रावणं प्रति हनुमदुक्तिमुपक्रमते तमिति । महासत्वं तं रावणं समीक्ष्य अर्थवत् सप्रयोजनं वाक्यं हरिसत्तमो हनुमानुवाच ॥ ५।५१।१ ॥
तद्वचनाकारमाह अहमित्यादिभिः । सुग्रीवसंदेशात् हेतोः तवान्तिके अहं प्राप्तः । संदेशमेवाह हे राक्षसेश भ्राता हितोपदेशकर्तृत्वेन भ्रातृसदृशः हरीशः सुग्रीवः त्वां कुशलमब्रवीत् ॥ ५।५१।२ ॥
भ्रातुरिति । भ्रातुस्तव हितस्य सुग्रीवस्य समादेशं सम्यगादेश उपदेशो यस्मिन् तत् धर्मार्थसहितम् अत एव इह लोके अमुत्र परलोके च क्षमं योग्यं च वाक्यं शृणु ॥ ५।५१।३ ॥
तद्वाक्यमेवाह राजेत्यादिभिः । सुरेश्वरसमद्युतिः दशरथो नाम राजा अभवदिति शेषः ॥ ५।५१।४ ॥
ज्येष्ठ इति । धर्म्यं पन्थानमाश्रितः तस्य दशरथस्य ज्येष्ठः पुत्रः दण्डकावनं प्रविष्टः । श्लोकद्वयमेकान्वयि ॥ ५।५१।५,६ ॥
तस्येति । विश्रुता सर्वत्र प्रख्याता वैदेहस्य सुता तस्य रामस्य भार्या जनस्थाने नष्टा हृता ॥ ५।५१।७ ॥
मार्गमाण इति । देवीं सीतां मार्गमाणः रामः ऋष्यमूकमनुप्राप्तः सुग्रीवेण संगतः सख्यं प्राप्तश्च ॥ ५।५१।८ ॥
तस्येति । तस्य रामस्य समीपे सीतायाः परिमार्गणे तेन सुग्रीवेण प्रतिज्ञातं रामेणापि सुग्रीवस्य हरिराज्यं निवेदितुं प्रतिज्ञातम् ॥ ५।५१।९ ॥
तत इति । ततः प्रतिज्ञाकरणानन्तरं तेन रामेण वालिनं हत्वा हर्यक्षणां गणेश्वरः तद्योग्यः सुग्रीवः राज्ये स्थापितः ॥ ५।५१।१० ॥
त्वयेति । त्वया विज्ञातपूर्वः पौर्वकालिकत्वनिष्ठविज्ञानविषयीभूतः यो वाली सः एकेन शरेण निहतः ॥ ५।५१।११ ॥
स इति । सः कृतोपकारः सुग्रीवः सीतामार्गणे व्यग्रः सन् हरीन् संप्रेषयामास ॥ ५।५१।१२ ॥
तामिति । हरीणां सहस्रादीनि मार्गन्ते ॥ ५।५१।१३ ॥
वैनतेय इति । तत्र तेषु वानरेषु केचित् वैनतेयसमाः केचित् असङ्गगतयः आलम्बरहितगतिविशिष्टाः आकाशगामिन इत्यर्थः ॥ ५।५१।१४ ॥
अहमिति । मारुतस्य औरसः मुख्यः सुतः हनुमान्नामाहं तु सीतायाः कृते सीतार्थं शतयोजनमायतं समुद्रं लङ्घयित्वा तां सीतां दिदृक्षुः सन् इह लङ्कायामागतः अत एव भ्रमता मया ते गृहे जनकात्मजा दृष्टा । श्लोकद्वयमेकान्वयी ॥ ५।५१।१५,१६ ॥
तदिति । दृष्टौ साक्षात्कृतौ धर्मार्थौ येन सः तपसा कृतः परिग्रहः धनादिसंग्रहो येन सः अत एव भवान् पूज्यस्त्वं परदारान् उपरोद्धुं नार्हसि ॥ ५।५१।१७ ॥
नहीति । धर्मात् वेदबोधितकर्मणः विरुद्धेषु अत एव बह्वपायेषु विपुलापायसंपादकेषु अत एव मूलघातिषु कर्मसु भवद्विधाः बुद्धिमन्तो न सज्जन्ते ॥ ५।५१।१८ ॥
ननूक्तविरुद्धकर्मजनितपापं प्रायश्चित्तेनापनेता ऽस्मीति तद्विरुद्धकर्माचरणे का नः क्षतिरित्यत आह क इति । रामकोपानुवर्तिनां रामक्रोधाधीनानां लक्ष्मणमुक्तानां शराणामग्रतः स्थातुं देवासुरेष्वपि कः शक्तः न को ऽपीत्यर्थः ॥ ५।५१।१९ ॥
नेति । राघवस्य व्यलीकमपराधं कृत्वा यः सुखमवाप्नुयात् सः त्रिषु लोकेषु कश्चन न विद्येत विद्यते । एतेन प्रायश्चित्तेन देहान्तरभोग्यपापनिवृत्तावपि रामप्रसादनमन्तरा तव कल्याणं नैव भविष्यतीति सूचितम् ॥ ५।५१।२० ॥
तदिति । नरशार्दूल हे पुरुषश्रेष्ठ तत् उक्तहेतोः त्रिकालहितं सर्वकाले हितकारकं धर्म्यं धर्मादनपेतम् अर्थानुयायि अर्थप्रापकं वाक्यं मन्यस्व अत एव जानकी प्रदीयताम् । “नग्देवाय” इति तीर्थपाठः ॥ ५।५१।२१ ॥
दृष्टेति । देवी इयं सीता मया दृष्टा अत एव दुर्लभं दूतैः दुखेन लभ्यं तत् यशः इह अस्मिन् काले मया लब्धं शेषमवशिष्टं यदुत्तरमुत्तरकालकं सीतानयनं तत्र राघव एव निमित्तं राघव एव नेष्यतीत्यर्थः ॥ ५।५१।२२ ॥
तदेव भङ्ग्यन्तरेणाह लक्षितेति । गृहे स्थितां पन्नगीमिव यां त्वं नाभिजानासि यत्प्रभावं न वेत्सि सा सीता मया लक्षिता ॥ ५।५१।२३ ॥
नेति । अत्यर्थमत्यन्तं विषसंस्पृष्टम् ओजसा भुक्तमन्नमिव अमरैरपि इयं सीता जरयितुं गोपयितुमित्यर्थः, न शक्या ॥ ५।५१।२४ ॥
तप इति । तपःसंतापेन तपसः करणेन लब्धः यः कर्मपरिग्रहः धर्मसाधकः महैश्वर्यमित्यर्थः, सः यश्च आत्मप्राणपरिग्रहः स्वप्राणस्य परिग्रहः चिरजीवित्वमित्यर्थः । स च नाशयितुं विध्वंसयितुं न न्याय्यः । एतेन सीतासमर्पणमन्तरा ते सर्वं विनङ्क्ष्यतीति ध्वनितम् ॥ ५।५१।२५ ॥
ननु मम वरहेतुकावध्यत्वात्कथं विघात इत्यत आह अवध्यतामिति । तपोभिः तपोहेतुकवरप्राप्त्या सुरादिभिः आत्मनो वध्यतां यां भवान् समनुपश्यति तत्र अयं महान् हेतुः कारणम् ॥ ५।५१।२६ ॥
हेतुमाह सुग्रीव इति । अयं सुग्रीवः राघवश्च देवादिर्न किं तु सुग्रीवो हरीश्वरः राघवश्च मानुषः नित्यमनुष्यः । एतेन आभ्यां तवाभयदानं नास्तीति सूचितं तस्मात् प्राणपरित्राणं कथं करिष्यसि ॥ ५।५१।२७ ॥
ननु तपोबलात् मम विध्वंसो नैव भविष्यतीत्यत आह न त्विति । यः अधर्मफलसंहितः अधर्मसिद्धिं प्राप्तः अधर्मकारीत्यर्थः, तं धर्मोपसंहारं धर्मवन्तमपि नान्वेति प्राप्नोति धर्मफलमिति शेषः, किंतु तदधर्मफलमेव अन्वेति । ननु सर्वेषां किञ्चिदधर्मवत्त्वसत्त्वात् धर्मफलप्राप्तिः केषांचिदपि न स्यादित्यत आह धर्मो विपुलसत्कर्मानुष्ठानम् अधर्मनाशनः अल्पाधर्मविध्वंसकः । एतेन तवाधर्मस्यैवाधिक्यात् धर्मफलं नैव भविष्यतीति सूचितम् ॥ ५।५१।२८ ॥
ननु मत्तपसो वैयर्थ्यं स्यादित्यत आह प्राप्तमिति । तावत् इतः पूर्वमेव धर्मफलं प्राप्तम् अतः अस्यापहरणरूपस्य अधर्मस्य फलं क्षिप्रमेव प्रपत्स्यसे ॥ ५।५१।२९ ॥
जनस्थानेति । जनस्थानवधादि बुद्ध्या संस्मृत्य रामसुग्रीवसख्यमेव हितं बुध्यस्व ॥ ५।५१।३० ॥
काममिति । लङ्कां नाशयितुमहमेव शक्तः । ननु कुतो न नाशयसीत्यत आह तस्य रामस्य एषः सत्कर्तृकतादृशलङ्काविध्वंसविषयकः निश्चयो न ॥ ५।५१।३१ ॥
रामेणेति । यैः सीता प्रधर्षिता तेषाममित्राणामुत्सादनं रामेण प्रतिज्ञातम् ॥ ५।५१।३२ ॥
अपेति । रामस्य अपकुर्वन् पुरन्दरो ऽपि सुखं न प्राप्नुयात् ॥ ५।५१।३३ ॥
यामिति । यां सीतेत्येव अभिजानासि सा कालरात्री राक्षसविध्वंससमयनियामिका इति हेतोः तां सर्वलङ्काविनाशिनीं विद्धि जानीहि ॥ ५।५१।३४ ॥
तदिति । स्वयं स्कन्धावसक्तेन स्कन्धयोर्धृतेन सीताविग्रहरूपिणा कालपाशेन अलं न प्रियतामित्यर्थः । तत्र हेतुः आत्मनि आत्मार्थं क्षेमं चिन्त्यताम् ॥ ५।५१।३५ ॥
सीताया इति । दग्धां दग्धप्रायां रामकोपेन प्रदीपिताम् अत एव दह्यमानां पुरीं लङ्कां पश्य ॥ ५।५१।३६ ॥
स्वानीति । मित्रादीनि विनाशं मा उपानय प्राप्य ॥ ५।५१।३७ ॥
सत्यमिति । रामदासस्य मम वचनं विसेषतः शृणुष्व ॥ ५।५१।३८ ॥
तद्वचनमेवाह सर्वानिति । सुसंहृत्य रुद्रादिद्वारा विनाश्य स्रष्टुं कर्तुं शक्तः समर्थः ॥ ५।५१।३९ ॥
देवेति । विष्णुः तुल्यपराक्रमो यस्य तं रामं यः प्रतियुध्येत स नास्ति । सार्धश्लोकद्वयमेकान्वयि ॥ ५।५१।४०,४१ ॥
सर्वेति । रामस्य विप्रियं कृत्वा तव जीवितं दुर्लभम् ॥ ५।५१।४२ ॥
देवा इति । देवादयः रामस्य समरे स्थातुं न शक्ताः ॥ ५।५१।४३ ॥
ब्रह्मेति । ब्रह्मादयः स्थातुं न शक्ताः ॥ ५।५१।४४ ॥
स इति । अप्रतिमः सादृश्यरहितः स रावणः कपेर्वचः निशम्य कोपविवृत्तलोचनः सन् महाकपेर्वधं समादिशत् ॥ ५।५१।४५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकाधिकपञ्चाशत्तमः सर्गः ॥ ५।५१ ॥