प्लवनकालकं हनुमद्वृत्तान्तमाह आप्लुत्येत्यादिभिः । पक्षवान् पर्वत इव महावेगो हनूमान् भुजङ्गादय एव प्रबुद्धानि विकसितानि कमलोत्पलानि यस्मिन्, चन्द्ररूपकुमुदेन सहितम् अर्क एव कारण्डवः जलकुक्कुटः तेन सहितं तिष्यश्रवणावेव कादम्बाः कलहंसा यस्मिन् अभ्रा एव शैवलाः शाद्वलाश्च यस्मिन्, पुनवर्सू एव महामीनौ यस्मिन्, लोहिताङ्गो भौम एव महाग्राहो बृहद्ग्राहो यस्मिन्, ऐरावत एव महाद्वीपो यस्मिन्, स्वात्येव हंसस्तेन विलसितं शोभितं वातसंघातानां वात्यानां जालं समूह एव ऊर्मयो यस्मिन्, चन्द्रांशव एव शिशिराम्बूनि शीतजलानि तद्वद्गगनार्णवं पक्षवान् पर्वत इव महावेगः अपरिश्रान्तो हनूमान् आप्लुत्य उत्प्लुत्य पुप्लुवे । श्लोकचतुष्टयमेकान्वयि ॥ ५।५७।१४ ॥
ग्रसमान इति । आकाशमन्तरिक्षं ग्रसमान इव ताराधिपं चन्द्रमसम् उल्लिखन्निव सनक्षत्रं सार्कमण्डलं गगनं हरन्निव मेघजालानि विकर्षन्निव हनूमान् गच्छति । श्लोकद्वयमेकान्वयि ॥ ५।५७।५,६ ॥
पाण्डरेति । पाण्डरादिवर्णविशिष्टानि महाभ्राणि चकाशिरे ॥ ५।५७।७ ॥
प्रविशन्निति । अभ्रजालानि प्रविशन् निष्क्रामंश्च हनूमान् प्रकाशो ऽप्रकाशश्च चन्द्रमा इव दृश्यते ॥ ५।५७।८ ॥
तदेव भङ्ग्यन्तरेणाह विविधेति । विविधेषु अभ्रघनेषु निबिडाभ्रेषु आपन्नः प्राप्तः गोचरः मार्गो यस्य धवलमम्बरं यस्य स हनूमान् अम्बरे आकाशे चन्द्रायते ॥ ५।५७।९ ॥
तार्क्ष्येति । मेघवृन्दानि पुनः पुनर्दारयन् निष्पतन् निर्गच्छन् अत एव तार्क्ष्यायमाणो वायुनन्दनः बभौ ॥ ५।५७।१० ॥
नदन्निति । मेघस्वनमहास्वनः हनूमान् राक्षसान् हत्वा आत्मनो नाम विश्राव्य प्रख्याय नगरीं लङ्कामाकुलां कृत्वा महता नादेन नदन् सन् मध्येन तदवच्छेदेन सागरमाजगाम । सार्धश्लोकद्वयमेकान्वयि ॥ ५।५७।११,१२ ॥
पर्वतेन्द्रमिति । सुनाभं पर्वतेन्द्रं समुपस्पृश्य ज्यामुक्तो नाराच इव अभ्युपागमत् ॥ ५।५७।१३ ॥
स इति । किंचित् आरात् समीपं संप्राप्तः स हनूमान् महेन्द्रं महागिरिं समालोक्य ननाद ॥ ५।५७।१४ ॥
स इति । स हनूमान् नदन् सन् दशदिशः पूरयमास ॥ ५।५७।१५ ॥
स इति । सुहृदामङ्गदादीनां दर्शने लालसा यस्य सः तं सुहृत्समीपवर्तिनं देशमनुप्राप्तः स हनूमान् ननाद लाङ्गूलमकम्पयच्च ॥ ५।५७।१६ ॥
तस्येति । सुपर्णाचरिते पथि नानद्यमानस्य तस्य हनूमतः आस्यघोषेण मुखनिर्गतशब्देन गगनं फलति भिद्यते इव ॥ ५।५७।१७ ॥
ये इति । तत्र प्रसिद्धे समुद्रस्योत्तरे कूले पूर्वं संविष्ठिताः वायुपुत्रं दिदृक्षवः ये वानराः ते वायुनुन्नस्य वायुना प्रेरितस्य तोयदस्य मेघस्य निःस्वनमिव ऊरुवेगं हनुमतो घोषं शुश्रुवुः अर्धचतुष्टयमेकान्वयि ॥ ५।५७।१८,१९ ॥
तदेव भङ्ग्यन्तरेणाह ते इति । ते वानराः निर्घोषं शुश्रुवुः ॥ ५।५७।२० ॥
निशम्येति । नदतो हनुमतो नादं निशम्य श्रुत्वा सर्वे वानराः उत्सुका बभूवुः ॥ ५।५७।२१ ॥
जाम्बवानिति । हरीन् वानरान् उपामन्त्र्य संबोध्य इदमब्रवीत् ॥ ५।५७।२२ ॥
तद्वचनाकारमाह सर्वथेति । हि यतः अकृतकार्यस्य अस्य हनूमत एवंविधः नादो न भवेत् अतः असौ हनूमान् सर्वथा सर्वप्रकारेण कृतकार्यः अत्र संशयो न ॥ ५।५७।२३ ॥
तस्येति । तस्य हनूमतः बाहूरुवेगं निनादं च निशम्य श्रुत्वा हरयो यतस्ततः समुत्पेतुः ॥ ५।५७।२४ ॥
ते इति । ते हरयः नगाग्रात् तरूणामूर्ध्वदेशात् नगाग्राणि तरोरूर्ध्वदेशान् शिखरात् शिखराणि च आप्लुत्येति शेषः, हनूमन्तं समपद्यन्त ॥ ५।५७।२५ ॥
ते इति । शाखां गृह्य गृहीत्वा पादपाग्रेषु अवस्थिताः ते वानराः प्रकाशानि प्रकाशं प्राप्तानि वासांसि समाविद्यन्त प्राकम्पयन्त अतिहर्षहेतुकगात्रप्रकम्पनद्वारा वस्त्राण्यपि प्रकम्पितानि बभूवुरित्यर्थः ॥ ५।५७।२६ ॥
गिरीति । गिरिगह्वरसंलीनः मारुतो यथा गर्जति प्रभूतशब्दं करोति एवं मारुतात्मजो जगर्ज ॥ ५।५७।२७ ॥
तमिति । आपतन्तं हनूमन्तं दृष्ट्वा सर्वे वानराः प्राञ्जलयः प्रणतिसूचकबद्धयुगुलकराः सन्तस्तस्थुः ॥ ५।५७।२८ ॥
तत इति । ततः प्राञ्जलिसर्ववानरकर्मकदर्शनानन्तरं गिरिनिभो हनुमान् गिरेः अरिष्टाभिधपर्वतात् गिरेः तस्य महेन्द्रस्य शिखरे निपपात ॥ ५।५७।२९ ॥
तदेव भङ्ग्यन्तरेणाह हर्षेणेति । हर्षेणापूर्यमाणो हनूमान् पर्वतनिर्झरे बहुनिर्झरवत्पर्वते पर्वतस्य निर्झरे वा आकाशात् छिन्नपक्षो धरणीधर इव पपात ॥ ५।५७।३० ॥
तत इति । सर्वे वानरपुङ्गवाः हनूमन्तं परिवार्य उपतस्थिरे ॥ ५।५७।३१ ॥
परीति । आगतं तं हनूमन्तं परिवार्य परां प्रीतिमुपागताः वानराः उपागमन् तत्समीपं प्रापुः ॥ ५।५७।३२ ॥
उपायनानीति । फलादीन्युपायनान्यादाय हरयः हरिश्रेष्ठं हनूमन्तं प्रत्यर्चयन् प्रत्यार्चयन् ॥ ५।५७।३३ ॥
विनेदुरिति । केचिद्वानरर्षभाः किलकिलां स्वजातीयशब्दं विनेदुः चक्रुः, केचित्पादपशाखा आनिन्युः ॥ ५।५७।३४ ॥
हनूमानिति । हनूमान् जाम्बवत्प्रमुखान् अवन्दत ॥ ५।५७।३५ ॥
स इति । ताभ्यां जाम्बवदङ्गदाभ्यां कपिभिश्च पूजितः अत एव प्रसादितः विक्रान्तः विक्रमवान् पूज्यो हनूमान् देवी सीता दृष्टेति न्यवेदयत् ॥ ५।५७।३६ ॥
निषसादेति । वालिनः सुतमङ्गदं हस्तेन गृहीत्वा महेन्द्रस्य गिरेः वनोद्देशे वनप्रदेशे निषसाद ॥ ५।५७।३७ ॥
हनूमानिति । पृष्टो हनूमान् सुघोराभिः राक्षसीभिः रक्ष्यमाणा अनिन्दिता निन्दासंसर्गरहिता रामदर्शनलालसा कृशा अशोकवनिकासंस्था जनकात्मजा मया दृष्टेति वानरर्षभान् अब्रवीत् । सार्धश्लोकद्वयमेकान्वयि ॥ ५।५७।३८,३९ ॥
तत इति । दृष्टेति मारुतेर्वचनं निशम्य वानराः मुदिता अभवन् । संधिरार्षः, नमुनेत्यत्र नेति योगविभागेन त्रिपाद्या क्वचिदसिद्धत्वाभावज्ञापनाद्वा ॥ ५।५७।४० ॥
प्रमोदचिह्नान्याह क्ष्वेडन्तीति । क्ष्वेडनादीनि कुर्वन्ति ॥ ५।५७।४१ ॥
केचिदिति । केचित् आयताञ्चितानि विस्तारं प्राप्तान्येव लाङ्गूलानि प्रविव्यधुः ॥ ५।५७।४२ ॥
अपरे इति । अपरे तु आप्लुत्य हनूमन्तं संस्पृशन्ति ॥ ५।५७।४३ ॥
उक्तेति । हरिवीराणां मध्ये अङ्गदो हनूमन्तमब्रवीत् ॥ ५।५७।४४ ॥
तद्वचनाकारमाह सत्त्व इति । हे वानर यद्यस्मात्सागरमवप्लुत्य त्वमागतः अतः सत्त्वे वीर्ये च ते समः कश्चिन्न विद्यते ॥ ५।५७।४५ ॥
जीवितस्येति । नो जीवितस्य जीवनस्य प्रदाता एकस्त्वमेव अत एव त्वत्प्रसादात् सिद्धार्था वयं राघवेण सह समेष्यामः तिष्ठामः ॥ ५।५७।४६ ॥
अहो इति । ते भक्त्यादिरहो आश्चर्यम् । दिष्ट्या भाग्योदयेन रामपत्नी त्वया दृष्टा ॥ ५।५७।४७ ॥
दिष्ट्येति । दिष्ट्या अस्मद्भाग्योदयेन काकुत्स्थो रामः शोकं त्यक्ष्यति ॥ ५।५७।४८ ॥
तत इति । अङ्गदप्रभृतीन् परिवार्य प्रमुदिताः वानराः विपुलाः विस्तीर्णाः शिलाः भेजिरे स्थित्यर्थं प्रापयामासुः ॥ ५।५७।४९ ॥
उपविष्टा इति । गिरेः शिलासु उपविष्टाः समुद्रलङ्घनादीनि श्रोतुकामाः अत एव हनुमद्वदनोन्मुखाः सर्वे अङ्गदप्रभृतयः तस्थुः । श्लोकद्वयमेकान्वयि ॥ ५।५७।५०,५१ ॥
स्थितिप्रकारं बोधयन्नाह तस्थाविति । विविधैर्देवैरुपास्यमानो देवपतिरिवाङ्गदस्तस्थौ ॥ ५।५७।५२ ॥
हनुमतेति । कीर्तिमता हनूमता यशस्विना अङ्गदनद्धबाहुना अङ्गदेन च अध्यासितम् अधिष्ठितमुन्नतं महीधराग्रं श्रिया शोभया ज्वलितं प्रकाशितमभवत् ॥ ५।५७।५३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तपञ्चाशत्तमः सर्गः ॥ ५।५७ ॥