रावणप्रेषितप्रहस्तपुत्रवृत्तान्तमाह– संदिष्ट इत्यादिभिः । राक्षसेन्द्रेण संदिष्टः रक्तमाल्याम्बरधरः रुचिराः सायका यस्मिन् तत् शक्रधनुःप्रख्यं धनुर्विस्फारयाणः प्रहस्तस्य सुतो धनुर्धरो ऽनेकधनुर्धरविशिष्टो जम्बुमाली निर्जगाम । श्लोकत्रयमेकान्वयि ॥ ५।४४।१३ ॥
तस्येति । तस्य जम्बुमालिनो धनुषो महता विस्तारघोषेण दिक्प्रभृतिः समपूर्यत । अन्यत्र वचनविपरिणामेनान्वयः ॥ ५।४४।४ ॥
रथेनेति । खरयुक्तेन रथेनागतं तं जम्बुमालिनमुदीक्ष्य स हनूमान् जहर्ष ननाद च ॥ ५।४४।५ ॥
तमिति । तोरणविटङ्कस्थं तोरणविटङ्कः तोरणस्तम्भयोरुपरि तिर्यक्प्रतिष्ठापितकपोतपालिकाकाष्ठं तत्स्थं हनूमन्तं निशितैः शरैः जम्बुमाली विव्याध ॥ ५।४४।६ ॥
तदाकारमाह– अर्धेति । अर्धचन्द्रेण अर्धचन्द्राकारशरविशेषेण वदने एकेन कर्णिना अङ्कुशाकाराग्रभागकशरविशेषेण शिरसि दशभिर्नाराचैः शरविशेषैर्बाह्वोः कपीश्वरं विव्याध ॥ ५।४४।७ ॥
तस्येति । शरेण अभिहतं तस्य हनूमतस्ताम्रं मुखं भास्कररश्मिना सूर्यकिरणेन विद्धं विकाशितं फुल्लमम्बुजमिव शुशुभे ॥ ५।४४।८ ॥
तदेव भङ्ग्यन्तरेणाह तदिति । रक्तेन रुधिरेण रञ्जितम् अत एव रक्तमत्यरुणं तस्य मुखं काञ्चनबिन्दुभिः सिक्तम् आकाशे महापद्ममिव शुशुभे ॥ ५।४४।९ ॥
चुकोपेति । राक्षसस्य बाणाभिहतो महाकपिः चुकोप पार्श्वे स्थितां अतिविपुलां विशालां महतीं गुर्वीं शिलां ददर्श च ॥ ५।४४।१० ॥
तरसेति । जववान् अतिवेगवान् स एव बलीति कर्मधारयः । तां शिलां समुत्पाट्य चिक्षेप क्रुद्धो राक्षसः तां हनुमत्प्रक्षेपितशिलां दशभिः शरैस्ताडयामास ॥ ५।४४।११ ॥
विपन्नमिति । चण्डविक्रमो हनूमान् विपन्नं विनष्टं कर्म स्वव्यापारं दृष्ट्वा विपुलं बृहत् शालमुत्पाट्यभ्रामयामास ॥ ५।४४।१२ ॥
भ्रामयन्तमिति । शालवृक्षं भ्रामयंतं कपिं दृष्ट्वा सुबहून् बाणन् चिक्षेप ॥ ५।४४।१३ ॥
तत्प्रकारमाह शालमिति । चतुर्भिः शालं चिच्छेद दशभिस्तु वानरं स्तनान्तरे चिच्छेद ॥ ५।४४।१४ ॥
स इति । शरैः पूरिततनुः स हनूमान् तं पूर्वगृहीतं परिघं गृह्य गृहीत्वा भ्रामयामास ॥ ५।४४।१५ ॥
अतीति । मदोत्कटो हनूमान् परिघं भ्रामयित्वा जम्बुमालेर्महोरसि पातयामास ॥ ५।४४।१६ ॥
तस्येति । तस्य हनुमता हतस्य जम्बुमालेः शिरः प्रभृतयो नादृश्यन्त विनष्टा इत्यर्थः ॥ ५।४४।१७ ॥
स इति । तेन हतो जम्बुमाली चूर्णिताङ्गो द्रुम इव भूमौ पपात ॥ ५।४४।१८ ॥
जम्बुमालिमिति । रावणः जम्बुमालिप्रभृतिं सुनिहतं श्रुत्वा चुक्रोध ॥ ५।४४।१९ ॥
स इति । स रावणः प्रहस्तपुत्रे निहते सति अमात्यपुत्रान् समादिदेश ॥ ५।४४।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५।४४ ॥