०४१ हनुमता रावणदर्शनचिन्तनम्

प्रस्थानानन्तरकालिकां हनुमतश्चिन्तामाह स इत्यादिभिः । तया सीतया प्रशस्ताभिर्वाग्भिः पूजितः स हनूमान् गमिष्यन् सन् तस्मात् देशादपक्रम्य निर्गत्य चिन्तयामास ॥ ५।४१।१ ॥

चिन्ताकारमाह अल्पेत्यादिभिः । इयं सीता दृष्टा प्रधानकार्यं सिद्धमित्यर्थः । इदं परबलदर्शनरूपं कार्यमल्पशेषं स्वल्पं सत् शिष्यते इह परबलदर्शनरूपकार्ये तु यतः त्रीन् सामादीन् उपायान् अतिक्रम्य त्यक्त्वा चतुर्थो दण्ड एव उपायः दृश्यते ॥ ५।४१।२ ॥

तदेवोपपादयन्नाह नेत्यादिभिः । रक्षस्सु साम गुणाय न कल्पते तेषामतिक्रूरत्वात्समानार्हत्वमित्यर्थः । अर्थोपचितेषु अतिधनवत्सु दानं गुणाय न कल्पते तेषामल्पधनाकाङ्क्षाभावादिति भावः । बलदर्पिता जना भेदसाध्या भेदेनानुकूल्यं प्रापयितुं न शक्या अत एष राक्षसगर्वनिवारकः पराक्रम एव मम रोचते ॥ ५।४१।३ ॥

नेति । पराक्रमात् ऋते विना अस्य सीताप्राप्तिरूपस्य कार्यस्य विनिश्चयः विनिश्चायकः कश्चित्सामादिर्नोपपद्यते अतः इहास्मिन् समये राक्षसाः कथञ्चित् केनाप्युपायेन यदि हतप्रवीराः तर्हि मार्दवं किंचिन्नम्रतामीयुः । एतेन नम्रीभूय यदि सीतां रामाय समर्पयेत्तर्हि राक्षसकुलविध्वंसो न भवेदिति सूचितं तेन हनुमतो दयालुत्वं व्यक्तम् ॥ ५।४१।४ ॥

नन्वभिगम्य तु वैदेहीं निलयं रावणस्य चेत्यादिना दर्शनमात्रनियुक्तेन त्वया नाज्ञापितराक्षसवधः किमर्थमभिकाङ्क्ष्यते इत्यत आह कार्य इति । कार्ये स्वाम्याज्ञप्तकर्तव्ये कर्मणि निर्वृत्ते सिद्धे यो बहूनि कृतकार्यपोषकतया विपुलकार्याणि साधयेत् साधितुमिच्छेत् । सः पूर्वकार्याविरोधेन साधितकार्यप्रातिकूल्यराहित्येन कार्यं कर्तुमर्हति ॥ ५।४१।५ ॥

ननु कार्ये निष्पन्ने क्रियान्तरकरणं निरर्थकमित्यत आह नहीति । स्वल्पस्यापि कर्मणः रामकार्यस्य सीताप्राप्तेरित्यर्थः, साधको हेतुरेक एव न बहवः सन्तीत्यर्थः । सीतादर्शनमात्रेण रामकार्यसिद्धिर्न भवतीति तात्पर्यम् । अतः अर्थं रामकार्यसाधकहेतुं बहुवा बहुप्रकारेण यो वेद स एव अर्थसाधने समर्थः ॥ ५।४१।६ ॥

इहेति । इह अस्मिन्नागमने एव परमात्मसंमर्दविशेषतत्ववित् परस्य शत्रोः आत्मनो मनसः यः संमर्दविशेषः आत्यन्तिको ध्वंसः तस्य तत्ववित् याथार्थ्यवेदिता अत एव कृतः निश्चयः जानकीप्राप्तिविषयकनिश्चयविशेषो येन सो ऽहं यदि व्रजेयं ततस्तदा भर्तृशासनं कृतं स्यात् । अन्यथा भर्तृशासनकरणे न्यूनता स्यादिति तात्पर्यम् ॥ ५।४१।७ ॥

उपायमेव चिन्तयति कथमिति । राक्षसैः सह मम युद्धं कथं भवेत् तथा सारवद्बलवत् आत्मबलं स्वसेनां मां च रणे दशाननः स रावणः कथं मानयेत् प्रशंसेत् ॥ ५।४१।८ ॥

युद्धेच्छायां प्रयोजनमाह तत इति । ततः तस्मिन् रणे सयायिनं ससारथिं दशाननं समासाद्य प्राप्य तस्य रावणस्य हृदि स्थितं मतमभिप्रायं बलं च मत्वा ज्ञात्वा इतः लङ्कायाः पुनर्व्रजे ॥ ५।४१।९ ॥

विचारेण निश्चतमाह इदमिति । नानाद्रुमलतायुतम् इदं वनम् अस्य रावणस्य मनःकान्तं मनसः प्रियमस्तीति शेषः ॥ ५।४१।१० ॥

इदमिति । इदं वनं शुष्कं वनमनल इव विध्वंसयिष्यामि अस्मिन् भग्ने सति रावणः कोपं करिष्यति यदि त्वेतच्छ्लोकघटकस्येदमित्यस्य कामदमित्यर्थस्तदा पूर्वस्यापीहैवान्वयः । एवं च पूर्वत्रास्तेरध्याहारस्य न प्रयोजनम् ॥ ५।४१।११ ॥

तत इति । ततः वनविध्वंसानन्तरं साश्वमहारथद्विपम् अश्वमहारथद्विपसहितं त्रिशूलादीनि आयुधानि यस्मिन् तन्महद्बलं राक्षसाधिपः समानेष्यति अत एव ततस्तस्मिन् समये महद्युद्धं भविष्यति ॥ ५।४१।१२ ॥

अहमिति । चण्ढविक्रमैः रक्षोभिः संयति संग्रामे समेत्य संयुध्य रावणचोदितं तद्बलं निहत्य हरीश्वरालयं सुखं गमिष्यामि ॥ ५।४१।१३ ॥

तत इति । ततो ऽनन्तरं क्रुद्धः आश्रितकोपः भीमविक्रमो मारुतिः महता ऊरुवेगेन मारुतवत् द्रुमान् क्षेप्तुमारभत् ॥ ५।४१।१४ ॥

तत इति । ततो ऽनन्तरं प्रमदावनं प्रमदाकुलवनिकां बभञ्ज ॥ ५।४१।१५ ॥

तदिति । मथितैः सलिलाशयैर्भिन्नैर्भञ्जितैर्वृक्षैश्च चूर्णितैः पर्वताग्रैश्च तद्वनमप्रियदर्शनं बभूव ॥ ५।४१।१६ ॥

नानेति । नानाशकुन्तविरुतैः पक्षिणामुत्कटशब्दैः प्रभिन्नसलिसाशयैश्च क्लान्तैर्म्लानैः किसलयैश्च क्लान्तद्रुमलतानामयुतैश्च उपलक्षितं दावानलहतमिव तद्वनं तत्र तस्मिन् समये न बभौ । सार्धश्लोक एकान्वयी ॥ ५।४१।१७ ॥

व्याकुलेति । व्याकुलानि संचलितानि आवरणानि यासां ताः लताः विह्वला नार्य इव रेजुः ॥ ५।४१।१८ ॥

लतेति । सादितैर्विध्वंसितैः लतागृहादिभिः आर्तः रवो येषां तैः व्यालैः शार्दूलैः पक्षिभिश्च उन्मथितैः प्रचालितैः शिलागृहैः गृहैस्तदितरनिर्मितभवनैश्च प्रनष्टरूपं तन्महद्वनमभूत् ॥ ५।४१।१९ ॥

सेति । विह्वलाः अशोकलताप्रतानाः विस्तृताशोकलताः यस्यां सा वनस्थली प्रमदस्य उत्कृष्टमदस्य अवनं रक्षणं यस्मिन् तस्य नित्यं मदविशिष्टस्येत्यर्थः, दशास्यप्रमदावनस्य रावणस्त्रीसमूहस्य कपेर्बलात् शोकरूपलताप्रतानः लताविस्तारो यस्यां सा जाता ॥ ५।४१।२० ॥

तत इति । बहुभिर्महाबलैर्युयुत्सुः अत एव श्रिया युद्धोत्साहसंपत्त्या ज्वलन् एकः महान् कपिः स हनूमान् जगतीपतेः रावणस्य मनसः महद्व्यलीकम् अप्रियं दुःखकारणमित्यर्थः, कृत्वा संपाद्य तोरणं बहिर्द्वारमाश्रितः स्थितः ॥ ५।४१।२१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ५।४१ ॥