हनुमत्कर्तृकसीतादर्शनानन्तरकालिकां सीतां प्रति हनुमदुक्तिमाह तत इति । दिष्ट्या भाग्यवशेन अक्षतां विनाशरहितां त्वां पश्यामि इति वाक्यं जानकीमभिवाद्य अब्रवीत् ॥ ५।५६।१ ॥
तत इति । तत आरभ्य पुनर्मध्येन सागरमित्यन्ताः सार्धत्रयोविंशतिश्लोकाः पूर्वमपि पठिताः इति तद्व्याख्यानेनैव व्याख्यातप्रायाः ॥ ५।५६।२२४ ॥
तत इति । ततः गमनेच्छानन्तरं स्वामिसंदर्शनोत्सुकः स हनूमान् अरिष्टं तदभिधं गिरिश्रेष्ठमारुरोह । अर्धद्वयमेकान्वयि ॥ ५।५६।२५ ॥
गिरिमेव वर्णयन्नाह तुङ्गेत्यादिभिः । तुङ्गाः उन्नताः ये पद्मकाः तैर्जुष्टाभिः वनराजिभिः शृङ्गान्तरविलम्बिभिः ॥ ५।५६।२६ ॥
शृङ्गमध्ये स्थितैरम्भोदैर्मेघैः सोत्तरीयम् उत्तरीयधारिणमिव दिवाकरैर्बोध्यमानमिव ॥ ५।५६।२७ ॥
उद्धूतैरुद्गतैः पक्ष्मरहितैरित्यर्थः । लोचनैरिव धातुभिः उन्मिषन्तं विलोकयन्तमिव मन्दैः तोयौघनिः स्वनैः प्राधीतं प्रकृष्टाध्ययनविशिष्टमिव ॥ ५।५६।२८ ॥
नानाप्रस्रवणस्वनैः निर्झरशब्दैः विस्पष्टं प्रगीतमिव उद्धूतैः उद्गतैः देवदारुभिः स्थितमूर्ध्वबाहुमिव ॥ ५।५६।२९ ॥
प्रयातानामुन्नतदेशेभ्यः प्रपतितानां जलानां निर्घोषैः प्राक्रुष्टमाहूतमिव श्यामैः कम्पमानैः शरद्धनैः शरत्प्रभूतघनसदृशसप्तपर्णादितरुभिर्वेपमानमिव ॥ ५।५६।३० ॥
मारुतोद्धूतैः वायुकम्पितैः अत एव कीचकैः सशब्दैर्वेणुभिः कूजन्तमिव आशीविषोत्तमैः निःश्वसन्तमिव ॥ ५।५६।३१ ॥
नीहारेण कृतो गम्भीरः गाम्भीर्यं येषां तैः निश्चलैरित्यर्थः, गह्वरैः ध्यायन्तमिव मेघपादाः मेघप्ररोहाः तन्निभैः तत्सदृशैः पादैः प्रत्यन्तपर्वतैः सर्वतः प्रक्रान्तमिव ॥ ५।५६।३२ ॥
अभ्रमालिभिः अभ्रसमूहविशिष्टैः शिखरैः जृम्भमाणं गात्रविनामं कुर्वन्तमिव कूटैः शृङ्गैः कीर्णं व्याप्तम् ॥ ५।५६।३३ ॥
बहुभिः सालादिभिर्वृतं विततैर्विस्तृतैः लतावितानैरलंकृतम् ॥ ५।५६।३४ ॥
धातुनिष्यन्दैर्धातुस्थिरताभिर्भूषितं शिलासंचयेन शिलानां समूहेन संकटं निबिडम् ॥ ५।५६।३५ ॥
महर्ष्यादिभिः सेवितं सिंहैरधिष्ठिता कन्दरा यस्य तम् ॥ ५।५६।३६ ॥
स्वादुमूलफलाः द्रुमाः यस्मिन् तं पर्वतं रामदर्शनाय शीघ्रं शीघ्रत्वं यस्मिन् तेन प्रहर्षेण अभिचोदितः प्लवगोत्तमो हनूमान् आरुरोह । त्रयोदशानामेकत्रान्वयः ॥ ५।५६।३७ ॥
तेनेति । तेन हनूमता पादतलाभ्यामाक्रान्ताः अत एव चूर्णीकृताः अत एव सघोषाः शिलाः समशीर्यन्त विरूपा अभवन् ॥ ५।५६।३८ ॥
स इति । स हनूमान् लवणाम्भसः दक्षिणात् उत्तरं पारं प्रार्थयन् प्राप्यत्वेनेच्छन् सन् शैलेन्द्रमारुह्य व्यवर्धत ॥ ५।५६।३९ ॥
अधीति । वीरो हनूमान् पर्वतमधिरुह्य सागरं ददर्श ॥ ५।५६।४० ॥
स इति । स हनूमान् मारुत आकाशमिव दक्षिणात् उत्तरां दिशं प्रपेदे ॥ ५।५६।४१ ॥
स इति । कपिना पीडितः कम्पमानैर्भूतैर्मृगादिभिः शिखरैश्च पतद्भिर्द्रुमैश्च उपलक्षितः पर्वतोत्तमः ररास वसुधातलं प्राविशच्च । सार्धश्लोक एकान्वयी ॥ ५।५६।४२,४३ ॥
तस्येति । तस्य हनूमतः उरुवेगेन उन्मथिताः प्रकम्पिताः अत एव भग्नाः पादपाः शक्रायुधहता इव भूतले निपेतुः ॥ ५।५६।४४ ॥
कन्दरेति । कन्दरोदरसंस्थानां सिंहानां निनदः नभो भिन्दन्निव शुश्रुवे । हिशब्द इवार्थे ॥ ५।५६।४५ ॥
त्रस्तेति । त्रस्ताः अत एव व्याविद्धानि विपरीतानि वसनानि यासां ता द्वयोः किंच त्रस्तेन त्रासेन व्याविद्धानि वसनानि यासां ताः इति कर्मधारयः । व्याकुलीकृतानि संचलितानीत्यर्थः, भूषणानि यासां ताः विद्याधर्यः धरणीधरात् समुत्पेतुः ॥ ५।५६।४६ ॥
अतिप्रमाणा इति । निपीडितं शिलासंघर्षादिना प्राप्तं बहुपीडं शिरोग्रीवं येषां ते अतिप्रमाणाः महाहयः महोरगाः व्यवेष्टन्त कुण्डलीकृतदेहा अभवन् । “व्यचेष्टन्त” इति पाठे पीडया लुठन्नित्यर्थ इति भट्टाः ॥ ५।५६।४७ ॥
किन्नरेति । किन्नरादयः पीडितं नगवरं त्यक्त्वा गमनमास्थिताः ॥ ५।५६।४८ ॥
स इति । सवृक्षाः ये शिखराः तैः उदग्र उन्नतः तेन हनूमता निपीडितः स भूमिधरः रसातलं प्रविवेश ॥ ५।५६।४९ ॥
तदेव स्पष्टयति दशेति । दशयोजनानि विस्तारो यस्य स धराधरः धरण्याः समतां यातः प्राप्तो बभूव ॥ ५।५६।५० ॥
स इति । कल्लोलास्फालवेलान्तं तरङ्गैः स्फालिततीरोपान्तं भीमं लवणार्णवं सलीलं लीलापूर्वकं लिलङ्घयिषुः हरिः स हनूमान् नभः उत्पपात ॥ ५।५६।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५।५६ ॥