०४६ हनुमता पञ्चचमूनायकवधः

मन्त्रिसुतवधानन्तरकालिकं रावणवृत्तान्तमाह हतानित्यादिभिः । मन्त्रिसुतान्वानरेण हतान् बुद्धा संवृतः आच्छादितः आकारः पूर्वाकृतिर्येन सः भीतियुक्ताकृतिविशिष्ट इत्यर्थः । किंच संवृतः स्वीकृतः आकारः प्राप्तकिंचिद्भीतिहेतुकाकृतिर्येन स रावणः उत्तमां मतिं पुनर्युद्धनिश्चयमित्यर्थः । चकार ॥ ५।४६।१ ॥

स इति । सः कृतपुनर्युद्धनिश्चयो रावणः अव्यग्रान् धीरान् विरूपाक्षादीन् पञ्च सेनाग्रनायकान् हनुमद्ब्रहणे हनुमतो ग्रहणार्थं संदिदेश श्लोकद्वयमेकान्वयि ॥ ५।४६।२,३ ॥

आज्ञापनप्रकारमाह– यातेत्यादिभिः इति । हे सेनाग्रगाः महाबलपरिग्रहाः बृहत्सैन्यग्रहीतारः वाज्यादिसहिताः सन्तो यूयं यात । तत्प्रयोदनमाह कपिः शास्यतां निगृह्यतामित्यर्थः ॥ ५।४६।४ ॥

यत्नैरिति । वनालयं वानरमासाद्य यत्नैरतिप्रयत्नविशिष्टैर्भवद्भिर्भाव्यं स्यात् । देशकालाविरोधितं देशाद्यनुरोधीत्यर्थः । कर्म समाधेयं च ॥ ५।४६।५ ॥

अतिप्रयत्नेन स्थितौ हेतुमाह नहीति । महाबलपरिग्रहं वृतं हतसेनायाः परिग्राहकं विध्वंसकमित्यर्थः । तं कर्मणा तत्क्रियया प्रतितर्कयन्नहं कपिं न मन्ये किंतु भूतमत्र प्राप्तं तत् सर्वथा महदतिश्रेष्ठं मन्ये ॥ ५।४६।६ ॥

ननु तर्हि को ऽयमित्यत आह भवेदिति । अस्मदर्थम् अस्मद्विनाशार्थं तपोबलादिन्द्रेण सृष्टं भवेत् । अर्धं पृथक् । तत्र हेतुं वदन्नाह सेति । ये नागादिसहिता महर्षयः मया प्रहितैः प्रेषितैर्युष्माभिः सह एककालावच्छेदेन विनिर्जिताः तैर्नो ऽस्माकं किंचित् व्यलीकमप्रियमवश्यं विधातव्यम् । सार्धश्लोक एकान्वयी ॥ ५।४६।७,८ ॥

तदिति । तदिन्द्रसृष्टमेव अत्र संदेहो न अतो महाबलपरिग्रहाः अत एव सवाजिरथमातङ्गाः यूयं यात प्रसह्य हठात् परिगृह्यताम् । नन्वेकाकिनस्तस्यार्थे किमर्थमेवं प्रेषणमित्यत आह धीरपराक्रमः कपिर्भवद्भिर्न्नावमान्यः तुच्छबुद्ध्या नानादर्तव्यः । एतेन तस्य महाबलत्वं सूचितम् । श्लोकद्वयं संमिलितान्वयि ॥ ५।४६।९,१० ॥

ननु वानररूपे कथमेवं पराक्रम इत्यत आह दृष्टा इति । विपुलविक्रमाः वाल्यादयो हरयः मया पूर्वं दृष्टाः । सार्धश्लोक एकान्वयी ॥ ५।४६।११ ॥

ननु तेषामेवायमन्यतमो ऽस्तु नाहं कपिं मन्ये इति कथमुच्यते इत्यत आह नेति । एवं एतादृग् गतिप्रभृतिरेतेषां न अत इदं महत् सत्त्वं विज्ञेयम् । अतो महत्प्रयत्नमास्थाय अस्य निग्रहः क्रियताम् । श्लोकद्वयमेकान्वयि ॥ ५।४६।१२,१३ ॥

काममिति । यद्यपि भवतामग्रतो ऽग्रे रणाजिरे स्थातुमिन्द्रादयो न पर्याप्तस्तथापि न यज्ञेन जनेन आत्मा प्रयत्नेन रक्ष्यः हि यतो युद्धसिद्धिः चञ्चला अव्यवस्थिता । श्लोकद्वयमेकान्वयि ॥ ५।४६।१४,१५ ॥

ते इति । स्वामिवचनं परिगृह्य रथादिभिरुपहिता युक्तास्ते सेनाग्रगाः समुत्पेतुः । श्लोकद्वयमेकान्वयि ॥ ५।४६।१६,१७ ॥

तत इति । उद्यन्तं रश्मिमन्तं सूर्यमिव स्वतेजोरश्मिमालिनम् अत एव दीप्यमानं महाकपिं वीरा ददृशुः ॥ ५।४६।१८ ॥

तोरणस्थमिति । तोरणस्यं तं हनूमन्तं समीक्ष्यैव सर्वासु दिक्षु अवस्थिताः ते राक्षसास्तैस्तैः प्रहरणैरायुधैः ततस्ततः स्वस्वाधिष्ठितदिशातः अभिपेतुः । श्लोकद्वयमेकान्वयि ॥ ५।४६।१९,२० ॥

तस्येति । तस्य हनुमतः शिरसि पीतमुखाः स्वर्णपुङ्खा इत्यर्थः । आयसाः पञ्चशराः दुर्धरेण राक्षसेन निपातिताः ॥ ५।४६।२१ ॥

स इति । पञ्चभिः शरैः शिरसि आविद्धः स हनूमान् नदन् अत एव दशदिशो विनादयन् सन् व्योम्नि आकाशे उत्पपात ॥ ५।४६।२२ ॥

तत इति । ततः हनुमदुत्प्लवनानन्तरं दुर्धरः तदभिधो राक्षसः शरशतैः किरन् सन् अभिपेदे तत्समीपं प्राप ॥ ५।४६।२३,२४ ॥

स इति । स हनूमान् व्योम्नि शरवर्षिणं तं दुर्धरं पयोदान्ते वर्षान्तकाले मारुतो वृष्टिमन्तं पयोदमिव वारयामास ॥ ५।४६।२५ ॥

अर्द्यमान इति । दुर्धरेण अर्द्यमानः अनिलात्मजः निनदं चकार व्यवर्धत च ॥ ५।४६।२६ ॥

स इति । स हनूमान् दूरं विद्यमाने दुर्धरस्य रथे गिरौ विद्युद्राशिरिव निपपात ॥ ५।४६।२७ ॥

तत इति । ततो हनुमन्निपातानन्तरं मथिताः हिंसिताः अष्टौ अश्वाः यस्य तं भग्नाक्षकूबरं रथं विहाय दुर्धरः त्यक्तजीवितो ऽभवदिति शेषः ॥ ५।४६।२८ ॥

तमिति । तौ सहैवागतौ विरूपाक्षयूपाक्षौ तं दुर्धरं भुवि निपतितं दृष्ट्वा जातरोषौ सन्तौ उत्पेततुः ॥ ५।४६।२९ ॥

स इति । अम्बरे आकाशे विष्ठितः स हनूमान् ताभ्यां विरूपाक्षयूपाक्षाभ्यां मुद्गराभ्यां करणाभ्यां वक्षसि अभिहतो ऽभवदिति शेषः ॥ ५।४६।३० ॥

तयोरिति । वेगवतोः तयोः राक्षसयोर्वेगं निहत्य निष्फलीकृत्येत्यर्थः । महाबलो हनूमान् वेगितः सुपर्णो गरुड इव भूमौ पुनर्निपपात ॥ ५।४६।३१ ॥

स इति । स भूमिं प्राप्तो हनूमान् शालवृक्षमासाद्य समुत्पाट्य च जघान ॥ ५।४६।३२ ॥

तत इति । वानरेण हतान् त्रीन् दुर्धरादीन् ज्ञात्वा एकतः एकदिशातः महावेगः प्रघसः एकतः भासकर्णश्च कपिशार्दूलं हनुमन्तमभिगम्य प्राप्य अवस्थितौ । श्लोकद्वयमेकान्वयि ॥ ५।४६।३३,३४ ॥

पट्टिशेनेति । शिताग्रेण पट्टिशेन प्रघसः शूलेन भासकर्णश्च कपिकुञ्जरं प्रत्ययोधयत् ॥ ५।४६।३५ ॥

स इति । ताभ्यां प्रघसभासकर्णाभ्यां विक्षतैः गात्रैरुपलक्षितः अत एव असृजा रुधिरेण दिग्धाः व्याप्ताः तनूरुहा यस्य अत एव बालसूर्यसमप्रभः वानरः क्रुद्धो ऽभवत् ॥ ५।४६।३६ ॥

समिति । कपिकुञ्जरो हनूमान् समृगव्यालपादपं मृगव्यालपादपसहितं गिरेः शृङ्गं समुत्पाट्य राक्षसौ जघान ॥ ५।४६।३७ ॥

गिरीति । तौ राक्षसौ तिलशः गिरिशृङ्गसुनिष्पिष्टौ बभूवतुः । अर्धं पृथक् । तत इति । तेषु पञ्चसु सेनापतिषु अवसन्नेषु विनष्टेषु सत्सु अवशेषमपि बलं वानरो नाशयामास ॥ ५।४६।३८ ॥

विनाशनप्रकारमाह– अश्वैरिति । असुरान् सहस्राक्ष इव अश्वादिभिरश्वादीन् कपिर्नाशयामास ॥ ५।४६।३९ ॥

हतैरिति । हतैर्नागादिभिर्भग्नाक्षैर्महारथैश्च रुद्धमार्गा भूमिरभवदिति शेषः ॥ ५।४६।४० ॥

तत इति । कपिर्हनूमान् रणे ध्वजिनीपतीन् निहत्य कृतक्षणः लब्धावसरः सन् तोरणं परिगृह्य प्रजाक्षये काल इव अतिष्ठदिति शेषः ॥ ५।४६।४१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ५।४६ ॥