विभीषणवचनस्वीकारानन्तरकालिकं रावणवृत्तान्तमाह तस्येत्यादिभिः । महात्मनो विभीषणस्य वचनं श्रुत्वा देशकालहितमुत्तरं वाक्यमब्रवीत् ॥ ५।५३।१ ॥
तद्वचनाकारमाह सम्यगित्यादिभिः । दूतवध्या विगर्हितेति भवता सम्यगुक्तमतः वधादन्यः अस्य निग्रहः दण्डः क्रियताम् ॥ ५।५३।२ ॥
ननु को दण्डः इत्यत आह कपीनामिति । लाङ्गूलं कपीनां भूषणम् अत एव इष्टं भवति अतः अस्य तत् लाङ्गूलं दीप्यतां दग्धेन लाङ्गूलेन विष्टः सन् गच्छतु ॥ ५।५३।३ ॥
तत इति । ततः पुच्छदाहानन्तरम् अङ्गवैरूप्येण कर्शितं दुःखितममुं वानरं ससुहृज्जनाः सुमित्रादयः पश्यन्तु तत्र मित्राणि तुल्यसुखदुःखवन्तः, ज्ञातयो भ्रात्रादयः, बान्धवाः संबन्धिनः, सुहृज्जनाः स्नेहवन्तः ॥ ५।५३।४ ॥
आज्ञापयदिति । प्रदीप्तेन लाङ्गूलेनोपलक्षितो ऽयं सचत्वरं सर्वं पुरं रक्षोभिः परिणीयतामिति राक्षसेन्द्र आज्ञापयत् । एतेनैतादृशदर्शनेन हतबान्धवानां राक्षसीनां दुःखशान्तिर्भविष्यतीति सूचितम् ॥ ५।५३।५ ॥
तस्येति । तस्य रावणस्य वचनं श्रुत्वा कोपकर्कशाः अतिकोपवन्तो राक्षसाः तस्य हनूमतो लाङगूलं कार्पासिकैः कार्पासोपादानकैः पटैः वेष्टन्ते अवेष्टन्त ॥ ५।५३।६ ॥
संवेष्ट्यमान इति । शुष्कमिन्धनमासाद्य वनेषु हुताशन इव व्यवर्धत ॥ ५।५३।७ ॥
तैलेनेति । ते रावणाज्ञप्ताः राक्षसाः तैलेन परिषिच्य तत्र लाङ्गूले अग्निमुपपादयन् प्रापयन् प्राज्वालयन्नित्यर्थः । अर्ध पृथक् ॥ ५।५३।८ ॥
लाङ्गूलेनेति । भूयः सङ्गतैः राक्षसैः प्रदीपितेन लाङ्गूलेन रोषामर्षपरीतात्मा हनूमान् राक्षसान् अताडयत् । सार्धश्लोके एकान्वयी ॥ ५।५३।९ ॥
सहेति । निशाचराः प्रीतिं जग्मुः निबद्धो वीरस्तु तत्कालसदृशीं पुच्छदहनसमयोचितां मतिं कृतवान् ॥ ५।५३।१० ॥
तन्मत्याकारमाह काममिति । निबद्धस्यापि मे समीपे राक्षसाः समर्था न अतः पाशान् राक्षसकृतबन्धनानि छित्त्वा इमान् राक्षसान् पुनर्हन्याम् ॥ ५।५३।११ ॥
यदीति । भर्तृहितार्थाय चरन्तं मां भर्तृशासनात् रावणाज्ञातः यदीमे मां निबघ्नन्ते तदा ऽपि मे निष्कृतिः मत्कृतकर्मप्रतिक्रिया न कृता ॥ ५।५३।१२ ॥
सर्वेषामिति । यद्यपि राक्षसानां युधि अहं पर्याप्तः परिपूर्णः निहन्तुं समर्थ इत्यर्थः, तथा ऽपि रामस्य प्रीत्यर्थं किंतु किंचित् ईदृशं कर्म विषहिष्ये ॥ ५।५३।१३ ॥
ननु सहनेन कथं रामप्रीतिरित्यत आह लङ्केति । मम लङ्का पुनश्चारयितव्या भवेत् इति यतः रात्रौ दुर्गकर्मविधानतः दुर्गमक्रियया विधानात् हेतोर्न सुदृष्टा ॥ ५।५३।१४ ॥
अवश्यमिति । निशाक्षये लङ्का ऽवश्यं मया द्रष्टव्या अतः कामं मां बध्नन्तु पुच्छस्योद्दीपनेन पीडां कुर्वन्तु च । तत्र हेतुः मे मनसः श्रमः खेदो नास्ति । सार्धश्लोक एकान्वयी ॥ ५।५३।१५ ॥
तत इति । संवृतः आच्छादितः आकारो येन तं महाकपिं राक्षसाः परिगृह्य ययुः ॥ ५।५३।१६ ॥
शङ्खेति । शङ्खभेरीनिनादैर्घोषयन्तो राक्षसाः कपिकुञ्जरं तां पुरीं चारयन्ति स्म ॥ ५।५३।१७ ॥
अन्वीयमान इति । रक्षोभिरन्वीयमानो हनूमान् सुखं ययौ महापुरीं लङ्कां चारयामास चचार च ॥ ५।५३।१८ ॥
अथेति । महांश्चासावकपिः कप्यन्तररहितः कपिर्हनुमान् विचित्राणि विमानादीनि अपश्यच्च । तत्र चत्वराः द्वारसमीपबहिर्बद्धाः संबाधाः निबिडा शृङ्गाटकानि चतुष्पथाः, उपरथ्याः स्वल्पवीथ्यः, गृहान्तराः गृहद्वयमध्यदेशाः । श्लोकद्वयमेकान्वयि ॥ ५।५३।१९,२० ॥
चत्वरेष्विति । चत्वरेषु अङ्गणेषु चतुष्केषु चतुष्पथेषु चचार । रामदूतो ऽयमिति कपिं राक्षसाः घोपयन्ति अघोषयन्त ॥ ५।५३।२१ ॥
दीप्यमान इति । लाङ्गूले दीप्यमाने सति अप्रियं तद्दीपनं देव्याः सीतायाः समीपे शंसुः शशंसुः ॥ ५।५३।२२ ॥
तच्छासनाकारमाह य इति । यः त्वया कृतः संवादो येन सः कपिः प्रदीप्तेन प्रज्वलितेन लाङ्गूलेनोपलक्षितः सन् परिणीयते ॥ ५।५३।२३ ॥
श्रुत्वेति । आत्मापहरणोपमं दुःखप्रापकत्वेन स्वापहरणसदृशं तद्वचनं श्रुत्वा शोकसंतप्ता वैदेही हुताशनं वह्निमुपागमत् मनसा प्राप्नोत् ॥ ५।५३।२४ ॥
मङ्गलेति । सा सीता महाकपेर्हनुमतः मङ्गलाभिमुखी मङ्गलप्रापिका आसीत् । अत एव प्रयता प्रयतचित्ता सती हव्यवाहनं वह्निमुपतस्थे ॥ ५।५३।२५ ॥
तत्प्रकारमाह यदीति । यदि पतशुश्रूषाद्यस्ति मयीति शेषः, तदा हनूमतः शरीर इति शेषः, शीतो भव ॥ ५।५३।२६ ॥
तत इति । ततः सीताप्रार्थनान्तरं तीक्ष्णमर्चिर्यस्य सो ऽनलः कपेः शुभं शंसन्निव मृगशावाक्ष्याः सीताया अग्रे जज्वाल ॥ ५।५३।२७ ॥
हनुमदिति । हनुमज्जनकः हनुमत उत्पादकः पुच्छानलयुतः प्रालेयानिलः हिमसंबन्धिवायुसदृशशीतलः अनिलः देव्याः सीतायाः स्वास्थ्यकरः सन् ववौ ॥ ५।५३।२८ ॥
दह्यमान इति । लाङ्गूले दह्यमाने दहिनो वह्नेः अमानः दाहगर्वाभावः यस्मिन् अदह्यमाने सतीत्यर्थः, किंच लाङ्गूले लाङ्गूलसंबन्धिपटे दह्यमाने सति वानरश्चिन्तयामास । अर्धं पृथक् ॥ ५।५३।२९ ॥
चिन्ताकारमाह प्रदीप्त इति । सर्वतः प्रदीप्तोयमग्निः मां कस्मान्न दहति । अर्धं पृथक् । दृश्यते इति । लाङ्गूलाग्रे प्रतिष्ठितः महाज्वालो ऽग्निर्यो दृश्यते स शिशिरस्य हिमस्य संपातः पिण्ड इव मे रुजं पीडां कस्मान्न करोति । चकारः कस्मादित्यर्थे ॥ ५।५३।३० ॥
तत्संभावनामाह अथवेति । यत् यस्मात् रामप्रभावात् सरितां पतौ सरितां पतौ समुद्रे पर्वतः पर्वतरूपमाश्चर्यं प्लवता मया दृष्टं तत्तस्मादेव इदं वह्निशैत्यं व्यक्तं प्रकटीभूतम् ॥ ५।५३।३१ ॥
तदेव द्रढयन्नाह यदीति । रामार्थं समुद्रस्य मैनाकस्य च यदि संभ्रमः मत्कर्मकादरः तर्हि अग्निः किं न करिष्यति संभ्रममिति शेषः । करिष्यत्येवेत्यर्थः ॥ ५।५३।३२ ॥
सीताया इति । सीतायाः आनृशंस्येन स्वाभाविकातिशयकृपया पावको मां न दहति ॥ ५।५३।३३ ॥
भूय इति । मुहूर्तं भूयः संचिन्तयामास । अर्धं पृथक् । चिन्ताकारमाह कथमिति । अस्मद्विधस्य रामकृपापात्रस्येत्यर्थः, राक्षसाधमैर्बन्धनं कथं न संभवतीत्यर्थः, अतः मह्यं मम पराक्रमे सति अस्य बन्धनस्य प्रतिक्रिया मत्सदृशाचरणं युक्ता स्यात् ॥ ५।५३।३४ ॥
तत इति । ततश्चिन्तानन्तरं महाकपिः पाशान् बन्धनानि छित्त्वा अथ समङ्गलमुत्पपात ननाद च । क्रियाभेदान्न पौनरुक्त्यम् ॥ ५।५३।३५ ॥
पुरेति । ततो ऽनन्तरं विभक्ता निवृत्ता रक्षः संबाधा राक्षससंमर्दो यस्मिन् तत् पुरद्वारम् आससाद ॥ ५।५३।३६ ॥
सिंहावलोकनन्यायेन बन्धनच्छेदप्रकारं वर्णयन्नाह स इति । शैलसंकाशो भूत्वा विद्यमानो यो हनूमान् सः ह्रस्वतां प्राप्तः सन् बन्धनानि अवशातयत् न्यवर्तयत् ॥ ५।५३।३७ ॥
विमुक्त इति । इति विमुक्तः बन्धनान्निर्गतो हनूमान् पुनः पर्वतसंनिभो ऽभवत् । वीक्ष्यमाणः सन् परिघं ददृशे च ॥ ५।५३।३८ ॥
स इति । स हनूमान् कालायसपरिष्कृतं कालायसोपादानकं तं परिघं गृह्य गृहीत्वा रक्षिणो द्वारपालकान् सूदयामास जघान ॥ ५।५३।३९ ॥
स इति । स हनूमान् तान् राक्षसान् निहत्वा निहत्य प्रदीप्तलाङ्गूलेन कृता या अर्चिमाला अर्चिषां समूहः तद्वान् स हनूमान् अर्चिमाली आदित्य इव प्रकाशत प्राकाशत अत एव निर्देशादर्चिशब्दो ऽपि कल्प्यते ॥ ५।५३।४० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रिपञ्चाशत्तमः सर्गः ॥ ५।५३ ॥