अक्षकुमारविघातानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । हनूमता अक्षे कुमारे निहते सति रक्षोधिपतिः स रावणः मनः समाधाय स्थिरीकृत्य शोकं विमुच्येत्यर्थः । देवकल्पमिन्द्रजितं समादिदेश आज्ञापयामास ॥ ५।४८।१ ॥
तदाज्ञापनप्रकारमाह त्वमित्यादिभिः । पितामहाराधनेन संचितानि अस्त्राणि येन अत एव अस्त्रवित् निखिलास्त्रविज्ञाता अत एव शस्त्रभृतां मध्ये वरिष्ठः श्रेष्ठः अत एव सुरासुराणां विरुद्धसुरादीनां शोकदाता अत एव सेन्द्रेषु इन्द्रसहितेषु सुरेषु दृष्टं प्रसिद्धं कर्म यस्य स त्वमसीति शेषः ॥ ५।४८।२ ॥
त्वदिति । त्वदस्त्रबलमासाद्य प्राप्य सुरेश्वरसमाश्रिता अपि सुरादयः समरे स्थातुं न शेकुः ॥ ५।४८।३ ॥
नेति । त्रिषु लोकेषु संयुगेन तव संग्रामेण गतश्रमः गतखेदः कश्चिन्न त्वत्संग्रामं संप्राप्य सर्वः पराजितो भवतीत्यर्थः, अतः भुजवीर्याभिगुप्तः स्वभुजबलेन रक्षितः तपसा स्वतपोबलेन अभिरक्षितश्च देशकालप्रधानः देशकालयोरभिज्ञः मतिसत्तमः त्वमेवासीति शेषः । सार्धश्लोक एकान्वयी ॥ ५।४८।४ ॥
नेति । कर्मणां मध्ये किञ्चित्कर्म ते अशक्यं न मतिरूपमन्त्रणे मतिस्वरूपबोधने ते अकार्यम् अकर्तव्यं न यथोचितं सर्वं बोधयसीत्यर्थः, अत एव त्रिषु संग्रहेषु लोकेषु अस्त्रबलं पौरुषं च न वेद स नास्ति ॥ ५।४८।५ ॥
ममेति । ते तपोबलादि ममानुरूपं मत्तुल्यमस्तीति शेषः, अतः रणावमर्दे महासंग्रामे त्वां समासाद्य प्रापय्य विद्यमानस्य मम मनः निश्चितार्थं निश्चितविजयं सत् श्रमं खेदं न गच्छति ॥ ५।४८।६ ॥
तत्कर्तव्यं बोधयितुमाह निहता इति । किंकरादयो निहताः ॥ ५।४८।७ ॥
बलानीति । ते दयितः प्रियः सहोदरो ऽक्षश्च सूदितो निहतः । ननु तर्हि ममापि वधः स्यादित्यत आह नेति । मे मम संबन्धी यः सारो बलं त्वय्यस्ति सः तेषु निहतेषु नैव । अर्धं पृथक् । एतेनातिप्रबलत्वात्तव वधो न भविष्यतीति ध्वनितम् ॥ ५।४८।८ ॥
इदमिति । निहतमिदं महद्बलं दृष्ट्वा कपेः प्रभावम् आत्मनःसारं बलं च निरीक्ष्य ज्ञात्वा स्वबलानुरूपं वेगं कुरुष्व ॥ ५।४८।९ ॥
बलेति । शान्तशत्रौ त्वयि सन्निकृष्टे युद्धसमीपे गते प्राप्ते सति बलावमर्दः मत्सेनाध्वंसः शाम्यति अतः यथा शाम्यति तथा समारभस्व ॥ ५।४८।१० ॥
तमिति । स्वकर्मसाम्यात् स्वक्रियासादृश्यं संस्मृत्य समाहितात्मा एकाग्रचित्तस्त्वं तं स्वविजयरूपम् अर्थं प्रसमीक्ष्य निश्चित्य अस्य स्वकीयस्य धनुषो वीर्यं स्मरन् सन् व्रज अक्षतं परैरविनाश्यं कर्म समारभस्व च ॥ ५।४८।११ ॥
नेति । यत् यया मत्या त्वाम् अहं संप्रेषयामि सा इयं मतिः यद्यपि श्रेष्ठा न । तथापि राजधर्माणां क्षत्रस्य क्षत्रियस्य इयं मतिर्मता श्रेष्ठेत्यर्थः । मतिश्रेष्ठेति भाट्टपाठे तु संबोधनं तत्रोचितेत्यध्याहर्तव्यम् ॥ ५।४८।१२ ॥
नानेति । रणे विजयः काम्यः त्वया वाञ्छनीयः अतः नानाशास्त्रेषु उक्ते संग्रामे संग्रामप्रकारे वैशारद्यं नैपुण्यमवश्यमेव बोद्धव्यं त्वया संस्मरणीयम् ॥ ५।४८।१३ ॥
तत इति । पितुः रावणस्य वचनं निशम्य दक्षसुतानां देवानां प्रभाव इव प्रभावो यस्य स मेघनादः रणाय रणं गन्तुं भर्तारं रावणमतित्वरेण प्रदक्षिणं चकार ॥ ५।४८।१४ ॥
तत इति । स्वगणैः प्रतिपूजितः युद्धोद्धताय उद्धतयुद्धाय कृतः उत्साहो येन स मेघनादः संग्रामं संप्रपद्यत संप्रापद्यत गन्तुमारभत ॥ ५।४८।१५ ॥
तदेव भङ्ग्यन्तरेणाह श्रीमानिति । राक्षसाधिपतेः सुतः पर्वणि समुद्र इव निर्जगाम ॥ ५।४८।१६,१७ ॥
सेति । पक्षिराजोपमया सहिताः तुल्यः परस्परं समो वेगो येषां ते एव ते इति कर्मधारयः । तैश्चतुर्भिर्व्यालैः समायुक्तं रथम् इन्द्रकल्पः इन्द्रसदृशः इन्द्रजित् समारुरोह ॥ ५।४८।१८ ॥
स इति । स इन्द्रजित् यत्र स हनूमान् अभवत् अतिष्ठत तत्र रथेनाभिययौ ॥ ५।४८।१९ ॥
स इति । स हनूमान् तस्य इन्द्रजितः रथनिर्घोषं कार्मुकस्य ज्यास्वनं निशम्य श्रुत्वा संप्रह़ृष्टतरो ऽभवत् ॥ ५।४८।२० ॥
इन्द्रजिदिति । चापं शितशल्यान् तीक्ष्णाग्रभागान् सायकान् आदाय हनूमन्तमभिप्रेक्ष्य जगाम ॥ ५।४८।२१ ॥
तस्मिन्निति । तस्मिन् इन्द्रजिति संयति संग्रामार्थं जातहर्षे अत एव रणाय निर्गच्छति सति सर्वा दिशः कलुषा बभूवुः । रौद्राः क्रोष्ट्रादयो मृगाः विनेदुश्च ॥ ५।४८।२२ ॥
समागता इति । तत्र तस्मिन् समये समागताः नागादयः नभः समावृत्य उच्चैर्विनेदुः ॥ ५।४८।२३ ॥
आयान्तमिति । स हनूमान् इन्द्रध्वजम् इन्द्राकारचिह्नवद्ध्वजविशिष्टं रथं दृष्ट्वा महानादं यथा भवति तथा ननाद व्यवर्धत च ॥ ५।४८।२४ ॥
इन्द्रजिदिति । दिव्यं रथमाश्रितः इन्द्रजित् तडिदूर्जितनिःस्वनं तडिन्निःस्वनसदृशप्रवृद्धनिःस्वनविशिष्टं यथा भवति तथा धनुर्विस्फारयामास ॥ ५।४८।२५ ॥
तत इति । समेतौ रणाङ्गणे प्राप्तौ रणनिर्विशङ्कौ तौ कपिः रक्षो ऽधिपतेः तनूजश्च सुरासुरेन्द्राविव बद्धवैरौ अभवताम् ॥ ५।४८।२६ ॥
स इति । प्रवृद्धो ऽप्रमेयो हनूमान् संयति संमतस्य धनुष्मतो ऽस्य इन्द्रजितः शरप्रवेगं व्यहनत् व्यहन् अवञ्चयदित्यर्थः । पितुर्वायोर्मार्गे चचार च ॥ ५।४८।२७ ॥
तत इति । आयता एव तीक्ष्णशल्याः तीक्ष्णपुङ्खाः तान् सुपत्रिणः शोभनकङ्कपत्रविशिष्टान् सुसन्ततान् अतिदृढानित्यर्थः । शरान् वीर इन्द्रजित् मुमोच ॥ ५।४८।२८ ॥
तत इति । स हनूमान् तत्स्यन्दनस्य इन्द्रजिद्रथस्य निःस्वनं मृदङ्गादेः स्वनं च विकृष्यमाणस्य कार्मुकस्य धनुषो घोरं स्वनं च निशम्य श्रुत्वा पुनरुत्पपात ॥ ५।४८।२९ ॥
शराणामिति । अभिलक्ष्यस्य विचित्रकर्मकर्तृत्वेन सर्वतो दर्शनीयस्य तस्येन्द्रजितः शराणां लक्ष्यसंग्रहं लक्ष्यसंग्राहकत्वमीक्षयन् त्याजयन् अन्तरेषु वायुपथि मध्येषु व्यवर्तत विविधं पर्यटत् ॥ ५।४८।३० ॥
शराणामिति । पुनरनन्तरं तस्य शराणाम् अग्रतः अग्रे समभिवर्तत समभ्यवर्तत कदाचित् तच्छरं वञ्चयित्वा तच्छरेण सह धावन् ततो ऽग्रे निर्गच्छतीत्यर्थः । पुनः हस्तौ प्रसार्य उत्पपात ऊर्ध्वमगच्छत् ॥ ५।४८।३१ ॥
ताविति । तौ हनुमदिन्द्रजितौ सर्वभूतमनोग्राहि निखिलप्राणिहृदयापकर्षकं युद्धं चक्रतुः ॥ ५।४८।३२ ॥
हृदयापकर्षकत्वमेव स्फुटयन्नाह हनुमत इति । राक्षसः हनूमतो ऽन्तरमवकाशं न वेद हनुमत्कर्तृकशरवञ्चनसमयं नाजानादित्यर्थः । तस्येन्द्रजितः अन्तरं शरप्रवाहोपरमाभावेन शरसंधानसमयं मारुतिर्न वेद अतः देवसमानविक्रमौ तौ परस्परं समेत्य निर्विषहौ असह्यौ बभूवतुः ॥ ५।४८।३३ ॥
तत इति । ततः तेषु अमोघेषु शरेषु संपतत्सु सत्सु अत एव लक्ष्ये हनुमति विहन्यमाने ताड्यमाने सत्येव नतु प्राणैर्वियुक्ते सतीत्यर्थः । महात्मा अति प्रयत्नवान् समाधेः संयोगेन अतिविचारकालप्राप्त्या समाहितः एकाग्रीकृतः आत्मा मनो येन सः इन्द्रजित् महतीं चिन्तां जगाम हन्तेस्ताडनार्थकत्वं तु मालाहत इव द्विप इत्यादौ प्रसिद्धं तुशब्द एवार्थे ॥ ५।४८।३४ ॥
तत इति । राक्षसराजसूनुः कपेरवध्यतां समीक्ष्य निग्रहार्थं तत्कृतोपद्रवनिवृत्त्यर्थं कथं कथञ्चित् निगच्छेत् बन्धनं प्राप्नुयादिति तस्मिन् हरिवीरमुखे मतिं निश्चयं चकार ॥ ५।४८।३५ ॥
तत इति । सुमहातेजा इन्द्रजित् हरिप्रवरं प्रति पैतामहमस्त्रं संदधे ब्रह्मास्त्रसन्धानमकरोत् ॥ ५।४८।३६ ॥
अवध्य इति । अयं मारुतिरवध्य इति ज्ञात्वा निश्चित्य इन्द्रजित् मारुतात्मजं निजग्राह ॥ ५।४८।३७ ॥
तेनेति । राक्षसेन अस्त्रेण करणेन बद्धो वानरः निर्विचेष्टो ऽभवत् अत एव महीतले पपात च ॥ ५।४८।३८ ॥
तत इति । प्रभो रामस्य प्रभावत् विगतो निवृत्तो ऽल्पवेगो यस्मात् महावेग इत्यर्थः । तदस्त्रबन्धं ब्रह्मास्त्रेण बन्धनं बुद्ध्वा आत्मन उपरि पितामहानुग्रहं मुहूर्तमात्रेण मदस्त्रात्ते विनिर्मुक्तिरित्याकारकारनुग्रहविशेषं विचिन्तयामास ॥ ५।४८।३९ ॥
तदेव भङ्ग्यन्तरेणाह– तत इति । स्वायंभूवैः स्वयंभूदेवताकैः मन्त्रैरभिमन्त्रितं ब्रह्मास्त्रं पितामहात् वरदानं च चिन्तयामास ॥ ५।४८।४० ॥
तदाकारमाह नेति । लोकगुरोर्ब्रह्मणः प्रभावात् हेतोः अस्य बन्धस्य विमोक्षणे मे शक्तिर्नास्ति इति हेतोः एव विहितो ऽस्त्रबन्धो मयानुवर्तितव्यः ॥ ५।४८।४१ ॥
स इति । स हनूमान् वीर्यादिविमोक्षशक्तिं गुहूर्तानन्तरमस्त्रविमुक्तिसामर्थ्यं च परिचिन्तयित्वा परिचिन्त्य पितामहाज्ञामनुवर्तते स्म ॥ ५।४८।४२ ॥
अस्त्रेणेति । पितामहादिना रक्षितस्य मम अस्त्रेण बद्धस्य बन्धनस्य बन्धनात् भयं न जायते ॥ ५।४८।४३ ॥
इदं बन्धनं गुण एवेति बोधयन्नाह ग्रहण इति । ग्रहणे सति राक्षसेन्द्रेण संवादो भवितेति शेषः । अतो ग्रहणे महत् गुणदर्शनमस्ति तस्मात् परे राक्षसा मां गृह्णन्तु ॥ ५।४८।४४ ॥
स इति । निश्चितो ऽर्थो येन सः समीक्ष्यकारी विचारपूर्वककरणशीलः विनिवृत्ता अस्त्रमहिम्नोपरता चेष्टाकामव्यापारो यस्य स हनूमान् अभिगतैः परितो विद्यमानैः परैः राक्षसैः निगृह्य परिभर्त्स्यमानः सन् ननाद स्वजातीयशब्दं चकार ॥ ५।४८।४५ ॥
तत इति । राक्षसाः अरिन्दमं हनूमन्तं विनिश्चेष्टं दृष्ट्वा संहितैः रज्जुत्वेन निर्मितैः शणवल्कैः द्रुमचीरैः द्रुमान्तरवल्कैश्च बबन्धुः ॥ ५।४८।४६ ॥
स इति । राक्षसेन्द्रः कौतुकात् हेतोः मां द्रष्टुं यदि कदाचित् व्यवस्येत् निश्चिनुयात् इति हेतोः निश्चितः अर्थः रावणसमीपगमनं येन स हनूमान् प्रसह्य परैः कृतं बन्धनम् अभिगर्हणं दुरुक्तिं च रोचयामास ॥ ५।४८।४७ ॥
स इति । स हनूमान् तेन राक्षसकृतेन वल्केन तदुपादानकरज्ज्वा बद्धो ऽपि अस्त्रेण विमुक्तः अभवदिति शेषः । तत्र हेतुमाह अस्त्रबन्धः ब्रह्मास्त्रेण बन्धनम् अन्यं बन्धं बन्धनं न अनुवर्तते बन्धनान्तरमवलोक्य निवर्तत इत्यर्थः ॥ ५।४८।४८ ॥
अथेति । अथ रज्जुबन्धनानन्तरम् इन्द्रजित् द्रुमचीरबद्धम् अत एव अस्त्रेण विमुक्तं कपिसत्तमं तं कपिः सन् चासौ तमन् रावणसभादर्शनमाकाङ्क्षन् च तं तं हनुमन्तं विचार्य विनिश्चित्य अन्येन बद्धो ऽयम् अस्त्रमनुवर्तते अथ इति हेतोः चिन्तां जगाम अत एव न पौनरुक्त्यम् । यदि तु पूर्वं पठितस्य तमित्यस्य अमृतमित्यर्थः । तदा कपिसत्तममित्येव छेदः । “तश्चौरामृतपुच्छेषु” इति कोशः ॥ ५।४८।४९ ॥
चिन्ताकारमाह– अहो इति । यतः राक्षसैः मन्त्रगतिः मन्त्ररातिः न विमृष्टा विज्ञाता अतः महत् कृतम् अतियत्नेन मया संपादितं कर्म निरर्थं व्यर्थं कृतम् । ननु पुनर्मन्त्रप्रयोगं कुर्वित्यत आह अस्त्रे विहते दुरनुष्ठानेन निवृत्ते सति अन्यत् अस्त्रं न प्रवर्तते इति हेतोर्वयं संशयिताः संशयं प्राप्ताः स्म ॥ ५।४८।५० ॥
अस्त्रेणेति । अस्त्रेण मुक्तो ऽपि हनूमान् आत्मानं न अवबुध्यते मुक्तत्वेन न जानाति अत एव रक्षोभिः कृष्यमाणः सन् बन्धैर्निपीडितो ऽस्तीति शेषः ॥ ५।४८।५१ ॥
हन्यमान इति । कालमुष्टिभिः क्रूरैः राक्षसैः हन्यमानः स हनूमान् राक्षसेन्द्रस्य समीपं प्राकृष्यत ॥ ५।४८।५२ ॥
अथेति । अथानन्तरम् हरिप्रवीरं हनूमन्तं राज्ञे रावणाय व्यदर्शयन् ॥ ५।४८।५३ ॥
तमिति । राक्षसाः बद्धं कपिवरं रावणाय न्यवेदयन् ॥ ५।४८।५४ ॥
क इति । अम्युपाश्रयः अस्य सेव्यः कः इति राक्षसवीराणां कथाः परस्परमुक्तयः संजज्ञिरे बभूवुः ॥ ५।४८।५५ ॥
हन्यतामिति । अपरे राक्षसाः हन्यतामित्याद्यब्रुवन् ॥ ५।४८।५६ ॥
अतीत्येति । महात्मा स हनूमान् मार्गमतीत्य अतिक्रम्य रक्षो ऽधिपपादमूले परिचारवृद्धान् वृद्धपरिचारकान् महारत्नविभूषितं राज्ञो रावणस्य गृहं च ददर्श ॥ ५।४८।५७ ॥
स इति । स प्रसिद्धो रावणः रक्षोभिः इतस्ततः कृष्यमाणं कपिसत्तमं ददर्श ॥ ५।४८।५८ ॥
राक्षसेति । तपन्तं भास्करमिव राक्षसाधिपतिं कपिसत्तमो ददर्श ॥ ५।४८।५९ ॥
स इति । रोषेण संवर्तिते ताम्रदृष्टी अरुणनयने यस्य स दशाननः कपिं हनूमन्तमन्ववेक्ष्य उपविष्टान् संस्थितान् कुलशीलवृद्धान् मुख्यमन्त्रीन् मुख्यमन्त्रिणः तं हनूमन्तं प्रति समादिशत् प्रष्टुमाज्ञापयत् ॥ ५।४८।६० ॥
यथेति । तै रावणाज्ञप्तैर्मुख्यमन्त्रिभिः कार्यार्थं कार्यं कर्तव्यम् अर्थः कर्तव्यस्य प्रयोजनं च समाहारद्वन्द्वः अर्थस्य कार्यप्रवृत्तेर्मूलं कारणं च पृष्टः स हनूमान् हरीश्वरस्य सुग्रीवस्य सकाशात् समीपात् आगतः दूतो ऽहमस्मीति निवेदयामास ॥ ५।४८।६१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ५।४८ ॥