सेनापतिविनाशानन्तरकालिकं रावणवृत्तान्तमाह सेनेति । राजा स रावणः पञ्चसेनापतीन् प्रमापितान् विध्वंसितान् निशम्य श्रुत्वा समरोद्धतोन्मुखं समरोद्धताय महासंग्रामाय उन्मुखम् उद्युक्तम् अक्षतं क्षतिरहितम् अक्षम् अक्षाभिधं कुमारं प्रसमैक्षत समवालोकत ॥ ५।४७।१ ॥
स इति । तस्य रावणस्य दृष्ट्यर्पणेन दृष्टिप्रचालनेनैव संप्रचोदितः प्रेरितः प्रतापवान् अक्षकुमारः सदसि यागशालायां द्विजातिमुख्यैर्हविषोदीरितः पावक इव समुत्पपात ॥ ५।४७।२ ॥
तत इति । प्रतप्तजाम्बूनदस्य जालेन संततं व्याप्तं रथं समास्थाय महान् नैऋतर्षभः महाहरिं हनुमन्तं प्रति ययौ ॥ ५।४७।३ ॥
तत इति । तपःसंग्रहस्य तपश्चर्यायाः संचयेन अर्जितं प्राप्तं रत्नविभूषितो ध्वजो यस्मिन् मनोजवैरष्टभिरश्ववरैः सुयोजितम् ॥ ५।४७।४ ॥
असंगचारिणं निरालम्बगमनशीलम् अत एव व्योमचरम् समाहितं सम्यक् संस्थापितं सतूणमिषुधिसहितम् अष्टभिरसिभिर्निबद्धा बन्धुरा यस्य यथाक्रममावेशितानि शक्तितोमराणि यस्मिन् ॥ ५।४७।५ ॥
सहेमदाम्ना हेमदामसहितेन शशिसूर्यवर्चसा प्रतिपूर्णवस्तुना युद्धनिखिलसामग्र्या विराजमानं दिवाकराभं रथमास्थितः अमरतुल्यविक्रमः सो ऽक्षयकुमारः निर्जगाम । श्लोकत्रयमेकान्वयि ॥ ५।४७।६ ॥
स इति । स कुमारः तुरङ्गादिस्वनैः खादीन् पूरयन् सन् तोरणस्थितं तोरणावलम्बमासीनं कपिमुपागमत् ॥ ५।४७।७ ॥
स इति । हरीक्षणः सिंहवद्भयंकरदृष्टिः सो ऽक्षकुमारः प्रजाक्षये कालाग्निमिवावस्थितं विस्मितेन कुमारो ऽयं मया कथं योद्धुमिच्छतीति विस्मयेन जातः संभ्रम उद्वेगो यस्मिन् तं हनुमन्तमक्षः बहुमानचक्षुषा अतिगर्वदृष्ट्या ऐक्षत ॥ ५।४७।८ ॥
स इति । रावणात्मजः सो ऽक्षः कपेर्वेगम् अरिषु पराक्रमं च स्वं बलं पराक्रमं च विचारयन् न्यूनाधिकभावं चिन्तयन् सन् युगक्षये सूर्य इव अभिवर्धत अभ्यवर्धत ॥ ५।४७।९ ॥
स इति । विक्रमं हनुमत्कर्तृकराक्षसविध्वंसादिं प्रसमीक्ष्य संचिन्त्य जातमन्युः अत एव संयति संग्रामे स्थितः समाहितात्मा एकाग्रचित्तः सो ऽक्षः संयति दुर्निवारणं स्थिरं हनूमन्तं त्रिभिः शरैः प्रचोदयामास युद्धाय प्रेरयामास ॥ ५।४७।१० ॥
तत इति । ततः बाणप्रक्षेपानन्तरं जितः श्रमः बाणवेगजनितखेदो येन अत एव समुदीर्णं युद्धाय प्रवृद्धं मानसं यस्य अत एव गर्वितं गर्वितत्वेन प्रतीयमानम् अत एव शत्रुपराजयोचितं शत्रुपराजययोग्यं तं हनूमन्तम् अक्षः गर्वितं प्रसमीक्ष्य विज्ञाय अवैक्षत ॥ ५।४७।११ ॥
स इति । हेमनिष्काङ्गदाभ्यां सहितं चारु कुण्डलं यस्य सः आशुपराक्रमः स कुमारः कपिं समाससाद । निष्कमुरोभूषणं तयोः अक्षहनूमतोः अप्रतिमः उपमारहितः समागमो बभूव ॥ ५।४७।१२ ॥
ररासेति । कपेः, कुमारस्य च वीर्यसंयुगम् । अतिवीर्यहेतुकसंग्रामम् अवलोक्येति शेषः, भूप्रभृतिः रासप्रभृतिं न चकार ॥ ५।४७।१३ ॥
स इति । तस्य बाणस्य समाधिसंयोगविमोक्षः तत्त्ववित् समाधिर्लक्ष्यदर्शनं संयोगः शरसंधानं विमोक्षः तस्य त्यागः तेषां तत्त्वस्य याथार्थ्यस्य वेदिता वीरः सो ऽक्षकुमारसुवर्णपुङ्खान् स्वर्णमयपुङ्खविशिष्टान् अत एव सुमुखान् उरगानिव त्रीन् पतत्त्रिणो बाणान् कपिमूर्ध्नि अताडयन् ॥ ५।४७।१४ ॥
स इति । सममेककालावच्छेदेन मूर्ध्नि निपातितैः शरैः असृक् रुधिरं क्षरन् प्रस्रावयन् अत एव दिग्धे असृग्व्याप्ते विवृत्तलोचने स्वाभाविकविशालनेत्रे यस्य शरांशुमान् शररूपकिरणविशिष्टः अत एव नवोदितादित्यनिभः सः हनुमान् अंशुमालिकः चन्द्र इव व्यराजत ॥ ५।४७।१५ ॥
तत इति । प्लवगाधिप एव मन्त्रिसत्तमो हनूमान् उदग्राणि अत्युत्तमानि चित्रायुधानि यस्य चित्राणि कार्मुकानि धनूंषि यस्य स एव स इति कर्मधारयः । तं राजवरात्मजमक्षं समीक्ष्य जहर्ष अपूर्यत अवर्धत च ॥ ५।४७।१६ ॥
स इति । विवृद्धकोपः मन्दराग्रस्थों ऽशुमाली सूर्य इव हनूमान् अक्षं कुमारं नेत्राग्निमरीचिभिः ददाह इव ॥ ५।४७।१७ ॥
तत इति । बाणासनं धनुरेव शक्रकार्मकं यस्य शर एव प्रवर्षः अतिवृष्टिर्यस्य स राक्षसास्बुदः अक्षः हरीश्वराचले शरान् मुमोच । तत्र दृष्टान्तः अचलोत्तमे वृष्टिं बलाहक इव ॥ ५।४७।१८ ॥
कपिरिति । रणचण्डविक्रमम् अक्षं कुमारं संयुगे प्रसमीक्ष्य कपिर्हर्षान्ननाद ॥ ५।४७।१९ ॥
स इति । बालभावात् बालत्वाद्धेतोः वीर्यदर्पितः प्रवृद्धः मन्युर्यस्य क्षतजोपमे ईक्षणे यस्य सः अक्षः रणे अप्रतिमं कपिं तृणैरावृतं कूपमिव समाससाद प्राप ॥ ५।४७।२० ॥
स इति । तेन कुमारेण प्रसभं निपातितैर्बाणैर्घननादनिःस्वनः भुजोरुविक्षपणेन घोरं दर्शनं यस्य स मारुतिः समुत्सहेन नभः समुत्साहेन नभस्थानपि समारुजन् सन् नादं चकार । ह्रस्व आर्ष इति भट्टाः ॥ ५।४७।२१ ॥
तमिति । रथी रथसहितः रथिश्रेष्ठतरः राक्षसानां प्रवरः सो ऽक्षकुमारः अश्मवृष्टिभिः शैलं पयोधर इव उत्पतन्तं तं हनूमन्तं शरैः किरन् सन् समभिद्रवत् ॥ ५।४७।२२ ॥
स इति । शरान्तरे शराणामन्तरं मध्यं यस्मिन् तस्मिन् संयति संग्रामे शरान्तरे शरमध्ये विनिष्पतन्नपि हरिः स हनूमान् तस्य कुमारस्य तान् शरान् विमोक्षयन् स्वकर्मकस्पर्शाभावं प्रापयन् सन् वायुसेविते पथि चचार ॥ ५।४७।२३ ॥
तमिति । आत्तं बाणासनं धनुर्येन तं विविधैः शरोत्तमैः समास्तृणन्तम् अक्षं स हनूमान् बहुमानचक्षुषा सत्कारसूचकावलोकनेन अवेक्षत चिन्तां जगाम ॥ ५।४७।२४ ॥
तदेव भङ्ग्यन्तरेणाह– तत इति । शरैर्भिन्नं भुजान्तरं यस्य स कपिः रणे पराक्रमम् अक्षकुमारबलवत्त्वं विचिन्तयामास ॥ ५।४७।२५ ॥
चिन्ताकारमाह अबालवदिति । बालदिवाकरप्रभः अयं कुमारः अबालवत्कर्म करोति अतः सर्वाहवकर्मशालिनः आहवनिखिलक्रियाविज्ञातुः अस्य प्रमापणे विध्वंसने अत्र अस्मिन्समये मे मतिर्न जायते ॥ ५।४७।२६ ॥
अयमिति । महान् आत्मा प्रयत्नो यस्य सः वीर्यतो वीर्येण महान् समाहितः सावधानः संयुगे अतिसहः प्रहाराद्यतिसहनशीलः अयमक्षः कर्मगुणोदयात् प्रहारादिक्रियाप्रकाशात् सनागयक्षैर्नागयक्षसहितैर्मुनिभिः पूजितो भवेदिति शेषः ॥ ५।४७।२७ ॥
पराक्रम इति । पराक्रमोत्साहाभ्यां विवृद्धं मानसं यस्य सः अत एव प्रमुख्यः योद्धूणां मुख्यः अग्रतः स्थितः कुमारः मां समीक्षते अतः शीघ्रकारिणो ऽस्य पराक्रमः सुरासुराणामपि मनांसि कम्पयेत् ॥ ५।४७।२८ ॥
नेति । यतो ऽस्य रणे पराक्रमो विवर्धते अत उपेक्षितो ऽयं मां नाभिभवेत् अभिभवेदेवेत्यर्थः । अतः अस्य प्रमापणं नाशनं मम रोचते । हि यतः वर्धमानो ऽग्निः उपेक्षितुं न क्षमः ॥ ५।४७।२९ ॥
इतीति । इति अनेन प्रकारेण परस्य शत्रोः प्रवेगं परस्य वधाय विध्वंसाय स्वकर्मयोगं च तर्कयन् सन् अस्य वधे मतिं चक्रे अत एव वेगं चकार ॥ ५।४७।३० ॥
स इति । विवर्तने अनेकविधमण्डलगमने समाहितान् प्राप्तशिक्षानित्यर्थः । भारसहान् वरान् तस्य कुमारस्य अष्ट महाहयान् तलप्रहारैः वायुसेविते पथि विद्यमानः कपिः जघान ॥ ५।४७।३१ ॥
तत इति । तस्य हनूमतस्तलेनाभिहतः स भग्ननीडः भग्ननीडेन सहितः नीडं रथिस्थानं परिवृत्तः कूबरो यस्य हतवाजिः विध्वंसिताश्वः अत एव पिङ्गाधिपमन्त्रिणा सुग्रीवामात्येन निर्जितः पराभूतो महारथः सो ऽक्षः भूमौ पपात ॥ ५।४७।३२ ॥
स इति । तं भग्नं रथं परित्यज्य खमुत्पतन् सन् सो ऽक्षकुमारः तपोभियोगात् तपो ऽतिबलात् देहं विहाय मरुतां देवानामालयमुत्पतन् ऋषिरिव बभूवेति शेषः ॥ ५।४७।३३ ॥
कपिरिति । पतत्त्रिराजानिलसिद्धानां सेविते ऽम्बरे विचरन्तं तमक्षकुमारं क्रमेण समेत्य कपिर्हनूमान् पादयोर्दृढं जग्राह ॥ ५।४७।३४ ॥
स इति । वानरोत्तमः कपिः स हनूमान् तमक्षं गृह्य गृहीत्वा सहस्रशो ऽनेकवारं समाविध्य भ्रामयित्वा वेगान्महीतले मुमोच । तत्र दृष्टान्तः महोरगमण्डजेश्वरो गरुड इव ॥ ५।४७।३५ ॥
स इति । वायुसुतेन हतः अत एव भग्ना बाह्वादयो यस्य निर्मथितानि अस्थिलोचनानि यस्य भिन्नाः सन्धयो यस्य प्रविकीर्णानि बन्धनानि यस्य राक्षसः क्षितौ अपतदिति शेषः ॥ ५।४७।३६ ॥
महाकपिरिति । तमक्षं भूमितले निपीड्य रक्षोधिपतेः महद्भयं चकार । अर्धं पृथक् महर्षिभिरिति । कुमारे हते सति जातविस्मयैः महर्षिभृतिभिः कपिः स हनूमान् निरीक्षितो बभूवेति शेषः । सार्धश्लोक एकान्वयी ॥ ५।४७।३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ५।४७ ॥