०५४ हनूमता लङ्कादहनम्

हनुमत्कर्तृकलङ्काभस्मीकरणं वर्णयितुमाह– वीक्षमाण इत्यादिभिः । वर्धमानः समुत्साहो यस्य स हनूमान् कार्यशेषम् अवशिष्टकृत्यम् अचिन्तयत् ॥ ५।५४।१ ॥

चिन्ताकारमाह किमित्यादिभिः । यत्कर्म रक्षसां भूयः संतापजननं भवेत् तदवशिष्टं किमपि कर्म कर्तव्यम् ॥ ५।५४।२ ॥

अवशिष्टमेव प्रकटयन्नाह वनमिति । प्रकृष्टाः बलवन्तः राक्षसाः हताः बलैकदेशः सेनायाः कश्चिदंशः क्षयितो विनाशितश्च अतः दुर्गविनाशनमेव शेषं पश्यामीति शेषः ॥ ५।५४।३ ॥

विनाशनफलमाह दुर्ग इति । दुर्गे विनाशिते सति कर्म मम क्रिया सुखं सुखरूपः परिश्रमो यस्मिन् तत् भवेत् अतः अल्पयत्नेन साध्ये अस्मिन् दुर्गविनाशनरूपे कार्ये निष्पन्ने सतीति शेषः, मम श्रमः सफलः स्यात् ॥ ५।५४।४ ॥

सफलत्वे हेतुमाह य इति । मम लाङ्गूले दीप्यते प्रकाशते यो हव्यवाहनो वह्निः अस्य संतर्पणमेभिर्गृहोत्तमैः कर्तुं न्याय्यम् ॥ ५।५४।५ ॥

तत इति । सविद्युत्तोयदो मेघ इव लङ्काया भवनाग्रेषु विचचार ॥ ५।५४।६ ॥

गृहादिति । राक्षसानां गृहात् उन्नतभवनात् गृहम् उद्यानानि गृहारामांश्च वीक्षमाणो हनूमान् प्रासादान् चचार ॥ ५।५४।७ ॥

तत्प्रकारमाह अवप्लुत्येत्यादिभिः । महावेगो हनूमान् प्रहस्तस्य मुख्यमन्त्रिणः निवेशने भवने अवप्लुत्य महापार्श्वस्य वेश्म पुप्लुवे तत्राग्निं मुमोच च । श्लोकद्वयमेकान्वयि ॥ ५।५४।८,९ ॥

वज्रेति ॥ ५।५४।१० ॥

तथेति ॥ ५।५४।११ ॥

रश्मीति ॥ ५।५४।१२ ॥

युद्धोन्मत्तस्येति ॥ ५।५४।१३ ॥

करालस्येति ॥ ५।५४।१४ ॥

नरान्तकस्येति ॥ ५।५४।१५ ॥

वर्जयित्वेति । हरिपुङ्गवो हनूमान् विभीषणगृहं प्रति वर्जयित्वा क्रमेण मुख्याद्यानुपूर्व्या क्रममाणः सन् ददाह ॥ ५।५४।१६ ॥

तेष्विति । तेषु तेषु भवनेषु ऋद्धिमतां राक्षसानाम् ऋद्धिं ददाह ॥ ५।५४।१७ ॥

सर्वेषामिति । सर्वेषां भवनानि समतिक्रम्य रावणस्य निवेशनमाससाद ॥ ५।५४।१८ ॥

तत इति । तस्मिन् रावणीये मुख्ये गृहे लाङ्गूलाग्रे प्रतिष्ठितं प्रदीप्तमग्निमुत्सृज्य युगान्तजलद इव ननाद । श्लोकद्वयमेकान्वयि ॥ ५।५४।१९,२० ॥

श्वसनेनेति । श्वसनेन महावायुना संयोगाद्धेतोः महाबलो हुताशनः कालाग्निरिव जज्वाल पवनस्तु प्रदीप्तमग्निं वेश्मसु चारयन् संक्षिपन् सन् प्रावर्धत । सार्धश्लोक एकान्वयी ॥ ५।५४।२१ ॥

तानीति । काञ्चनजालानि महान्ति भवनानि च व्यशीर्यन्त । काञ्चनजालानीति बहुव्रीहिणा भवनविशेषणं वा । अर्धद्वयमेकान्वयि ॥ ५।५४।२२ ॥

तानीति । भग्नानि विमानानि येषां तानि भवनानि पुण्यसंक्षये सिद्धानां भवनानीव वसुधातले निपेतुः ॥ ५।५४।२३ ॥

संजज्ञ इति । भग्नः उत्सवो येषाम् उज्झिता श्रीर्येषां ते एव ते इति कर्मधारयः । स्वे स्वे गृहपरित्राणं प्रधावतां राक्षसानां कपिरूपेण एषो ऽग्निरेवायातः हा अतिकष्टम् इति तुमुलः शब्दः संजज्ञे प्रादुर्बभूव । सार्धश्लोक एकान्वयी । । ५।५४।२४,२५ ॥

कन्दन्त्य इति । अग्निपरीताङ्ग्यः स्तनन्धयधराः गृहीतशिशवः काश्चित् स्त्रियः क्रन्दन्त्यः सत्यः हर्म्येभ्यः पेतुः अभ्रेभ्यः पतन्त्यः सौदामिन्य इव अम्बरात् आकाशवर्तिप्रासादात् पतन्त्यो रेजिरे । सार्धश्लोक एकान्वयी ॥ ५।५४।२६ ॥

वज्रेति । वज्रादिसंहतान् वज्रादिसहितान् भवनात् स्यन्दमानान् विचित्रान् धातून् स्वर्णादीन् स हनूमान् ददर्श ॥ ५।५४।२७ ॥

नेति । यथा काष्ठादीनां दाह इति शेषः । अग्निः किंचिन्न तृप्यति तथा राक्षसेन्द्राणां वधे हनूमान् न तृप्यति सकलराक्षसवधमिच्छतीत्यर्थः । तेन सीतादुःखदर्शनासहिष्णुत्वं व्यञ्जितम् हनूमान् विशस्तानां हिंसितानां राक्षसानां धारणे इति शेषः । वसुन्धरा च न तृप्यति निहतसर्वराक्षसवधरणमाकाङ्क्षतीत्यर्थः, तेन पतिवियोगजनितस्वसुतादुःखहेतुकदुःखाक्रान्तत्वं तस्याः सूचितम् । सार्धश्लोक एकान्वयी ॥ ५।५४।२८,२९ ॥

हनूमतेति । रुद्रेण त्रिपुरमिव हनूमता लङ्कापुरं प्रदग्धम् ॥ ५।५४।३० ॥

तत इति । लङ्कापुरपर्वताग्रे त्रिकूटाचलशृङ्गे इत्यर्थः, हनूमतोपसृष्टः अत एव समुत्थितो ऽग्निः चूडावलयं शिखासमूहं प्रसार्य प्रदीप्तो बभूवेति शेषः ॥ ५।५४।३१ ॥

युगान्तेति । भवनेषु राक्षसगृहेषु सक्तः रक्षःशरीराज्येन समर्पितं प्राप्तमर्चिर्येन विधूमरश्मिः समारुतः मारुतसहितः युगान्तकालानलतुल्यरूपो ऽग्निः दिविस्पृक् सन् ववृधे ॥ ५।५४।३२ ॥

आदित्येति । अशनिप्ररूढैः अशनिशब्दवत्प्रकटितैरनेकैः शब्दै अण्डं ब्रह्माण्डं भिन्दन् महाग्निः प्रलयवह्निरिव आदित्यकोटीसदृशः सुतेजा वह्निः लङ्कां परिवार्य तिष्ठन् प्रबभौ ॥ ५।५४।३३ ॥

तत्रेति । तत्र तस्मिन् समये अम्बरात् अम्बरं प्राप्य रूक्षा राक्षसविघातकर्तृत्वेन क्रूरा प्रभा यस्य सः किंशुकपुष्पस्येव चूडा यस्य सो ऽग्निः अतिप्रवृद्धो बभूवेति शेषः, नीलोत्पलाभाः निर्वाणानां सर्वत्र प्रसृतानां धूमानाम् आकुलराजयः निबिडपङ्क्तयः अभ्रा इव प्रचकाशिरे ॥ ५।५४।३४ ॥

वज्रीति । अयं वानरः स्वयं काल एव वज्र्याद्यन्यतमो न ॥ ५।५४।३५ ॥

संभावनान्तरमाह किमिति । सर्वपितामहत्वादिविशिष्टस्य ब्रह्मणः रक्षोपसंहारकरः प्रकोपः वानररूपधारी सन् इहागतः किम् ॥ ५।५४।३६ ॥

किमिति । स्वमायया रक्षोविनाशाय कपिरूपम् एत्य अचिन्त्यं चिन्तयितुमशक्यम् अत एव अव्यक्तम् अनन्तं देशकालवस्तुपरिच्छेदशून्यम् अत एव एकं प्रधानं वैष्णवं महाविष्णुसंबन्धि सुतेजो वा किम् ॥ ५।५४।३७ ॥

इतीति । पुरीं लङ्कां दग्धां समीक्ष्य विशिष्टाः प्रधानाः बहवो रक्षोगणाः तत्र रावणसमीपे समेत्य इत्येवंपूर्वसंभावनामूचुः ॥ ५।५४।३८ ॥

तत इति । ततस्तस्मिन् समये प्रदग्धा लङ्का तदभिमानिदेवता सशब्दमधिकशब्दवत् यथा भवति तथा रुरोद ॥ ५।५४।३९ ॥

हेति । हा तातेत्यादि बहुधा ब्रुवद्भिः रक्षोभिः घोरतरः शब्दः कृतः ॥ ५।५४।४० ॥

हुताशनेति । हनूमतः क्रोधबलेन अभिभूता तिरस्कृता अत एव हुताशनज्वालसमावृता अत एव हतप्रवीरा अत एव परिवृत्ताः उद्विग्निचित्ताः योधाः भटाः यस्यां सा लङ्का शापोपहतेव बभूव ॥ ५।५४।४१ ॥

सेति । ससंभ्रमाः उद्वेगसहिताः अत एव त्रस्ताः भीताः अत एव विषण्णाः त्रयाणां कर्मधारयः राक्षसाः यस्यां तां समुज्ज्वलन्त्यः अतिप्रकाशयुक्ताः ज्वालाः यस्य स एव हुताशनः तेनाङ्किताम् अत एव स्वयंभुकोपोपहतां दिनान्ते स्वयंभुवः कोपेन विनष्टाम् अवनिमिव लङ्कां हनूमान् ददर्श । अत्र स्वयंभुशब्दः शंभुपरः इति न संहारप्रकरणविरोधः ॥ ५।५४।४२ ॥

भङ्क्त्वेति । वनादि भङ्कत्वा रक्षांसि हत्वा लङ्कां दग्धवा हनूमान् तस्थौ ॥ ५।५४।४३ ॥

स इति । स हनूमान् रक्षोभवनेषु अग्निं विसृज्य मनसा रामं जगाम ॥ ५।५४।४४ ॥

तत इति । ततो ऽनन्तरं वानरवीरमुख्यं हनूमन्तं सर्वे देवगणाः प्रतुष्टुवुः ॥ ५।५४।४५ ॥

देवा इति । देवादयः परां प्रीतिं जग्मुः ॥ ५।५४।४६ ॥

भङ्क्त्वेति । रराज शुशुभे ॥ ५।५४।४७ ॥

गृहेति । विचित्रे गृहाग्र्याणां गृहश्रेष्ठानां शृङ्गाग्रतले परप्रासादभूमौ प्रतिष्ठितः अर्चिमाली आदित्य इव प्रदीप्तलाङ्गूलकृतार्चिमाली वानरराजसिंहः व्यराजत । अत एव निर्देशादर्चिशब्दो ऽप्यस्तीति प्रतीयते ॥ ५।५४।४८ ॥

लङ्कामिति । समस्तां लङ्कां संपीड्य लाङ्गूलाग्रिं समुद्रे निर्वापयामास ॥ ५।५४।४९ ॥

तत इति । लङ्कां प्रदग्धां दृष्ट्वा देवादयः परमं विस्मयं गताः ॥ ५।५४।५० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५।५४ ॥