०४५ हनुमता प्रहस्तसुतवधः

रावणाज्ञापितामात्यपुत्राणां वृत्तान्तमाह तत इत्यादिभिः । अर्चिवर्चसः वह्नितुल्यतेजसः महान्तः बलपरीवाराः येषां ते कृतास्त्राः शिक्षितास्त्रशस्त्राः ते एव अस्त्रविदः तेषां मध्ये श्रेष्ठाः परस्परजयैषिणः अहमहमिकया स्वस्वविजयाकाङ्क्षिणः चापानि विस्फारयन्तः अत एव तडित्वन्तो ऽम्बुदा इव मन्त्रिणः सप्तसुताः हेमजालपरिक्षिप्तैः ध्वजवद्भिः विशेषध्वजविशिष्टैः पताकिभिः पताकाविशिष्टैः तोयदस्वननिर्घोषैः तोयदस्वनसदृशस्वनविशिष्टैः वाजियुक्तैः रथैः भवनान्निर्ययुः । चतुर्णामेकत्रान्वयः ॥ ५।४५।१४ ॥

सिंहावलोकनन्यायेन निहतकिंकरगृहवृत्तान्तमाह जनन्य इति । तेषां पूर्वं निहतकिंकराभिधरक्षसां सबान्धवसुहृज्जनाः जनन्यः किंकरान् हतान् विदित्वा शोकसंभ्रान्ताः बभूवुः ॥ ५।४५।५ ॥

प्रकृतमाह ते इति । परस्परसंघर्षाः अग्निमस्वस्वयुद्धविषयकेच्छावन्तः ते मन्त्रिसुताः हनूमन्तमभिपेतुः ॥ ५।४५।६ ॥

सृजन्त इति । प्रावृट्काले अम्भोदाः जलबिन्दुमोचकाः मेघा इव बाणवृष्टिं सृजन्तः रथगर्जितनिःस्वनाः नैऋताम्बुदाः अम्बुदसदृशनैऋताः विचेरुः ॥ ५।४५।७ ॥

अवकीर्ण इति । ताभिः नैऋतपातिताभिः शरवृष्टिभिः अवकीर्णः आच्छन्नः हनूमान् वृष्टिभिः संवृताकारः शैलराडिव अभवत् ॥ ५।४५।८ ॥

स इति । आशुचरः स हनूमान् तेषां रक्षसां शरान् रथवेगांश्च अम्बरे विचरन् सन् वञ्चयामास स्वकर्मकस्पर्शरहितान् चकार ॥ ५।४५।९ ॥

स इति । धनुष्मद्भिस्तैः राक्षसैः व्योम्नि क्रीडन् स हनूमान् धनुष्मद्भिः इन्द्रचापविशिष्टैर्मेघैरम्बरे प्रभुर्मारुत इव प्रकाशते ॥ ५।४५।१० ॥

स इति । स प्रसिद्धो हनूमान् महाचमूं त्रासयन् सन् तेषु रक्षःसु वेगं चकार ॥ ५।४५।११ ॥

तलेनेति । परंतपो हनूमान् कांश्चित् राक्षसान् तलेन अभिहनत् अभ्यहन् कांश्चिच्च मुष्टिभिः अहनत् अहन् कांश्चित् नखैर्व्यदारयत् ॥ ५।४५।१२ ॥

प्रममाथेति । कांश्चित् ऊरुभ्यां प्रममाथ केचिन्नादेन भुवि पतिताः ॥ ५।४५।१३ ॥

तत इति । तेषु अमात्यपुत्रेषु अवपन्नेषु विहिंसितेषु अत एव भूमौ निपतितेषु सत्सु तत्सैन्यं दशदिशो ऽगमत् ॥ ५।४५।१४ ॥

विनेदुरिति । नागाः गजाः विस्वरं यथा भवति तथा विनेदुः वाजिनो भुवि निपेतुः भग्नानि नीडध्वजच्छत्राणि येषां तैः रथैः कीर्णा व्याप्ता भूरभवत् तत्र नीडं रविस्थितिस्थानम् ॥ ५।४५।१५ ॥

स्रवतेति । स्रवता प्रच्युतेन रुधिरेण स्रवन्त्यः नद्यः पथि दर्शिताः दृष्टाः रामो राज्यमचीकरदित्यादाविव णिच् । विविधैः स्वनैः राक्षसनादैः लङ्का विकृतं ननाद ॥ ५।४५।१६ ॥

स इति । महाबलः कपिः तान् राक्षसान् विनिहत्य अन्यैः पुनर्युयुत्सुः सन् तत् पूर्वमधिष्ठितं तोरणम् अभिजगाम ॥ ५।४५।१७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ५।४५ ॥