लाङ्गूलनिर्वापणानन्तरकालिकं हनुमतो वृत्तान्तमाह संदीप्यमानामित्यादिभिः । संदीप्यमानाम् अत एव विध्वस्ताम् अत एव त्रस्ता रक्षोगणाः यस्यां तां लङ्कामवेक्ष्य तस्य हनूमतः त्रास उद्वेगो ऽभूत् । अत एव आत्मनि स्वात्मविषये कुत्सा निन्दा अजायत । अत एव चिन्तयामास च । सार्धश्लोक एकान्वयी ॥ ५।५५।१ ॥
तच्चिन्ताकारमाह लङ्कामित्यादि । लङ्कां प्रदहता मया इदं सीतादहनं किं मया कृतम् । अर्धं पृथक् ॥ ५।५५।२ ॥
धन्या इति । ये महात्मानः अतिप्रयत्नशीलाः उत्थितं कोपमम्भसा ऽग्निमिव बुद्ध्या निरुन्धन्ति ते महात्मानः पुरुषश्रेष्ठाः अत एव धन्याः ॥ ५।५५।३ ॥
क्रोधे दोषानाह क्रुद्ध इत्यादिभिः । क्रुद्धः गुरूनपि हन्यात् अतः कः क्रुद्धः पापं न कुर्यात्कुर्यादेवेत्यर्थः ॥ ५।५५।४ ॥
वाच्येति । प्रकुपितो जनः वाच्यावाच्यं न विजानाति ॥ ५।५५।५ ॥
य इति । उरगो जीर्णां त्वचमिव समुत्पतितं कोपं यो निरस्यति स एव पुरुष उच्यते ॥ ५।५५।६ ॥
धिगिति । सीतामचिन्तयित्वा विस्मृत्य अन्यत्रानीत्वेत्यर्थः, अग्निदम् अग्नये ददाति अग्निं ददाति वस्तुमात्रे क्षिपति वा स तम् अत एव स्वामिघातकम् अत एव पापकृत्तमं पापिश्रेष्ठं मां धिगस्तु ॥ ५।५।७ ॥
यदीति । यदीयं लङ्का सर्वा दग्धा तर्हि जानक्यपि दग्धा तेन दाहेन मया भर्तुः कार्यं हतम् ॥ ५।५५।८ ॥
यदर्थमिति । यदि मया सीता न रक्षिता तर्हि यदर्थमयमन्वेषणादेरारम्भः तत्कार्यमवसादितं विनाशितम् ॥ ५।५५।९ ॥
ईषदिति । इदं लङ्कादाहादिकार्यमीषत्कार्यमिव मया कृतमासीत् तस्य रामकार्यस्य तु मूलक्षयः मूलविघातः मया कृतः ॥ ५।५५।१० ॥
विनष्टेति । हि यतः अदग्धः लङ्कायाः कश्चिदुद्देशः न प्रदृश्यते । अतः सर्वा पुरी भस्मीकृता अतः जानकी विनष्टा ॥ ५।५५।११ ॥
यदीति । प्रज्ञाविपर्ययात् बुद्धिवैपरीत्यात् तत् रामसंबन्धि कार्यं मया यदि विहितं तदा ममापि प्राणसंन्यासः प्राणत्यागः इहैव रोचते ॥ ५।५५।१२ ॥
किमिति । अग्नौ आहोस्वित् वा वडवामुखे वाडवाग्नौ किं निपतामि आहो वा सागरवासिनां सत्त्वानां सत्त्वेभ्यः शरीरं शकलीकृतदेहं दद्मि ददामि वा ॥ ५।५५।१३ ॥
कथमिति । कार्यसर्वस्वघातिना मया द्रष्टुं कथं शक्यः ॥ ५।५५।१४ ॥
मयेति । त्रिषु लोकेषु प्रथितं प्रख्यातम् अनवस्थितम् अव्यवस्थितं यत्कपित्वं तदेवेदं रोषदोषात् मया प्रदर्शितम् ॥ ५।५५।१५ ॥
धिगति । यद्रागात् यद्वशात् मया सीता न रक्षिता तम् अनवस्थितमव्यवस्थितम् अत एव अनीशं कार्यजननासमर्थं राजसं रजोगुणसंबन्धिनं भावम् अनवधानतया स्थितिविशेषं धिगस्तु ॥ ५।५५।१६ ॥
अरक्षणे दोषमाह विनष्टायामित्यादिभिः ॥ ५।५५।१७ ॥
एतदिति ॥ ५।५५।१८ ॥
इक्ष्वाकुवंश इति ॥ ५।५५।१९ ॥
तदिति । तत् सीतायाः अरक्षणाद्धेतोः लुप्तो विनाशितः धर्मार्थयोः संग्रहो येन अत एव भाग्यरहितः रोषदोषपरीतात्मा ऽहं लोकविनाशनः सकलजनविनाशनजनितपापवान् भविष्यामीति शेषः ॥ ५।५५।२० ॥
इतीति । इति चिन्तयतः तस्य हनूमतः पूर्वमप्युपलब्धानि अनुभूतानि निमित्तानि शुभसूचकदक्षिणनेत्रस्फुरणादीनि उपपेदिरे प्रापुः अतः पुनरचिन्तयत् ॥ ५।५५।२१ ॥
चिन्ताकारमाह अथवेत्यादिभिः । स्वेन तेजसा तेजोरूपवह्निविशेषेण रक्षिता कल्याणी सीता न नशिष्यति नंक्ष्यति । तत्र हेतुः अग्नौ अग्निर्न प्रवर्तते ॥ ५।५५।२२ ॥
तदेव भङ्ग्यन्तरेणाह नहीति । स्वचरित्राभिगुप्तां स्वनिष्ठपरमपातिव्रतधर्मेण रक्षितां तस्य रामस्य भार्यां पावकः स्प्रष्टुं नार्हति ॥ ५।५५।२३ ॥
नूनमिति । रामप्रभावेण अव्याहतप्रतापेन वैदेह्याः सुकृतेन च अयं हव्यवाहनो ऽग्निः यत् प्रयत्नवन्तं मां न अदहत् । यन्मामित्यत्र कर्मधारयः । यदिति सामान्ये नपुंसकं वा ॥ ५।५५।२४ ॥
त्रयाणामिति । या भरतादीनां देवता पूज्या रामस्य च मनःकान्ता अत्यन्तमीप्सिता सा कथं विनशिष्यति ॥ ५।५५।२५ ॥
यदिति । यत् यः अयं वह्निः मे लाङ्गूलं न दहति सः आर्यां सीतां कथं प्रधक्ष्यति ॥ ५।५५।२६ ॥
पुनरिति । तत्र तस्मिन् समये विस्मितो हनूमान् जलमध्ये सागरान्तर्देशे हिरण्यनाभस्य गिरेः प्रदर्शनं पुनरचिन्तयत् । एतेन पर्वतादीनामपि सर्वेषां रामाज्ञावशवर्तित्वं सूचितं तेन सीतायाः नाग्नेर्भीतिरिति सूचितम् ॥ ५।५५।२७ ॥
तपसेति । तपआदिना असौ सीता अग्निं विनिर्दहेत् अतः तां सीताम् अग्निर्न प्रधक्ष्यति ॥ ५।५५।२८ ॥
स इति । तत्र तस्मिन् समये देव्याः सीतायाः धर्मपरिग्रहं धर्मे स्थितिं चिन्तयन् हनूमान् चारणानां शुश्राव वचनमिति शेषः ॥ ५।५५।२९ ॥
तद्वचनाकारमाह अहो इत्यादिभिः । राक्षससद्मनि अग्निं विसृजता त्यजता हनूमता दुर्विगाहम् अन्यैः कर्तुमशक्यम् अहो आश्चर्यं कर्म कृतम् ॥ ५।५५।३० ॥
तत्कर्माह प्रपलायितेति । प्रपलायितैः अतिपलायनं प्राप्तैः रक्षःप्रभृतिभिः समाकुला व्याप्ता जनकोलाहलैः ध्माता शब्दिता अत एव क्रन्दती रुदतीव अद्रिकन्दरैः सह इयं लङ्का दग्धा । जानकी तु न दग्धा इति नो ऽस्माकमद्भुतो ऽभूतपूर्व एव विस्मयः । श्लोकद्वयमेकान्वयि ॥ ५।५५।३१,३२ ॥
इतीति । इति वाचं हनुमान् शुश्राव अत एव तत्कालसंभवः तस्मिन् काले योग्यः अस्य हनूमतः मनसो हर्षो बभूव ॥ ५।५५।३३ ॥
स इति । दृष्टः बहुवारमनुभूतः अर्थः फलं येषां तैः निमित्तैः दक्षिणनेत्रस्फुरणादिभिः महागुणैः अद्भुतगुणप्रतिपादकैः कारणैः सीतास्थितिबोधकहेतुभिः ऋषिवाक्यैश्च हनूमान् प्रीतमानसो ऽभवत् ॥ ५।५५।३४ ॥
तत इति । अक्षताम् अदग्धां तां सीतां विदित्वा ज्ञात्वा प्रत्यक्षतः तां दृष्ट्वा च प्राप्तमनोरथार्थः प्राप्तौ मनोरथार्थौ येन मनोवेगवत्त्वसमानाधिकरणेप्सितार्थवानित्यर्थः । हनूमान् प्रतिप्रयाणाय मतिं चकार ॥ ५।५५।३५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५।५५ ॥