हनुमतो वृत्तमाह तत इत्यादिभिः । ततः तस्मिन् समये तस्य इन्द्रजितः कर्मणा विस्मितः तस्य रावणस्य कर्मणा सीतापहरणक्रियया क्रोधताम्राक्षः स हनूमान् रक्षोधिपं रावणमवैक्षत । कर्मणेति तस्येति चावृत्त्योभयान्वयि ॥ ५।४९।१ ॥
भ्राजमानमिति । महार्हेण बहुमूल्येन काञ्चनेन सुवर्णमयेन मुक्ताजालवृत्तेन यथायोग्यं मुक्तासमूहविन्यस्तेन विराजता प्रकाशमानेन मुकुटेन वज्रस्य संयोगेन यथोचितं विन्यासेन संयुक्तैः महार्हमणीनां विग्रहैर्थयोचितं विघटनविशिष्टैर्मनसेव प्रकल्पितैः हैमेः हेममयैः आभरणैर्भ्राजमानम् अत एव महाद्युतिम् ॥ ५।४९।२,३ ॥
महार्हक्षौमेन पट्टवस्त्रविशेषेण संवीतमाच्छादितं रक्तचन्दनेन रूपितं विविधाभिर्भक्तिभिः सेवनीयकस्तूर्यादिभिः स्वनुलिप्तम् ॥ ५।४९।४ ॥
भीमदर्शनैः रक्ताक्षैररुणनयनैर्विचित्रमाश्चर्यीभूतं दीप्ता प्रकाशिता तीक्ष्णा महादंष्ट्रा यस्य दशनच्छदैः ओष्ठैः प्रलम्बं प्रलम्बौष्ठवन्तमित्यर्थः । समस्तपाठे तु भ्राजमानमित्युत्तरेणान्वयः । नानाव्यालसमाकीर्णैः अनेकसर्पव्याप्तैः शिखरैर्मन्दरमिव प्रलम्बदशनैर्दशभिः शिरोभिश्च भ्राजमानम् ॥ ५।४९।५,६ ॥
नीलाञ्जनचयवत् प्रख्या प्रतीतिर्यस्य उरसि राजता हारेण शोभितमिति शेषः । पूर्णचन्द्राभवक्त्रेण पूर्णचन्द्रसदृशमूखेन च सबालार्कं बालार्कसहितमम्बुदमिव प्रतीयमानम् ॥ ५।४९।७ ॥
बद्धानि केयूराणि येषु तैः भ्राजमानाः अङ्गदाः येषु तैः चन्दनोत्तमरूषितैः पञ्चशीर्षैरुरगैरिव प्रतीयमानमिति शेषः, केयूरो ऽङ्गदावान्तरभेदः ॥ ५।४९।८ ॥
रत्नसंयोगेन चित्रिते स्फाटिके स्फटिकनिर्मिते उत्तमास्तरणैरास्तीर्णे चित्रे आश्चर्यीभूते वरासने सूपविष्टम् ॥ ५।४९।९ ॥
आरात् समीपे समन्ततो विद्यमानाभिः प्रमदाभिः समुपसेवितम् ॥ ५।४९।१० ॥
महापार्श्वेन स्थूलपार्श्ववता प्रहस्तेन रक्षसा मन्त्रतत्त्वज्ञैः मन्त्रिभिश्च मन्त्रिणा निकुम्भेन चोपोपविष्टं चतुर्भिः रक्षोभिः कृत्स्नं लोकं भुवनं परिवृतं तैर्मन्त्रतत्त्वज्ञैर्मन्त्रिभिः दुर्धरादिभिश्चतुर्भिरुपोपविष्टम् सचिवैः मन्त्रिभिः अन्यैर्मन्त्रिभिश्च सुरैः सुरेश्वरमिव आश्वास्यमानं मेरुशिखरे सतोयं तोयदमिव विष्ठितं राक्षसपतिं हनूमान् अपश्यत् त्रयोदशानामेकत्रान्वयः ॥ ५।४९।१११४ ॥
स इति । तैः रक्षोभिः संपीड्यमानो ऽपि स हनूमान् विस्मयं गत्वा रक्षोधिपमवैक्षत ॥ ५।४९।१५ ॥
भ्राजमानमिति । भ्राजमानं राक्षसेश्वरं दृष्ट्वा तस्य राक्षसेश्वरस्य तेजसा मोहितः कर्तव्यविषयकविवेकरहितो हनूमान् चिन्तयामास ॥ ५।४९।१६ ॥
चिन्ताकारमाह अहो इति । राक्षसराजस्य रूपादिसर्वलक्षणयुक्तता च अहो आश्चर्यम् ॥ ५।४९।१७ ॥
यदीति । अयं राक्षसेश्वरः यदि अधर्मः धर्मविरोधी न स्यात् तर्हि सुरलोकस्यापि रक्षिता स्यात् ॥ ५।४९।१८ ॥
अस्येति । लोककुत्सितैः सर्वजननिन्दितैः नृशंसैः घातुकैः अत एव क्रूरैः अस्य कर्मभिः सामरदानवाः सर्वे लोकाः अस्मात् रावणाद्ब्रिभ्यति ॥ ५।४९।१९ ॥
अयमिति । क्रुद्धः अयं जगदेकार्णवं कर्तुम् उत्सहते समर्थो भवति इति बहुविधां चिन्तां राक्षसराजस्य प्रभावं दृष्ट्वा ऽपि अकरोत् । सार्धश्लोक एकान्वयी ॥ ५।४९।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकोनपञ्चाशत्तमः सर्गः ॥ ५।४९ ॥