्तव्ये मरणे कृतो निश्चयो यया सा सीता कथंचित्तूर्णं मया आसादिता प्राप्ता । सार्धश्लोकद्वयमेकान्वयि ॥ ५।५८।५९६१ ॥

तामिति । तां रामपत्नीं तादृशीम् उक्ततर्जनादिविशिष्टां दृष्ट्वा पश्यन् वृत्तान्तं निरीक्षमाणो ऽहं तत्र तस्मिन् शिंशुपावृक्षे अवस्थितः ॥ ५।५८।६२ ॥

तत इति । ततो ऽनन्तरं रावणस्य निवेशने अधिकगम्भीरं हलहलाशब्दं शृणोमि अशृणवम् ॥ ५।५८।६३ ॥

तत इति । परमोद्विग्नो ऽहं स्वरूपं स्वशरीरं प्रत्यसंहरं सूक्ष्ममकरवं शिंशुपावृक्षे गहने निबिडस्थले स्थितश्चाभवमिति शेषः ॥ ५।५८।६४ ॥

तत इति । ततो ऽनन्तरं यत्र सीता स्थिता ऽभवत् तत्र देशे रावणो ऽनुसंप्राप्तः रावणदाराश्च अनुसंप्राप्तावचनविपरिणामेनान्यत्राप्यन्वयः ॥ ५।५८।६५ ॥

तमिति । सीता रक्षोगणेश्वरं दृष्ट्वा ऊरू संकुच्य संकोच्य बाहुभ्यां स्तनौ परिरभ्य आच्छाद्येत्यर्थः, अवर्ततेति शेष ॥ ५।५८।६६ ॥

वित्रस्तामिति । कञ्चित्राणं त्राणकारकमपश्यन्तीम् अत एव वित्रस्ताम् अत एव परमोद्विग्नाम् अत एव इतस्ततो वीक्षमाणां तां सीताम् अवाक्शिराः सन् प्रयतितो दशग्रीवः मां बहु अधिकसेवाकर्तृत्वेनाधिकं मन्यस्व दर्पात् मद्दर्पमवलोक्य यदि त्वं मां नाभिनन्दसि तर्हि द्विमासानन्तरं तव रुधिरं पास्यामि इत्युवाच । श्लोकत्रयमेकान्वयि ॥ ५।५८।६७६९ ॥

एतदिति । रावणस्य एतत् रामवियोगस्थितिसूचकं वचः श्रुत्वोवाच ॥ ५।५८।७० ॥

तद्वचनाकारमाह– राक्षसेति । हे राक्षसाधम रामस्य भार्यां माम् अवाच्यं वदतस्तव जिह्वा कथं न पतिता । सार्धश्लोक एकान्वयी ॥ ५।५८।७१ ॥

तव बलवत्त्वादिगर्वो ऽपि त्वदज्ञानकृत एवेति बोधयन्ती आह किमिति । भर्तुरसंनिधौ विद्यमानां मां तेन भर्त्रा अदृष्टस्त्वमपहृत्यागतः अतः अजेयत्वादिविशिष्टो यो राघवः तस्य रामस्य सदृशो न । ननु नाहं स्वस्मिन् रामसादृश्यं वदामि किं तु तव दास्यं प्रार्थयामीत्यत आह अस्य रामपरिग्रहस्य मम दास्ये ऽपि त्वं न युज्यसे । अर्धचतुष्टयमेकान्वयि ॥ ५।५८।७२,७३ ॥

जानक्येति । जानक्या एवं परुषं वाक्यमुक्तो दशाननः चितास्थः पावक इव जज्वाल ॥ ५।५८।७४ ॥

विवृत्येति । नयने विवृत्य दक्षिणं मुष्टिमुद्यम्य मैथिलीं हन्तुमारब्धः रावण इति शेषः, तदा स्त्रीभिर्हाहाकृतम् ॥ ५।५८।७५ ॥

स्त्रीणामिति । तस्य रावणस्य मन्दोदरी नाम या वरा भार्या तया स्त्रीणां मध्यात्समुत्पत्य स रावणः मधुरां वाणीमुक्तः अत एव प्रतिषेधितः । सार्धश्लोक एकान्वयी ॥ ५।५८।७६,७७ ॥

तद्वचनाकारमाह सीतयेति । सीतया तत्स्थापनप्रयत्नेन तव किं कार्यं न किमपीत्यर्थः, अतः सीतया तत्प्रार्थनया किं करिष्यसि न किमपीत्यर्थः, एतेन तत्स्थापनप्रयत्नं त्यजेति सूचितम् मया सह देवकन्यादिभिश्च सार्धं रमस्व सीतासंभाषणादिना कालविलम्बं न कुर्वित्यर्थः । ननु तस्याः पूजनार्थं मया सा प्रार्थ्यते इत्यत आह मद्विशिष्टा अस्मत्पूज्येत्यर्थः जानकी न स्थास्यतीति शेषः । श्लोकद्वयमेकान्वयि ॥ ५।५८।७८,७९ ॥

तत इति । ततो ऽनन्तरं निशाचरः नारीभिरुत्थाप्य स्वं भवनं नीतः ॥ ५।५८।८० ॥

यात इति । राक्षस्यः सीतां निर्भत्सयामासुः ॥ ५।५८।८१ ॥

तृणविदिति । तासां राक्षसीनां भाषितं जानकी तृणवद्गणयामास अत एव तासां गर्जितं सीतां प्राप्य निरर्थकमभवदिति शेषः ॥ ५।५८।८२ ॥

वृथेति । वृथागर्जितेन गर्जितवैयर्थ्येन निश्चेष्टा राक्षस्यः सीतायाः महत् व्यवसितं रावणाय शशंसुः ॥ ५।५८।८३ ॥

तत इति । सर्वाः राक्षस्यः निरुद्यमाः सत्यः निद्रावशमुपागताः प्राप्ताः ॥ ५।५८।८४ ॥

तास्विति । प्रसुप्तासु तासु सीता करुणं विलप्य प्रशुशोच ॥ ५।५८।८५ ॥

तासामिति । त्रिजटा अब्रवीत् । तद्वचनाकारमाह आत्मानं खादत जनकस्यात्मजां न खादत । एतेन सीताया विनाशाभावः राक्षसीनामासन्नविनाशश्च सूचितः । सार्धश्लोक एकान्वयी ॥ ५।५८।८६ ॥

तत्र कारणमाह स्वप्न इति । अस्या सीतायाः भर्तुर्जयाय च स्वप्नो मया दृष्टः । अर्धद्वयमेकान्वयि ॥ ५।५८।८७ ॥

अलमिति । अस्मान् परित्रातुम् अलं समर्था सीतेति शेषः, अतो वैदेहीमभियाचाम ॥ ५।५८।८८ ॥

ननु स्वप्नस्य मिथ्यात्वात्किं तद्दर्शनेन सीताभर्तृविजयादीत्यत आह यदीति । दुःखितायाः एवंविधः स्वप्नो यदि दृश्यते तर्हि सा दुःखिता दुःखैर्विमुक्ता सती सुखमाप्नोति । एतेन स्वप्नस्य मिथ्यात्वे ऽपि तद्दर्शनजनितफलस्य सत्यत्वं ध्वनितं मतान्तरे स्वप्नस्यापि सत्यत्वमित्यन्यदेतत् ॥ ५।५८।८९ ॥

प्रणिपातेति । राक्षस्यो राक्षसीः परित्रातुमलम् । यदि तु राक्षस्य इति संबोधनं तदा ऽस्मानिति प्रत्यासत्या वक्तव्यम् ॥ ५।५८।९० ॥

तत इति । ततो ऽनन्तरं तत् स्वप्नदर्शनं यदि तथ्यं सत्यं तर्हि शरणं रक्षिका भवेयम् इति भर्तुर्विजयहर्षिता सीता अवोचत् ॥ ५।५८।९१ ॥

तामिति । तां सीतां तादृशीं सीताया दशां च दृष्ट्वा विश्रान्तो ऽहं चिन्तयामास । अत एव मे मनो न निर्वृत्तम् ॥ ५।५८।९२ ॥

संभाषणार्थे इति । जानक्याः संभाषणार्थे विधिरुपायो मया चिन्तितः अत एव पुरस्कृतः सर्वैरग्रे उक्तः इक्ष्वाकुकुलवंशः मम मया स्तुतः ॥ ५।५८।९३ ॥

श्रुत्वेति । गदितां वाचं श्रुत्वा देवी सीता कस्त्वमित्यादि मां प्रत्यभाषत । तस्याः वचनं श्रुत्वा अहमप्यब्रुवम् । सार्धश्लोकद्वयमेकान्वयि ॥ ५।५८।९४९६ ॥

स्ववचनाकारमाह देवीति ॥ ५।५८।९७ ॥

तस्येति । संप्रहितः प्रेषितः ॥ ५।५८।९८ ॥

इदमिति ॥ ५।५८।९९ ॥

तदिति । त्वया ऽ ऽज्ञप्तं तदुत्तरं किं किंचित् करवाणीत्यहमिच्छामि ॥ ५।५८।१०० ॥

एतदिति । राघव एव मां नयत्विति सीता आह ॥ ५।५८।१०१ ॥

प्रणम्येति । देवीं सीतां प्रणम्याहमभिज्ञानमयाचिषम् ॥ ५।५८।१०२ ॥

अथेति । येन रामस्त्वां बहु मन्यते स एष मणिः गृह्यतामिति सीता मामब्रवीत् ॥ ५।५८।१०३ ॥

इतीति । इत्युक्त्वा मणिप्रवरं प्रायच्छत् संदिदेश च ॥ ५।५८।१०४ ॥

तत इति । इह भवतां समीपे अभ्युद्गतं मानसं यस्य सो ऽहं राजपुत्र्यै प्रणम्य प्रदक्षिणं परिक्रामं पर्यक्रामम् ॥ ५।५८।१०५ ॥

उत्तरमिति । तदा उत्तरं निश्चित्य हे हनूमन् राघवे वृत्तान्तं वक्तुमर्हसीति पुनराह ॥ ५।५८।१०६ ॥

वृत्तान्तमेवाह यथेति । श्रुत्वैव रामलक्ष्मणौ यथा समुपेयातां तथा कुरु ॥ ५।५८।१०७ ॥

यदिति । यत् यदि अन्यथा विलम्बो भवेत् तर्हि मां काकुत्स्थो न द्रक्ष्यति । तत्र हेतुः द्वौ मासावेव मम जीवितं जीवनम् अनन्तरमनाथवन्म्रिये ॥ ५।५८।१०८ ॥

तदिति । तत् करुणं वाक्यं श्रुत्वा मां क्रोधो रावणं प्रति कोपो ऽभ्यवर्तत । अनन्तरम् उत्तरं कार्यशेषम् अवशिष्टकार्यं मया दृष्टं विचारितम् ॥ ५।५८।१०९ ॥

तत इति । ततः मे कायो ऽवर्धत ततः युद्धकाङ्क्ष्यहं वनं विनाशयितुमारेभे ॥ ५।५८।११० ॥

तदिति । भग्नं तद्वनखण्डं राक्षस्यः प्रतिबुध्य निरीक्षन्ते ॥ ५।५८।१११ ॥

मामिति । ताः राक्षस्यः समागम्य मां दृष्ट्वा क्षिप्रं समभ्यागताः एकीभूताः सत्यः रावणाय आचचक्षिरे ॥ ५।५८।११२ ॥

तद्वचनाकारमाह– राजन्निति । दुर्गं दुर्गममपि वनं तव वीर्यमविज्ञाय वानरेण भग्नम् ॥ ५।५८।११३ ॥

तस्येति । तस्य वानरस्य दुर्बुद्धिता दुष्टबुद्धिरस्तीति शेषः, अतः यथा येन प्रकारेण असौ वानरः पुनर्न व्रजेत् जीवन्गच्छेत् तथा तेन प्रकारेण तव विप्रियकारिणः तस्य वानरस्य वधं क्षिप्रमाज्ञापय ॥ ५।५८।११४ ॥

तदिति । तत् राक्षसीवचनं श्रुत्वा किंकरा नाम राक्षसाः राक्षसेन्द्रेण विसृष्टाः प्रेषिताः ॥ ५।५८।११५ ॥

तेषामिति । तेषां किंकराभिधराक्षसानाम् अशीतिसाहस्रं परिघेण मया निषूदितम् ॥ ५।५८।११६ ॥

तेषामिति । तेषां राक्षसानां मध्ये ये हतशिष्टाः हननात् अवशिष्टाः ते मया निहतं सैन्यं रावणाय आचचक्षिरे ॥ ५।५८।११७ ॥

तत इति । ततो ऽनन्तरं चैत्यप्रासादं विध्वंसितुमिति शेषः, मे बुद्धिः उत्पन्ना अत एव तत्रस्थान् शतं राक्षसान् हत्वा लङ्कायाः ललामभूतः अलंकारतां प्राप्तः । चैत्यप्रासाद इति शेषः, मया विध्वंसितः । सार्धश्लोक एकान्वयी ॥ ५।५८।११८ ॥

तत इति । ततो ऽनन्तरं बहुभिः राक्षसैः सह जम्बुमालिनमादिशत् ॥ ५।५८।११९ ॥

तमिति । जम्बुमालिनमहं सूदयामि असूदयम् ॥ ५।५८।१२० ॥

तदिति । तत् हननं श्रुत्वा पदातिबलसंपन्नान् पदातिबलैः संयुक्तान् मन्त्रिपुत्रान् राक्षसेन्द्रः प्रेषयामास तानहं यमसादनं नयामि अनयम् । सार्धश्लोक एकान्वयी ॥ ५।५८।१२१,१२२ ॥

मन्त्रीति । लघुविक्रमान् शीघ्रविक्रमकारिणः मन्त्रिपुत्रान् हतान् श्रुत्वा सेनाग्रगान् पञ्च प्रेषयामास ॥ ५।५८।१२३ ॥

तानिति । तान् सेनाग्रगान् अहमभ्यसूदयं ततो ऽनन्तरम् अक्षं पुत्रं प्रेषयामास । सार्धश्लोक एकान्वयी ॥ ५।५८।१२४ ॥

तमिति । खं समुद्यन्तं मन्दोदरीपुत्रभक्षं पादयोर्गृहीतवानहं भ्रामयित्वा व्यपेषयम् । सार्धश्लोक एकान्वयी ॥ ५।५८।१२५,१२६ ॥

तमिति । आगतं तमक्षं भग्नं हतं निशम्य इन्द्रजिन्नाम द्वितीयं सुतं सुसंक्रुद्धो रावणः व्यादिदेश । सार्धश्लोक एकान्वयी ॥ ५।५८।१२७ ॥

तदिति । तत् इन्द्रजित्संबन्ध्यपि बलं तमिन्द्रजितं च नष्टौजसं कृत्वा परं हर्षमहमुपागतः ॥ ५।५८।१२८ ॥

महतेति । महता प्रत्ययेन विश्वासेन वीरैः सह रावणेन प्रहितः प्रेषितः स एष इन्द्रजित् स्वसैन्यमवमर्दितं बुद्ध्वा अत एव मामविषह्यं बुद्ध्वा बन्धितुमैच्छदिति शेषः । सार्धश्लोक एकान्वयी ॥ ५।५८।१२९,१३० ॥

ब्रह्मण इति । अतिवेगितः स इन्द्रजित् ब्रह्मणो ऽस्त्रेण मां प्रबद्ध्वा प्रबध्य राक्षसेभ्यः समर्पयदिति शेषः, तत्र तस्मिन्समये राक्षसाः रज्जुभिश्चापि मां बध्नन्ति अबध्नन् ॥ ५।५८।१३१ ॥

रावणस्येति । मां गृहीत्वा रावणस्य समीपमुपागमन् राक्षसा इति शेषः । रावणेन दुरात्मना दृष्ट्वा ऽहं संभाषितः ॥ ५।५८।१३२ ॥

पृष्ट इति । लङ्कागमनं राक्षसानां वधं च तत्प्रयोजनमित्यर्थः । पृष्टो ऽभवमिति शेषः, तत् गमनादि सर्वं सीतार्थम् इति मयोपजल्पितं कथितम् ॥ ५।५८।१३३ ॥

तस्या इति । मारुतस्य औरसः पुत्रो हनुमानहं तस्याः सीतायाः दर्शनाकाङ्क्षी सन् त्वद्भवनं प्राप्तः ॥ ५।५८।१३४ ॥

रामेति । मां रामदूतं विद्धि अत एव दौत्येन कर्मणोपलक्षितः सन् त्वत्सकाशमागतः ॥ ५।५८।१३५ ॥

शृण्विति । हे राक्षसेश यत् समाहितं वाक्यं हरीशस्त्वामाह यदहं ते तुभ्यं प्रब्रवीमि अतः समादेशं त्वं शृणु ॥ ५।५८।१३६ ॥

तदेव भङ्ग्यन्तरेणाह सुग्रीव इति । सुग्रीवस्त्वां कौशलमब्रवीत् हितं वाक्यमुवाच ॥ ५।५८।१३७ ॥

तद्वचनाकारमाह वसत इति । ऋष्यमूके वसतो मे मित्रत्वं राघवः समुपागतः ॥ ५।५८।१३८ ॥

तेनेति । मे भार्या रक्षसा हृता अतः तत्र कार्ये मे साहाय्यहेतोः समयं कालनियमं कर्तुमर्हसि इति तेन रामेण मे कथितम् ॥ ५।५८।१३९ ॥

वालिनेति । वालिना हृतं राज्यमप्यस्य तेन सुग्रीवेण मया सह अग्निसाक्षिकं

सख्यं राघवश्चक्रे ॥ ५।५८।१४० ॥

तेनेति । तेन रामेण वालिनमाहत्य वानराणां महाराजः कृतो ऽहमस्मीति शेषः ॥ ५।५८।१४१ ॥

तस्येति । तस्य रामसाहाय्यमस्माभिः कार्यम् अतः तेन मया तुभ्यं तव समीपम् इतः प्रस्थापितः दूत इति शेषः ॥ ५।५८।१४२ ॥

प्रस्थापनप्रयोजनमाह क्षिप्रमिति । हरयो वानराः यावत्ते बलं न विधमन्ति तावदेव राघवस्य सीता आनीयतां दीयतां च ॥ ५।५८।१४३ ॥

नन्वतिबलवतो मे वानराः किं करिष्यन्तीत्यत आह वानराणामिति । निमन्त्रिताः प्रबलस्वरिपुघाताय देवैराहूताः ये वानराः देवतानां सकाशं समीपं गच्छन्ति तेषां वानराणामयं प्रभावः केन साधारणेन जनेन न विदितः किं च के स्वर्गे ऽपि न विदितो न विदित एव ॥ ५।५८।१४४ ॥

इतीति । वानरराजः इति त्वामाह अत एव मया त्वमभिहितः त्वमित्यध्याहृतम् । ततः मदुक्तश्रवणानन्तरं रुष्टो रावणः चक्षुषा प्रदहन्निव मामैक्षत ॥ ५।५८।१४५ ॥

तेनेति । तेन रावणेनाहं वध्य आज्ञप्तः ॥ ५।५८।१४६ ॥

तत इति । तस्य रावणस्य विभीषणो नाम यो भ्राता तेन मम कारणात् राक्षसराजो याचितः ॥ ५।५८।१४७ ॥

तत्प्रकारमाह नेति । एवं भवदुक्तं न अयं न वध्य इत्यर्थः, अतः एषः वधविषयको निश्चयः त्यज्यताम् । तत्र हेतुमाह राजशास्त्रेण व्यपेतः विरुद्धः मार्गः त्वया संलक्ष्यते ज्ञायते । एतेनायं वधः शास्त्रविरुद्ध इति सूचितम् ॥ ५।५८।१४८ ॥

तत्रापि हेतुमाह दूतेति । राजशास्त्रे दूतवध्या दूतानां वधो न दृष्टा किंतु दूतेनोक्तमिति शेषः, वेदितव्यमेव ॥ ५।५८।१४९ ॥

सुमहतीति । दूतस्यापराधे सुमहत्यपि विरूपकरणं दृष्टं वधो न दष्टः ॥ ५।५८।१५० ॥

विभीषणेनेति । विभीषणेनोक्तो रावणः एतत् लाङ्गूलमेव दह्यतामिति राक्षसान् संदिदेश ॥ ५।५८।१५१ ॥

तत इति । तस्य रावणस्य वचः श्रुत्वा मम पुच्छं शणवल्कादिभिर्वेष्टितम् ॥ ५।५८।१५२ ॥

राक्षसा इति । सिद्धः सन्नाहो बन्धनं यैः ते राक्षसाः काष्ठमुष्टिभिर्हनन्तो घ्नन्तः सन्तो मे पुच्छमदीप्यन्त अदीपयन्त ॥ ५।५८।१५३ ॥

बद्धस्येति । बद्धस्यापि मम काचित्पीडा नाभवत् ॥ ५।५८।१५४ ॥

तत इति । ते राक्षसाः नगरद्वारमागताः सन्तः अग्निसंवृतं मां राजमार्गे अघोषयन् ॥ ५।५८।१५५ ॥

तत इति । अहम् आत्मनो बन्धं विमोचयित्वा विमोच्य प्रकृतिस्थः सन् स्थितो ऽस्मीति शेषः ॥ ५।५८।१५६ ॥

आयसमिति । परिघं गृह्य गृहीत्वा रक्षांसि असूदयं ततो ऽनन्तरं नगरद्वारमाप्लुतवान् ॥ ५।५८।१५७ ॥

पुच्छेनेति । पुच्छेन पुरीं लङ्कां दहामि अदहम् ॥ ५।५८।१५८ ॥

विनष्टेति । यतः पुरी लङ्का मया भस्मीकृता अत एव लङ्कायाः कश्चिदुद्देशः अदग्धो न दृश्यते अत एव जानकी विनष्टा ॥ ५।५८।१५९ ॥

तदेव भङ्ग्यन्तरेणाह दहतेति । मया सीता दग्धा अत एव रामस्य कार्यं मया विफलीकृतम् इति शोकसमाविष्टो ऽहं चिन्तामुपागतः । सार्धश्लोक एकान्वयी ॥ ५।५८।१६० ॥

तत इति । विस्मयपूर्वकमुदन्तं वृत्तान्तं भाषन्ते तच्छीलिनां चारणानां जानकी न दग्धेति वाचम् श्रौषम् ॥ ५।५८।१६१ ॥

तत इति । तां गिरं श्रुत्वा जानकी अदग्धेति मे बुद्धिर्निश्चयः उत्पन्ना निमित्तैः शुभसूचकशुकनैश्चोपलक्षितं तदेव निश्चितम् ॥ ५।५८।१६२ ॥

निमित्तान्येव बोधयन्नाह दीप्यमान इति । न दहति अदहत् हृदयं च प्रहृष्टं सुरभिगन्धिनो वाता ववुरिति शेषः ॥ ५।५८।१६३ ॥

तैरिति । दृष्टार्थैः पूर्वमनुभूतफलकैर्निमित्तैरुक्तैर्निमित्तैर्महागुणैः अस्मद्धितसंपादकैः सिद्धार्थैः ऋषिवाक्यैश्च हृष्टमानसो ऽहमभवम् ॥ ५।५८।१६४ ॥

पुनरिति । पुनरनन्तरं वैदेही दृष्टा तया वैदेह्या विसृष्टः अत्रागमनाय आज्ञापितो ऽभवमिति शेषः ॥ ५।५८।१६५ ॥

तत इति । ततो ऽनन्तरम् अरिष्टं पर्वतमासाद्य प्रतिप्लवनमारेभे ॥ ५।५८।१६६ ॥

तत इति । श्वसनादिसेवितं पन्थानमाक्रम्य भवतो दृष्टवानहमस्मीति शेषः ॥ ५।५८।१६७ ॥

राघवस्येति । राघवस्य प्रसादेन तेजसा च भवतां सुग्रीवस्य च कार्यार्थं कर्तव्यसिद्ध्यर्थं मया सर्वमनुष्ठितं संपादितम् ॥ ५।५८।१६८ ॥

एतदिति । तत्र सागरादौ जातम् एतत्सर्वं कर्म मया उपपादितं यत् मया न कृतमत एव शेषमवशिष्टं तत्सर्वं कियतां भवद्भिरिति शेषः ॥ ५।५८।१६९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे ऽष्टपञ्चाशत्तमः सर्गः ॥ ५।५८ ॥