किंकराभिधराक्षसविध्वंसानन्तरकालिकं हनुमद्वृत्तान्तमाह तत इत्यादिभिः । किंकरान् हत्वा ध्यानं विचारमास्थितः । विचाराकारमाह मया वनं भग्नं चैत्यप्रासादः राक्षसकुलदेवताधिष्ठानीभूतप्रासादविशेषः न विनाशितः तस्मात् बलं स्वपराक्रमं दर्शयन् सन् इमं प्रासादमपि विध्वंसयामि इति अनेन प्रकारेण मनसा संचिन्त्य अवर्ततेति शेषः । श्लोकद्वयमेकान्वयि ॥ ५।४३।१,२ ॥
चैत्येति । हनूमानुत्प्लुत्य मेरुशृङ्गमिवोन्नतं चैत्यप्रासादमारुरोह ॥ ५।४३।३ ॥
आरुह्येति । प्रासादमारुह्य उदितः प्रतिसूर्य इव हरियूथपो बभौ ॥ ५।४३।४ ॥
समिति । चैत्यप्रासादं संप्रधृष्य पराभवं प्रापय्य लक्ष्म्या स्वविजयसंपत्त्या प्रज्वलन् हनूमान् पारियात्रोपमकुलाचलसदृशः अभवत् ॥ ५।४३।५ ॥
स इति । प्रभावात् स्वमहिमातिशयात् महाकायो भूत्वा शब्देन लङ्कां पूरयन् सन् धृष्टं यथा भवति तथा आस्फोटयामास चैत्यं प्रासादं विदारयामास ॥ ५।४३।६ ॥
तस्येति । श्रोत्रघातिना तस्य प्रासादस्य स्फोटितशब्देन विमोहिता विहङ्गमाश्चैत्यपालाश्च पेतुः पृथिव्यामिति शेषः ॥ ५।४३।७ ॥
अस्त्रविदिति । अस्त्रवित् रामादिर्जयताम् इत्याद्येवमुक्त्वा चैत्यस्थः हनूमान् रक्षसां भयं जनयन् सन् ननाद । श्लोकपञ्चकमेकान्वयि ॥ ५।४३।८१२ ॥
तेनेति । तेन शब्देन हेतुना विविधान् अस्त्रादीन् गृहीत्वा विसृजन्तः सन्तः महाकायाः शतं चैत्यपाला ययुः मारुतिं पर्यवारयँश्च । सार्द्धश्लोक एकान्वयी ॥ ५।४३।१३ ॥
ते इति । काञ्चनाङ्गदैः काञ्चनपट्टावृत्तैः परिघैः वानरश्रेष्ठम् आजध्नुः । अर्धद्वयमेकान्वयि ॥ ५।४३।१४ ॥
आवर्त इति । गङ्गायाः तोयस्य महान् आवर्त इव विपुलो रक्षसां गणः हरिश्रेष्ठं परिक्षिप्य गदादिभिः संताड्य बभौ ॥ ५।४३।१५ ॥
तत इति । तातो ऽनन्तरं वातात्मजः क्रुद्धो ऽभवदिति शेषः । अर्धं पृथक् ॥ ५।४३।१६ ॥
प्रासादस्येति । महान् हनूमान् शतधारं तं प्रसिद्धं प्रासादस्य स्तम्भं वेगेन उत्पाटयित्वा उत्पाट्य भ्रामयामास । तत्र तस्मिन् अग्निः समभवत् । अत एव प्रासादो ऽदह्यत । श्लोकद्वयमेकान्वयि ॥ ५।४३।१७,१८ ॥
दह्यमान इति । स हनूमान् प्रासादं दह्यमानं दृष्ट्वा वज्रेण असुरान् इन्द्र इव राक्षसशतं हत्वा अन्तरिक्षस्थितः सन् इदमब्रवीत् । सार्द्धश्लोक एकान्वयी ॥ ५।४३।१९ ॥
तद्वचनाकारमाह मादृशानामित्यादिभिः । मादृशानां वानरेन्द्राणां सहस्राणि विसृष्टानि सुग्रीवेण प्रेषितानि सन्तीति शेषः । अत एव अन्ये अस्मद्भिन्नाः वसुधामटन्ति वयं च अटामः । सार्धश्लोक एकान्वयी ॥ ५।४३।२०,२१ ॥
दशेति । केचिद्दशनागबलाः सन्तीति शेषः । केचित् नागसहस्रस्य तुल्यबलविक्रमाः बभूवुः ॥ ५।४३।२२ ॥
सन्तीति । केचिदोघबलाः ओघसंख्याकगजबलसदृशबलवन्तः सन्ति ॥ ५।४३।२३ ॥
ईदृगिति । इदृग्विधैः शतादिसंख्याकैः हरिभिः सह वो युष्माकं निषूदनः सुग्रीवः आगमिष्यति । सार्धश्लोक एकान्वयी ॥ ५।४३।२४ ॥
नेति । इक्ष्वाकुवीरेण महात्मना यस्येदं वैरं बद्धं प्रवृद्धं तस्य इयं पुरी लङ्का नास्ति नङ्क्ष्यतीत्यर्थः । यूयं न रावणश्च न । अर्धद्वयमेकान्वयि ॥ ५।४३।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ५।४३ ॥