रावणं प्रति विभीषणोक्तिं वर्णयितुं प्रसङ्गमुत्थापयन्नाह स इति । तस्य हनूमतः वचनं श्रुत्वा क्रोधमूर्छितो रावणः तस्य हनूमतो वधमाज्ञापयत् ॥ ५।५२।१ ॥
वध इति । रावणेन वधे समाज्ञप्ते सति दौत्यं स्वनिष्ठदूतधर्मं निवेदितवतो हनूमतः वधे विभीषणो नानुमेने ऽनुमतिं चकार । वध इत्युभान्वयि ॥ ५।५२।२ ॥
तमिति । तं रावणं क्रुद्धमत एव उपस्थितं संप्राप्तं कार्यं दूतवधक्रियां च विदित्वा कार्यविधौ यथोचितकृत्यसंपादने स्थितः रावणेन संस्थापितः विभीषणः कार्यं स्वकर्तव्यं चिन्तयामास ॥ ५।५२।३ ॥
निश्चितेति । निश्चितः अर्थो येन सः शत्रुजिद्विभीषणः पूज्यमग्रजम् अत्यर्थमत्यन्तं हितं वाक्यं साम्ना सामरूपोपायेन उवाच ॥ ५।५२।४ ॥
तद्वचनाकारमाह क्षमस्वेत्यादिभिः । हे राक्षसेन्द्र वसुधाधिपेन्द्राः दूतस्य वधं न कुर्वन्ति इदं मे वाक्यं शृणुष्व अत एव रोषं त्यज अत एव क्षमस्व दूतवाक्यं सहस्व ॥ ५।५२।५ ॥
राजन्निति । हे राजन् कपेः प्रमापणं विघातनं धर्मविरुद्धं वेदोक्ताद्विपरीतम् अत एव लोकवृत्तेः लोकाचारात् गर्हितं निन्दितम् अत एव तव असदृशमयोग्यमस्तीति शेषः ॥ ५।५२।६ ॥
असदृशत्वमुपपादयन्नाह धर्मज्ञ इति । धर्मज्ञत्वादिविशिष्टस्त्वमेवासीति शेषः ॥ ५।५२।७ ॥
गृह्यन्ते इति । त्वादृशो विचक्षणा अपि यदि दोषेण कर्त्रा गृह्यन्ते तदा शास्त्रविपश्चित्त्वं शास्त्रज्ञानं श्रम एव ॥ ५।५२।८ ॥
तस्मादिति । तस्मात् मदुक्तहेतोः प्रसीद चित्तप्रसादं कुरु अत एव युक्तायुक्तं विनिश्चित्य दूतदण्डः दूतोचितक्रिया विधीयताम् ॥ ५।५२।९ ॥
विभीषणेति । रावणः उत्तरं वाक्यमब्रवीत् ॥ ५।५२।१० ॥
तद्वचनाकारमाह नेति । शत्रुसूदन हे विभीषण पापानां पापकर्माचरणशीलानां वधे पापं न विद्यते तस्माद्धेतोः पापकारिणमिमं वधिष्यामि ॥ ५।५२।११ ॥
अधर्मेति । बहुदोषयुक्तम् अत एव अधर्ममूलम् अत एव अनार्यजुष्टं क्षुद्रैः सेवितं रावणोक्तिं निशम्य श्रुत्वा परमार्थतत्त्वं परमार्थस्य निश्चायकं वाक्यं विभीषण उवाच ॥ ५।५२।१२ ॥
तद्वचनाकारमाह प्रसीदेति । हे लङ्केश्वर समयेषु स्वस्वामिनियोगकालेषु दूताः सर्वत्र सर्वदेशेषु न वध्याः इति सन्तो वदन्ति तत् धर्मार्थतत्त्वं वचनं शृणुष्व ॥ ५।५२।१३ ॥
नन्वनेन शत्रुत्वमाचरितमिति नास्मिन् दूतत्वमात्रमिति नास्य वधे दोष इत्यत आह असंशयमिति । हि यतः अप्रमेयं बहु अप्रियम् अनेन कृतम् अतो ऽयं प्रवृद्धो महान् शत्रुः तथापि सन्तः दूतवध्यां दूतानां वधं न प्रवदन्ति अत एव दूतस्य दुष्टत्वे इति शेषः, बहवः दण्डाः दृष्टा शास्त्रेष्ववलोकिताः ॥ ५।५२।१४ ॥
तद्दण्डाकारमाह वैरूप्यमिति । अङ्गेषु वैरूप्यं नासिकाछेदादिना विरूपकरणं कशाभिघातः कशया तोत्रेण अभिघातः ताडनं मौण्ड्यं भ्रुकुट्यादिमुण्डनं लक्षणसंनिपातः ताम्रखण्डदाहादिना ललाटादौ चिह्नकरणम् एतान् दण्डान् दूते प्रवदन्ति दूतस्य वधस्तु नो ऽस्माकं न श्रुतो ऽस्ति ॥ ५।५२।१५ ॥
ननु क्रोधवशं प्राप्तस्य विवेको न भवतीत्यत आह कथमिति । परावरप्रत्ययेन उत्कृष्टापकृष्टज्ञानेन निश्चितः अर्थो येन अत एव धर्मार्थयोर्विनीता निविष्टा बुद्धिर्यस्य सः भवद्विधः जनः कोपवशे कथं तिष्ठेत् हि यतः सत्त्ववन्तो जनाः कोपं न गच्छन्ति प्राप्नुवन्ति ॥ ५।५२।१६ ॥
स्वविज्ञापितस्वीकरणायैतत्प्रशंसामाह नेति । धर्मवादादौ तव तुल्यः कश्चिन्न विद्येत अतः सर्वसुरासुराणां त्वमोवोत्तमो ऽसि ॥ ५।५२।१७ ॥
तत्र हेतुमाह पराक्रमेति । पराक्रमोत्साहमनस्विनां पराक्रमोत्साहविशिष्टमनोविशिष्टानां सुरासुराणामपि दुर्जयेन अत एव अप्रमेयेण बलवत्त्वादिना इयत्तारहितेन त्वया सुरेन्द्रसंघाः नरेन्द्राश्च युद्धेषु असकृज्जिताः ॥ ५।५२।१८ ॥
इत्थमिति । इत्थंविधस्य तव अलीकमपराधं पुरा प्राणैर्विमुक्ताः अपहृतसर्वस्वा इत्यर्थः । वीराः मनसा ऽपि न कुर्वन्ति ॥ ५।५२।१९ ॥
नेति । अस्य कपेर्घाते कंचित् गुणं न पश्यामि । अतः परैरयं कपिः प्रेषितः तेषु अयं प्राणान्तः दण्डः पात्यताम् ॥ ५।५२।२० ॥
साधुरिति । परैः रिपुभिः समर्पितः प्रेषितः अत एव परार्थं ब्रुवन् साधुर्वा ऽसाधुर्वा एष दूतः वधं नार्हति ॥ ५।५२।२१ ॥
अपीतिति । अस्मिन् दूते हते सति अन्यं दूतं खेचरम् आकाशगमनशीलं न पश्यामि तस्मात् अस्य वधे यत्नो न कार्यः । किंतु सेन्द्रेषु देवेषु तद्विध्वंसार्थं यत्नमास्थातुं भवान् अर्हति । सार्धश्लोक एकान्वयी ॥ ५।५२।२२ ॥
ननु खेचरदूतरक्षणेन किं साध्यमित्यत आह अस्मिन्निति । अस्मिन्दूते विनष्टे सति युद्धप्रियावेव दुर्विनीतौ दुष्करशिक्षौ नरराजपुत्रौ युद्धाय य उद्योजयेत् तं दूतमहं न पश्यामि ॥ ५।५२।२३ ॥
ननु किं तद्युद्धप्रवृत्येत्यत आह पराक्रमेति । हे नन्दन राक्षसाभिरामदातः युद्धाय समुत्सुकमिति शेषः । नैऋ़तानां मनः निर्नाशयितुं त्वया न युक्तम् ॥ ५।५२।२४ ॥
हिता इति । महागुणेषु बहुगुणविशिष्टेषु कुलेषु जाताः शराः नागाश्च सुभृताः अत्यन्तं पोषिताः ॥ ५।५२।२५ ॥
ननु किं तेनेत्यत आह तदिति । तत् शराधिक्याद्धेतोः केचित्तवादेशकृतः बलस्य सैन्यस्य एकदेशेन सह किंचिद्बलं गृहीत्वेत्यर्थः, अद्य यान्तु रामसमीपमिति शेषः । गमनप्रयोजनमाह परेषु शत्रुषु ते प्रभावं भावयितुं बोधयितुं मूढौ प्रियावियोगदुःखे अस्वस्थचित्तौ तौ रामलक्ष्मणौ उपगृह्य आयान्त्विति शेषः ॥ ५।५२।२६ ॥
निशाचराणामिति । राक्षसराजेषु मुख्यः निशाचरणामधिपो रावणः विभीषणस्येष्टमुत्तमवाक्यं बुद्ध्या अन्तःकरणवृत्त्या जग्राह ॥ ५।५२।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्विपञ्चाशत्तमः सर्गः ॥ ५।५२ ॥