हनुमत्कर्तृकवनिकाविध्वंसानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । पक्षिनिनादादिना सर्वे लङ्कानिवासिनः त्रासेन भयेन संभ्रान्ताः उद्विग्नचित्ताः बभूवुः ॥ ५।४२।१ ॥
विद्रुता इति । भयत्रस्ताः अत एव विद्रुताः मृगपक्षिणः विनेदुः रक्षसां समीपे क्रूराणि भयंकराणि निमित्तानि शकुनाः प्रतिपेदिरे प्रापुः ॥ ५।४२।२ ॥
तत इति । निद्रायां गतायां सत्यां भग्नं वनं महाकपिं च ददृशुः ॥ ५।४२।३ ॥
स इति । स हनुमान् ताः राक्षसीः दृष्ट्वा राक्षसीनां भयावहं रूपं चकार ॥ ५।४२।४ ॥
तत इति । ततो ऽन्तरं गिरिसंकाशं वानरं दृष्ट्वा राक्षस्यो जनकात्मजां पप्रच्छुः ॥ ५।४२।५ ॥
तत्प्रश्नाकारमाह क इति । अयं कः किंनामेत्यर्थः, त्वया सह संवादः कथं कृतः इत्याचक्ष्व कथय । नच संवादसमये तासां निद्रितात्वेन संवादज्ञानाभावात् कथं तद्विषयकः प्रश्न इति वाच्यं संवादसमये किञ्चिन्निद्रापगमेन सीतामुखप्रसादहेतुकतत्सम्बन्ध्यनुमानेन वा तज्ज्ञानसंभवात् । श्लोकद्वयमेकान्वयि ॥ ५।४२।६,७ ॥
अथेति । अथ राक्षसीप्रस्नश्रवणानन्तरं सीता अब्रवीत् । तद्वचनाकारमाह कामरूपाणां रक्षसां विज्ञाने विशेषतो ज्ञापने मम का गतिः राक्षसानाम् अविश्वस्तत्वेनान्यकर्तृकबोधाश्रयत्वस्यासंभवात् राक्षसा एव सर्वं जानन्तु इत्यर्थः ॥ ५।४२।८ ॥
यूयमिति । अस्य जात्यादि यो ऽयं वा यत्करिष्यति वा तत् यूयमेव जानीत । तत्र दृष्टान्तः अहेः सर्पस्य पादान् अहिरेव विजानाति । ५।४२।९ ॥
अहमिति । अहमप्यतिभीता हनुमदर्थं भयं प्राप्ता ऽस्मीति ताप्तर्यम् । अतः को ऽयम् इति नैव जानामि बोधयामि परन्तु आगतमेनं राक्षसं राक्षससदृशं कामरूपिणं वेद्मि बोधयामि ॥ ५।४२।१० ॥
वैदेह्या इति । वैदेह्या वचनं श्रुत्वा काश्चिद्राक्षस्यः स्थिताः तूष्णीं बभूवुरित्यर्थः । काश्चित्तु रावणाय निवेदितुं द्रुतं गताः ॥ ५।४२।११ ॥
रावणस्येति । राक्षस्यः रावणस्य समीपे गत्वेति शेषः, रावणाय रावणं बोधयितुं वानरं न्यवेदिषुः ॥ ५।४२।१२ ॥
निवेदनप्रकारमाह अशोकेति । सीतया कृतः संवादो येन सो ऽमितविक्रमः कपिः तिष्ठति ॥ ५।४२।१३ ॥
नेति । तं हरिं वानरम् अस्माभिः पृष्टापि जानकी निवेदयितुं बोधयितुं नेच्छति ॥ ५।४२।१४ ॥
स्वोत्प्रेक्षितमाह वासवस्येति । वासवादन्यतरस्य दूतो भवेत् रामेण प्रेषितो वा दूतो भवेत् ॥ ५।४२।१५ ॥
ननु किं तदागमनेनेत्यत आह तेनेति । यत्तव प्रमदावनं तत् तेन वानरेण प्रमृष्टं विध्वंसितम् ॥ ५।४२।१६ ॥
नेति । तेन वानरेण यः कश्चिदुद्देशः स्थलं न विनाशितः स तत्र वनिकायां नास्ति यत्र देशे सा जानकी स देशस्तु तेन न विनाशितः ॥ ५।४२।१७ ॥
तन्मात्रविनाशाभावे को हेतुरित्यत आह जानकीति । नोपलक्ष्यते निश्चीयते पूर्वपक्ष एव सिद्धान्त इति निश्चित्याह अथवेति । तस्य अतिभयङ्करस्य कः श्रमः श्रमो न संभवतीत्यर्थः । अतः तेन सा सीतैवाभिरक्षिता ॥ ५।४२।१८ ॥
चार्विति । यं सीता आस्थिता स शिंशुपावृक्षः तेन वानरेणाभिरक्षितः ॥ ५।४२।१९ ॥
तस्येति । येन सीता संभाषिता वनंचविनाशितं तस्योग्रं दण्डमाज्ञातुमर्हसि ॥ ५।४२।२० ॥
मन इति । तव मनःपरिगृहीतां मनसा निरुद्धां तां सीतां यस्त्यक्तजीवितो न स्यात् स को ऽभिभाषेत न को ऽपीत्यर्थः ॥ ५।४२।२१ ॥
राक्षसीनामिति । कोपेन संवर्तिते आघूर्णिते ईक्षणं यस्य स रावणः चिताग्निरिव जज्वाल ॥ ५।४२।२२ ॥
तस्येति । अश्रुबिन्दवः सार्चिषो ज्वालासहिताः स्नेहबिन्दवः इव प्रापतन् ॥ ५।४२।२३ ॥
आत्मन इति । हनूमतो निग्रहार्थं किंकरान् नाम किङ्करनामकान् राक्षसान् व्यादिदेश ॥ ५।४२।२४ ॥
तेषामिति । किङ्गराणां मध्ये अशीतिसाहस्रं किङ्करास्तस्मात् भवनात् निर्ययुः ॥ ५।४२।२५ ॥
महोदरा इति । निर्गताः सर्वे किङ्कराः युद्धाभिमनसो बभूवुरिति शेषः ॥ ५।४२।२६ ॥
ते इति । ते किङ्करा अवस्थितं सावधानं तोरणस्थं कपिं समासाद्य समीपमागत्य पावकं पतङ्गा इव अभिपेतुः ॥ ५।४२।२७ ॥
ते इति । ते किङ्कराः गदाभिः काञ्चनाङ्गदैः काञ्चनपट्टबद्धैः परिघैश्च शरैश्च आजध्नुः ॥ ५।४२।२८ ॥
मुद्गरैरिति । मुद्गरादिभिरुपलक्षिताः प्रासतोमरपाणयः किङ्कराः हनूमन्तं परिवार्य अग्रतस्तस्थुः ॥ ५।४२।२९ ॥
हनुमानिति । लाङ्गूलं क्षितावाविध्य उच्चैः पातयित्वा महास्वनं यथा भवति तथा ननाद ॥ ५।४२।३० ॥
स इति । शब्देन लङ्कां पूरयन् सन् पुच्छमास्फोटयामास प्राधुनोत् ॥ ५।४२।३१ ॥
तस्येति । अनुनादिना प्रतिध्वनिकारकेण आस्फोटितशब्देन आस्फोटनजनितरवेण विहङ्गाः पेतुः इदं वक्ष्यमाणमुच्चैरघोषयत् स्वाभाविकोच्चारणेनापूरयत् हनुमानिति शेषः ॥ ५।४२।३२ ॥
घोषणाकारमाह जयतीत्यादिचतुर्भिः । रामादिर्जयति ॥ ५।४२।३३ ॥
ननु को ऽसीत्यत आह– दास इति । रामस्य दासः शत्रुसैन्यानां निहन्ता हनुमानहमस्मि ॥ ५।४२।३४ ॥
ननु रावणस्यातिबलवत्त्वादिह तव का शक्तिरित्यत आह नेति । सहस्रशः शिलादिभिः प्रहरतो मे युद्धे रावणसहस्रं प्रतिबलं प्रतियोद्धा न भवेत् ॥ ५।४२।३५ ॥
अर्दयित्वेति । लङ्कामर्दयित्वा मैथिलीमभिवाद्य प्रणम्य समृद्धार्थः सिद्धप्रयोजनो ऽहं सर्वरक्षसां मिषतामवलोकयतां सतां गमिष्यामि रामसमीपमिति शेषः, अनादरद्योतिका षष्ठी ॥ ५।४२।३६ ॥
तस्येति । तस्य हनुमतः सन्नादशब्देन पूरितस्वनेन ते राक्षसाः भयशङ्किता अभवन् उन्नतं संध्यामेघमिव हनूमन्तं ददृशुश्च ॥ ५।४२।३७ ॥
स्वामीति । स्वामिसंदेशेन जयतीत्यादिना रामनामोच्चारणेन निर्गता शङ्का को ऽयमिति संशयो येषां । किंच रावणाज्ञया युद्धविषयकशङ्कारहिताः चित्रैरनेकविधैः प्रहरणैरुपलक्षिता राक्षसाः अभिपेतुः ॥ ५।४२।३८ ॥
स इति । तैः राक्षसैः सर्वतः परिवृतः स हनूमान् तोरणाश्रितं बहिर्द्धारे संस्थापितमायसं परिघमाससाद जग्राह ॥ ५।४२।३९ ॥
स इति । स प्रसिद्धो हनूमान् विनतासुतो गरुडः पन्नगमिव परिघमादाय रजनीचरान् जघान ॥ ५।४२।४० ॥
विचचारेति । वज्रेण दैत्यान् सहस्रदृगिन्द्र इव सूदयामास जघान राक्षसानिति शेषः ॥ ५।४२।४१ ॥
स इति । स हनूमान् राक्षसानां हत्वा युद्धाकाङ्क्षी सन् तोरणं समवस्थितः ॥ ५।४२।४२ ॥
तत इति । भयात् मरणात् मुक्ताः कथञ्चिदवशिष्टाः कतिचित् राक्षसाः निहतान् किङ्करान् रावणाय न्यवेदयत् ॥ ५।४२।४३ ॥
स इति । स रावणः निहतं राक्षसानां बलं निशम्य परिवृत्तलोचनः सन् प्रहस्तपुत्रं समादिदेश ॥ ५।४२।४४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ५।४२ ॥