हनुमद्वचनश्रवणानन्तरं हनुमन्तं प्रति सीतोक्तिमाह श्रुत्वेति । सीता वाक्यमुवाच ॥ ५।४०।१ ॥
तदाकारमाह त्वामित्यादिभिः । वृष्टिं वर्षणं प्राप्य अर्धसंजातसस्या वसुन्धरेव त्वां दृष्ट्वा प्रहृष्यामि ॥ ५।४०।२ ॥
यथेति । सकामा उत्कटेच्छावती अहं यथा संस्पृशेयं तथा मयि दयां कुरु ॥ ५।४०।३ ॥
अभिज्ञानमिति । अभिज्ञानं चूडामणिं रामस्य रामाय दद्याः अभिज्ञानान्तरमाह काकस्य एकाक्षिनाशिनीमिषीकां चाभिज्ञानं दद्या कथयेरित्यर्थः ॥ ५।४०।४ ॥
मनः शिलाया इति । मम तिलके प्रनष्टे सति मनश्शिलायास्तिलकः गण्डपार्श्वे गण्डैकदेशे निवेशितः तं तिलकं स्मर्तुमर्हसि इदमप्यभिज्ञानं दद्या इति शेषः ॥ ५।४०।५ ॥
स इति । स रामस्त्वं हृतां सीतां कथं समनुमन्यसे सहसे ॥ ५।४०।६ ॥
एष इति । एषः पित्रा दत्तः चूडामणिः मया संरक्षितः । तत्र हेतुः व्यसने राक्षसकर्तृकपीडायां सत्यां त्वामिव एतं मणिं दृष्ट्वा प्रहष्यामि ॥ ५।४०।७ ॥
एष इति । वारिसंभवः एषः मणिः मया निर्यातितः त्वत्प्रत्यभिज्ञानार्थं प्रेषितः अतः परम् अवधिकालादुत्तरं शोकलालसा शोकाक्रान्तचित्ताहं जीवितुं न शक्ष्यामि ॥ ५।४०।८ ॥
असह्यानीति । त्वत्कृते त्वत्प्राप्तिनिमित्तं दुःखादीनि मर्षयामि ॥ ५।४०।९ ॥
धारयिष्यामीति । मासादूर्ध्वम् अवधिभूतदिनात्परं न जीविष्ये जीवितास्मि ॥ ५।४०।१० ॥
घोर इति । अयं राक्षसराजः घोरः अतिक्रूरः अत एव मयि सुखासुखहेतभूता दृष्टिर्न हन्तुमेवेच्छतीत्यर्थः । एतेन जीवनं दुर्लभमिति सूचितम् । हेत्वन्तरमाह विषज्जन्तं त्वां श्रुत्वा क्षणमपि न जीवेयं जीवितुमिच्छेयम् ॥ ५।४०।११ ॥
वैदेह्या इति । हनूमानब्रवीत् ॥ ५।४०।१२ ॥
तद्वचनाकारमाह त्वदित्यादिभिः । अयं पूर्वमपि पठितो व्याख्यातश्च एवमुत्तरश्लोका अपि ॥ ५।४०।१३ ॥
दृष्टेति ॥ ५।४०।१४ ॥
ताविति ॥ ५।४०।१५ ॥
हत्वेति ॥ ५।४०।१६ ॥
यदिति । प्रीतिसंजननं प्रीत्युत्पादकं यदभिज्ञानं भूयो विजानीयात् तत् त्वं भूयो दातुमर्हसि ॥ ५।४०।१७ ॥
सेति । उत्तममभिज्ञानं भूषणं मया दत्तमेव अतः एतदेव दृष्ट्वा रामस्य श्रद्धेयं तव वाक्यं भविष्यति इति सा सीता अब्रवीत् । सार्थश्लोक एकान्वयी ॥ ५।४०।१८ ॥
स इति । स हनूमान् गमनायोपचक्रमे । अर्धद्वयमेकान्वयि ॥ ५।४०।१९ ॥
तमिति । उत्पाते सागरोत्प्लवने कृतः उत्साहो येन अत एव वर्धमानं हनूमन्तम् अश्रुपूर्णमुखी जनकात्मजा उवाच । सार्धश्लोक एकान्वयी ॥ ५।४०।२०,२१ ॥
तद्वचनाकारमाह हनूमन्निति । हे हनूमन् अनामयं कुशलं रामादीन् ब्रूयाः ॥ ५।४०।२२ ॥
यथेति । अयं पूर्वं व्याख्यातः ॥ ५।४०।२३ ॥
इदमिति । रामस्य समीपं गतस्त्वं मम शोकवेगं रक्षोमिः परिभर्त्सनं च ब्रूयाः ॥ ५।४०।२४ ॥
स इति । राजपुत्र्याः प्रतिपादितः उक्तः अर्थो यस्मै अत एव कृतार्थः अत एव परिहृष्टचेताः स हनूमान् कार्यम् अल्पशेषं किञ्चिदवशिष्टं प्रसमीक्ष्य विचार्य उदीचीं दिशं मनसा जगाम ॥ ५।४०।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ५।४० ॥