हनुमद्दर्शनानन्तरकालिकं रावणवृत्तान्तमाह तमित्यादिभिः । पिङ्गे अक्षिणी यस्य तं पुरतः स्थितं हनूमन्तम् उद्वीक्ष्य शङ्काहतात्मा शङ्काव्याप्तचित्तः स प्रसिद्धो रावणः दध्यौ चिन्तयामास । सार्धश्लोक एकान्वयी ॥ ५।५०।१ ॥
चिन्ताकारमाह किमित्यादिभिः । पुरा कैलासगमनसमये मया प्रहसिते वानरमुखसदृशमुखवत्त्वेन प्रहासं प्रापिते सति येनाहं शप्तः सन् मुखसदृशमुखैः त्वद्विनाशो भवितेत्युक्तो ऽस्मि स भगवान् एष नन्दी वानरमूर्तिः सन् किमिहागतः स प्रसिद्धो बाणो ऽसुरो वानरमूर्तिः सन् इहागतो वा । सार्धश्लोक एकान्वयी ॥ ५।५०।२,३ ॥
स इति । राजा स रावणः मन्त्रिसत्तमं प्रहस्तं विपुलं गम्भीरम् अर्थवत् प्रयोजनविशिष्टम् इदमुवाच ॥ ५।५०।४ ॥
तद्वचनाकारमाह दुरात्मेत्यादिभिः । कुतः कस्मादागत इति शेषः । अस्यागमनस्य कारणं प्रयोजनं किं, वनभङ्गे राक्षसानां तर्जने च अस्य को ऽर्थः प्रयोजम् इत्येष दुरात्मा पृच्छ्यताम् ॥ ५।५०।५ ॥
मदिति । मत्पुरीं प्रतीति शेषः । गमने आगमने किं प्रायोजनम् आयोधने युद्धे वा ते किं कार्यम् इत्येष दुर्मतिः पृच्छ्यताम् ॥ ५।५०।६ ॥
रावणस्येति । रावणस्य वचः श्रुत्वा प्रहस्तो ऽब्रवीत् । तदाकारमाह हे कपे ते भद्रं कल्याणम् अतो भीर्भितिर्न कार्या अतः समाश्वसिहि ॥ ५।५०।७ ॥
समाश्वासनप्रयोजनमाह यदीत्यादिभिः । यदि तु त्वमिन्द्रेण प्रेषितः तर्हि तत्त्वं यथार्थमाख्याहि । तत्त्वकथने फलमाह त्वं मोक्ष्यसे अस्माभिर्बन्धनादिति शेषः ॥ ५।५०।८ ॥
यदीति । यदि वैश्रवणाद्यन्यतमस्य दूतः अत एव प्रेषितस्त्वं नो ऽस्माकं पुरीं प्रविष्टः अथ वा अथापि यन्निमित्तः यदर्थं ते प्रवेशः तच्च तर्हि तत्त्वतः कथयस्व अनृतं वदतस्तव जीवितं जीवनं दुर्लभम् । ननु सामान्यवानर एवाहमित्यत आह वानरं सामान्यवानरसंबन्धि ते तेजो न अद्भुतं तेजो ऽस्तीत्यर्थः, ते रूपमात्रं तु वानरम् । सार्धश्लोकत्रयमेकान्वयि ॥ ५।५०।९११ ॥
एवमिति । एवमुक्तः हरिवरो हनूमान् अब्रवीत् । तद्वचनाकारमाह शक्रादन्यतमस्य दूतो ऽहं नास्मि । अर्धद्वयमेकान्वयि ॥ ५।५०।१२ ॥
धनदेनेति । धनदेन कुबेरेण विष्णुना च मे सख्यं नास्ति अत एव धनदेन विष्णुना च न प्रचोदितो ऽस्मि तयोरपि दूतो नास्मीत्यर्थः ॥ ५।५०।१३ ॥
जातिरिति । एषा वानरत्वरूपैव मम जातिः अत एव वानर एवाहं यस्येदं दर्शनं मया दुर्लभं तस्य राक्षसेन्द्रस्य तव दर्शनार्थमिहागतः । अत एव राक्षसराजस्य दर्शनार्थे वनं विनाशितम् । सार्धश्लोक एकान्वयी ॥ ५।५०।१४ ॥
तत इति । ततः वनविध्वंसानन्तरं युद्धकाङ्क्षिणः प्राप्ताः राक्षसा मया देहस्य स्वशरीस्य रक्षणार्थं रणे प्रतियुद्धाः प्रतिभटतया स्थिता युद्धाय प्रवर्तिताः ॥ ५।५०।१५ ॥
अस्त्रेति । अस्त्रपाशैः अस्त्रैः पाशैश्च बद्धुं मुहूर्तादनन्तरं बन्धनं प्रापयितुं देवासुरैरप्यहं न शक्यः । एष वरः पतामहात् मम मया समागतः प्राप्तः ॥ ५।५०।१६ ॥
ननु बन्धनशक्त्यभावे कथं बन्धनं प्राप्तो ऽसीत्यत आह राजानमिति । राजानं रावणं द्रष्टुकामेन मया अस्त्रमनुवर्तितं बन्धनं प्राप्तमित्यर्थः, अत एव अस्त्रेण विमुक्तो ऽप्यहं राक्षसैः अभिवेदितः त्वत्समीपे प्रापितः ॥ ५।५०।१७ ॥
ननु मद्दर्शने तव किं प्रयोजनमित्यत आह केनचिदिति । राघवस्याहं दूतः इति विज्ञाय संस्मृत्य केनचित् रामकार्येण हेतुना तवान्तिकमागतो ऽस्मि अतो मम वचनं श्रूयताम् । सार्धश्लोक एकान्वयी ॥ ५।५०।१८,१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चाशत्तमः सर्गः ॥ ५।५० ॥