०३९ सीतया चूडामणिप्रदानम्

प्रस्थानकाले हनुमन्तं प्रति सीतोक्तिमाह मणिमित्यादिभिः । सीता मणिं दत्वा हनूमन्तमब्रवीत् । तदाकारमाह एतत् मया दत्तमभिज्ञानं चिह्नं रामस्य रामेण तत्त्वतो ऽभिज्ञातम् अत एव वीरो रामः मणिं दृष्ट्वा जनन्यादीनां त्रयाणां संस्मरिष्यति एव । पाणिग्रहणसमये दशरथसन्निधौ मम जननी मणिं मह्यं ददाविति पौराणिकी कथा सूचिता । श्लोकद्वयमेकान्वयि ॥ ५।३९।१,२ ॥

स इति । समुत्साहे मणिदर्शनजनितरामयुद्धोत्साहसमये भूयो ऽधिकं त्वं चोदितो रामेण प्रेरितो भविष्यसीति शेषः । अत एव अस्मिन् कार्यसमुत्साहे तज्जनितप्रेरणे यत् उत्तरं कर्तव्यं तत् प्रचिन्तय ॥ ५।३९।३ ॥

त्वमिति । अस्मिन् समुपस्थिते कार्यस्य निर्योगे निर्वाहे त्वमेव प्रमाणं त्वदधीनो ऽयमित्यर्थः । अतः यो यत्नो दुःखक्षयकरो भवेत् तस्य चिन्तय कर्मत्वाविवक्षया षष्ठी ॥ ५।३९।४ ॥

तदेव भङ्ग्यन्तरेणाह हनूमन्निति । अर्धं पृथक् । स इति । तथेति प्रतिज्ञाय आवन्द्य च मारुतिर्गमनायोपचक्रमे । अर्धद्वयमेकान्वयि ॥ ५।३९।५ ॥

ज्ञात्वेति । वानरं प्रस्थित्वं ज्ञात्वा मैथिली अब्रवीत् ॥ ५।३९।६ ॥

तदाकारमाह हनूमन्नित्यादिभिः । रामादीन् कुशलं ब्रूयाः । सार्धश्लोकः संमिलितान्वयी ॥ ५।३९।७,८ ॥

यथेति । राघवः दुःखाम्बुसंरोधात् दुःखसागरात् यथा मां तारयति तथा समाधातुमर्हसि ॥ ५।३९।९ ॥

जीवन्तीमिति । रामः जीवन्तीं मां यथा संभावयति तत् तथा वाच्यः वाचा उक्त्यापि धर्मं सेवकरीतिमवाप्नुहि ॥ ५।३९।१० ॥

नित्यमिति । मयेरिताः वाचः श्रुत्वा मदवाप्तये नित्यमुत्साहयुक्तस्य दाशरथेः पौरुषं वर्धिष्यते प्रादुर्भविष्यति ॥ ५।३९।११ ॥

मदिति । राघवः मत्संदेशयुता वाचः त्वत्तः श्रुत्वैव पराक्रमे मतिं विधिवत्संविधास्यति ॥ ५।३९।१२ ॥

सीताया इति । हनूमान् शिरसि अञ्जलिमाधाय उत्तरमब्रवीत् ॥ ५।३९।१३ ॥

तदाकारमाह क्षिप्रमित्यादिभिः । यः शोकं व्यपनयिष्यति व्यपनेष्यति स काकुत्स्थः क्षिप्रमेष्यति ॥ ५।३९।१४ ॥

नहीति । बाणान् वमतः त्यजतः तस्य रामस्य अग्रतः यः स्थातुमुत्सहते तं मर्त्यादिषु न पश्यामि ॥ ५।३९।१५ ॥

अपीति । तव हेतोः अर्कादिकमपि रणे सोढुं विशेषतः सर्वेभ्यो ऽधिकः स रामः शक्तः ॥ ५।३९।१६ ॥

स इति । स रामः महीं सकलभूमिं साधितुं नियोजयितुमर्हति अतः त्वन्निमित्तः रामस्य जयः भवितैवेति शेषः ॥ ५।३९।१७ ॥

तस्येति । तस्य सम्यक् सुभाषितं वचनं श्रुत्वा तद्वचनं जानकी सत्यं मेने भर्तृस्नेहान्वितं प्रस्थितं हनुमन्तं सौहार्दात् पुनः पुनर्वीक्षमाणा सती बहु अनुमानयत् अन्वमन्यत अतिसत्कृतिमकरोदित्यर्थः, इदं वाक्यमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ५।३९।१८,१९ ॥

तद्वचनाकारमाह यदीति । हे वीर यदि मन्यसे निश्चिनोषि तर्हि संवृते आच्छादिते कस्मिंश्चित् देशे एकाहं वसश्वः परदिने विश्रान्तः सन् गमिष्यसि गन्तासि ॥ ५।३९।२० ॥

निवासे प्रयोजनान्तरमाह ममेति । तव सान्निध्याद्धेतोः मुहूर्तं शोकस्य मोक्षणं विध्वंसो भवेत् ॥ ५।३९।२१ ॥

तत इति । ततो ऽनन्तरमपि यदि पुनरागमनाय संशयः तर्हि मम प्राणानामपि संदेहो न स्यात् स्यादेवेत्यर्थः ॥ ५।३९।२२ ॥

कञ्चित्कालं स्थितावपि दुःखनिवृत्तिर्न भविष्यतीति बोधयन्ती आह तवेति । तवादर्शनजः दर्शनविध्वंसजनितः शोकः दुःखाद्दुःखपरामृष्टाम् अतिदुःखितामित्यर्थः, मां दीपयन् दहन्निव परितापयेत् ॥ ५।३९।२३ ॥

अयमिति । त्वत्सहायेषु हर्यृक्षेषु सुमहान् हरीश्वरः सुग्रीवः हर्यृक्षसैन्यानि तौ रामलक्ष्मणौ च कथं तरिष्यन्ति अयं संदेहः ममाग्रतः तिष्ठति । श्लोकद्वयमेकान्वयि ॥ ५।३९।२४,२५ ॥

संशये हेतुमाह त्रयाणामिति । इह अस्मिन् लोके भूतानां वैनतेयादीनां त्रयाणामेव सागरस्य लङ्घने शक्तिः स्यात् ॥ ५।३९।२६ ॥

तदिति । तदुक्तहेतोः दुरतिक्रमे कार्यनिर्योगे कार्यसाधके अस्मिन् सागरतरणसंशये किं समाधानं पश्यसे ॥ ५।३९।२७ ॥

स्वनिश्चयमाह काममिति । अस्य कार्यस्य साधने एकस्त्वमेव पर्याप्तः अतः यशस्यः यशस्करः फलोदयः विजयप्राप्तिः ते तवैव त्वदायत्तेत्यर्थः ॥ ५।३९।२८ ॥

बलैरिति । बलैरुपलक्षितः रामः संयुगे संग्रामे रावणं जित्य विजयी सन् स्वपुरं यायात् मया सह गच्छेत् तत्कर्म तस्य रामस्य सदृशं भवेत् ॥ ५।३९।२९ ॥

तदेव भङ्ग्यन्तरेणाह बलैरिति । काकुत्स्थो रामः लङ्कां बलैः सैन्यैः संकुलां कृत्वा यदि मां नयेत् तर्हि तत्तस्य सदृशं भवेत् ॥ ५।३९।३० ॥

तदिति । तदुक्तहेतोः आहवशूरस्य तस्य रामस्य अनुरूपं योग्यं विक्रान्तं विक्रमः यथा भवेत् तथा त्वमुपपादय ॥ ५।३९।३१ ॥

तदिति । अर्थोपहितं अर्थसाधकं प्रश्रितं सस्नेहं हेतुसंहितं हेतुभिर्ग्रथितं शेषमवशिष्टं वाक्यं सीतावचनं निशम्य श्रुत्वा उत्तरं वाक्यमब्रवीत् ॥ ५।३९।३२ ॥

तदाकारमाह देवीति । हे देवि तवार्थे कृतनिश्चयः वानरसहस्राणां कोटीभिरभिसंवृतः सुग्रीवः क्षिप्रमेष्यति । श्लोकद्वयमेकान्वयि ॥ ५।३९।३३,३४ ॥

सागरतरणश्कां निवारयन्नाह तस्येति । मनःसंकल्पवत् संपातो द्रुतगमनं येषां ते हरयः तस्य सुग्रीवस्य निदेशे स्थिताः सन्तीति शेषः । एतेन वानरतरणविषये शङ्का न कार्येति ध्वनितम् ॥ ५।३९।३५ ॥

तेषां पराक्रमं स्फुटयन्नाह येषामिति । येषामुपर्यादिषु गतिर्न सज्जते ये च महत्सु कर्मसु न सीदन्ति तैर्वायुमार्गानुसारिभिः सागरधराधरसहिता भूमिः प्रदक्षिणीकृता । श्लोकद्वयमेकान्वयि ॥ ५।३९।३६,३७ ॥

मदिति । मद्विशिष्टा मत्तो ऽधिकाः तुल्याश्च वनौकसः सुग्रीवसन्निधौ सन्ति मत्तः प्रत्यवरः हीनस्तत्र कश्चिन्नास्ति ॥ ५।३९।३८ ॥

तेषामधिकत्वोक्तौ प्रयोजनमाह अहमिति । तावत् यदि अहमिह प्राप्तः तर्हि महाबलाः प्राप्स्यन्तीति किं वक्तव्यम् । ननु तेषां बलवत्वे किं गमकामेत्यत आह हि यतः प्रकृष्टा नैव प्रेष्यन्ते इतरे नीचा एव प्रेष्यन्ते प्रेषणाभावस्तेषां बलवत्त्वे गमकमिति तात्पर्यम् ॥ ५।३९।३९ ॥

तदिति । एकोत्पातेन एकयोत्प्लुत्या ते वानरा लङ्कामेष्यन्ति अतः ते परितापेनालं न कर्तव्य इत्यर्थः । शोको व्यपैतु अपगच्छतु ॥ ५।३९।४० ॥

रामलक्ष्मणोत्प्लवनशङ्कां निवारयन्नाह ममेति । महासङ्घौ अतिसमूहविशिष्टो नृसिंहौ रामलक्ष्मणौ मत्पृष्ठगतौ स्थितौ सन्तौ त्वत्सकाशमागमिष्यतः ॥ ५।३९।४१ ॥

ताविति । सायकैः शरैर्विधमिष्यतः विनाशयिष्यतः ॥ ५।३९।४२ ॥

सेति । पुरीमयोध्याम् ॥ ५।३९।४३ ॥

तदिति । नचिरात् शीघ्रं रामं द्रक्ष्यसे तत् तस्मात् काङ्क्षिणी भव समाश्वसिहि च ॥ ५।३९।४४ ॥

निहत इति । त्वं रामेण समेष्यसि संगमं प्राप्स्यसि ॥ ५।३९।४५ ॥

क्षिप्रमिति ॥ ५।३९।४६ ॥

एवमिति । हनूमान् पुनरब्रवीत् ॥ ५।३९।४७ ॥

तद्वचनाकारमाह तमित्यादिभिः । लङ्काद्वारमुपागतं प्राप्तम् ॥ ५।३९।४८ ॥

नखेति । तान् वानरान् क्षिप्रं द्रक्ष्यसि ॥ ५।३९।४९ ॥

शैलेति । शैलाम्बुदनिकाशानां शैलाम्बुदसदृशानां यूथानि द्रक्ष्यसीत्यनुकृष्यते ॥ ५।३९।५० ॥

स इति । मन्मथेषुणा मदनिवर्तकबाणसदृशेन शोकेनेत्यर्थः, ताडितो रामः सिंहार्दितो द्विपो हस्तीव शर्म न लभते ॥ ५।३९।५१ ॥

रुदेति । शक्रेण शचीव भर्त्रा सह सङ्गमेष्यसि अतो मा रुद रुदिहि ॥ ५।३९।५२ ॥

नन्विहातिबलवन्तो राक्षसा इति कथं सङ्गम इत्यत आह रामादिति । रामाद्विशिष्टः समश्च सोमित्रिणा समो विशिष्टश्च को ऽन्योस्ति न को ऽपीत्यर्थः, तौ भ्रातरौ तव संश्रयौ स्त इति शेषः । प्रत्यासत्त्या तयोरेव तृतीयान्तत्वेन पञ्चम्यन्तत्वेन चान्वयः ॥ ५।३९।५३ ॥

नेति । ते प्रियस्य चिरादागमनं न शीघ्रमेवागमनमित्यर्थः, अतः अस्मिन्देशे चिरं न वत्स्यसि अतः मत्संगमकालमात्रं क्षमस्व ॥ ५।३९।५४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ५।३९ ॥